अवलोकितेश्वरस्तोत्रम् १
ॐ नमोऽवलोकितेश्वराय ।
देवमनुष्यासुरनुतचरणः प्रतिहतजन्मजरारुजमरणः ।
लोकेश त्वं मामशरण्यं रक्ष कृपालो कुरु कारुण्यम् ॥ १॥
संसारोदधिमध्यनिमग्नं क्लेशमहोर्मिसमाहितभग्नम् ।
मामवधारय मा विरुवन्तं त्राहि महाकृप नौमि भवन्तम् ॥ २॥
तृष्णातिमिरोपद्रुतनेत्रं मरणमहाभयविह्वलगात्रम् ।
पालय भगवन्नवलोकय मां यावदवीचिं यामि न विषमाम् ॥ ३॥
कृतमन्यस्त्रीग्रहणमजस्रं हतमज्ञेयं प्राणिसहस्रम् ।
नाथ मया कृतपापमशेषं नाशय संप्रति कायिकदोषम् ॥ ४॥
यज्जोवितसत्कारनिमित्तं लोकान् नित्यं भणितमसत्यम् ।
तल्लोकेश्वर शमय समस्तं वाचिकनरकं चिरमभ्यस्तम् ॥ ५॥
सत्त्वानामिह चिन्तितमहितं स्वयमनुमोदितमपि नरविहितम् ।
अधुना तन्मम मानसपापं स्फोटय नाथ करोमि विलापम् ॥ ६॥
देवमनुष्यासुरजातीनां तिर्यःनारकप्रेतगतीनाम् ।
सत्त्वा ये निवसन्ति सदार्ता रक्षसि तानिति तव मयि वार्ता ॥ ७॥
तेन ममोपरि सृज कारुण्यं वीक्ष्य शरीरगतं तारुण्यम् ।
इति शृणु भगवन् भवति भणामि यावन्नरकं नैव विशामि ॥ ८॥
किं चोपेत्य करोषि परार्थं मुञ्चसि भगवन् मामकृतार्थम् ।
अथवा प्रेक्ष्य कृपा तव पुण्यं जनयसि दृष्टं कथमविपन्नम् ॥ ९॥
स्मरणेनापि भवसि परितुष्टः क्षिपसि च कलुषं किमिति न दृष्टः ।
यस्माद् भगवन् परहितदक्ष क्षेपं मा कुरु मामिह रक्ष ॥ १०॥
दन्तितुरङ्गमपुत्रकलत्रं राज्यमकण्टकवेश्मविचित्रम् ।
अस्थिशिरोऽसृङ्मांसपर्यन्तं भवतार्थिभ्यो दत्तमनन्तम् ॥ ११॥
अञ्जनगुटिकापादुकसिद्धिः सिद्धौषधिमणिमन्त्रविशुद्धिः ।
सिद्धयति यक्षस्त्रीपुरवेशः तुष्यसि यस्य त्वं लोकेश ॥ १२॥
ये करचरणविलोचनहीना विविधव्याधिमहाभयदीनाः ।
ते त्वयि तुष्टे पुष्टशरीरा विलसन्त्यरुजो गुणगम्भीराः ॥ १३॥
गरलं व्याधिर्ग्रहडाकिन्यः शान्तिं यान्ति सदा योगिन्यः ।
सरति न तस्य पुरो यमदूतः प्रोतो यस्य च त्वं जिनभूतः ॥ १४॥
इति लोकेश्वर किं क्रियमाणं मुञ्चसि भगवन् मामत्राणम् ।
रौम्यहमनुदिनमुद्यतपाणिर्नाशय त्राससमाकुलवाणिः ॥ १५॥
यद्विषयेन्द्रियचञ्चलमनसा कृतबहुपापं व्याकुलमनसा ।
नीतं जन्म मयाऽस्मिन् सकलं जठरनिमित्तं भ्रमता विकलम् ॥ १६॥
तत्कुरु संप्रति मम लोकेश प्रणतो विविधाञ्जलिरहमेषः ।
येनाभुक्त्वापायिकदोषं सुगतिं भवतो यामि न मोक्षम् ॥ १७॥
मोहद्वेषविनाशनहेतुस्त्वं संसारमहोदधिसेतुः ।
पतितस्त्रस्तोत्थापितबाहुस्त्वं गुरुदुरितनिशाकरराहुः ॥ १८॥
देशितसुगतानुत्तरतत्त्वस्त्वं पालितबहुदुःखितसत्त्वः ।
निर्जितदुर्जयमन्मथमारस्त्वं सन्तीर्णभवार्णवपारः ॥ १९॥
सकलालाननिकृन्तनदेहस्त्वं परिभावितजगतसुदेहः ।
भगवन्ननुपमकरुणासिन्धुस्त्वं जनविदितोऽकारणबन्धुः ॥ २०॥
लीलाविदलितकर्मविभङ्गस्त्वं परहितविषयव्यासङ्गः ।
दिव्यध्यानसमाहितचित्तस्त्वं याचकसाधारणचित्तः ॥ २१॥
परमपकुर्वन्न्नपि करुणावान् मयि परितोषं न करोषि भवान् ।
कथमिह मोहमहोरगदष्टं विषयशरीरमकुशलं भ्रष्टम् ॥ २२॥
सकलजनार्थं प्रति या करुणा सा किं भवतो नियतस्फरणा ।
येन न रक्षसि किल्विषवन्तं भवतः पुरतो मां विरुवन्तम् ॥ २३॥
नाथ कृपा ते व्योमविशाला सत्त्वेषु हि यथाम्बुदधारा ।
स्थलजलनिम्नोन्नतबहुदेशे सरति निरन्तरमनिशमशेषे ॥ २४॥
इति भगवत्स्मरणाद्यत्पुण्यं मम तेनेदं जगदक्षुण्णम् ।
लभतां श्रीपोतलकाचलवासं जनयतु सुन्दरविविधविलासम् ॥ २५॥
इति श्रीमदार्यावलोकितेश्वरभट्टारकस्य चरपतिपादविरचितं स्तोत्रं सम्पूर्णम् ॥