अग्निस्तुतिः ३
जरितारिरुवाच ।
आत्मासि वायोः पवनः शरीरमुत वीरुधाम् ।
योनिरापश्च ते शुक्र योनिस्त्वमसि चाम्भसः ॥ ७॥
ऊर्ध्वं चाधश्च गच्छन्ति विसर्पन्ति च पार्श्वतः ।
अर्चिषस्ते महावीर्य रश्मयः सवितुर्यथा ॥ ८॥
सारिसृक्व उवाच ।
माता प्रपन्ना पितरं न विद्मः पक्षाश्च नो न प्रजाताब्जकेतो ।
न नस्त्राता विद्यतेऽग्ने त्वदन्यस्तस्माद्धि नः परिरक्षैकवीर ॥ ९॥
यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः ।
तेन नः परिरक्षाद्य ईडितः शरणैषिणः ॥ १०॥
त्वमेवैकस्तपसे जातवेदो नान्यस्तप्ता विद्यते गोषु देव ।
ऋषीनस्मान्बालकान्पालयस्व परेणास्मान्प्रैहि वै हव्यवाह ॥ ११॥
स्तम्बमित्र उवाच ।
सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत् ।
त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ॥ १२॥
त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः ।
मनीषिणस्त्वां यजन्ते बहुधा चैकधैव च ॥ १३॥
सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह प्राप्ते काले पचसि पुनः समिद्धः ।
सर्वस्यास्य भुवनस्य प्रसूतिस्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ॥ १४॥
त्वमन्नं प्राणिनां भुक्तमन्तर्भूतो जगत्पते ।
नित्यं प्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम् ॥ १५॥
द्रोण उवाच ।
सूर्यो भूत्वा रश्मिभिर्जातवेदो भूमेरम्भो भूमिजातान् रसांश्च ।
विश्वानादाय पुनरुत्सर्गकाले सृष्ट्वा वृष्ट्या भावयसीह शुक्र ॥ १६॥
त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः ।
जायन्ते पुष्करिण्यश्च समुद्रश्च महोदधिः ॥ १७॥
इदं वै सद्म तिग्मांशो वरुणस्य परायणम् ।
शिवस्त्राता भवास्माकं मास्मानद्य विनाशय ॥ १८॥
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन ।
परेण प्रैहि मुञ्चास्मान्सागरस्य गृहानिव ॥ १९॥
इति महाभारते आदिपर्वणि २२३ अध्यायान्तर्गता अग्निस्तुतिः सम्पूर्णा ।
महाभारत । आदिपर्व । अध्याय २२३/७-१९ (कुम्भकोणं २२८)॥
mahAbhArata . Adiparva . adhyAya 223/7-19 (kumbhakoNaM 228)..
Proofread by PSA Easwaran