श्रीदत्तप्रार्थना
(पृथ्वीवृत्तम्)
श्वेतं कथमहो न मे हृदयदारकं रोदनं
दायाब्धिरपि सर्वविद्द्रवसि नो कथं हे प्रभो ।
अहं विरहकातरो भवभयातुरः प्रार्थये
द्युतिस्वभक्तभवनाशनो द्युतमते न किं धावसि ॥ १॥
न किं हरिहरादयः शरणभक्तचित्तार्थदाः
किमर्थमिति यासि मां हि शरणं प्रभो वक्षि चेत् ।
त्रिमूर्तिरपि भो यतस्त्वमिह तत्प्रसिद्धं भुवि
गुरो शृणु भवार्थिहन्कुरु कृपां च मामुद्धर ॥ २॥
स्वरूपमिति भावनं त्वयि यतस्त्रयाणामपि
तवाङ्घ्रिभजनाद्विधेर्हरिरथो हरः शर्मदाः ।
तव त्रिवदनैर्यतः प्रकटितं च सच्चित्सुखं
त्वमेव निरुपाधिकं भवसि भोस्त्रिमूर्तेः पदम् ॥ ३॥
उपाधिपदलाञ्छनाद्बहु विलज्जितैस्तैस्त्रिभि-
र्यदा प्रकटिता निजस्थितिरथावतारस्तव ।
त्रिमूर्तिनिजरूपतो विमलरूपमादर्शय-
त्वमेव खलु राजसे जगति दत्त तुर्याश्रमिन् ॥ ४॥
असङ्गमतिनिर्मलं जगति निर्गुणं ब्रह्मय-
त्रिमूर्तिपदमद्वयं प्रकटितं यदासीत्त्वया ।
तदेव सकलस्तवा मम च शुद्धरूपं यतो
गुरो तव पदं विना मम न कोऽपि चाऽत्राश्रयः ॥ ५॥
न जीवजगदीश्वराः किल तथैव योषित्पुमा-
नहं प्रतितनौ च यत्स्फुरति भूमरूपं शिवम् ।
असङ्गमतिनिर्मलं सुखघनं परं ब्रह्मत-
द्गुरो तव मुखात्कदा भवति तत्त्वमेतच्छ्रुतम् ॥ ६॥
त्रिमूर्तिपदमद्वयं सुविमलं स्वरूपं पुरा
स्वभक्तभवमुक्तये जगति दत्तवांस्त्वं यतः ।
स्वदत्त इति नाम ते भवति किं मृषा तद्भुवि
स्वरूपमपि दातुमत्र न च किं किलागम्यते ॥ ७॥
महेन्द्रविधिचक्रधृग्भवपदानि नो याच्यते
विषं मम तु तत्सुखं तनुहृदिन्द्रियैर्यद्भवेत् ।
अहो भवभयात्मकं भ्रममयं तनोर्वैभवं
रतिश्च पुरुषस्त्रियोरहह कश्मलायां तनौ ॥ ८॥
गुरोः सुकरुणोदयाद्भवति सा विरक्तिर्दृढा
निजस्थितिरचञ्चलाऽत इह याच्यते त्वत्कृपा ।
त्वदीयकृपया बली निजपदं वितन्वन्भुवि
कृती च गुरुसेवया सुविमलो भवेयं गुरो ॥ ९॥
गुरो न तव दर्शनं विपुलदीर्घकालो गतः
कदा भवसि गोचरस्तव हि दर्शनाकाङ्क्ष्यहम् ।
अयोग्यमपि पाहि मां करुणयाऽतिदीनोऽस्म्यहं
गुरोतिदयया युतो झटिति दर्शनं देहि मे ॥ १०॥
यथैव रघुनाथसच्चरणतस्त्वहल्या सती
नवोढभविताऽमलोऽहमपि तेङ्घ्रिपद्मात्तथा ।
प्रभो प्रणतदुःखहन्करुणसागरस्त्वं यतः
स्वभक्तजनपावनं चरणदर्शनं देहि मे ॥ ११॥
गुरो ह्यतनुरेव भोस्त्वमपि नामरूपं न ते
उपासकविमुक्तये जगति रूपदृक्त्वं विभो ।
विना सगुणरूपतस्तव किमस्ति जीवोन्नति-
र्न मुक्तिरथ नो तथा विरतिरेष बोधोदयः
तृषार्तजनजीवनं क्षुधितषड्रसान्नं शुभम् ॥ १२॥
मुमूर्ष्वमृतमेव मे किल दरिद्रिणस्त्वं निधिः ।
त्वमन्धनयनं तथा जरठहस्तयष्टिश्च मे
सुतप्तभुवि वृष्टिवत्तव हि दर्शनं प्रार्थये ॥ १३॥
स्फुटं स्तवनतोऽपि मे तव च वाक्परत्वं गुरो
तथैव तव चिन्तने तव च हृत्परत्वं स्मृतम् ।
स्वरूपममलं ततं न तव विस्मृतिं यात्रया
तथापि हृदि वासनोल्लसति दर्शनाय प्रभो ॥ १४॥
अरे त्वमसि निर्गुणो न च तवास्ति सङ्गः क्वचि-
द्यदेक परमाऽद्वयं त्वदसि मायिकं न त्वयि ।
किमेवमतिदुःखिनं त्वदनुस्वरूपं वदे-
त्सुखामृतकरान्वितन्वदिह ते वपू राजते ॥ १५॥
न रूपधरणं तवास्ति खलु बाधकं सद्गुरो
ह्यनेन जगतोऽपि मेऽतिसुलभोऽत्र बन्धक्षयः ।
वपुरहमिति स्फुरेद्यदि भवेत्स बद्धो भवे-
न्निजात्मपदवीं ददत्किमिति देहरूपो भवेः ॥ १६॥
जलं न च हिमेन वा न कटकैः सुवर्णं तथा
विभिन्नमुपलश्च नो मृदपि चन्दनं मूर्तितः ।
विनष्टमपि हन्त नो विकृतिमत्प्रसिद्धं भुवि
परन्तु जगतोऽमुना बहु विशेषकार्यं खलु ॥ १७॥
तवास्ति ननु बाधकं हि यदि रूपदॄक्त्वं गुरो
कथं जगति विश्रुतोऽसि भगवन्त्वमत्रेः सुतः ।
विलोभय न मां जडं खलु गुरोऽत्रमे त्वं गतिः
प्रभो चिरय मा द्रुतं चरणदर्शनं देहि मे ॥ १८॥
तव त्रिमुखपङ्कजैः प्रकटितं स्वसच्चित्सुखं
त्वदीयवदनप्रभा खलु निदर्शयेद्ब्रह्म तत् ।
सुहास्यमतिनिर्मलं तव वदेज्जगन्मायिकं
त्वदीयकरुणार्द्रदृक्सपदि मायिकं संहरेत् ॥ १९॥
यथा तृषितचातको जलददर्शनं काङ्क्षति
यथैव विधुदर्शने कृतमतिश्चकोरः सदा ।
क्षुधार्दितशिशुर्यथा जगति मातरं वाञ्छति
तथा विरहकातरश्चरणदर्शनं प्रार्थये ॥ २०॥
निराकृतिरहं कथं नु तनुधृग्भवेयं वद
शरीरधरणेऽक्षमोऽहमिति मा गुरो वञ्चय ।
कदापि भवसीह भो न च विकारयुक्तं वपु-
र्नचेदवतरेः स्वयं कथमिति स्वरूपं दिशेः ॥ २१॥
न भूरिति न वा जलं न च तथाऽनलोवाऽनिलो
न खं त्वयि विभो तथा किमपि नैव पञ्चीकृतम् ।
न पिण्डमपि विश्वको न च विराण्ण विश्वं ध्रुवं
न जीव इति वासना रतिरथो न नारी नरः ॥ २२॥
न सा प्रकृतिरप्यहो त्वयि पुमान्जगत्सर्जनं
चिदेकरसभूम्नि भोस्त्वयि न विश्वसङ्कल्पनम् ।
न सूक्ष्मवियदादिकं न च तथा त्वपञ्चीकृतं
न लिङ्गमपि नो महन्न च हिरण्यगर्भोऽपि वा ॥ २३॥
निरावृतगुरो तमस्त्वयि विभाति किं स्वप्रभे
न कारणमपीह तन्न च तथा तदव्याकृतम् ।
महेश इति जीवको किल न मायिको विद्यते
स्वमातृपरमेऽखिलं कथमिदं च सम्भाव्यते ॥ २४॥
न बन्ध इति वामला अपि गुणा अविद्या तथा
न कार्यमविकारणं जगदिदं न मायाऽपि वा ।
गुरोस्य तु विभावनं त्वयि यथैव रज्वामहे-
र्न खं जलमुचा कृतिस्त्वमपि नैव प्रायाकृतिः ॥ २५॥
त्वया त्वदविकृत्पदं न च विदर्शितं वा यदा
कथं नु विदितं भवेदिति च कोऽन्य एवाऽदिशेत् ।
तव स्मृतिरियं हि भोस्तव तनुर्न भेदोऽस्ति वा-
मतो मम हृदीप्सितं कुरु च दर्शनं देहि मे ॥ २६॥
अहो घटयते गुरो घटितमेव माया तु या
निरूपयितुमास्पदं न खलु सातिशङ्कात्मिका ।
सुविस्मयतनुश्च या भवति हन्त सत्यासती
त्वयैव किल नश्यति स्वयमतः प्रतीक्षेऽनिशम् ॥ २७॥
अनेकदुरदृष्टतो बहुलविघ्नबाधा गुरो
मनस्तु बहु चञ्चलं भ्रमति दिग्वटे दुर्दमम् ।
न वज्रवपुरप्यहो भवति दुश्चरं नो तपो
न शुद्धहृदयं तथापि बत किं वदेयं प्रभो ॥ २८॥
न शास्त्रमपि नो श्रुतिं न च तथा स्मृतिं वेद्म्यहं
न संस्कृतमथापि वा ललितवाङ्मयं प्राकृतम् ।
न भक्तिरपि मेऽस्ति भो भवति नैव योगस्तथा
गुरोऽतिजडबुद्धितोऽपि न च वेद्मि किं त्वत्प्रियम् ॥ २९॥
ऋतं हि कथयामि ते तनुसुखाय लुब्धोऽस्म्यहं
भवेत्कथमुपोषणं व्रतमपि च कृच्छ्रादिकम् ।
अतीव किल दुर्बलो मम न निग्रहोऽस्ति क्वचि-
दहं पतित ईदृशः पतितपावनस्त्वं गुरो ॥ ३०॥
गुणेन रहितोऽस्म्यहं किमपि ते भवेत्तुष्टये
न कोऽपि खलु मत्समः सकलहीनदीनोऽस्म्यहम् ।
विलोक्य बत मां तथा त्यजसि चेत्कुतोऽन्याश्रय-
स्त्वमेव गतिरत्र मे करुणया पदं दर्शय ॥ ३१॥
समर्थ इति विश्रुतोऽसि भुवि किं न शक्यं तव
विनैव हि परीक्षणं करुणयैह मामुद्धर ।
अहं यदि समुद्धृतः किमपि नो भवं दुर्घटं
सुसाध्यमखिलं ततः कुरु दयां सुकीर्तिं भज ॥ ३२॥
अतीव विनतोऽस्म्यहं विषयमोहपाशार्दितः
क्षणं युगसमं भवेद्विरहतोऽतिदुःखी गुरो ।
जलाद्बहिरितस्ततो भवति किं सुखी मत्स्यक-
स्तथैव बहिरागतो बत तव स्थितेरस्म्यहम् ॥ ३३॥
उपाधित इति ब्रुवे निजमथोऽमलं वेद्म्यहं
त्वयैव निरुपाधिकः सुविमलो भवेयं गुरो ।
असङ्गमभिविद्य भोः सततमत्र मामुद्धर
यदि त्वमहमेव तत्किमिति हातुमर्हो भवेः ॥ ३४॥
स्वदैन्यमपि दर्शितं किल तथावयोर्नान्तरं
त्वयाऽऽवरणनाशनं तदपि चात्मसम्बन्धतः ।
न किं भवसि गोचरो किमति कार्यमेवं पुनः
न वेद्मि कृपयाऽऽदिश त्वमसि भो दयाब्धिः सदा ॥ ३५॥
प्रभो त्यजसि मां हि चेत्तव न दर्शनं दास्यसि
अशक्त इति निर्घृणोऽसि बत तेऽपकीर्तिर्भवेत् ।
मदीयमपि जीवनं भवति गर्हितं लौकिकै-
र्जहीहि न च मां गुरो करुणयैव चाङ्गीकुरु ॥ ३६॥
वदेयमिति किं प्रभो सकलहृद्गतं वेत्सि यत्
स्तुवे किमधिकं स्तुतेः श्रुतिरहो गुरो त्वां सदा ।
अनेकसुगुणैर्वृता मदधिकाश्च भक्तास्तव
त्वमेव भुवि केवलो मम तु कोऽपि नान्याश्रयः ॥ ३७॥
विचार्य सकलं प्रभो कुरु तथा यथा त्वन्मति-
र्बलात्किमिह शक्यते सविनयेन भोः प्रार्थये ।
अनाथमभिविद्य मां कुरु सनाथमस्मिञ्जने
गुरोऽतिदययाशु ते चरणदर्शनं देहि मे ॥ ३८॥
सनातन इति श्रुतो भवति विश्वसेतुस्तु यः
भवत्प्रभवपावनोऽपि भुवि नष्टकल्पोऽभवत् ।
समानगुणशीलयोर्भवति नौनहानं हितं
यथाहमधुना तथैव बत सोऽपि धर्मो बलः ॥ ३९॥
यदाहमिति चोद्धृतो भवति सोऽपि सन्तारितः
प्रभो करुणयाऽवयोः कुरु विचार्य संरक्षणम् ।
त्वदीयपददर्शनं हि तव शक्तिदानं बृह-
त्त्वदीय करुणाबलं जगति तेऽवतारो ध्रुवम् ॥ ४०॥
न वेदविधिराश्रमो विमलकर्मवर्णोऽथवा
विधर्मवशवर्तिनं तु बहुमान्यतेऽत्राधुना ।
सतीत्वमपि लाञ्छितं किल विडम्बनं दुःसहं
प्रभो स्वजनरक्षणे किमिति शङ्कसेऽद्यापि हि ॥ ४१॥
स्वभक्तजनदुर्दशा कथमियं च सह्या तव
मुमुक्षुजनजीवनं बहुविधैव विघ्नावृतम् ।
विलोक्य परमार्थिनं बत हसन्ति निन्दन्ति च
सुरा अपि चलन्ति भो बहुबलाच्च कामादिभिः ॥ ४२॥
अतीव खलु दुर्जया सततदूषिता दुश्चरा
सदैव सुसमाहिता विषयवासनाऽऽयोजने ।
अहो दुरितरूपिणी तनुमतिस्त्वविद्या प्रभो
तवैव कृपया विना न च कदापि शाम्येद्गुरो ॥ ४३॥
कलौ तु परमार्थिनां जगति जीवनं कष्टदं
अहं खलु न तत्सहे तव तदर्थमेवाश्रयः ।
परस्वहितकारिणस्त्वमिह मे सहायो भव
गुरोतिदयया युतस्तव पदाम्बुजं दर्शय ॥ ४४॥
स्वयं हि न सहायकृद्धवसि साधकानां यदि
वृथा किमिति राजसे त्वमिह दत्तनाम्ना भुवि ।
अनन्तसुखरूपिणः पतितपावनस्य प्रभोः
किमीप्सितसुखं च ते जगति जीवमोक्षादृते ॥ ४५॥
क्षमस्व दयया युतो यदि भवेद्दुरुक्तिर्मम
क्षमस्व च गुरो कुतोऽपि विनयस्य भङ्गो यदि ।
न हेतुरिह मे प्रभो भवति तादृशो वेत्सि मां
त्वमेव मम जीवनं गतिरपीह चात्मा ध्रुवम् ॥ ४६॥
दयाब्धिरमितोऽसि भोः सकलभूतवासो गुरुः
स्वतन्त्रसकलार्थवित्सुनिपुणो जगत्पावनः ।
तवात्र जगतीतले प्रकटितं च यत्स्वेञ्च्छया
स्वभक्तजनमुक्तये स्फुटमिदं हि दत्त प्रभो ॥ ४७॥
विलम्बय जगद्गुरो क्षणमपीह मा धावने
त्वदीयपददर्शनाज्जगति मां सनाथं कुरु ।
अपावृणु विमोहनं सकलमायिकं बन्धनं
त्वदीयसकलात्मके स्थिरपदे च मां स्थापय ॥ ४८॥
त्वदीयपददर्शनात्सकलदुःखशान्तिर्नृणां
त्वदीयपदपङ्कजं दहति दुष्कृतं सञ्चितम् ।
कथं वसति तत्तृणं धगधगायमानेऽनले
कथं स्थिरपदं तमो गगनमध्यसूर्यातपे ॥ ४९॥
किमर्थमिति विशङ्कसे न स किमर्थमायासि भो
न जीवति सुदुष्कृतं किमपि चेत्तवाग्रे गुरो ।
किमस्ति खलु विघ्नकृत्प्रतिविधातुमत्र प्रभो
त्वमेव परमं बृहत्तव समो न को वाऽधिकः ॥ ५०॥
न देवरजनीचरौ मनुजवन्ययक्षादिका ः
क्षमाश्च खलु वारणे मनसि चेत्तवास्ति प्रभो ।
विधेर्न च कुयोगतो न च भवेद्ग्रहादेस्तथा
किमस्ति बत विघ्नकृत्तव न दर्शनं सद्गुरो ॥ ५१॥
न कर्मसचिवोऽसि भोः न घटिमीक्षसे चेत्प्रभो
न योग इति वक्षि चेत्तदपि ते न युक्तं भवेत् ।
स्वतन्त्रनिरुपाधिकः सकलमङ्गलस्त्वं यतः
विमोहय न मां गुरो सपदि दर्शनं देहि मे ॥ ५२॥
किमर्थमिति निर्घृणो भवसि भो दयाब्धे गुरो
दयाब्धिरपि निर्दयो मम न वाग्वदेत्तत्त्वतः ।
किमर्थमतिदुर्लभं चरणदर्शनं ते वद
निरूपयितुमप्यहोऽत्र तव हेतुमाया हि भो ॥ ५३॥
अहो न च निवारितो भवति संशयोऽयं यदा
न सोऽहमिति वेद यः पशुसमः स वेदो वदत् ।
ऋतं हि कथयामि ते मम न विस्मृतं तन्मनाक्
अहं त्वमिति निश्चयो मम न संशयोऽस्मिन् क्वचित् ॥ ५४॥
न मृत्युवशगो गुरोऽहमिति भेदभावेन भो
न भीरपि भवेत्प्रभो भवति साद्वितीयाद्यतः ।
अहं त्वमिति चेत्कथं चिरयसेऽञ्जसा मां वद
किमर्थमिति संशयो जहिहि ते पदं दर्शय ॥ ५५॥
अहो जगदिदं गुरो विविधनामरूपात्मकं
तथापि निजमातृमेव हि सुवेद्यहं तद्यथा ।
तथैव तव दर्शनान्मम न भिन्नभावं क्वचित्
तथापि जगतीतले भवति तेन कार्यं बृहत् ॥ ५६॥
अधर्मपथगामिनो बहुमतास्त्विदानीन्तनैः
अधर्मरुचयो जना हि बहुशो धुरीणाः प्रभो ।
अहो जगति दुर्लभा भवति तत्त्वदृष्टिर्गुरो
ध्रुवं हि पददर्शनं तव नवावतारो भुवि ॥ ५७॥
गुरो चिरय मा प्रभो त्वरय दर्शनं पाहि मां
ब्रुवे किमधिकं स्तुवे चिरमथो विभोऽस्मात्परम् ।
अतिप्रणतवत्सलोऽसि किल विश्वकल्याणकृत्
मनोभिलषितं तवास्तु निजभूम्नि मां स्थापय ॥ ५८॥
(शार्दूलविक्रीडितवृत्तम्)
अज्ञानान्धनिवारणाम्बरमणिं कामद्विपारिं हरिं
विघ्नव्यालकरालकालगरुडं दुर्दैवदावानलम् ।
हृद्भूमिस्थितवासनानगपविं तापत्रयेन्दुं शिवं
सद्भक्तेप्सितकल्पवृक्षमचलं दत्तावधूतं भजे ॥ ५९॥
(वसन्ततिलकवृत्तम्)
स्तोत्रं च यः पठति भक्तियुतो मनुष्यः
नित्यं त्रिवारमपि दत्तमना विशुद्धः ।
तस्मै ददाति निजदर्शनमात्मनिष्ठां
अह्नाय दत्तगुरुरत्र न चिन्तनीयम् ॥ ६०॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं दत्तप्रार्थनं सम्पूर्णम् ।
दत्तजयन्ति - रचनास्थानं काफि उद्यानं, चिक्कमगळूरु संवत्सरः - १९४३
Proofread by Manish Gavkar