चारुचर्या

चारुचर्या

श्रीसद्गुरुचरणारविन्दाभ्यां नमः ॥ जाड्यं धुनोति जगतां शुभमातनोति चेतः प्रसादयति मोहमपाकरोति । प्रज्ञां ददाति जनिमृत्युभयं निहन्ति किं किं न साधयति सद्गुरुसेवनं नः ॥ १॥ वल्गुस्मितद्युतिमुखेन्दुसुधारसार्द्र- वाचा वशीकृतबुधप्रवरस्तुताय । श्रीचन्द्रशेखरयतीन्द्रगुरूत्तमाय सत्त्वैकतानहृदयाय नमः परस्मै ॥ २॥ वाचस्पतिः प्रथमवाचि कणादशास्त्र- निष्णातधीरुभयतन्त्ररहस्यवेत्ता । स्वायत्तसांख्यविवृतिः कविसार्वभौमः श्रीचन्द्रशेखरगुरुर्जयताद्धरित्र्याम् ॥ ३॥ विश्वप्रसिद्धविबुधाग्र्यकुलप्रसूतेः प्राधीतसर्वनिगमागमसारवेत्तुः । श्रीचन्द्रशेखरगुरोर्दिनचारुचर्या दृष्टश्रुतार्थविदितामिह वर्णयामि ॥ ४॥ अनाद्यविद्याकलुषीकृतानां विचिन्वतां प्राक्सुकृतेन शान्तिम् । यः प्रादुरासीन्मनसः प्रसादः कुतूहलात्तं विनिवेदयामः ॥ ५॥ तुङ्गातटे तुङ्गतरङ्गमाला- सम्प्लावितानोकहराजिरम्ये । अद्राक्ष्म कौसुम्भपटीं वसानं रुद्राक्षमालापरिशोभिकण्ठम् ॥ ६॥ भस्मत्रिपुण्ड्रोज्ज्वलभालदेशं चिन्मुद्रयालङ्कृतपाणिपद्मम् । मन्दस्मितोदारमुखं स्वकीय - तेजोभिरावर्जितलोकनेत्रम् ॥ ७॥ भूतेषु पञ्चस्वनुभूयमान- गुणानविद्याकलितान्विभाव्य । उदासितारं विषयेषु तत्त्व- मात्मानमात्मन्यवलोकयन्तम् ॥ ८॥ दयार्द्रमन्तःकरणं स्वकीय- मालोकमात्रेण निवेदयन्तम् । कामादिषड्वर्गजयप्रमोद- सुधारसास्वादननिर्विकारम् ॥ ९॥ दुर्दर्शरूपं दुरितानुषङ्गै- रुपास्यमानं सुकृतान्तरङ्गैः । नितान्तसन्तोषभृदन्तरङ्गं मैत्र्यादिचेतःपरिकर्मसिद्धम् ॥ १०॥ प्रणम्य भक्त्या यतिपुङ्गवस्य पादाम्बुजातं सुकृतैकलभ्यम् । तद्दर्शनैरेव कृतार्थभाव - मास्वाद्य संमोदमुपेयुषो नः ॥ ११॥ निसर्गवात्सल्यमनोहरेण कटाक्षपातेन विलोक्य हर्षात् । क्षेमस्य योगस्य विचारपूर्व- मानन्दयामास नितान्तमस्मान् ॥ १२॥ बोधचर्या । प्रसङ्गतोस्मान्विनिनीषुरेत । दुपह्वरे प्राह दयार्द्रचेताः । नैसर्गिकी तस्य हि बोधचर्या परोपकारव्रतिनो महान्तः ॥ १३॥ न जातिरेषा व्यवहारहेतु- रिदं गुरुत्वं न च शिष्यता वा । हितोपदेष्ट्ट्त्वफलं गुरुत्वं गुरूक्तिविश्वासफला हि शिष्यता ॥ १४॥ संसेविता सद्गुरुकल्पवल्ली फलत्यवश्यं चतुरः पुमर्थान् । कामान् प्रदुग्धे गुरुवर्यसूक्ति- रतीन्द्रियार्थावगतौ प्रमाणम् ॥ १५॥ सुखभ्रमादैहिककर्मजालं तनोति विद्वानपि दुःखहेतुम् । निर्वेदमायाति न चैव लोको मोहो महीयान् विकरोति पुंसः ॥ १६॥ असक्तचित्तो विषयेषु नित्यं धर्माश्रमाचारविधूतपापः । परात्परं शङ्करमर्चयंश्च पुनाति लोकं लभते च मोक्षम् ॥ १७॥ विचारपूर्व विषयेषु विद्वान् दोषानुषङ्गं मनसा विभाव्य । शनैर्विरक्तिं प्रतिपद्य शान्तः पुमर्थलाभाय यतेत भूमौ ॥ १८॥ देहेन्द्रियप्राणमनोमुखेषु न चात्मता येषु ममत्वबुद्ध्या । दुष्टो हि लोके व्यवहार एष किं च प्रसिद्धेर्न विवित्सिका स्यात् ॥ १९॥ एभ्यो विभिन्नात्मविचारयोगा- द्विशिष्यते मर्त्यजनिः पशुभ्यः । अपारसंसारमहाब्धिमग्नो न चैव तच्चेतयते जनोऽयम् ॥ २०॥ अनेकजन्मार्जितमोहपङ्को न चैकदा यद्यपि शुद्धिमेति । गुरूपदेशामलवारिधौतो विशुध्यति प्राक्तनपुण्ययोगात् ॥ २१॥ जानीमः कलिदोषेण मिथ्यादृष्टिहता द्विजाः । आत्मश्रेयांसि नेक्षन्ते कुतर्कहतबुद्धयः ॥ २२॥ प्रशस्ततीर्थसञ्जाता अपि राजसवृत्तयः । दोषाकरप्रणयिनः कैरवप्रकरा इव ॥ २३॥ पारीणाः सर्वशास्त्रेषु धुरीणाः सर्वकर्मसु । अनात्मनीनाश्चेष्टन्ते यथाकालीनमानसाः ॥ २४॥ कदध्वनीना नैव स्युर्बहुभङ्गभ्रमा अपि । साधवोऽगाधहृदया गुणरत्नौघसिन्धवः ॥ २५॥ भ्रमोल्लङ्घितमर्यादा नित्यमुत्पथगामिनः । धर्मसेतून्विभिन्दन्ति कुपूरा इव दुर्जनाः ॥ २६॥ सर्वशास्त्रार्थतत्त्वज्ञा वयमेवेति वादिनः । सन्त्यात्मनीनविज्ञानकुशला दुर्लभा भुवि ॥ २७॥ इदं दुष्टमयं दोष इति जल्पन्ति वाग्मिनः । स्वाज्ञानदोषविज्ञाने किं सुप्ताः किमु मूर्च्छिताः ॥ २८॥ खलः स्निग्धो विकुरुते प्रक्षुब्धो बाधते भृशम् । लालितो लेढि शुनको दन्तैर्दशति कोपितः ॥ २९॥ सद्भिः संवासशीलानां सत्त्वं सञ्जायते नृणाम् । घनसारानुषङ्गेण सुगन्धि सलिलं भवेत् ॥ ३०॥ अतीन्द्रियार्थविज्ञाने गुरुरेव विलोचनम् । येन हीना न पश्यन्ति जात्यन्धा इव दर्पणम् ॥ ३१॥ प्राज्ञोपज्ञाः सदाचाराः प्राज्ञा लोकहितेप्सवः । हितं च सर्वदा पथ्यं पथ्यभोक्ता न हीयते ॥ ३२॥ विचिकित्सा कुतो वर्णाश्रमधर्मे महीयसि । आचामं याचमानस्य कुतः पाकविचारणा ॥ ३३॥ फलान्यननुसन्धाय श्रद्धादेयी भवाधुना । कर्मानुरूपफलदो भगवान्न हि मत्सरी ॥ ३४॥ प्रवाससुखपाथेयं द्रविणेनात्र लभ्यते । पारलौकिकपाथेयं धर्ममूल्येन साध्यते ॥ ३५॥ कत्यग्रहीषं जन्मानि सेत्स्यन्ति कति वा पुरः । एषाऽयव्ययसक्तस्य तिरोभूता विचारणा ॥ ३६॥ सत्त्वसौशील्यपारम्यपरितुष्टो जितेन्द्रियः । वरिवस्याविशुद्धात्मा चतुर्वर्गं समश्नुते ॥ ३७॥ पञ्चयज्ञपरा दुष्टविषयेषु गतस्पृहाः । परमार्थं विचिन्वानाः श्रेयः परमवाप्स्यथ ॥ ३८॥ क्रियाचर्या । आसायमित्थं परिबोध्य शिष्यान् विधित्सुरर्चां परदेवतायाः । स्नात्वा विधायाह्निकमादरेण श्रीचक्रराजस्य समीपमाप ॥ ३९॥ रत्नप्रदीपाङ्कुरभासमाने प्रसूनमालास्तृतरत्नपीठे । निधाय चक्रेश्वरमर्चयित्वा स्थिरासनो जप्यमसौ जजाप ॥ ४०॥ चत्वारि चक्राणि शिवस्य शक्तेः पञ्च प्रपञ्चस्थितिसाधनानि । तेषामभेदेन विधाय पूजा- मानर्च बिन्दौ ललितापदाब्जम् ॥ ४१॥ प्रसूनमन्त्राक्षतदुग्धसेकैः सौरभ्यविभ्राजितधूपदीपैः । मात्रष्टकाद्यावरणान्तपूजां विधाय सन्तर्प्य बलिं व्यतानीत् ॥ ४२॥ कृत्वा चतुःषष्ट्युपचारमन्तः प्रसाद्य देवीं ललितां हृदब्जे । मन्त्रार्णचक्रेश्वरयोरभेदं स्वात्मन्यभेदं च तयोनिदध्यौ ॥ ४३॥ अनुसवनमपीत्थं भक्तियोगैकगम्यां विधिविहितसपर्याचर्यया चार्चयित्वा । हृदि विनिहितदेवीपादपद्मानुषङ्गा- त्परिगतपरमानन्दचेता बभूव ॥ ४४॥ गुणचर्या । औत्पत्तिकी सुजनता दृढभक्तियोगो माङ्गल्यमार्जवमविप्लुतनैष्ठिकत्वम् । सम्भाविता भुवनसंवनना गुणाश्च योगेश्वरस्य भुवने किमसाध्यमस्ति ॥ ४५॥ भक्तिचर्या । अर्चावसानसमये हृदये महेशं ध्यात्वा प्रमोदरसपूरनिमग्नचेताः । आनन्दबाष्पभरगद्गदरुद्धकण्ठो भक्तिप्रकर्षपुलकोद्ग मवृत्तिरास्ते ॥ ४६॥ समयचर्या । तुङ्गातरङ्गशिशिरीकृतसैकतान्त । राविश्य शिष्यपरिमण्डलमध्यवर्ती । संश्रावयन्निगममौलिविनिश्चितार्थं कालं व्यनीनयदसौ यमिसार्वभौमः ॥ ४७॥ प्रसादचर्या । स्वप्नावबोधसमयेषु वचस्सवित्री देवी निसृष्टनिखिलार्थसखीव यस्य । कर्तव्यतां समुपदिश्य सतां हिताय संसाधयां सुकरमास चतुःपुमर्थान् ॥ ४८॥ प्रतिभाचर्या । दृष्टं श्रुतं यदपि किञ्चिदवस्तु वस्तु काले गतेऽपि चिरसंस्तुतवद्विदित्वा । संस्मारयत्यवितथं निजयोगशक्त्या तत्प्रातिभं नयनमन्यजनैर्दुरापम् ॥ ४९॥ दानचर्या । कल्पद्रुमस्तु भजतामभिवाञ्छितानि दुग्धे कृतान्तभयदर्शननीरसानि । सोऽयं स्मृतो वितरति प्रतिभीतिशून्या- न्यानन्दसम्प्लवरसोत्तरवैभवानि ॥ ५०॥ ज्ञानचर्या । सोपप्लवान् विषमयान्विषयानुदीक्ष्य नित्यप्रमोदमनिवारितमप्रमेयम् । संविन्मयं किमपि चिन्तयति प्रकाम माध्यायति स्वयमपास्तसमस्तभेदम् ॥ ५२॥ विरक्तिचर्या । सुरवरभवने वा रौरवे वा क्व वा स्या- ज्जनिरिह भवतः किं त्यक्तसर्वेषणस्य । हृदयगुरुपदाब्जं चिन्तयन्नात्मनीनं निरवधिकसुखाब्धौ सामरस्यं प्रयाहि ॥ ५३॥ एधिषीष्ट चिरं श्रीमज्जगद्गुरुरुदारधीः । एधिषीरन् जनाः सर्वे तत्पादयुगलाश्रयाः ॥ ५४॥ अस्ति कर्णाटेषु प्रवर्षुकाम्भोधरमालामेदुरनभोविभागः,, विविधौषधलतासन्तानबहुलारण्यपरिवृतप्रान्तरः, सर्वसम्पन्नि- केतनं, शाद्वलः, पङ्किलोऽनूपवान्, व्रीहिपालितः, श‍ृङ्गगिरि- संज्ञितो भुवो विभागः । यश्च नितरां प्रणियत्यन्तरात्मानं, सम्पन्नसस्यतया, निसर्गरुचिरतया, प्रशान्तपावनतया, जन्म- भूमितया तुङ्गभद्रायाः, प्रशान्तनिकेतनतया विभाण्डकादि- महामुनीनां, क्रीडागारतया श्रीशारदाविलासानां, कोश- भवनतया प्रकृतिसौन्दर्याणाम् । यस्मिन्नाजानपावने, निर्वैरप्र- शान्ततपोवने, श्रीमच्छङ्करभगवत्पादप्रतिष्ठापिताद्वैतव्याख्या- नसिंहासनमाधितिष्ठन् सुमसमयसमुदीयमानकुसुमावली- स्यन्दमानमरन्दधाराधोरणीमधुरिमाधरीकरणचणवाग्वैभवः, निखिलावनीपालमकुटतटरत्ननीराजितचरणयुगलः, निर्मर्या- दातिप्रवृद्धदुर्मतदुर्मनायमानसज्जनशर्मनिर्माणकार्मणः, नैस- र्गिकतयानुगृहीतसकललोकः, निगमोद्धरणधृतमत्स्यरूपहरि- रिव सङ्गृहीतसत्यव्रतः, राकाशशाङ्क इव सुतारातितुल्यरूपः, वसन्तसमय इव सुमहितविप्रसवोल्लासनपटुः, बादरायण इव प्रतिपादितधर्मविजयः, शतक्रतुरिव परिचितशतकोटिप्रशमि- तसत्प्रतिपक्षविवादः, राजकोशगृहा इव दीनारातिपोषण- कुशलः, रत्नप्रदीप इवानाद्दृतविषय स्नेहः, छन्दोविचितिरिव यतिगणगुणरञ्जितः, नटराज इव सन्ध्याभ्रपटसंवीततनुः, ग्रीष्मसमय इव पुरोविराजिताषाढः, शैलसुताप्रणयविलास इव करविधृतरुद्राक्षः, महाराजभवनमिव महाविभूतिभू- षितः, परित्यक्तसर्वाशाविग्रहोऽपि समाश्रितदक्षिणाशावि- ग्रहः, वीताखिलतृष्णोऽपि गुणिगणार्जनैकतानतृष्णः, वा- ग्मिप्रवरोऽपि परपरीवादैडमूकः, अपारसारस्वतवारान्निधि- रपि भ्रमभङ्गरहितः, गोप्ता धर्मकोशस्य, आधारः शास्त्रसं- ततेः, निवासो वात्सल्यस्य, विहारभूमिर्गुणगणस्य, कुलभ- वनं प्रतिभायाः, क्रीडागारः सौजन्यस्य, एकाश्रयः शारदा- म्बाप्रसादानुग्रहस्य, श्रीमज्जगद्गुरुपट्टभद्रश्रीमच्चन्द्रशेखरभारती विजयतां धरातले ॥ आ सप्तविंशपरिवत्सरमूर्जितश्री- र्व्याख्यानभद्ररुचिरासनमास्थितः सन् । आम्नायमौलिपरतत्त्वमपीपलब्धः श्रीचन्द्रशेखरगुरुर्जयताच्चिराय ॥ अधीतिः साहिती यस्य विनेता श्रीजगद्गुरुः । सुब्रह्मण्यस्य कृतिषु चारुचर्या प्रसाधिता ॥ इति शिवमोग्गानगरस्थ पण्डित सुब्रह्मण्यशास्त्रिणा विरचिता चारुचर्या समाप्ता । (मैसूर्-संस्थान शिवमोग्गानगरस्थ पण्डित सुब्रह्मण्य- शास्त्रिणा विरचिता) (Author: Brahmasri Pandit Subrahmanya Sastri, Shimoga, Mysore.) In a poeM of fifty-four verses, the daily life of His Holiness Sri Chandrasekhara Bharati is described. Emphasis is laid on the catholicity of the Master who is ever ready to advise and teach all those who are sincere in their quest, irrespective of their personal attachments to particular religions or creeds. Proofread by Ravi Venkatraman
% Text title            : Charucharya
% File name             : chArucharyA.itx
% itxtitle              : chArucharyA (subrahmaNyashAstriNA virachitA)
% engtitle              : chArucharyA
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : subrahmaNyashAstri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ravi Venkatraman
% Description/comments  : Bhakta Kusumanjali  Handful of Devtional Flowers on the Occasion of the Shri Chandrashekara Nakshatramahotsava (1912-1938) of Sri Chandrasekhara Bharati Swami of Sringeri
% Indexextra            : (Scan)
% Latest update         : October 17, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org