॥ दत्तात्रेयभक्तिनिरूपणस्तोत्रम् ॥

श्रीगणेशाय नमः ॥ प्रयतेः सुलभो भक्त्याऽयमात्मा पुरुषः परः । इति वेदादिनोक्तं तद्भक्तिर्मुख्याऽधुनोच्यते ॥ १॥ निर्विकल्पं परं ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः ॥ २॥ वशीकृते मनस्येषां सगुणव्रह्मशीलनात् । तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम् ॥ ३॥ इत्युक्तेर्नवधा भक्तिर्वाच्यात्र स्मरणात्मिका । श्रेष्ठार्थ्यान्यत्र च व्याप्ता हृच्छुद्ध्यास्य पदप्रदा ॥ ४॥ सहस्राङ्गात्मकर्माख्यभगवत्स्मरणात्सदा । कृतं कर्माप्यकर्मैव येनैष द्राग्विमुच्यते ॥ ५॥ कृत्वेश्वरे परां भक्तिं भगवत्कीर्तनादपि । सद्भक्तो मायिकं पाशं छित्त्वा याति स सद्गतिम् ॥ ६॥ तद्गुणश्रवणाच्चापि श्रद्धावानबहिर्मुखः । समाहितोऽनसूयुर्ना क्षिप्रं नैष्कर्म्यसिद्धिभाक् ॥ ७॥ वज्राङ्कुशध्वजाब्जाङ्कभगवत्पादसेवनात् । भित्त्वा मायावृतिं सत्त्वशुद्धो याति परं पदम् ॥ ८॥ जलेष्टास्रं कनिष्ठिक्या लिखित्वा तारमन्तरे । पत्रेष्वष्टाक्षरं चैकं हृत्स्थमावाह्य तत्र षट् ॥ ९॥ प्रदर्श्य मुद्रा ऋष्यादीन्स्मृत्वा विन्यस्य चोङ्कृतेः । मात्राः शाखाङ्गेषु भूखवाताग्न्यब्बीजतो हृदा ॥ १०॥ दत्त्वोपचारान् गन्धादीन् जपित्वाऽष्टसहस्रकम् । तर्पयित्वा चाष्टशतमृष्यादीनेकवारतः ॥ ११॥ पुनः सम्पूज्य विन्यस्य तं स्वात्मन्युद्वसेत्परम् । त्रिसन्ध्यमर्चनं त्वेवं यतेरन्यस्य चोच्यते ॥ १२॥ लब्ध्वा पूर्वं स्वगृह्योक्तं द्विजत्वं भक्तिमान्शुचिः । ज्ञात्वा धनर्णसिद्धारिचक्रसिद्धं मनुं गुरोः ॥ १३॥ लब्ध्वाऽर्णसङ्ख्यालक्षां प्राक् पुरश्चर्यां यथाविधि । कृत्वाऽनेनार्चयेदर्चां नियतो नित्यकर्मकृत् ॥ १४॥ लौहीं वा संस्कृतां शैलीं विभोः सास्त्रां सलक्षणाम् । सोऽपि लब्ध्वाखिलान्कामान् देहान्ते तन्मयो भवेत् ॥ १५॥ पुरा नारायणं ब्रह्मा सत्यक्षेत्रे दयानिधिम् । प्रणतोऽपृच्छदेकं किमुपास्यं दैवतं परम् ॥ १६॥ स प्राह मामकं धाम यद्दत्तात्रेयसंज्ञितम् । सदानन्दात्मकं शुद्धं सात्त्विकं तारकं परम् ॥ १७॥ विश्वरूपं जगद्योनिं तदेकोपास्स्व दैवतम् । लकारं वह्निसंयुक्तं सतुण्डाक्षरबिन्दुकम् ॥ १८॥ तदर्चने मनुं विद्धि छन्दो गायत्रिकास्य च । सदाशिवऋषिर्देवो दत्तात्रेयश्चतुर्भुजः ॥ १९॥ मनुरेकाक्षरोऽस्यायं जाप्यो गर्भादितारणः । तारः श्रीदुर्गा क्रों भूमिदत्तैकाक्षरयुङ्मनुः ॥ २०॥ षडक्षरो योगदोऽयं सर्वसम्पत्समृद्धिकृत् । ऋष्यादिः पूर्ववन्न्यासो बीजैः शाखाहृदादिषु ॥ २१॥ दत्तात्रेयं शिवं शान्तमिन्द्रनीलनिभं विभुम् । आत्ममायारतं देवमवधूतं दिगम्बरम् ॥ २२॥ भस्मोद्धूलितसर्वाङ्गं जटाजूटधरं विभुम् । चतुर्बाहुमुदाराङ्गं प्रफुल्लकमलेक्षणम् ॥ २३॥ ज्ञानयोगनिधिं विश्वगुरुं योगिजनप्रियम् । भक्तानुकम्पिनं सर्वसाक्षिणं सिद्धसेवितम् ॥ २४॥ इत्यौपनिषदं दत्तं ध्यात्वैकाग्र्यं मनुं जपेत् । स वाञ्छितफलं भुक्त्वा परत्र श्रेय आप्नुयात् ॥ २५॥ सैकाक्षरं चतुर्थ्यन्तं दत्तात्रेयं नमोऽन्वितम् । अष्टार्णमन्त्रं गायत्रं विद्धि द्रां बीजमस्य तु ॥ २६॥ चतुर्थी कलिकं शक्तिर्नम आर्षः सदाशिवः । दत्तात्रेयपदस्यार्थः सत्यानन्दचिदात्मकः ॥ २७॥ प्रह्वीभावो नमोऽर्थस्तु पूर्णानन्दैकविग्रहः । तारं सबिन्दुं तुण्डार्णं दुर्गां क्रों तुर्यमेहि च ॥ २८॥ दत्तात्रेयेति सम्बुद्ध्या स्वाहान्तं द्वादशाक्षरम् । सर्वकामदुघं विद्धि गायत्रं भो शिवार्षकम् ॥ २९॥ वराभयदहस्तं यो भजेदाभ्यां महाव्रतः । सर्वान्कामानिहैवाप्त्वा सोऽमृतो भवति धुवम् ॥ ३०॥ ओं बीजं स्वाहात्र शक्तिः सम्बुद्धिः कलिकं क्रमात् । द्वाभ्यां हृदि च के द्वाभ्यां शिखायां क्रियया न्यसेत् ॥ ३१॥ सम्बुद्धिभ्यां स्कन्धचक्षुर्द्वयेऽस्त्रेऽन्त्येन तन्मयः । चतुर्बीजैः सक्रियाख्यान्त्याभ्यां करादिषु ॥ ३२॥ कृत्वा यजेद्देवदेवं यन्त्रन्यस्तमभीष्टदम् । दत्तात्रेय हरे कृष्ण उन्मत्तानन्ददायक ॥ ३३॥ दिगम्बर मुने बाल पिशाचज्ञानसागर । आनुष्टुभः शिवार्षोऽयं षड्भुजात्रेयदैवतः ॥ ३४॥ द्वाभ्यां द्वाभ्यां हृच्छिरसोः शिखायामेकतो गले । द्वाभ्यामेकैकेन दोर्दृग्द्वये द्वाभ्यां तथास्त्रके ॥ ३५॥ विन्यस्य जपिता दोषमुक्ता सर्वोपकारकृत् । तारं वायुं क्लां कामं क्लं हां दुर्गा ह्रूं च विद्धि सौः ॥ ३६॥ दत्तात्रेयं चतुर्थ्यन्तं स्वाहान्तं षोडशाक्षरम् । वायुस्थाने तु वाग्बीजं नमोऽन्ते योजयाथवा ॥ ३७॥ स्वाहैकत्र नमोऽन्यत्र शक्तिर्बीजं च कीलकम् । तारश्चतुर्थी गायत्री मन्त्रराजः शिवोदितः ॥ ३८॥ हृदि द्वे के त्रीणि शिखायां चैकं कवचे दृशोः । चतुर्थीमन्त्यमस्त्रे च विन्यस्य जपकामदम् ॥ ३९॥ सच्चिदानन्दस्वरूपी सुखी मुक्तो भवत्यतः । सिद्धगन्धर्वादिसङ्गी लक्षजाप्यष्टसिद्धिभाक् ॥ ४०॥ त्रिदेवलोकसञ्चारी कोटिजापि च दत्तवत् । दशकोटिजपी साक्षाज्जरामरणवर्जितः ॥ ४१॥ द्व्यष्टकोटिजपी सिद्धः परकायगतादिकृत् । मन्त्रशक्तिरियं श्लोका अभिगीता इहाप्यमी ॥ ४२॥ खड्गस्तम्भो जलस्तम्भः सैनास्तम्भस्तथैव च । इच्छासिद्धिर्वशित्वं च दिक्पालैः सह भाषणम् ॥ ४३॥ वायुवद्गतिरित्याहुराह्लादित्वं च चन्द्रवत् । अग्निवत्सर्वभक्षत्वं नित्यतृप्तत्वमेव च ॥ ४४॥ सर्वभाषापरिज्ञानं सर्वचित्तावबोधनम् । वापीकूपसमुद्राणां पर्वतानां च चालनम् ॥ ४५॥ दत्तात्रेयमयः स्वच्छो भवेत्स व्यासवत्कविः । इतीदं षोडशार्णस्य माहात्म्यं तत्प्रयत्नतः ॥ ४६॥ प्राणो देयो मनश्चक्षुश्छित्त्वा देयं शिरो वपुः । न देयः षोडशार्णोऽसौ सच्छिष्याय महात्मने ॥ ४७॥ महागुणवते देयः कुप्येत प्रभुरन्यथा । मालाकमण्डलूवाद्यत्रिशूले शङ्खचक्रके ॥ ४८॥ दधानमत्रिवरदं दत्तात्रेयं त्र्यधीश्वरम् । ध्यात्वेत्थं विधिवन्मन्त्रजाप्युक्तफलभाग्भवेत् ॥ ४९॥ ओं नमो भगवान्दत्तात्रेयः स्मरणमात्रसन्तुष्टो महाभयनिवारणो महाज्ञानप्रदः ॥ ५०॥ चिदानन्दात्मा बालोन्मत्तपिशाचवेषो महायोग्यवधूतोऽनसूयानन्दवर्धनोऽत्रिपुत्रः ॥ ५१॥ अं भवबन्धविमोचनो ह्रीं सर्वभूतिदः क्रों असाध्याकर्षण ऐं वाक्प्रदः ॥ ५२॥ क्लीञ्जगत्त्रयवशीकरणः सौः सर्वमनःक्षोभणः श्रीम्महासम्पत्प्रदो ग्लौं भूमण्डलाधिपत्यप्रदः ॥ ५३॥ द्रां चिरजीवी वषड्वशीकुरु वौषडाकर्षय हुं विद्वेषय फड्डुच्चाटय ठः ठः ॥ ५४॥ स्तम्भय खें खें मारय नमः सम्पन्नय स्वाहा पोषय परमन्त्रपरयन्त्रपरतन्त्राणि ॥ ५५॥ छिन्धि ग्रहान्निवारय व्याधीन्विनाशय दुःखं हर दारिद्र्यं विद्रावय देहं पोषय ॥ ५६॥ चित्तं तोषय सर्वमन्त्रस्वरूपः सर्वतन्त्रस्त्ररूपः सर्वपल्लवस्वरूपः ॥ ५७॥ ॐ नमो महासिद्धः स्वाहान्तो मालामन्त्रः । प्रथमान्तां चतुर्थ्या द्विः क्रियाश्च व्याहरेत् ॥ ५८॥ विष्णुनोक्ता इमे मन्त्रा ब्रह्मणे कामधेनवः । प्रयोगग्रहभूतारिकुदृग्रुक्तापभीतिहाः ॥ ५९॥ कामिनोऽभीष्टफलदा देवसान्निध्यकारकाः । तद्वच्च वज्रकवचं दत्तनामसहस्रकम् ॥ ६०॥ एषामन्यतमेनेशं यो वैदिकविधानतः । उपास्ते चित्तशुद्ध्या स मुच्यतेऽत्र परत्र वा ॥ ६१॥ दत्तात्रेयनिवासं तदाचण्डालश्वगोखरम् । ब्रह्मादिस्तम्बपर्यन्तं समदृक् प्रणमेत्सुधीः ॥ ६२॥ चालको भासकोऽस्त्येषां सच्चिदात्मा स्वयम्प्रभः । अस्ति भाति प्रियत्वेन भगवानेव नापरः ॥ ६३॥ यथाधिपे वशा भृत्या निर्माना ईश्वरे तथा । विदध्यात्स्वामिनो दास्यं निरीहं द्वैतदर्शने ॥ ६४॥ सख्योः सख्यं यथा लोके निरीपेक्षं तथाऽऽत्मनः । परात्मनापि सततं समाधेः प्राक् प्रकल्पयेत् ॥ ६५॥ कर्तृत्वादि न मय्येके शुद्धे देहादिसाक्षिणि । इतीक्षणमसन्दिग्धं सर्वस्वात्मनिवेदनम् ॥ ६६॥ अतीत्य वरदेशादीन् काश्यां सन्तोष्य दीपकः । वेदधर्मगुरुं रुग्णं कष्टेन हि महामतिः ॥ ६७॥ श्रीदत्तलीलाश्रवणं नयाचे तुष्ट एव सः । गुरुः शिष्याय यत्प्राह मुक्त्यै तत्सार उच्यते ॥ ६८॥ इति श्रीदत्तात्रेयभक्तिनिरूपणस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com

% Text title            : dattAtreyabhaktinirUpaNastotram
% File name             : dattAtreyabhaktinirUpaNastotram.itx
% itxtitle              : dattAtreyabhaktinirUpaNastotram
% engtitle              : dattAtreyabhaktinirUpaNastotram
% Category              : deities_misc, dattatreya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Brihatstotraratnakara 2, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225-425
% Latest update         : March 24, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP