श्रीबलरामसहस्रनामावलिः

श्रीबलरामसहस्रनामावलिः

ॐ अस्य श्रीबलभद्रसहस्रनामस्त्रोत्रमन्त्रस्य गर्गाचार्य ऋषिः अनुष्टुप् छन्दः सङ्कर्षणः परमात्मा देवता बलभद्र इति बीजं रेवतीति शक्तिः अनन्त इति कीलकं बलभद्रप्रीत्यर्थे जपे विनियोगः ॥ अथ ध्यानम् । स्फुरदमलकिरीटं किङ्किणीकङ्कणार्हं चलदलककपोलं कुण्डलश्रीमुखाब्जम् । तुहिनगिरिमनोज्ञं नीलमेघाम्बराढ्यं हलमुसलविशालं कामपालं समीडे ॥ ४॥ अथ नामावलिः । ॐ बलभद्राय नमः । रामभद्राय । रामाय । सङ्कर्षणाय । अच्युताय । रेवतीरमणाय । देवाय । कामपालाय । हलायुधाय । नीलाम्बराय । श्वेतवर्णाय । बलदेवाय । अच्युताग्रजाय । प्रलम्बघ्नाय । महावीराय । रौहिणेयाय । प्रतापवते । तालाङ्काय । मुसलिने । हलीने नमः । २० ॐ हरये नमः । यदुवराय । बलिने । सीरपाणये । पद्मपाणये । लगुडिने । वेणुवादनाय । कालिन्दीभेदनाय । वीराय । बलाय । प्रबलाय । ऊर्ध्वगाय । वासुदेवकलानन्ताय । सहस्रावदनाय । स्वराजे । वसवे । वसुमतीभर्त्रे । वासुदेवाय । वसूत्तमाय । यदूत्तमाय नमः । ४० ॐ यादवेन्द्राय नमः । माधवाय । वृष्णिवल्लभाय । द्वारकेशाय । माथुरेशाय । दानिने । मानिने । महामनसे । पूर्णाय । पुराणाय । पुरुषाय । परेशाय । परमेश्वराय । परिपूर्णतमाय । साक्षात्परामाय । पुरुषोत्तमाय । अनन्ताय । शाश्वताय । शेषाय । भगवते नमः । ६० ॐ प्रकृतेः पराय नमः । जीवात्मने । परमात्मने । अन्तरात्मने । ध्रुवाय । आव्ययाय । चतुर्व्यूहाय । चतुर्वेदाय । चतुर्मूर्तिने । चतुष्पदाय । प्रधानाय । प्रकृतये । साक्षिणे । सङ्घाताय । सङ्घवते । सख्यै । महामनसे । बुद्धिसखाय । चेतसे । अहङ्कार आवृताय नमः । ८० ॐ इन्द्रियेशाय नमः । देवतात्मने । ज्ञानाय । कर्मणे । शर्मणे । अद्वितीयाय । द्वितीयाय । निराकाराय । निरञ्जनाय । विराजे । साम्राजे । महौघाय । धाराय । स्थास्नवे । चरिष्णुमते । फणीन्द्राय । फणिराजाय । सहस्रफणमण्डिताय । फणीश्वराय । फणिने नमः । १०० ॐ स्फूर्तये नमः । फूत्कारिणे । चीत्कराय । प्रभवे । मणिहाराय । मणिधाराय । वितलिने । सुतलिने । तलिने । अतलिने । सुतलेशाय । पाताळाय । तलातलाय । रसातलाय । भोगितलाय । स्फुरद्दन्ताय । महातलाय । वासुकये । शङ्खचूडाभाय । देवदत्ताय नमः । १२० ॐ धनञ्जयाय नमः । कम्बलश्वाय । वेगतराय । धृतराष्ट्राय । महाभुजाय । वारुणीमदमत्ताङ्गाय । मदघूर्णितलोचनाय । पद्माक्षाय । पद्ममालिने । वनमालिने । मधुश्रवसे । कोटिकन्दर्पलावण्याय । नागकन्यासमार्चिताय । नूपुरिणे । कटिसूत्रिणे । कटकीने । कनकाङ्गदिने । मुकुटिने । कुण्डलिने । दण्डिने नमः । १४० ॐ शिखण्डिने नमः । खण्डमण्डलिने । कलये । कलिप्रियाय । कालाय । निवातकवचेश्वराय । संहारकृते । रुद्रवपुषे । कालाग्नये । प्रलयाय । लयाय । महाहये । पाणिनये । शास्त्रभाष्यकाराय । पतञ्जलये । कात्यायनाय । पक्विमाभाय । स्फोटायनाय । उरङ्गमाय । वैकुण्ठाय नमः । १६० ॐ याज्ञिकाय नमः । यज्ञाय । वामनाय । हरिणाय । हरये । कृष्णाय । विष्णवे । महाविष्णवे । प्रभविष्णवे । विशेषविदे । हंसाय । योगेश्वराय । कूर्माय । वराहाय । नारदाय । मुनये । सनकाय । कपिलाय । मत्स्याय । कमठाय नमः । १८० ॐ देवमङ्गलाय नमः । दत्तात्रेयाय । पृथवे । वृद्धाय । ऋषभाय । भार्गवोत्तमाय । धन्वन्तरये । नृसिंहाय । कल्कये । नारायणाय । नराय । रामचन्द्राय । राघवेन्द्राय । कोशलेन्द्राय । रघूद्वहाय । काकुस्त्स्थाय । करुणासिन्धवे । राजेन्द्राय । सर्वलक्षणाय । शूराय नमः । २०० ॐ दाशरथये नमः । स्त्रात्रे । कौसल्यानन्दवर्धनाय । सौमित्रये । भरताय । धन्विने । शत्रुघ्नाय । शत्रुतापनाय । निषङ्गीने । कवचिने । खड्गिने । शरिणे । ज्याहतकोष्टकाय । बद्धगोधाङ्गुलित्राणाय । शम्भुकोदण्डभञ्जनाय । यज्ञत्रात्रे । यज्ञभर्त्रे । मारीचवधकारकाय । असुरारये । ताटकारये नमः । २२० ॐ विभीषणसहायकृते नमः । पितृवाक्यकाराय । हर्षिने । विराधारये । वनेचराय । मुनये । मुनिप्रियाय । चित्रकूटारण्यनिवासकृते । कबन्धघ्ने । दण्डकेशाय । रामाय । राजीवलोचनाय । मतङ्गवनसञ्चारिणे । नेत्रे । पञ्चवटीपतये । सुग्रीवाय । सुग्रीवसखाय । हनुमत्प्रीतमानसाय । सेतुबन्धाय । रावणारये नमः । २४० ॐ लङ्कादहनतत्पराय नमः । रावण्यरये । पुष्पकस्थाय । जानकीविराहातुराय । अयोध्याधिपतये । श्रीमल्लवणारये । सुरार्चिताय । सूर्यवंशिने । चन्द्रवंशिने । वंशीवाद्यविशारदाय । गोपतये । गोपवृन्देशाय । गोपाय । गोपिशतावृताय । गोकुलेशाय । गोपपुत्राय । गोपालाय । गोगणाश्रयाय । पूतनारये । बकारये नमः । २६० ॐ तृणावर्तनिपातकाय नमः । अघारये । धेनुकारये । प्रलम्बारये । व्रजेश्वराय । अरिष्टघ्ने । केशिशत्रवे । व्योमासुरविनाशाकृते । अग्निपानाय । दुग्धपानाय । वृन्दावनलताश्रिताय । यशोमतिसुताय । भव्याय । रोहिणीलालिताय । शिशवे । रासमण्डलमध्यस्थाय । रासमण्डलमण्डनाय । गोपिकाशतयूथार्थिने । शङ्खचूडावधोद्यताय । गोवर्धनसमुद्धर्त्रे नमः । २८० ॐ शक्रजिते नमः । व्रजरक्षकाय । वृषभानुवराय । नन्दाय । आनन्दाय । नन्दवर्धनाय । नन्दराजसुताय । श्रीशाय । कंसारये । कालियान्तकाय । रजकारये । मुष्टिकारये । कंसकोदण्डभञ्जनाय । चाणूरारये । कूटहन्त्रे । शलारिणे । तोशलान्तकाय । कंसभ्रातृनिहन्त्रे । मल्लयुद्धप्रवर्तकाय । गजहन्त्रे नमः । ३०० ॐ कंसहन्त्रे नमः । कालहन्त्रे । कलङ्कघ्ने । मागधारये । यवनघ्ने । पाण्डुपुत्रसहायकृते । चतुर्भुजाय । श्यामलाङ्गाय । सौम्याय । औपगाविप्रियाय । युद्धभृते । उद्धवसख्ये । मन्त्रिणे । मन्त्रविशारदाय । वीरघ्ने । वीरमथनाय । शङ्खचक्रगदाधराय । रेवतीचित्तहर्त्रे । रेवतीहर्षवर्धनाय । रेवतीप्राणनाथाय नमः । ३२० ॐ रेवतीप्रियकारकाय नमः । ज्योतिषे । ज्योतिष्मतिभर्त्रे । रैवताद्रिविहारकृते । धृतिनाथाय । धनाध्यक्षाय । दानाध्यक्षाय । धनेश्वराय । मैथिलार्चितपादाब्जाय । मानदाय । भक्तवत्सलाय । दुर्योधनगुरवे । गुर्विने । गदाशिक्षकराय । क्षमिने । मुरारये । मदनाय । मन्दाय । अनिरुद्धाय । धन्विनां वराय नमः । ३४० ॐ कल्पवृक्षाय नमः । कल्पवृक्षिने । कल्पवृक्षाय । कल्पवृक्षवनप्रभवे । स्यमन्तकमणये । मान्याय । गाण्डीविने । कौरवेश्वराय । कुम्भाण्डखण्डनकराय । कूपकर्णप्रहारकृते । सेव्याय । रैवतजामात्रे । मधुमाधवसेविताय । बलिष्ठपुष्टसर्वाङ्गाय । हृष्टाय । पुष्टाय । प्रहर्षिताय । वाराणासीगताय । क्रुद्धाय । सर्वाय नमः । ३६० ॐ पौण्ड्रकघातकाय नमः । सुनन्दिने । शिखरिने । शिल्पिने । द्विविदाङ्गनिषूदनाय । हस्तिनापुरसङ्कर्षिने । रथिने । कौरवपूजिताय । विश्वकर्मणे । विश्वधर्मने । देवशर्मणे । दयानिधये । महाराजछत्रधराय । महाराजोपलक्षणाय । सिद्धगीताय । सिद्धकथाय । शुक्लचामरवीजिताय । तारक्षाय । किरानासाय । बिम्बोष्ठाय नमः । ३८० ॐ सुस्मितच्छवये नमः । करीन्द्रकरकोदण्डाय । प्रचण्डाय । मेघमण्डलाय । कपाटवक्षसे । पीनाम्साय । पद्मपादस्फुरद्युतये । महाविभूतये । भूतेशाय । बन्धमोक्षिणे । समीक्षणाय । चैद्यशत्रवे । शत्रुसन्धाय । दन्तवक्त्रनिषूदकाय । अजातशत्रवे । पापघ्नाय । हरिदाससहायकृते । शालबाहवे । शाल्वहन्त्रे । तीर्थयायिने नमः । ४०० ॐ जनेश्वराय नमः । नैमिषारण्ययात्रार्थिने । गोमतीतीरवासकृते । गण्डकीस्नानवते । स्रग्विणे । वैजयन्तीविराजिताय । अम्लानपङ्कजधराय । विपाशिने । शोणसम्प्लुताय । प्रयागतीर्थराजाय । सरय्वे । सेतुबन्धनाय । गयाशिरसे । धनदाय । पौलस्त्याय । पुलहाश्रमाय । गङ्गासागरसङ्गार्थिने । सप्तगोदावरिपतये । वेण्यै । भीमरथ्यै नमः । ४२० ॐ गोदायै नमः । ताम्रपर्ण्यै । वटोदकायै । कृतमालायै । महापुण्यायै । कावेर्यै । पयस्विन्यै । प्रतीच्यै । सुप्रभायै । वेण्यै । त्रिवेण्यै । सरयूपमायै । कृष्णायै । पम्पायै । नर्मदायै । गङ्गायै । भागीरथ्यै नद्यै । सिद्धाश्रमाय । प्रभासाय । बिन्दवे नमः । ४४० ॐ बिन्दुसरोवराय नमः । पुष्कराय । सैन्धवाय । जम्ब्वे । नरनारायणाश्रमाय । कुरुक्षेत्रपतये । रामाय । जामदग्न्याय । महामुनये । इल्वलात्मजहन्त्रे । सुदामासौख्यदायकाय । विश्वजिते । विश्वनाथाय । त्रैलोक्यविजयिने । जयिने । वसन्तमालतीकर्षिणे । गदाय । गद्याय । गदाग्रजाय । गुणार्णवाय नमः । ४६० ॐ गुणनिधये नमः । गुणपात्राय । गुणाकराय । रङ्गवल्लिने । जलाकाराय । निर्गुणाय । सगुणाय । बृहते । दृष्टाय । श्रुताय । भवद्भूताय । भविष्यते । अल्पविग्रहाय । अनादये । आदये । आनन्दाय । प्रत्यग्धाम्ने । निरन्तराय । गुणातीताय । समाय नमः । ४८० ॐ साम्याय नमः । समदृशे । निर्विकल्पाय । गूढाव्यूढाय । गुणाय । गौणाय । गुणाभासाय । गुणावृताय । नित्याय । अक्षराय । निर्विकाराय । अक्षराय । अजस्रसुखाय । अमृताय । सर्वगाय । सर्वविदे । सार्थाय । समबुद्ध्यै । ॐ समप्रभाय । अक्लेद्याय नमः । ५०० ॐ अच्छेद्याय नमः । आपूर्णाय । अशोष्याय । अदाह्याय । अनिवर्तकाय । ब्रह्माय । ब्रह्मधराय । ब्रह्मणे । ज्ञापकाय । व्यापकाय । कवये । अध्यात्मकाय । अधिभूताय । अधिदैवाय । स्वाश्रयाश्रयाय । महावायवे । महावीराय । चेष्टाय । रूपतनुस्थिताय । प्रेरकाय नमः । ५२० ॐ बोधकाय नमः । बोधिने । त्रयोविंशतिकोगणाय । अंशांशाय । नरवेशाय । अवताराय । भूपरिस्थिताय । महर्जनस्तपस्सत्यम् । भूर्भुवःस्वरितिधाय । नैमित्तिकाय । प्राकृतिकाय । आत्यन्तिकमायाय । लयाय । सर्गाय । विसर्गाय । सर्गादये । निरोधाय । रोधाय । ऊतिमते । मन्वन्तरावताराय नमः । ५४० ॐ मनवे नमः । मनुसुताय । अनघाय । स्वयम्भुवे । शाम्भवाय । शङ्कवे । स्वायम्भुवसहायकृते । सुरालयाय । देवगिरये । मेरवे । हेमार्चिताय । गिरये । गिरीशाय । गणनाथाय । गौरीशाय । गिरिगह्वराय । विन्ध्याय । त्रिकूटाय । मैनाकाय । सुवेलाय नमः । ५६० ॐ पारिभद्रकाय नमः । पतङ्गाय । शिशिराय । कङ्ग्काय । जारुधये । शैलसत्तमाय । कालञ्जराय । बृहत्सानवे । दरीभृते । नन्दिकेश्वराय । सनातनाय । तरुराजाय । मन्दाराय । पारिजातकाय । जयन्तकृते । जयन्ताङ्गाय । जयन्त्यै । दिग्जयाकुलाय । वृत्रघ्ने । देवलोकाय नमः । ५८० ॐ शशिने नमः । कुमुदबान्धवाय । नक्षत्रेशाय । सुधासिन्धवे । मृगाय । पुष्याय । पुनर्वसवे । हस्ताय । अभिजिते । श्रवणाय । वैधृतये । भास्करोदयाय । ऐन्द्राय । साध्याय । शुभाय । शुक्लाय । व्यतीपाताय । ध्रुवाय । सिताय । शिशुमाराय नमः । ६०० ॐ देवमयाय नमः । ब्रह्मलोकाय । विलक्षणाय । रामाय । वैकुण्ठनाथाय । व्यापिने । वैकुण्ठनायकाय । श्वेतद्वीपाय । जितपादाय । लोकालोकाचलाश्रिताय । भूम्यै । वैकुण्ठदेवाय । कोटिब्रह्माण्डकारकाय । असङ्ख्यब्रह्माण्डपतये । गोलोकेशाय । गवाम्पतये । गोलोकधामधिषणाय । गोपिकाकण्ठभूषणाय । श्रीधाराय । श्रीधराय नमः । ६२० ॐ लीलाधराय नमः । गिरिधराय । धुरीने । कुन्तधारिणे । त्रिशूलिने । बीभत्सिने । घर्घरस्वनाय । शूलसूच्यर्पितगजाय । गजचर्मधराय । गजीने । अन्त्रमालिने । मुण्डमालिने । व्यालिने । दण्डकमण्डलवे । वेतालभृते । भूतसङ्घाय । कूष्माण्डगणसंवृताय । प्रमथेशाय । पशुपतये । मृडानीशाय नमः । ६४० ॐ मृडाय नमः । वृषाय । कृतान्तकालसङ्घारये । कूटाय । कल्पान्तभैरवाय । षडाननाय । वीरभद्राय । दक्षयज्ञविघातकाय । खर्पराशीने । विशाषिने । शक्तिहस्ताय । शिवार्थदाय । पिनाकटङ्कारकराय । चलज्झङ्कारनूपुराय । पण्डिताय । तर्कविदुषे । वेदपाठिने । श्रुतीश्वराय । वेदान्तकृते । सङ्ख्याशास्त्रिणे नमः । ६६० ॐ मीमांसिने नमः । कणनामभाजे । काणादये । गौतमाय । वादिने । वादाय । नैयायिकाय । नयाय । वैशेषिकाय । धर्मशास्त्रिणे । सर्वशास्त्रार्थतत्त्वगाय । वैयाकरणकृते । छन्दसे । वैयासाय । प्राकृतये । वचसे । पाराशरिसंहिताविदे । काव्यकृते । नाटकप्रदाय । पौराणिकाय नमः । ६८० ॐ स्मृतिकराय नमः । वैद्याय । विद्याविशारदाय । अलङ्काराय । लक्षणार्थाय । व्यङ्ग्यविदे । घनवद्ध्वनये । वाक्यस्फोटाय । पदस्फोटाय । स्फोटवृत्तये । सार्थविदे । श‍ृङ्गाराय । उज्ज्वलाय । स्वच्छाय । अद्भुताय । हास्याय । भयानकाय । अश्वत्थाय । यवभोजिने । यवक्रीताय नमः । ७०० ॐ यवाशनाय नमः । प्रह्लादरक्षकाय । स्निग्धाय । ऐलवंशविवर्धनाय । गताधये । अम्बरीषाङ्गाय । विगाधये । गधिनां वराय । नानामणिसमाकीर्णाय । नानारत्नविभूषणाय । नानापुष्पधराय । पुष्पिने । पुष्पधन्वने । प्रपुष्पिताय । नानाचन्दनगन्धाढ्याय । नानापुष्परसार्चिताय । नानावर्णमयाय । वर्णाय । सदा नानावस्त्रधराय । नानापद्मकराय नमः । ७२० ॐ कौशिने नमः । नानाकौशेयवेषधृचे । रत्नकम्बळधारिणे । धौतवस्त्रसमावृताय । उत्तरीयधराय । पर्णाय । घनकञ्चुकसङ्घवते । पीतोष्णीषाय । सितोष्णीषाय । रक्तोष्णीषाय । दिगम्बराय । दिव्याङ्गाय । दिव्यरचनाय । दिव्यलोकविलोकिताय । सर्वोपमाय । निरुपमाय । गोलोकाङ्गीकृताङ्गणाय । कृतस्वोत्सङ्गगोलोकाय । कुण्डलीभूताय । आस्थिताय नमः । ७४० ॐ माथुराय नमः । माथुरादर्शिने । चलत्खञ्जनलोचनाय । दधिहर्त्रे । दुग्धहराय । नवनीतसिताशनाय । तक्रभुजे । तक्रहारिणे । दधिचौरकृताश्रमाय । प्रभावतिबद्धकराय । दामिने । दामोदराय । दमिने । सिकताभूमिचारिणे । बालकेलये । व्रजर्भाकाय । धूलिधूसरसर्वाङ्गाय । काकपक्षधराय । सुधिये । मुक्तकेशाय नमः । ७६० ॐ वत्सवृन्दाय नमः । कालिन्दीकूलवीक्षणाय । जलकोलाहलिने । कूलिने । पङ्कप्राङ्गणलेपकाय । श्रीवृन्दावनसञ्चारिणे । वंशीवटतटस्थिताय । महावननिवासिने । लोहार्गलवनाधिपाय । साधवे । प्रियतमाय । साध्याय । साध्वीशाय । गतसाध्वसाय । रङ्गनाथाय । विठ्ठलेशाय । मुक्तिनाथाय । अघनाशकाय । सुकीर्तये । सुयशसे नमः । ७८० ॐ स्फीताय नमः । यशस्विने । रङ्गरञ्जनाय । रागषट्काय । रागपुत्राय । रागिणीरमणोत्सुकाय । दीपकाय । मेघमल्हाराय । श्रीरागाय । मालकोशकाय । हिन्दोलाय । भैरवाख्याय । स्वरजातिस्मराय । मृदवे । तालाय । मानप्रमाणाय । स्वरगम्याय । कलाक्षराय । शमिने । श्यामिने नमः । ८०० ॐ शतानन्दाय नमः । शतयामाय । शतक्रतवे । जागराय । सुप्ताय । आसुप्ताय । सुषुप्ताय । स्वप्नाय । उर्वराय । ऊर्जाय । स्फूर्जाय । निर्जराय । विज्वराय । ज्वरवर्जिताय । ज्वरजिते । ज्वरकर्त्रे । ज्वरयुजे । त्रिज्वराय । ज्वराय । जाम्बवते नमः । ८२० ॐ जम्बुकाशङ्किने नमः । जम्बूद्वीपाय । द्विपारिघ्ने । शाल्मलये । शाल्मलिद्वीपाय । प्लक्षाय । प्लक्षवनेश्वराय । कुशाधारिणे । कुशाय । कौशिने । कौशिकाय । कुशविग्रहाय । कुशस्थलीपतये । काशीनाथाय । भैरवशासनाय । दाशार्हाय । सात्वताय । व्रिष्णये । भोजाय । अन्धकनिवासकृते नमः । ८४० ॐ अन्धकाय नमः । दुन्दुभये । द्योताय । प्रद्योताय । सात्वतां पतये । शूरसेनाय । अनुविषयाय । भोजवृष्ण्यन्धकेश्वराय । आहुकाय । सर्वनीतिज्ञाय । उग्रसेनाय । महोग्रवाचे । उग्रसेनप्रियाय । प्रार्थ्याय । पार्थाय । यदुसभापतये । सुधर्माधिपतये । सत्त्वाय । व्रिष्णिचक्रावृताय । भिषजे नमः । ८६० ॐ सभाशीलाय नमः । सभादीपाय । सभाग्नये । सभारवये । सभाचन्द्राय । सभाभासाय । सभादेवाय । सभापतये । प्रजार्थदाय । प्रजाभर्त्रे । प्रजापालनतत्पराय । द्वारकादुर्गसञ्चारिणे । द्वारकाग्रहविग्रहाय । द्वारकादुःखसंहर्त्रे । द्वारकाजनमङ्गळाय । जगन्मात्रे । जगत्त्रात्रे । जगद्भर्त्रे । जगत्पित्रे । जगद्बन्धवे नमः । ८८० ॐ जगद्भ्रात्रे नमः । जगन्मित्राय । जगत्सखाय । ब्रह्मण्यदेवाय । ब्रह्मण्याय । ब्रह्मपादरजो दधते । ब्रह्मपादरजःस्पर्शिने । ब्रह्मपादनिषेवकाय । विप्राङ्घ्रिजलपूताङ्गाय । विप्रसेवापरायणाय । विप्रमुख्याय । विप्रहिताय । विप्रगीतमहाकथाय । विप्रपादजलार्द्राङ्गाय । विप्रपादोदकप्रियाय । विप्रभक्ताय । विप्रगुरवे । विप्राय । विप्रपदानुगाय । अक्षौहिणीवृताय नमः । ९०० ॐ योद्ध्रे नमः । प्रतिमापञ्चसंयुताय । चतुराय । अङ्गिरसे । पद्मवर्तिने । सामन्तोद्ध्रुतपादुकाय । गजकोटिप्रयायिने । रथकोटिजयध्वजाय । महारथाय । अतिरथाय । जैत्राय । स्यन्दनमास्थिताय । नारायणास्त्रिणे । ब्रह्मास्त्रिणे । रणश्लाघिने । रणोद्भटाय । मदोत्कटाय । युद्धवीराय । देवासुरभयङ्कराय । करिकर्णमरुत्प्रेजत्कुन्तलव्याप्तकुण्डलाय नमः । ९२० ॐ अग्रगाय नमः । वीरसम्मर्दाय । मर्दलाय । रणदुर्मदाय । भटाय । प्रतिभटाय । प्रोच्याय । बाणवर्षिने । सुतोयदाय । खड्गखण्डितसर्वाङ्गाय । षोडशाब्दाय । षडक्षराय । वीरघोषाय । क्लिष्टवपवे । वज्राङ्गाय । वज्रभेदनाय । रुग्णवज्राय । भग्नदण्डाय । शत्रुनिर्भर्त्सनोद्यताय । अट्टहासाय नमः । ९४० ॐ पट्टधराय नमः । पट्टराज्ञीपतये । पटवे । कलाय । पटहवादित्राय । हुङ्काराय । गर्जितस्वनाय । साधवे । भक्तपराधीनाय । स्वतन्त्राय । साधुभूषणाय । अस्वतन्त्राय । साधुमयाय । मनाक् साधुग्रस्तमनसे । साधुप्रियाय । साधुधनाय । साधुज्ञातये । सुधाघनाय । साधुचारिणे । साधुचित्ताय नमः । ९६० ॐ साधुवासिने नमः । शुभास्पदाय नमः । ९६२ इति श्रीगर्गसंहितायां बलभद्रखण्डे प्राड्विपाकदुर्योधनसंवादे बलभद्रसहस्रनामस्तोत्रमुद्धृता सहस्रनामावलिः । The nAmAvalI is derived from the stotra and has 962 names as presented here. There are 946 unique names. Proofread by PSA Easwaran
% Text title            : balarAmasahasranAmAvaliH
% File name             : balarAmasahasranAmAvaliH.itx
% itxtitle              : balarAmasahasranAmAvaliH (gargasaMhitAntargartA)
% engtitle              : BalaramasahasranamAvaliH
% Category              : sahasranAmAvalI, deities_misc, nAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/
% Proofread by          : PSA Easwaran
% Description-comments  : from Garga Samhita, Balabhadra khanda, Adhyaya 13.  See corresponding stotram
% Indexextra            : (nAmAvaliH)
% Latest update         : February 7, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org