श्रीअर्हन्नामसहस्रसमुच्चयः

श्रीअर्हन्नामसहस्रसमुच्चयः

(श्रीहेमचन्द्राचार्यविरचितः)

अथ श्रीअर्हन्नामसहस्रसमुच्चयः ।

अर्हं नामापि कर्णाभ्यां श‍ृण्वन् वाचा समुच्चरन् । जीवः पीवरपुण्यश्रीर्लभते फलमुत्तमम् ॥ १॥ अतएव प्रतिप्रातः समुत्थाय मनीषिभिः । भक्त्याऽष्टाग्रसहस्रार्हन्नामोच्चारो विधीयते ॥ २॥ ॐ श्रीमानर्हन् जिनः स्वामी स्वयम्भूः शम्भुरात्मभूः । स्वयम्प्रभुः प्रभुर्भोक्ता विश्वभूरपुनर्भवः ॥ ३॥ विश्वात्मा विश्वलोकेशो विश्वतश्वक्षुरक्षरः । विश्वविद् विश्वविद्येशो विश्वयोनिरनीश्वरः ॥ ४॥ विश्वदृश्वा विभुर्धाता विश्वेशो विश्वलोचनः । विश्वव्यापी विधुर्वेधाः शाश्वतो विश्वतोमुखः ॥ ५॥ विश्वपो विश्वतः पादो विश्वशीर्षः शुचिश्रवाः । विश्वदृग् विश्वभूतेशो विश्वज्योतिरनश्वरः ॥ ६॥ विश्वसृट् विश्वसूर्विश्वेट् विश्वभुक् विश्वनायकः । विश्वाशी विश्वभूतात्मा विश्वजिद् विश्वपालकः ॥ ७॥ विश्वकर्मा जगद्विश्वों विश्वमूर्त्तिर्जिनेश्वरः । भूतभाविभवद्भर्त्ता विश्ववैद्यो यतीश्वरः ॥ ८॥ सर्वादिः सर्वदृक् सार्वः सर्वज्ञः सर्वदर्शनः । सर्वात्मा सर्वलोकेशः सर्ववित् सर्वलोकजित् ॥ ९॥ सर्वगः सुश्रुतः सुश्रूः सुवाक् सूरिबहुश्रुतः । सहस्रशीर्षः क्षेत्रज्ञः सहस्राक्षः सहस्रपात् ॥ १०॥ युगादिपुरुषो ब्रह्मा पञ्चब्रह्ममयः शिवः । ब्रह्मविद् ब्रह्मतत्त्वज्ञो ब्रह्मयोनिरयोनिजः ॥ ११॥ ब्रह्मनिष्ठः परब्रह्म ब्रह्मात्मा ब्रह्मसम्भवः । ब्रह्म ब्रह्मपतिर्ब्रह्मचारी ब्रह्मपदेश्वरः ॥ १२॥ विष्णुर्जिष्णुर्जयी जेता जिनेन्द्रो जिनपुङ्गवः । परः परतरः सूक्ष्मः परमेष्ठी सनातनः ॥ १३॥

॥ १००॥

जिननाथो जगन्नाथो जगत्स्वामी जगत्प्रभुः । जगत्पूज्यो जगद्वन्द्यो जगदीशो जगत्पतिः ॥ १४॥ जगन्नेता जगज्जेता जगन्मान्यो जगद्विभुः । जगज्ज्येष्ठो जगच्छ्रेष्ठो जगद्ध्येयो जगद्धितः ॥ १५॥ जगदर्च्यो जगद्बन्धुर्जगच्छास्ता जगत्पिता । जगन्नेत्रो जगन्मैत्रो जगडीपो जगद्गुरुः ॥ १६॥ स्वयञ्ज्योतिरजोऽजन्मा परन्तेजः परम्महः । परमात्मा शमी शान्तः परञ्ज्योतिस्तमोऽपहः ॥ १७॥ प्रशान्तारिरनन्तात्मा योगी योगीश्वरो गुरुः । अनन्तजिदनन्तात्मा भव्यबन्धुरबन्धनः ॥ १८॥ शुद्धबुद्धिः प्रबुद्धात्मा सिद्धार्थः सिद्धशासनः । सिद्धः सिद्धान्तविद् ध्येयः सिद्धः साध्यः सुधीः सुगीः ॥ १९॥ सहिष्णुरच्युतोऽनन्तः प्रभविष्णुर्भवोद्भवः । स्वयम्भूष्णुरसम्भूष्णुः प्रभूष्णुरभयोऽव्ययः ॥ २०॥ दिव्यभाषापतिर्दिव्यः पूतवाक् पूतशासनः । पूतात्मा परमज्योतिर्धर्माध्यक्ष्यो दमीश्वरः ॥ २१॥ निर्मोहो निर्मदो निःस्वो निर्दम्भो निरुपद्रवः । निराधारो निराहारो निर्लोभो निश्चलोऽचलः ॥ २२॥ निष्कामी निर्ममो निष्वक् निष्कलङ्को निरञ्जनः । निर्गुणो नीरसो निर्भीर्निर्व्यापारो निरामयः ॥ २३॥ निर्निमेषो निराबाधो निर्द्वन्द्वो निष्क्रियोऽनघः । निःशङ्कश्च निरातङ्को निष्कलो निर्मलोऽमलः ॥ २४॥

॥ २००॥

तीर्थकृत् तीर्थसृट् तीर्थङ्करस्तीर्थङ्करः सुदृक् । तोर्थकर्त्ता तीर्थभर्त्ता तीर्थेशस्तीर्थनायकः ॥ २५॥ सुतीर्थोऽधिपतितीर्थसेव्यस्तीर्थिकनायकः । धर्मतीर्थकरस्तीर्थप्रणेता तीर्थकारकः ॥ २६॥ तीर्थाधीशो महातोर्थस्तीर्थस्तीर्थविधायकः । सत्यतीर्थङ्करस्तीर्थसेव्यस्तीर्थिकतायकः ॥ २७॥ तीर्थनाथस्तीर्थराजस्तीर्थेट् तीर्थप्रकाशकः । तीर्थवन्द्यस्तीर्थमुख्यस्तीर्थाराध्यः सुतीर्थिकः ॥ २८॥ स्थविष्ठः स्थविरो ज्येष्ठः प्रेष्ठः प्रष्ठो वरिष्ठधीः । स्थेष्ठो गरिष्ठो वंहिष्ठो श्रेष्ठोऽणिष्ठो गरिष्ठधीः ॥ २९॥ विभवो विभयो वीरो विशोको विरजो जरन् । विरागो विमदोऽव्यक्तो विविक्तो वीतमत्सरः ॥ ३०॥ वीतरागो गतद्वषो वीतमोहो विमन्मथः । वियोगो योगविद् विद्वान् विधाता विनयी नयी ॥ ३१॥ क्षान्तिमान् पृथिवीमूर्त्तिः शान्तिभाक् सलिलात्मकः । वायुमूर्त्तिरसङ्गात्मा वह्निमूर्तिरधर्मधक् ॥ ३२॥ सुयज्वा यजमानात्मा सुत्रामस्तोमपूजितः । ऋत्विग् यज्ञपतिर्याज्यो यज्ञाङ्गमस्तं हविः ॥ ३३॥ सोममूर्त्तिः सौम्यात्मा सूर्यमूर्तिर्महाप्रभः । व्योममूर्त्तिरमूर्त्तात्मा नीरजा वीरजाः शुचिः ॥ ३४॥ मन्त्रविन्मन्त्रकृन्मन्त्री मन्त्रमूर्त्तिरनन्तरः । स्वतन्त्रः सूत्रकृत् स्वत्रः कृतान्तश्च कृतान्तकृत् ॥ ३५॥

॥ ३००॥

कृती कृतार्थः संस्कृत्यः कृतकृत्यः कृतकृतुः । नित्यो मृत्युञ्जयोऽमृत्युरमृतात्माऽमृतोद्भवः ॥ ३६॥ हिरण्यगर्भः श्रीगर्भः प्रभूतविभवोऽभवः । स्वयम्प्रभः प्रभूतात्मा भवो भावो भवान्तकः ॥ ३७॥ महाशोकध्वजोऽशोकः कः स्रष्टा पद्मविष्टरः । पद्मेशः पद्मसम्भूतिः पद्मनाभिरनुत्तरः ॥ ३८॥ पद्मयोनिर्जगद्योनिरित्यः स्तुत्यः स्तुतीश्वरः । स्तवनार्हो हृषीकेशोऽजितो जेयः कृतक्रियः ॥ ३९॥ विशालो विपुक्षोद्योतिरतुलोऽचिन्त्यवैभवः । सुसंवृत्तः सुगुप्तात्मा शुभंयुः शुभकर्मकृत् ॥ ४०॥ एकविद्यो महावैद्यो मुनिः परिवृढो दृढः । पतिर्विद्यानिधिः साक्षी विनेता वितान्तकः ॥ ४१॥ पिता पितामहः पाता पवित्रः पावनो गतिः । त्राता भिषग्वरो वर्यो वरदः पारदः पुमान् ॥ ४२॥ कविः पुराणपुरुषो वर्षीयान् ऋषभः पुरः । प्रतिष्ठाप्रसवो हेतुर्भुवनैकपितामहः ॥ ४३॥ श्रीवत्सलक्षणेश्लक्षणो लक्षण्यः शुभलक्षणः । निरक्षः पुण्डरीकाक्षः पुष्कलः पुष्कलेक्षणः ॥ ४४॥ सिद्धिदः सिद्धसङ्कल्पः सिद्धात्मा सिद्धशासनः । बुद्धबोध्यो महाबुद्धिर्वर्धमानो महर्द्धिकः ॥ ४५॥ वेदाङ्गो वेदविद् वेद्यो जातरूपो विदांवरः । वेदवेद्यः स्वसंवेद्यो विवेदो वदतांवरः ॥ ४६॥

॥ ४००॥

सुधर्मा धर्मधीर्धर्मो धर्मात्मा धर्मदेशकः । धर्मचक्री दयाधर्मः शुद्धधर्मो वृषध्वजः ॥ ४७॥ वृषकेतुर्वृषाधीशो वृषाङ्कश्च वृषोद्भवः । हिरण्यनाभिर्भूतात्मा भूतभृद् भूतभावनः ॥ ४८॥ प्रभवो विभवो भास्वान् मुक्तः शक्तोऽक्षयोऽक्षतः । कूटस्थः स्थाणुरक्षोभ्यः शास्ता नेताऽचल स्थितिः ॥ ४९॥ अग्रणीर्ग्रामणीर्ग्रण्यो गण्यगण्यो गणाग्रणीः । गणाधिपो गणाधीशो गणज्येष्ठो गणार्चितः ॥ ५०॥ गुणाकरो गुणाम्भोधिर्गुणज्ञो गुणवान् गुणी । गुणादरो गुणोच्छेदी सुगुणोऽगुणवर्जितः ॥ ५१॥ शरण्यः पुण्यवाक् पूतो वरेण्यः पुण्यगोर्गुणः । अगण्यपुण्यधोः पुण्यः पुण्यकृत् पुण्यशासनः ॥ ५२॥ अतीन्द्रोऽतीन्द्रियोऽधीन्द्रो महेन्द्रोऽतीन्द्रियार्थदृक् । अतीन्द्रियो महेन्द्रार्च्यो महेन्द्रमहितो महान् ॥ ५३॥ उद्भवः कारणं कर्त्ता पारगो भवतारकः । अग्राह्यो गहनं गुह्यः परद्धिः परमेश्वरः ॥ ५४॥ अनन्तर्द्धिरमेयर्द्धिरचिन्त्यर्द्धिः समग्रधीः । प्राग्र्यः प्राम्यहरोऽत्यग्रः प्रत्यग्रोऽग्रोऽग्रिमोऽग्रजः ॥ ५५॥ प्राणकः प्रणवः प्राणः प्राणदः प्राणितेश्वरः । प्रधानमात्मा प्रकृतिः परमः परमोदयः ॥ ५६॥

॥ ५००॥

महाजिनो महाबुद्धो महाब्रह्मा महाशिवः । महाविष्णुर्महाजिदणुर्महानाथो महेश्वरः ॥ ५७॥ महादेवो महास्वामी महाराजो महाप्रभुः । महाचन्द्रो महादित्यो महाशूरो महागुरुः ॥ ५८॥ महातपा महातेजा महोदर्को महामयः । महायशो महाधामा महासत्त्वो महाबलः ॥ ५९॥ महाधैर्यो महावीर्यो महाकान्तिर्महाद्युतिः । महाशक्तिर्महाज्योतिर्महाभूतिर्महाधृतिः ॥ ६०॥ महामतिर्महानीतिर्महाक्षान्तिर्महाकृतिः । महाकीत्तिर्महास्फूर्तिर्महाप्रज्ञो महोदयः ॥ ६७॥ महाभागो महाभोगो महारूपो महावपुः । महादानो महाज्ञानो महाशास्ता महामहः ॥ ६८॥ महामुनिर्महामौनी महाध्यानो महादमः । महाक्षमो महाशीलो महायोगो महालयः ॥ ६९॥ महाव्रतो महायज्ञो महाश्रेष्ठो महाकविः । महामन्त्रो महातन्त्रो महोपायो महानयः ॥ ७०॥ महाकारुणिको मन्ता महानादो महायतिः । महामोदो महाघोषो महेज्यो महसाम्पतिः ॥ ७१॥ महावीरो महाधीरो महाधुर्यो महेष्ठवाक् । महात्मा महसां धाम महर्षिर्महितोदयः ॥ ७२॥ महामुक्तिर्महागुप्तिर्महासत्यो महार्जवः । महाबुद्धिर्महासिद्धिर्महाशौचो महावशी ॥ ७३॥ महाधर्मा महाशर्मा महात्मज्ञो महाशयः । महामोक्षो महासौख्यो महानन्दो महोदयः ॥ ७४॥

॥ ६००॥

महाभवाब्धिसन्तारी महामोहारिसूदनः । महायोगीश्वराराध्यो महामुक्तिपदेश्वरः ॥ ७५॥ आनन्दो नन्दनो नन्दो वन्द्यो नन्द्योऽभिनन्दनः । कामहा कामदः काम्यः कामधेनुररिञ्जयः ॥ ७६॥ मनःक्लेशापहः साधुरुत्तमोऽघहरो हरः । असङ्ख्येयः प्रमेयात्मा शमात्मा प्रशमाकरः ॥ ७७॥ सर्वयोगीश्वरश्चिन्त्यः श्रुतात्मा विष्टरश्रवाः । दान्तात्मा दमतीर्थेशो योगात्मा योगसाधकः ॥ ७८॥ प्रमाणपरिधिर्दक्षो दक्षिणोऽध्वर्युरध्वरः । प्रक्षीणबन्धः कर्मारिः क्षेमकृत्क्षेमशासनः ॥ ७९॥ क्षेमी क्षेमङ्करोऽक्षय्यः क्षेमधर्मा क्षमापतिः । अग्राह्यो ज्ञानिविज्ञेयो ज्ञानिगम्यो जिनोत्तमः ॥ ८०॥ जिनेन्दुर्जनितानन्दो मुनीन्दुर्दुन्दुभिस्वनः । मुनीन्द्रवन्द्यो योगीन्द्रो यतीन्द्रो यतिनायकः ॥ ८१॥ असंस्कृतः सुसंस्कारः प्राकृतो वैकृतान्तवित् । अन्तकृत् कान्तगुः कान्तश्चिन्तामणिरभीष्टदः ॥ ८२॥ अजितो जितकामारिरमितोऽमितशासनः । जितक्रोधो जितामित्रो जितक्लेशो जितान्तकः ॥ ८३॥ सत्यात्मा सत्यविज्ञानः सत्यवाक् सत्यशासनः । सत्याशीः सत्यसन्धानः सत्यः सत्यपरायणः ॥ ८४॥ सदायोगः सदाभोगः सदातृप्तः सदाशिवः । सदागतिः सदासौख्यः सदाविद्यः सदोदयः ॥ ८५॥ सुघोषः सुमुखः सौम्यः सुखदः सुहितः सुहृत् । सुगुप्तो गुप्तिभृद् गोप्ता गुप्ताक्षो गुप्तमानसः ॥ ८६॥

॥ ७००॥

बृहद् बृहस्पतिर्वाग्मी वाचस्पतिरुदारधीः । मनीषी धिषणो धीमान् शेमुषीशो गिराम्पतिः ॥ ८७॥ नैकरूपो नयोत्तुङ्गो नैकात्मा नैकधर्मकृत् । अविज्ऽमेयोऽप्रतर्क्यात्मा कृतज्ञः कृतलक्षणः ॥ ८८॥ ज्ञानगर्भो दयागर्भो रत्नगर्भः प्रभास्वरः । पद्मगर्भो जगद्गर्भो हेमगर्भः सुदर्शनः ॥ ८९॥ लक्ष्मीशः सदयोऽध्यक्षो दृढयोनिर्नगीशिता । मनोहरो मनोज्ञोऽर्हो धीरो गम्भीरशासनः ॥ ९०॥ धर्मयूपो दयायागो धर्मनेमिर्मुनीश्वरः । धर्मचक्रायुधी देवः कर्महा धर्मघोषणः ॥ ९१॥ स्थेयान् स्थवीयान् नेदीयान् दवीयान् दूरदर्शनः । सुस्थितः स्वास्थ्यभाक् सुस्थो नीरजस्को गतस्पृहः ॥ ९२॥ वश्येन्द्रियो विमुक्तात्मा निःसपत्नो जितेन्द्रियः । श्रीनिवासश्चतुर्वक्त्रश्चतुरास्यश्चतुर्मुखः ॥ ९३॥ अध्यात्मगम्योऽगम्यात्मा योगात्मा योगिवन्दितः । सर्वत्रगः सदाभावी त्रिकालविषयार्थदृक् ॥ ९४॥ शङ्करः सुखदो दान्तो दमी क्षान्तिपरायणः । स्वानन्दः परमानन्दः सूक्ष्मवर्चाः परापरः ॥ ९५॥ अमोघोऽमोघवाक् स्वाज्ञो दिव्यदृष्टिगोचरः । सुरूपः सुभगस्त्यागी मूर्तोऽमूर्तः समाहितः ॥ ९६॥

॥ ८००॥

एकोऽनेको निरालम्बोऽनीदृग् नाथो निरन्तरः । प्रार्थ्योऽभ्यर्थ्यः समभ्यर्च्यस्त्रिजगन्मङ्गलोदयः ॥ ९७॥ ईशोऽधीशोऽधिपोऽधीन्द्रो ध्येयोऽमेयो दयामयः । शिवः शूरः शुभः सारः शिष्टः स्पष्टः स्फुटोऽस्फुटः ॥ ९८॥ इष्टः पुष्टः क्षमोऽक्षामोऽकायोऽमायोऽस्मयोऽमयः । दृश्वोऽदृश्योऽणुरस्थूलो जीर्णो नव्यो गुरुर्लघुः ॥ ९९॥ स्वभूः स्वात्मा स्वयम्बुद्धः स्वेशः स्वैरीश्वरः स्वरः । आद्योऽलचयोऽपरोऽरूपोऽस्पर्शोऽशाष्टोऽरिहाऽरुहः ॥ १००॥ दीप्तोऽलेश्योऽरसोऽगन्धोऽच्छेद्योऽभेद्योऽजरोऽमरः । प्राज्ञो धन्यो यतिः पूज्यो मह्योऽर्च्यः प्रशमी यमी ॥ १०१॥ श्रीशः श्रीन्द्रः शुभः सुश्रीरुत्तमश्रीः श्रियः पतिः । श्रीपतिः श्रीपरः श्रीपः सच्छ्रीः श्रीयुक् श्रियाश्रितः ॥ १०२॥ ज्ञानी तपस्वी तेजस्वी यशस्वी बलवान् बली । दानी ध्यानी मुनिमौन्नी लयी लक्ष्यः क्षयी क्षमी ॥ १०३॥ लक्ष्मीवान् भगवान् श्रेयान् सुगतः सुतनुर्बुधः । बुद्धो वृद्धः स्वयंसिद्धः प्रोच्चः प्रांशुः प्रभामयः ॥ १०४॥

॥ ९००॥

आदिदेवो देवदेवः पुरुदेवोऽधिदेवता । युगादीशो युगाधीशो युगमुख्यो युगोत्तमः ॥ १०५॥ दीप्तः प्रदीप्तः सूर्याभोऽरिघ्नोऽविघ्नोऽघनो घनः । शत्रुघ्नः प्रतिघस्तुङ्गोऽसङ्गः स्वङ्गोऽग्रगः सुगः ॥ १०६॥ स्याद्वादी दिव्यगीर्दिव्यध्वनिरुद्दामगीः प्रगीः । पुण्यवागर्त्र्यवागर्धमागधीयोक्तिरिद्धगीः ॥ १०७॥ पुराणपुरुषोऽपूर्वोऽपूर्वश्रीः पूर्वदेशकः । जिनदेवो जिनाधीशो जिननाथो जिनाग्रणीः ॥ १०८॥ शान्तिनिष्ठो मुनिज्येष्ठः शिवतातिः शिवप्रदः । शान्तिकृत् शान्तिदः शान्तिः कान्तिमान् कामितप्रदः ॥ १०९॥ श्रियान्निधिरधिष्ठानमप्रतिष्ठः प्रतिष्टितः । सुस्थितः स्थावरः स्थाणुः पृथीयान् प्रथितः पृथुः ॥ ११०॥ पुण्यराशिः श्रियोराशिस्ते जोराशिरसंशयी । ज्ञानोदधिरनन्तौजा ज्योतिमूर्त्तिरनन्तधीः ॥ १११॥ विज्ञानोऽप्रतिमो भिक्षुर्मुक्षुर्मुनिपुङ्गवः । अनिद्रालुरतन्द्रालुर्जागरूकः प्रमामयः ॥ ११२॥ कर्मण्यः कर्मठोऽकुण्ठो रुद्रो भद्रोऽभयङ्करः । लोकोत्तरो लोकपतिर्लोकेशो लोकवत्सलः ॥ ११३॥ त्रिलोकीशस्त्रिकालज्ञस्त्रिनेत्रस्त्रिपुरान्तकः । त्र्यम्बकः केवलालोकः केवली केवलेक्षणः ॥ ११४॥ समन्तभद्रः शान्तादिर्धर्माचार्यो दयानिधिः । सूक्ष्मदर्शी सुमार्गज्ञः कृपालुर्मार्गर्शकः ॥ ११५॥

॥ १००८॥

प्रातिहार्योज्ज्वलस्फीतातिशयो विमलाशयः । सिद्वानन्तचतुष्कश्रीर्जीयाच्छ्रीजिनपुङ्गवः ॥ ११६॥ एतदष्टोत्तरं नामसहस्रं श्रीमदर्हतः । भव्याः पठन्तु सानन्दं महानन्दैककारणम् ॥ ११७॥ इत्येतज्जिनदेवस्य जिननामसहस्रकम् । सर्वापराधशमनं परं भक्तिविवर्धनम् ॥ ११८॥ अक्षयं त्रिषु लोकेषु सर्वस्वर्गैकसाधनम् । स्वर्गलोकैकसोपानं सर्वदुःखैकनाशनम् ॥ ११९॥ समस्तदुःखहं सद्यः परं निर्वाणदायकम् । कामक्रोधादिनिःशेषमनोमलविशोधनम् ॥ १२०॥ शान्तिदं पावनं नृणां महापातकनाशनम् । सर्वेषां प्राणिनामाशु सर्वाभीष्टफलप्रदम् ॥ १२१॥ जगज्जाड्यप्रशमनं सर्वविद्याप्रवर्त्तकम् । राज्यदं राज्यभ्रष्टानां रोगिणां सर्वरोगहृत् ॥ १२२॥ वन्ध्यानां सुतदं चाशु क्षीणानां जीवितप्रदम् । भूत-ग्रह-विषध्वंसि श्रवणात् पठनाज्जपात् ॥ १२३॥ इति श्रीहेमचन्द्राचार्यविरचितः श्रीअर्हन्नामसहस्रसमुच्चयः समाप्तः । Proofread by Gautam Vora
% Text title            : Arhannamasahasrasamuchchayah by HemachandrachArya Jinasahasranamastotram 4
% File name             : arhannAmasahasrasamuchchayaH.itx
% itxtitle              : jinasahasranamastotram 4 arhannAmasahasrasamuchchayaH 1 (hemachandrAchAryavirachitam shrImAnarhan jinaH svAmI svayambhUH shambhurAtmabhUH)
% engtitle              : arhannAmasahasrasamuchchayaH jinasahasranamastotram 4
% Category              : deities_misc, jaina, sahasranAma
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : Hemachandracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gautam Vora
% Indexextra            : (Scans 1, 2, 3,  4)
% Latest update         : August 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org