अगस्त्यस्तोत्रम् ३
तानि त्वयैव जप्तानि ताम्रामन्तरुपासता ।
इत्युक्त्वा हर्षसन्तुष्टः तुष्टाव जगतीगुरुः ॥ ५९॥
नमः परमकल्याणनिधये वीतरागिणे ।
लोपामुद्रासमेताय कुम्भोद्भूताय योगिने ॥ ६०॥
पुण्यायै पुण्यभूतायै पुत्र्यै मलयभूभृतः ।
सर्वतीर्थस्वरूपायै ताम्रपर्ण्यै नमो नमः ॥ ६१॥
या पञ्चकृत्यनादेव कुज्जापाञ्चितदुर्दशा ।
तामादिलक्ष्मीं क्षेमाय साक्षान्मोक्षप्रदां नमः ॥ ६२॥
एकत्र श्यामलाकारा एकतः चन्द्रपण्डुरम् ।
उमारमापतिं देवं वन्दे हरिहराकृतिम् ॥ ६३॥
ताम्रां मलयशैलेन्द्रमादिलक्ष्मीं हरिप्रियाम् ।
लोपामुद्रामगस्त्यं च नित्यमन्तःस्मराम्यहम् ॥ ६४॥
इति ताम्रपर्णीमाहात्म्ये ६२-अध्यायान्तर्गतं
अगस्त्यस्तोत्रं सम्पूर्णम् ।
ताम्रपर्णीमाहात्म्य । अध्याय ६२/५९-६४॥
tAmraparNImAhAtmya . adhyAya 62/59-64..
Proofread by PSA Easwaran