श्रीदत्तात्रेयमहामन्त्रः

श्रीदत्तात्रेयमहामन्त्रः

विनियोगः - ॐ अस्य श्रीदत्तात्रेय महामन्त्रस्य भगवान् सदाशिव ऋषिः । गायत्री छन्दः । श्रीदत्तात्रेयो देवता । चतुर्विंशतिविष्णुमूर्तिबीजानि बीजम् । योगमाया शक्तिः । दत्तात्रेयः कीलकम् । मम श्रीदत्तप्रसादसिद्ध्यर्थे विष्णुतत्त्वैक्यप्राप्त्यर्थे चतुर्विधपुरुषार्थसिद्ध्यर्थे च जपे विनियोगः ॥ ऋष्यादिन्यासः । सदाशिवऋषये नमः शिरसि । गायत्रीछन्दसे नमः मुखे । श्रीदत्तात्रेयदेवतायै नमः हृदये । चतुर्विंशतिविष्णुबीजाय नमः गुह्ये । योगमायाशक्तये नमः पादयोः । दत्तात्रेयकीलकाय नमः नाभौ । चतुर्विधपुरुषार्थसिद्ध्यर्थे विनियोगाय नमः सर्वाङ्गे ॥ करन्यासः । कं नं मं गं अङ्गुष्ठाभ्यां नमः । विं मं त्रिं वं तर्जनीभ्यां स्वाहा । श्रीं ह्रीं पं दं मध्यमाभ्यां वषट् । सं वं प्रं अं अनामिकाभ्यां हुम् । पुं क्षं नृं अं कनिष्ठिकाभ्यां वौषट् । जं उं हं क्लीं दत्तात्रेयाय नमः करतलकरपृष्ठाभ्यां फट् ॥ षडङ्गन्यासः । कं नं मं गं हृदयाय नमः । विं मं त्रिं वं शिरसे स्वाहा । श्रीं ह्रीं पं दं शिखायै वषट् । सं वं प्रं अं कवचाय हुम् । पुं क्षं नृं अं नेत्रत्रयाय वौषट् । जं उं हं क्लीं दत्तात्रेयाय नमः अस्त्राय फट् ॥ ध्यानम् - सदानन्दात्मकं शुद्धं सात्त्विकं तारकं परम् । विश्वरूपं जगद्योनिं दत्तात्रेयं भजाम्यहम् ॥ केशवाद्यैर्विष्णुरूपैश्चतुर्विंशतिभिर्युतम् । त्रिमूर्त्यात्मकमव्यक्तं योगिनां हृदि संस्थितम् ॥ दिगम्बरं जटाधारं वरदाभयहस्तकम् । अवधूतं महायोगिं दत्तात्रेयं नमाम्यहम् ॥ मूलमन्त्रजपः । ॐ कं नं मं गं विं मं त्रिं वं श्रीं ह्रीं पं दं सं वं प्रं अं पुं क्षं नृं अं जं उं हं क्लीं दत्तात्रेयाय नमः ॥ Dattatreya mantras are compiled from various sources, including the Shiva Rahasya, Pancharatra, Dattatreya Tantra, Rudra Yamala, Brahma Yamala, Bhagavatam, Urdhvamnaya Tantra, Krishna Yamala, and Meru Tantra. Those who do not have a physical guru should practice Dattatreya Upasana. Encoded and proofread by Durga Sharma
% Text title            : Shri Dattatreya Mahamantrah
% File name             : dattAtreyamahAmantraH.itx
% itxtitle              : dattAtreyamahAmantraH
% engtitle              : dattAtreyamahAmantraH
% Category              : deities_misc, dattAtreya, mantra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattAtreya
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Transliterated by     : Durga Sharma
% Proofread by          : Durga Sharma
% Description-comments  : From various sources
% Latest update         : June 23, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org