श्रीदत्तप्रार्थनातारावली
%११२
दत्तात्रेय महामाय वेदगेय हतामय ।
अनसूयात्रितनय ममापायं निवारय ॥ १॥
नमो नमस्ते जगदेकनाथ । नमो नमस्ते सुपवित्रगाथ ।
नमो नमस्ते जगतामधीश । नमो नमस्तेऽस्तु परावरेश ॥ २॥
त्वत्तोऽखिलं जातमिदं हि विश्वम् । त्वमेव सर्वं परिपासि विश्वम् ।
त्वं शक्तितो धारयसीह विश्वम् । त्वमेव भो संहरसीश विश्वम् ॥ ३॥
त्वं जीवरूपेण हि सर्व विश्वम् । प्रविष्ट सञ्चेष्टयसे न विश्वम् ।
स्वतन्त्रमत्राखिललोकबन्धो । कारुण्यसिन्धो परबोधसिन्धो ॥ ४॥
यो ब्रह्मरूपेण सृजत्यशेषम् । यो विष्णुरूपेण च पात्यशेषम् ।
यो रुद्ररूपेण च हन्त्यशेषम् । दुर्गादिरूपैः शमयत्यशेषम् ॥ ५॥
यो देवतारूपधरोऽत्ति भागम् । यो वेदरूपोऽपि बिभर्ति यागम् ।
योऽधीशरूपेण ददाति भोगम् । यो मौनिरूपेण तनोति योगम् ॥ ६॥
गायन्ति यं नित्यमशेषवेदाः । यजन्ति नित्यं मुनयोऽस्तभेदाः ।
ब्रह्मादिदेवा अपि यं नमन्ति । सर्वेऽपि ते लब्धहिता भवन्ति ॥ ७॥
यो धर्मसेतून्सुदृढान्बिभर्ति । नैकावतारान्समये बिभर्ति ।
हत्वा खलान्योऽपि सतो बिभर्ति । यो भक्तकार्यं स्वयमातनोति ॥ ८॥
स त्वं नूनं देवदेवर्षिगेयो । दत्तात्रेयो भावगम्योऽस्यमेयः ।
ध्येयः सर्वैर्योगिभिः सर्वमान्यः । कोऽन्यस्त्राता तारकोधीश धन्यः ॥ ९॥
सजलजलदनीलो योऽनसूयात्रिबालो
विनिहतनिजकालो योऽमलो दिव्यलीलः ॥
अमलविपुलकीर्तिः सच्चिदानन्दमूर्ति-
र्हृतनिजभजकार्तिः पात्वसौ दिव्यमूर्तिः ॥ १०॥
भक्तानां वरदः सतां च परदः पापात्मनां दण्डद-
स्त्रस्तानामभयप्रदः कृतधियां सन्न्यासिनां मोक्षदः ॥
रुग्णानामगदः पराकृतमदः स्वर्गार्थिनां स्वर्गदः
स्वच्छन्दश्च वदोवदः परमुदो दद्यात्स नो बन्धदः ॥ ११॥
निजकृपाकटाक्षनिरीक्षणाद्धरति यो निजदुःखमपि क्षणात् ।
स वरदो वरदोषहरो हरो जयति यो यतियोगिगतिः परा ॥ १२॥
अज्ञः प्राज्ञो भवति भवति न्यस्तधीश्चेत्क्षणेन
प्राज्ञोऽप्यज्ञो भवति भवति व्यस्तधीश्चेत्क्षणेन ॥
मत्र्योऽमत्र्यो भवति भवतः सत्कृपावीक्षणेन
धन्यो मान्यस्त्रिजगति समः शम्भुना त्रीक्षणेन ॥ १३॥
त्वत्तो भीतो देव वातोऽत्र वाति त्वत्तो भीतो भास्करोऽत्राप्युदेति ।
त्वत्तो भीतो वर्षतीन्द्रोदवाहस्त्वत्तो भीतोऽग्निस्तथा हव्यवाहः ॥ १४॥
भीतस्त्वत्तो धावतीशान्तकोऽत्र
भीतस्त्वत्तोऽन्येऽपि तिष्ठन्ति कोऽत्र ॥
मत्र्योऽमत्र्योऽन्येऽपि वा शासनं ते
पाताले वाऽन्यत्र वाऽतिक्रमन्ते ॥ १५॥
अग्निमेकं तृणं दग्धुं न शशाक त्वयार्पितम् ।
वातोऽपि तृणमादातुं न शशाक त्वयार्पितम् ॥ १६॥
विना तवाज्ञा न च वृक्षपर्णं चलत्यहो कोऽपि निमेषमेकम् ।
कर्तुं समर्थो भुवने किमर्थं करोत्यहन्तां मनुजोऽवशस्ताम् ॥ १७॥
पाषाणे कृष्णवर्णे कथमपि परितश्छिद्रहीने न जाने
मण्डूकं जीवयस्यप्रतिहतमहिमाचिन्त्यसच्छक्तिजाने ॥
काष्ठाश्माद्युत्थवृक्षांस्त्र्युदरकुहरगान्जारवीतांश्च गर्भान्नूनं
विश्वम्भरेशावसि कृतपयसा दन्तहीनांस्तथार्भान् ॥ १८॥
करोति सर्वस्य भवानपेक्षा कथं भवत्तोस्य भवेदुपेक्षा ।
अथापि मूढः प्रकरोति तुच्छां सेवां तवोझ्झित्य च जीवितेच्छाम् ॥ १९॥
द्वेष्यः प्रियो वा न च तेऽस्ति कश्चित् त्वं वर्तसे सर्वसमोऽथ दुश्चित् ।
त्वामन्यथा भावयति स्वदोषान्निर्दोषतायां तव वेदघोषः ॥ २०॥
गृह्णासि नो कस्यचिदीश पुण्यं गृह्णासि नो कस्यचिदप्यपुण्यम् ।
क्रियाफलं मास्य च कर्तृभावं सृजस्यविद्वेत्ति न च स्वभावम् ॥ २१॥
मातुः शिशोर्दुर्गुणनाशनाय न ताडने निर्दयता न दोषः ।
तथा नियन्तुर्गुणदोषयोस्ते न दुष्टहत्याऽदयता न दोषः ॥ २२॥
दुर्गादिरूपैर्महिषासुराद्यान् रामादिरूपैरपि रावणाद्यान् ।
अनेकहिंसादिकपापयुक्तान् क्रूरान्सदाचारकथावियुक्तान् ॥ २३॥
स्वपापनाशार्थमनेककल्पान्यास्यन्त एतान्निरयानकल्पान् ।
स्वकीयमुक्तौ निजशस्त्रकृत्तान्कृत्वा भवान्द्या(धा)मनयत्सुपूतान् ॥ २४॥
याऽपाययत्स्तन्यमिषाद्विषं सा लेभे गतिं मात्रुचितां दयालुः ।
त्वत्तोपरः को निजकार्यसक्तस्त्वमेव नित्यं ह्यभिमानमुक्तः ॥ २५॥
नो कार्यं करणं च ते परगते लिङ्गं कला नापि ते
विज्ञाता त्वदमेय नान्य इति ते तत्त्वं प्रसिद्धं श्रुतेः ॥
नेशस्ते जनिताधिकः सम उतान्यः कश्चनास्ति प्रभुर्दत्तात्रे
य गुरो निजामरतरो त्वं सत्यमेको विभुः ॥ २६॥
भोगार्थं सृजसीति कोऽपि वदति क्रीडार्थमित्थं परे
ते केच्छास्ति समाप्तकाम महिमानं नो विदुर्हीतरे ॥
केपीदं सदसद्वदन्त्वितरथा वामास्तु मेतत्कथा-
पन्था मे श्रुतिदर्शितस्तव पदप्राप्त्यै सुखोऽन्ये वृथा ॥ २७॥
सोऽनन्यभक्तोऽस्य तु पर्युपासको नित्याभियुक्तो यमुपैत्यभेदतः ।
तत्प्रीतयेऽसौ भवतात्समर्थनातारावली तत्पदभक्तिभावना ॥ २८॥
इति श्रीवासुदेवानन्दसरस्वतीविरचिता प्रार्थनातारावली सम्पूर्णा ।