श्रीदत्तात्रेयैकाक्षरीमन्त्रविधानम्
विनियोगः -
ॐ अस्य श्रीदत्तात्रेयैकाक्षरीमन्त्रस्य भगवान् सदाशिव ऋषिः ।
गायत्री छन्दः ।
चतुर्भुज श्रीदत्तात्रेय देवता ।
जपे विनियोगः ॥
ऋष्यादिन्यासः ।
भगवते सदाशिवऋषये नमः शिरसि ।
गायत्रीछन्दसे नमः मुखे ।
चतुर्भुजश्रीदत्तात्रेयदेवतायै नमः हृदि ।
जपे विनियोगाय नमः सर्वाङ्गे ॥
करन्यासः ।
ॐ द्रां अङ्गुष्ठाभ्यां नमः ।
ॐ द्रीं तर्जनीभ्यां स्वाहा ।
ॐ द्रूं मध्यमाभ्यां वषट् ।
ॐ द्रैं अनामिकाभ्यां हुं ।
ॐ द्रौं कनिष्ठिकाभ्यां वौषट् ।
ॐ द्रः करतलकरपृष्ठाभ्यां फट् ॥
षडङ्गन्यासः ।
ॐ द्रां हृदयाय नमः ।
ॐ द्रीं शिरसे स्वाहा ।
ॐ द्रूं शिखायै वषट् ।
ॐ द्रैं कवचाय हुं ।
ॐ द्रौं नेत्रत्रयाय वौषट् ।
ॐ द्रः अस्त्राय फट् ॥
ध्यानम् -
सदानन्दात्मकं शुद्धं सात्त्विकं तारकं परम् ।
विश्वरूपं जगद्योनिं दत्तात्रेयं भजाम्यहम् ॥
---
शान्तं प्रसन्नवदनं चतुर्बाहुं दयार्णवम् ।
वराभयकरं देवं योगिनां हृदि संस्थितम् ॥
जटामण्डलमध्यस्थं दिव्यतेजोविराजितम् ।
त्रैलोक्यगुरुमीशानं दत्तात्रेयं नमाम्यहम् ॥
मूलमन्त्रजपः ।
द्रां ॥
॥ इति श्रीदत्तात्रेयैकाक्षरीमन्त्रविधानं सम्पूर्णम् ॥
The Ekakshari mantra is extremely powerful.
Those who do not have a physical guru should practice Dattatreya Upasana.
Encoded and proofread by Durga Sharma