श्रीदत्तात्रेयाष्टाक्षरीमन्त्रविधानम्
विनियोगः -
ॐ अस्य श्रीदत्तात्रेयाष्टाक्षरीमन्त्रस्य भगवान् सदाशिव ऋषिः ।
गायत्री छन्दः । श्रीदत्तात्रेय देवता । जपे विनियोगः ॥
ऋष्यादिन्यासः ।
भगवते सदाशिवऋषये नमः शिरसि ।
गायत्रीछन्दसे नमः मुखे ।
श्रीदत्तात्रेयदेवतायै नमः हृदि ।
जपे विनियोगाय नमः सर्वाङ्गे ॥
बीजकरन्यासः ।
ॐ द्रां अङ्गुष्ठाभ्यां नमः ।
ॐ द्रीं तर्जनीभ्यां स्वाहा ।
ॐ द्रूं मध्यमाभ्यां वषट् ।
ॐ द्रैं अनामिकाभ्यां हुम् ।
ॐ द्रौं कनिष्ठिकाभ्यां वौषट् ।
ॐ द्रः करतलकरपृष्ठाभ्यां फट् ॥
बीजषडङ्गन्यासः ।
ॐ द्रां हृदयाय नमः ।
ॐ द्रीं शिरसे स्वाहा ।
ॐ द्रूं शिखायै वषट् ।
ॐ द्रैं कवचाय हुम् ।
ॐ द्रौं नेत्रत्रयाय वौषट् ।
ॐ द्रः अस्त्राय फट् ॥
अष्टाक्षर-करन्यासः ।
द्रां अङ्गुष्ठाभ्यां नमः ।
दत्त तर्जनीभ्यां स्वाहा ।
आत्रे मध्यमाभ्यां वषट् ।
याय अनामिकाभ्यां हुम् ।
नमः कनिष्ठिकाभ्यां वौषट् ।
द्रां दत्तात्रेयाय नमः करतलकरपृष्ठाभ्यां फट् ॥
अष्टाक्षर-षडङ्गन्यासः ।
द्रां हृदयाय नमः ।
दत्त शिरसे स्वाहा ।
आत्रे शिखायै वषट् ।
याय कवचाय हुम् ।
नमः नेत्रत्रयाय वौषट् ।
द्रां दत्तात्रेयाय नमः अस्त्राय फट् ॥
ध्यानम् -
सदानन्दात्मकं शुद्धं सात्त्विकं तारकं परम् ।
विश्वरूपं जगद्योनिं दत्तात्रेयं भजाम्यहम् ॥
जटाधरं दिगम्बरं त्रिनेत्रं भक्तवत्सलम् ।
वरदाभयहस्ताढ्यं योगिसिद्धनिषेवितम् ॥
शान्तं प्रसन्नवदनं सर्वलोकैकनायकम् ।
त्रिमूर्तिरूपिणं देवं दत्तात्रेयं नमाम्यहम् ॥
मूलमन्त्रजपः ।
द्रां दत्तात्रेयाय नमः ॥
॥ इति श्रीदत्तात्रेयाष्टाक्षरीमन्त्रविधानं सम्पूर्णम् ॥
Those who do not have a physical guru should practice Dattatreya Upasana.
Encoded and proofread by Durga Sharma