श्रीदत्तगायत्रीमन्त्रविधानम्
विनियोगः -
ॐ अस्य श्रीदत्तात्रेयमन्त्रस्य शबर ऋषिः । गायत्री छन्दः ।
श्रीदत्तात्रेयो देवता । द्रां बीजम् । ह्रीं शक्तिः । क्रों कीलकम् ।
श्रीदत्तात्रेयप्रीत्यर्थे जपे विनियोगः ॥
ऋष्यादिन्यासः ।
शबरऋषये नमः शिरसि ।
गायत्रीछन्दसे नमः मुखे ।
श्रीदत्तात्रेयदेवतायै नमः हृदये ।
द्रां बीजाय नमः गुह्ये ।
ह्रीं शक्तये नमः पादयोः ।
क्रों कीलकाय नमः नाभौ ।
श्रीदत्तात्रेयप्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ॥
करन्यासः (प्रथमवारम्)
ॐ द्रां अङ्गुष्ठाभ्यां नमः ।
ॐ द्रीं तर्जनीभ्यां नमः ।
ॐ द्रूं मध्यमाभ्यां नमः ।
ॐ द्रैं अनामिकाभ्यां नमः ।
ॐ द्रौं कनिष्ठिकाभ्यां नमः ।
ॐ द्रः करतलकरपृष्ठाभ्यां नमः ॥
हृदयादिषडङ्गन्यासः (द्वितीयवारम्)
ॐ द्रां हृदयाय नमः ।
ॐ द्रीं शिरसे स्वाहा ।
ॐ द्रूं शिखायै वषट् ।
ॐ द्रैं कवचाय हुम् ।
ॐ द्रौं नेत्रत्रयाय वौषट् ।
ॐ द्रः अस्त्राय फट् ॥
ध्यानम् -
रविमण्डलमध्यस्थं रक्तं रक्ताब्जसंस्थितम् ।
योगारूढं ज्ञानघनं दत्तात्रेयमहं भजे ॥
जटाधरं त्रिनयनं दिगम्बरमनामयम् ।
वरदाभयपाणिं तं योगिसिद्धनिषेवितम् ॥
अत्रिपुत्रं महायोगिं सर्वलोकैकनायकम् ।
भक्तानुग्रहकर्तारं दत्तात्रेयं नमाम्यहम् ॥
मूलमन्त्रजपः ।
ॐ द्रां ह्रीं क्रों दत्तात्रेयाय विद्महे योगीश्वराय धीमहि ।
तन्नो दत्तः प्रचोदयात् ॥
॥ इति श्रीदत्तगायत्रीमन्त्रविधानं सम्पूर्णम् ॥
Those who do not have a physical guru should practice Dattatreya Upasana.
Encoded and proofread by Durga Sharma