अवतारबोधः

अवतारबोधः

रामनवम्यां - मेषे पुनर्वसौ चैत्रमासे सिते पक्षे नवम्यां च पुनर्वसौ । मध्याह्ने कर्कटे लग्ने जातो रामः स्वयं हरिः ॥ १॥ कृष्णजयन्ती - सिंहे रोहिण्यां सिंहमासेऽसिते पक्षे रोहिण्यामष्टमीतिथौ । चरमार्थप्रदातारं कृष्णं वन्दे जगद्गुरुम् ॥ २॥ सिंहजयन्ती - वृषे स्वात्यां वृषभे स्वातिनक्षत्रे चतुर्दश्यां शुभे दिने । सन्ध्याकालेऽनुजे युक्ते स्तम्भोद्भूतो नृकेसरी ॥ ३॥ श्रीमन्नृसिंह विभवे गरुडध्वजाय तापत्रयोपशमनाय भवौषधाय । तृष्णारिवृश्चिकजलाग्निभुजङ्गरोग- क्लेशव्ययायहरये गुरवे नमस्ते ॥ ४॥ श्रीरङ्गनाथाविर्भावः - कुम्भ रोहिण्यां तपस्ये मासि रौहिण्यां तटे सह्य भुवः स्थितम् । (तटे कावेर्याः) श्रीरङ्गशायिनं वन्दे सेवितं सर्वदेशिकैः ॥ ५॥ श्रीस्तनाभरणं तेजः श्रीरङ्गेशयमाश्रये । चिन्तामणिमिवोद्भ्रान्तमुत्सङ्गेऽनन्तभोगिनः ॥ ६॥ काञ्चीदेवराजाविर्भावः - मेषे हस्ते चैत्रमासे सिते पक्षे चतुर्दश्यां तिथौ मुने । शोभते हस्तनक्षत्रे रविवारसमन्विते ॥ ७॥ वपाहोमे प्रवृत्ते तु प्रातः सवनकालिके । धातुरुतरवेद्यां तु प्रादुरासीज्जनार्दनः ॥ ८॥ वपापरिमलोल्लासलासिताधरपल्लवम् । मुखं वरदराजस्य मुग्धस्मितमुपास्महे ॥ ९॥ तिरुनारायणाविर्भावः - मीने हस्ते सनत्कुमाररक्षार्थमागतं ब्रह्मणः पदात् । यदुशैलस्थितं मीने हस्ते नारायणं भजे ॥ १०॥ श्रीवेङ्कटेशाविर्भावः - कन्यायां श्रवणे कन्याश्रवणसञ्जातं श्रीशेषाचलवासिनम् । सर्वेषां प्रथमाचार्य श्रीनिवासमहं भजे ॥ ११॥ श्रीवेङ्कटाचलाधीशं श्रीयाध्यासितवक्षतम् । श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥ १२॥ लक्ष्म्याविर्भावः - मीने उत्तराफाल्गुन्यां फाल्गुनोत्तरफाल्गुन्यां सम्भूतां श्रियमाश्रये । विष्णोर्दिव्यपदाम्भोजघटकां तत्पदाश्रिताम् ॥ १३॥ नमः श्रीरङ्गनायक्यै यद्भूविभ्रमभेदतः । ईशेशितव्यवैषम्यनिम्नोन्नतमिदं जगत् ॥ १४॥ गोदाविर्भावः - कर्के पूर्वाफाल्गुन्यां कर्कटे पूर्वफाल्गुन्यां तुलसीकाननोद्भवाम् । पाण्ड्ये विश्वम्भरं गोदां वन्दे श्रीरङ्गनायकीम् ॥ १५॥ नीलातुङ्गस्तनगिरितटीसुप्तमुद्वोध्य कृष्णं पारार्थ्यं स्वयं श्रुतिशतशिरःसिद्धमध्यापयन्ती । स्वोच्छिष्टायां स्रजिनिगलितं या बलात्कृत्य भुङ्क्ते गोदा तस्यै नम इदमिदं भूय एवास्तु भूयः ॥ १६॥ सरोयोगिस्वाम्याविर्भावः तुलायां श्रवणे जातं काञ्च्यां काञ्चनवारिजात् । द्वापरे पाञ्चजन्यांशं सरोयोगिनमाश्रये ॥ १७॥ भूतयोग्याविर्भावः तुलाधनिष्ठासम्भूतं भूतं कल्लोलमालिनः । तीरे फुल्लोत्पले मल्ल्यां पुर्यामीडे गदांशकम् ॥ १८॥ महदाह्वयाविर्भावः तुलाशतभिषाजातं मयूरायुरकैरवात् । महान्तं महदाख्यातं वन्दे श्रीनन्दकांशकम् ॥ १९॥ योगिवाहनाविर्भावः वृश्चिके रोहिणीजातं श्रीपाणं निचुलापुरे । श्रीवत्सांशं गायकेन्द्रं मुनिवाहनमाश्रये ॥ २०॥ भक्ताङ्घ्रिरेण्वाविर्भावः कोदण्डज्येष्ठानक्षत्रे मण्डं गुडिपुरोद्भवम् । चोलोर्व्यांवनमालांशं भक्ताङ्घ्रिरेणुमाश्रये ॥ २१॥ श्रीभक्तिसाराविर्भावः मघायां मकरे मासे चक्रांशं भार्गवोद्भवम् । महीसारपुराधीशं भक्तिसारमहं भजे ॥ २२॥ श्रीकुलशेखराविर्भावः कुम्भे पुनर्वसौ जातं केरले चोलपट्टने । कौस्तुभांशन्धराधीशं कुलशेखरमाश्रये ॥ २३॥ श्रीमधुरकव्याविर्भावः मेषे चित्रसमुद्भूतं पाण्ड्यदेशे गदांशकम् । श्रीपराङ्कुशसद्भक्तं मधुरं कविमाश्रये ॥ २४॥ शठकोपावतारः - वृषभे विशाखायां वृषभे तु विशाखायां कुरुकापुरिकारिजम् । पाण्ड्यदेशे कलेरादौ शठारिं सैन्यपं भजे ॥ २५॥ माता पिता युवतयस्तनया विभूतिः सर्वं यदेव नियमेन यदन्वयानाम् ॥ आद्यस्य नः कुलपतेर्बकुलाभिरामं श्रीमत्तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना ॥ २६॥ परकालावतारः - वृश्चिके कृत्तिकायां वृश्चिके कृत्तिकाजातं चतुष्कविशिखामणिम् । (चतुष्कविशिखामणिम् -चत्वारः कवयः तेषां शिखामणिम्) षट्प्रबन्धकृतं शार्ङ्गमूर्तिं कलिहमाश्रये ॥ २७॥ कलयामि कलिध्वंसं विकलोकदिवाकरम् । यस्य गोभिः प्रकाशाभिराविद्यं निहतं तमः ॥ २८॥ (आविद्यं -अविद्याया भवम्) रामानुजाचार्यावतारः - मेषे आजयां आर्द्रामेषभवं विष्णोर्दर्शनस्थापनोत्सुकम् । तुण्डीरमण्डले शेषमूर्ति रामानुजं भजे ॥ २९॥ यो नित्यमच्युतपदाम्बुजयुग्मरुक्म- व्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतोऽस्यदयैकसिन्धो रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ३०॥ दाशरथ्यवतारः - मेषे पुनर्वसौ मेषे पुनर्वसुदिने पाञ्चजन्यांशसम्भवम् । यतीन्द्रपादुकाभिख्यं वन्दे दाशरथिं गुरुम् ॥ ३१॥ पादुके यतिराजस्य कथयन्ति यदाख्यया । तस्य दाशरथेः पादौ शिरसा धारयाम्यहम् ॥ ३२॥ कूरेशावतारः - मकरे हस्ते मकरे हस्तनक्षत्रे सर्पनेत्रांशसम्भवम् । श्रीमत्कूरकुलाधीशं श्रीवत्साङ्कमहं भजे ॥ ३३॥ श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहि । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ ३४॥ रम्यजामातृमुन्यवतारः - तुलायां मूले तुलायामतुले मूले पाण्ड्ये कुन्तीपुरे वरे । श्रीशेषांशोद्भवं वन्दे रम्यजामातरं मुनिम् ॥ ३५॥ श्रीशैलेशदयापात्रं धीभक्त्याहिगुणार्णवम् । यन्तीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ॥ ३६॥ इति प्रोक्ता समासेन(१) विष्णोभक्तजनस्य च । आविर्भावावतारेषु पठनीया गुणावली ॥ ३७॥ इति अवतारबोधः समाप्तः ॥ (१) विस्तरेण तु स्वस्वगुरुसकाशादधिगन्तव्या । ग्रन्थविस्तरभयान्नात्र लिखिता । अधिकमासे प्राप्ते तु सिंहसङ्क्रमे भाद्रपदेऽपि यदि जन्माष्टमी भवेत्तदा तावत्पर्यन्तं दोलोत्साहं कुर्वीतेति केषाञ्चिन्मतम् । Encoded and proofread by Mohan Chettoor
% Text title            : avatArabodhaH
% File name             : avatArabodhaH.itx
% itxtitle              : avatArabodhaH
% engtitle              : avatArabodhaH
% Category              : deities_misc, dashAvatAra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mohan Chettoor
% Proofread by          : Mohan Chettoor, NA
% Description/comments  : Ramanuja Sampradaya.
% Indexextra            : (Scan)
% Latest update         : June 12, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org