ऋणनाशकदत्तमन्त्रविधानम्

ऋणनाशकदत्तमन्त्रविधानम्

विनियोगः - ॐ अस्य श्रीऋणनाशकदत्तमन्त्रस्य भगवान् सदाशिव ऋषिः । अनुष्टुप्छन्दः । श्रीदत्तो देवता । मम ऋणनाशनार्थे श्रीदत्तमन्त्रजपे विनियोगः ॥ ऋष्यादिन्यासः । श्रीसदाशिवऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीदत्तदेवतायै नमः हृदये । मम ऋणनाशनार्थे श्रीदत्तमन्त्रजपे विनियोगाय नमः सर्वाङ्गे ॥ करन्यासः । ॐ अङ्गुष्ठाभ्यां नमः । द्रां तर्जनीभ्यां नमः । हां मध्यमाभ्यां नमः । क्लीं अनामिकाभ्यां नमः । दत्तात्रेयाय कनिष्ठिकाभ्यां नमः । स्वाहा करतलकरपृष्ठाभ्यां नमः ॥ हृदयादिषडङ्गन्यासः । ॐ हृदयाय नमः । द्रां शिरसे स्वाहा । हां शिखायै वषट् । क्लीं कवचाय हुम् । दत्तात्रेयाय नेत्रत्रयाय वौषट् । स्वाहा अस्त्राय फट् ॥ ध्यानम् - रविमण्डलमध्यस्थं रक्तं रक्ताब्जसंस्थितम् । योगारूढं ज्ञानघनं दत्तात्रेयं नमाम्यहम् ॥ जटाधरं त्रिनयनं वराभयकरं विभुम् । भस्मोद्धूलितसर्वाङ्गं योगिनां हृदि संस्थितम् ॥ अत्रिनन्दनमीशानं भक्ताभीष्टप्रदायकम् । ऋणदुःखविनाशाय दत्तात्रेयं नमाम्यहम् ॥ मूलमन्त्रजपः । ॐ अत्रेरात्मप्रदानेन यो मुक्तो भगवान् ऋणात् । दत्तात्रेयं तमीशानं नमामि ऋणमुक्तये ॥ ॥ इति श्रीऋणनाशकदत्तमन्त्रविधानं सम्पूर्णम् ॥ Those who do not have a physical guru should practice Dattatreya Upasana. Encoded and proofread by Durga Sharma
% Text title            : Rinanashaka Dattamantravidhanam
% File name             : RRiNanAshakadattamantravidhAnam.itx
% itxtitle              : RRiNanAshakadattamantravidhAnam
% engtitle              : RRiNanAshakadattamantravidhAnam
% Category              : deities_misc, dattAtreya, mantra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattAtreya
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Transliterated by     : Durga Sharma
% Proofread by          : Durga Sharma
% Description-comments  : From various sources
% Latest update         : June 23, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org