सर्वविधदेवानां स्तोत्रसङ्ग्रहः

सर्वविधदेवानां स्तोत्रसङ्ग्रहः

प्रभाते करदर्शनम् ।

कराग्रे वसते लक्ष्मी करमध्ये सरस्वती । करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥

भगवद्भक्तस्मरणम् ।

प्रह्लादनारदपराशरपुण्डरीक- व्यासाऽम्बरीषशुकशौनकभीष्मदाल्भ्यान् । रुक्माङ्गदाऽर्जुनवसिष्ठविभीषणादीन् पुण्यानिमान् परमभागवतान् स्मरामि ॥

पिप्पलस्तुतिः ।

अश्वत्थ हुतभुग्वास गोविन्दस्य गदाप्रिय । अशेषं हर मे पापं वृक्षराज! नमोऽस्तु ते ॥ १॥ मूले ब्रह्मा त्वचि विष्णुः शाखायां शङ्कर एव च । पत्रे पत्रे सर्वदेवा वासुदेवाय ते नमः ॥ २॥

गरुडस्तुतिः ।

श्रीविष्णुवाहनं प्रणमामि भवत्या सर्पाशनं दुःखहरं खगेशम् । मनोहरे वासुसमानवेगं छन्दोमयं ज्ञानधनं प्रशान्तम् ॥ १॥ विष्णुपुत्राय शान्ताय बलबुद्धियुताय च । पक्षीन्द्रायाऽतिवेगाय गरुडाय नमो नमः ॥ २॥

दीपस्तुतिः ।

दीपो ज्योतिः परं ब्रह्म दीपो ज्योतिर्जनार्दनः । दीपो हरतु मे पापं सन्ध्यादीप ! नमोऽस्तुते ॥ १॥ शुभं करोतु कल्याणमारोग्यं सुखसम्पदाम् । मम बुद्धिप्रकाशं च दीपज्योति ! नमोऽस्तु ते ॥ २॥ शुभं भवतु कल्याणमारोग्यं पुष्टिवर्धनम् । आत्मतत्त्वप्रबोधाय दीपज्योतिर्नमोऽस्तु ते ॥ ३॥

तुलसीस्तुतिः ।

देवैस्त्वं निर्मिता पूर्वमर्चिताऽसि मुनीश्वरैः । नमो नमस्ते तुलसि! पापं हर हरिप्रिये ॥ १॥ यन्मूले सर्वतीर्थानि यन्मध्ये सर्वदेवताः । यदग्रे सर्ववेदाश्च तुलसि! त्वां नमाम्यहम् ॥ २॥

हनुमत्स्तुतिः ।

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ १॥ उल्लङ्घ्य सिन्धोः सलिलं सलीलं य शोकवह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ २॥

कुबेरस्तुतिः ।

धनाध्यक्षाय देवाय नरयानोपवेशिने । नमस्ते राजराजाय कुबेराय महात्मने ॥

शङ्खस्तुतिः ।

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । निर्मितः सर्वदेवैश्च पाञ्चजन्य! नमोऽस्तुते ॥

दत्तात्रेयस्तुतिः ।

पीताम्बरालङ्कृतपृष्ठभागं भस्मावगुण्ठाऽखिलरुक्मदेहम् । विद्युत्सदापिङ्गजटाभिरामं श्रीदत्तयागीशमहंनतोऽस्मि ॥ १॥ ब्रह्मानन्दं परमसुखदं केक्त्यं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशंतत्त्वमस्यादिलक्ष्यम् । एक नित्यं विमलमचलं सर्वधीसाक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ २॥

भगवत्स्तुतिः ।

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ १॥ पिता माता गुरुर्भ्राता सखा बन्धुस्त्वमेव मे । विद्या सत्कर्म वित्तं च पुरस्पृष्ठे च पार्श्वयोः ॥ २॥

नवनागस्तुतिः ।

अनन्तं वासुकिं शेषंपद्मनाभं च कम्बलम् । शङ्खपालं धृतराष्ट्रं तक्षकं कालियं तथा ॥ १॥ एतानि नवनामानि नागानां च महात्मनाम् । सायङ्काले पठेन्नित्यं प्रातःकाले विशेषतः । तस्य विषभयं नास्ति सर्वत्र विजयी भवेत् ॥ २॥

मुकुन्दस्तुतिः ।

करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् । वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥

अन्नपूर्णास्तुतिः ।

अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे । ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वति ॥

शीतलास्तुतिः ।

शीतले त्वं जगन्माता शीतले त्वं जगत्पिता । शीतले त्वं जगद्धात्री शीतलायै नमो नमः ॥ १॥ वन्देऽहं शीतलां देवीं रासभस्थां दिगम्बराम् । मार्जनींकलशोपेतां शूर्पालङ्कृतमस्तकाम् ॥ २॥ वन्देऽहं शीतलां देवीं सर्वरोगभयापहाम् । यामासाद्य निवर्तेत विस्फोटकभयं महत् ॥ ३॥

लेखनीस्तुतिः ।

कृष्णानने द्विजह्वे च चित्रगुप्तकरस्थिते । सदक्षराणां पत्रे च लेख्यं कुरु सदा मम ॥

कालीस्तुतिः ।

काली काली महाकाली कालिके परमेश्वरी । सर्वानन्दकरे देवि नारायणि! नमोऽस्तु ते ॥

महाकालीस्तुतिः ।

या कालिका रोगाहरा सुवन्द्या वैश्यैः समस्तैर्व्यवहारदक्षैः । जनैर्जनानां भयहारिणी च सा देवमाता मयि सौख्यदात्री ॥

महालक्ष्मीस्तुतिः ।

वन्दे लक्ष्मीं परशिवमयीं शुद्धजाम्बूनदाभां तेजोरूपां कनकवसनां सर्वभूषोज्ज्ववलाङ्गीम् । बीजापूरं कनककलशं हेमपद्मं दधाना- माद्यां शक्तिं सकलजननीं विष्णुवामाङ्कसंस्थाम् ॥ १॥ सुराःऽसुरेन्द्रादिकिरीटमौक्तिकैर्युक्तं सदा यत्तव पादपङ्कजम् । परावरं पातु वरं सुमङ्गलं नमामि भक्त्या तव कामसिद्धये ॥ २॥ भवानि त्वं महालक्ष्मीः सर्वकामप्रदायिनि । सुपूजिता प्रसन्ना स्यान्महालक्ष्म्यै नमोऽस्तु ते ॥ ३॥

महासरस्वतीस्तुतिः ।

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् । हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ १॥ या कुन्देन्दुतुषारहार धवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माऽच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ २॥ वीणाधरे विपुल मङ्गलदानशीले कीर्तिप्रदेऽखिलमनोरथदे महार्हे विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥ ३॥ शारदा शारदाम्भोजवदना वदनाम्बुजे । सर्वया सर्वदाऽस्माकं सन्निधिं सन्निधिं क्रियात् ॥ ४॥

जन्मभूमिदर्शनफलम् ।

कपिलागोसहस्रं च यो ददाति दिनेदिने । तत्फलं समवाप्नोति जन्मूभूमेः प्रदर्शनात् ॥ १॥ जन्मान्तरसहस्रेण यत्पापं समुपार्जितम् । तत्सर्वं नाशमाप्नोति जन्मभूमेः प्रदर्शनात् ॥ २॥ पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् । मोक्षार्थी मोक्षमाप्नोति जन्मभूमेः प्रदर्शनात् ॥ ३॥

भैरवस्तुतिः ।

करकलितकपालः कुण्डली दण्डपाणि- स्तरुणतिमिरनीलव्यालयज्ञोपवीती । क्रतुसमयसपर्या विघ्नविच्छेदहेतु- र्जयति वटुकनाथः सिद्धिदः साधकानाम् ॥

पाण्डुरङ्गस्तुतिः ।

समचरणसरोजं सान्द्रनीलाम्बुदाभं जघननिहितपाणिं मण्डनं मण्डनानाम् । तरुणतुलसिमालाकन्धरं कञ्जनेत्रं सदयधवलहासं विट्ठलं चिन्तयामि ॥

रामचन्द्रस्तुतिः ।

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलदलस्पर्द्धिनेत्रं प्रसन्नम् । वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ॥ १॥ कल्याणानां निधानं कलिमलमथनं पावनं पावनानां पाथेयं यन्मुमुक्षोः सपदि परमपदप्राप्तये प्रस्थितस्य । विश्रामस्थामेकं कविवरवचसां जीवनं सज्जनानां बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम ॥ २॥ राज्यं येन पटान्तलग्नतृणवत्त्यक्तं गुरोराज्ञया पाथेयं परिगृह्य कार्मुकवरं घोर वनं प्रस्थितः । स्वाधीनः शशिमौलिचापविजये प्राप्तो न वै विक्रियां पायाद् वः स विभीषणाग्रजनिहा रामाभिधानो हरिः ॥ ३॥

कृष्णस्तुतिः ।

श्रियाश्लिष्टो विष्णुः स्थिरचरगुरुर्वेदविषयो धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयनः । गदी शङ्खी चक्री विमलवनमाली स्थिररुचिः शरण्यो लोकेशो मम भवतु कृष्णोऽक्षि विषयः ॥

विष्णुस्तुतिः ।

यं शैवाःसमुपासते शिव इति ब्रह्मेति वेदान्तिनो बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः । अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ॥ १॥ यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवै- र्वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः । ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो यस्याऽन्तं न विदुः सुराऽसुरगणाः देवाय तस्मै नमः ॥ २॥ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ ३॥ नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे । सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ॥ ४॥ आकाशात् पतितं तोयं यथा गच्छति सागरम् । सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥ ५॥ इति विष्णुस्तुतिः समाप्ता ।

शिवस्तुतिः ।

कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् । सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥ १॥ असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे सुरतरुवरशाखालेखनीपत्रमूर्वी । लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीशपारं नयाति ॥ २॥ वन्दे देवमुमापतिं सुरुगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् । वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ३॥ स्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचरा- श्चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः । अमङ्गल्यं शीलं तव भवतु नामैवमखिलं तथाऽपि स्मर्तृणां वरद परमं मङ्गलमसि ॥ ४॥ निरावलम्बस्य ममाऽवलम्बं विपाटिताशेषविपत्कदम्बम् । मदीयपापाचलपातशम्बं प्रवर्ततां वाचि सदैव बं बम् ॥ ५॥ पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः । त्राहि मां पार्वतीनाथ! सर्वपापहरो भव ॥ ६॥ इति शिवस्तुतिः समाप्ता ।

बुद्धस्तुतिः ।

ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं पश्याऽनङ्गशरातुरं जनमिमं त्राताऽपि नो रक्षसि । मिथ्याकारुणिकोऽसि निर्घृणतरस्त्वत्तः कुतोऽन्यः पुमान् । शश्वन्मारवधूभिरित्यभिहितो बुद्धो जिनः पातु वः ॥

जिनस्तुतिः ।

आबाहूद्गतमण्डलाग्ररुचयः सन्नद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः । उत्सृष्टाम्बरदृष्टिविभ्रमभरा यस्य स्मराग्रेसरा योधा वारवधूस्तनाश्च न दधुः क्षोभं स वोऽव्याज्जिनः ॥

जिनेन्द्रस्तुतिः ।

सम्पूजकानां प्रतिपालकानां यतीन्द्रसामान्यतपोधनानाम् । देशस्य राष्ट्रस्य पुरस्य राज्ञः करोतु शान्तिं भगवान् जिनेन्द्रः ॥

महावीरस्तुतिः ।

यदीये चैतन्ये मुकुर इव भावाश्चिदचितः समं भ्रान्तिं ध्रौव्यव्ययजनिलसन्तोऽन्तरहिताः । जगत्साक्षी मार्गप्रकटनपरो भानुरिव यो महावीरः स्वामी नयनपथगामी भवतु मे ॥

सत्यरूपस्तुतिः ।

सत्यरूपं सत्यसन्धं सत्यनारायर्ण हरिणे यत्सत्यत्वेन जगतस्तं सत्यं त्वां नमाम्यहम् ॥ १॥ त्रैलोक्यचैतन्यमयादिदेव! श्रीनाथ! विष्णो! भवदाज्ञया वै प्रातः समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्तयिष्ये ॥ २॥

दुःस्वप्ननाशनसूर्यस्तुतिः ।

आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः । तृतीयं भास्करः प्रोक्तं चतुर्थं च प्रभाकरः ॥ १॥ पञ्चमं च सहस्रांशुः षष्ठं चैव त्रिलोचनः । सप्तमं हरिदश्वश्च अष्टमं च विभावसुः ॥ २॥ नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः । एकादशं त्रयीमूर्तिर्द्वादशं सूर्य एव च ॥ ३॥ द्वादशैतानि नामानि प्रातःकाले पठेन्नरः । दुःस्वप्ननाशनं सद्यः सर्वसिद्धिः प्रजायते ॥ ४॥

दुःस्वप्ननाशनदेवस्मरणम् ।

अविमुक्तचरणयुगलं दक्षिणमूर्तेश्च कुक्कुटचतुष्कम् । स्मरणं वाराणस्यां निहन्ति स्वप्नमशकुनं च ॥

सप्तचिरञ्जीविस्तुतिः ।

अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः । कृपः परशुरामश्च सप्तैते चिरजीविनः ॥ १॥ सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् । जीवेद् वर्षशतं सोऽपि सर्वव्याधिविवर्जितः ॥ २॥

पुण्यजनस्तुतिः ।

पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिरः । पुण्यश्लोका च वैदेही पुण्यश्लोको जनार्दनः ॥

हकारादिपञ्चदेवस्तुतिः ।

हरं हरिं हरिश्चन्द्रं हनुमन्तं हलायुधम् । पञ्चकं हं स्मरेन्नित्यं घोरसङ्कटनाशनम् ॥

पञ्चदेवीस्तुतिः ।

उमा उषा च वैदेही रमा गङ्गेति पञ्चकम् । प्रातरेव स्मरेन्नित्यं सौभाग्यं वर्द्धते सदा ॥

पञ्चकन्यास्तुतिः ।

अहल्या द्रौपदी तारा कुन्ती मन्दोदरी तथा । पञ्चकन्याः स्मरेन्नित्यं महापातकनाशनम् ॥

सप्तर्षिस्मरणम् ।

कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गोतमः । जमदग्निर्वसिष्ठश्च सप्तैते ऋषयः स्मृताः ॥ १॥ तेषां वंशानुवंशानां वेदमन्त्रस्य द्रष्टृणाम् । संस्मरामि सदा चैव भक्त्या धर्ममार्गप्रदर्शकान् ।

सप्तपुरीस्तुतिः ।

अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका । पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः ॥

राजर्षिस्तुतिः ।

कर्कोटकस्य नागस्य दमयन्त्या नलस्य च । ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ॥

अनिरुद्धादिदेवस्तुतिः ।

अनिरुद्धं राजं ग्राहं वासुदेवं महाद्युतिम् । सङ्कर्षणं महात्मानं प्रद्युम्नं च तथैव च ॥ १॥ मत्स्यं कूर्मं च वाराहं वामनं तार्क्ष्यमेव च । नारसिंहं च नागेन्द्रं सृष्टिसंहारकारकम् ॥ २॥ विश्वरूपं हृषीकेशं गोविन्दं मधुसूदनम् । त्रिदशैर्वन्दितं देवं दृढभक्तिमनूपमम् ॥ ३॥ एतानि प्रातरुत्थाय संस्मरिष्यन्ति ये नराः । सर्वपापैः प्रमुच्यन्ते स्वर्गलोकमवाप्नुयुः ॥ ४॥

प्रातर्वन्दनीयस्तुतिः ।

प्रातःकाले पिता माता ज्येष्ठभ्राता तथैव च । आचार्याः स्थविराश्चैव वन्दनीया दिने दिने ॥

प्रातर्दर्शनम् ।

कपिलां दर्पणं धेनुं भाग्यवन्तं च भूपतिम् । आचार्यं अन्नदातारं प्रातः पश्येद् बुधो जनः ॥ १॥ श्रोत्रियं सुभगां गां च अग्निमग्निचितिं तथा । प्रातरुत्थाय यः पश्येदापद्भ्यः स विमुच्यते ॥ २॥

पृथ्वीस्तुतिः ।

स्वर्गैकोभिरदोनिवासिपुरुषारब्धातिशुद्धाध्वर- स्वाहाकारवषट्क्रियोत्थममृतं स्वादीय आदीयते । आम्नायप्रवणैरलङ्कृतजुषेऽमुष्मै मनुष्यैः शुभै- र्दिव्यक्षेत्रसरित्पवित्रवपुषे देव्यै पृथिव्यै नमः ॥ १॥ समुदवसने देवि! पर्वतस्तनमण्डले । विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ २॥

दन्तधावनस्तुतिः ।

आयुर्बल यशो वर्चः प्रजाः पशुवसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वन्नो देहि वनस्पते! ॥

कुम्भस्तुतिः ।

देवदानवसंवादे मथ्यमाने महोदधौ । उत्पन्नोऽसि यदा कुम्भ! विधृतो विष्णुना स्वयम् ॥ १॥ त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः । त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ॥ २॥ शिवः स्वयं त्वमेवाऽसि विष्णुस्त्वं च प्रजापतिः । आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः ॥ त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः ॥ ३॥

षोडशमातृकास्तुतिः ।

गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥ १॥ जयन्ती मङ्गला काली भद्रकाली कपालिनी । दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥ २॥

नवदुर्गानामस्तोत्रम् ।

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी । तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ १॥ पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च । सप्तमं कालरात्रिश्चमहागौरीति चाष्टमम् ॥ २॥ नवमं सिद्धिदात्री च नव दुर्गाः प्रकीर्तिताः । The shloka for each Durga form is given below. Also see navadurgAstotra in Devi section with different verses.

शैलपुत्रीस्तुतिः ।

जगत्पूज्ये जगद्वन्द्ये सर्वशक्तिस्वरूपिणि । सर्वात्मिकेशि! कौमारि! जगन्मातर्नमोऽस्तु ते ॥

ब्रह्मचारिणीस्तुतिः ।

त्रिपुरां त्रिगुणाधारां मार्गज्ञानस्वरूपिणीम् । त्रैलोक्यवन्दितां देवीं त्रिमूर्तिं प्रणमाम्यहम् ॥

चन्द्रघण्टास्तुतिः ।

कालिकां तु कलातीतां कल्याणहृदयां शिवाम् । कल्याणजननीं नित्यं कल्याणीं प्रणमाम्यहम् ॥

कूष्माण्डास्तुतिः ।

अणिमादिगुणौदारां मकराकारचक्षुषम् । अनन्तशक्तिभेदां तां कामाक्षीं प्रणमाम्यहम् ॥

स्कन्दमातास्तुतिः ।

चण्डवीरां चण्डमायां चण्डमुण्डप्रभञ्जनीम् । तां नमामि च देवेशीं चण्डिकां चण्डविक्रमाम् ॥

कात्यायनीस्तुतिः ।

सुखानन्दकरीं शान्तां सर्वदेवैर्नमस्कृताम् । सर्वभूतात्मिकां देवीं शाम्भवीं प्रणमाम्यहम् ॥

कालरात्रिस्तुतिः ।

चण्डवीरां चण्डमायां रक्तबीजप्रभञ्जनीम् । तां नमामि च देवेशीं गायत्रीं गुणशालिनीम् ॥

महागौरीस्तुतिः ।

सुन्दरीं स्वर्णसर्वाङ्गीं सुखसौभाग्यदायिनीम् । सन्तोषजननीं देवीं सुभद्रां प्रणमाम्यहम् ॥

सिद्धिदास्तुतिः ।

दुर्गमे दुस्तरे कार्ये भयदुर्गविनाशिनि । प्रणमामि सदा भक्त्या दुर्गां दुर्गतिनाशिनीम् ॥

सिद्धिलक्ष्मीस्तुतिः ।

आकारब्रह्मरूपेण ओङ्कारं विष्णुमव्ययम् । सिद्धिलक्ष्मि! परालक्ष्मि! लक्ष्यलक्ष्मि! नमोऽस्तु ते ॥ १॥ या श्रीःपद्मवने कदम्बशिखरे राजगृहे कुञ्जरे श्वेते चाऽश्वयुते वृषे च युगले यज्ञे च यूपस्थिते । शङ्खे देवकुले नरेन्द्रभवने गङ्गातटे गोकुले या श्रीस्तिष्ठति सर्वदा मम गृहे भूयात् सदा निश्चला ॥ २॥ या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी गम्भीरावर्तनाभिः स्तनभरनमिता शुद्धवक्त्रोत्तरीया । लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुम्भै- र्नित्यं सा पद्महस्ता मम वसतु गहे सर्वमाङ्गल्ययुक्ता ॥ ३॥

शनिस्तुतिः ।

कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौन्द्रान्तको यमः । सौरिः शनैश्चरो मन्दः पिप्पलाश्रयसंस्थितः ॥ १॥ एतानि शनिनामानि जपेदश्वत्थसन्निधौ । शनैश्चरकृता पीडा न कदाऽपि भविष्यति ॥ २॥

शनिपत्नीनामस्तुतिः ।

ध्वजिनी धामनी चैव कङ्काली कलहप्रिया । कण्टकी कलही चाऽथ तुरङ्गी महिषी अजा ॥ १॥ शनेर्नामानि पत्नीनामेतानि सञ्जपन् पुमान् । दुःखानि नाशयेन्नित्यं सौभाग्यमेधते सुखम् ॥ २॥

ग्रहस्तुतिः ।

ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च । गुरुश्च शुक्रः शनिराहुकेतवः कुर्वन्तु सर्वे मम सुप्रभातम् ॥ The one verse praise for navagrahas is given below under navagrahAH portion for each.

गङ्गास्तुतिः ।

शैलेन्द्रादवतारिणी निजजले मज्जज्जनात्तारिणी पारावारविहारिणी भवभयश्रेणीसमुत्सारिणी । शेषाहेरनुकारिणी हरशिरोवल्लोदलाकारिणी काशीप्रान्तविहारिणी विजयते गङ्गामनोहारिणी ॥

यमुनास्तुतिः ।

अयि मधुरे मधुमोदविलासिनि शैलविहारिणि वेगभरे परिजत्पालिनि दुष्टनिषूदिनि वाञ्छितकामविलासधरे । व्रजपुरवासिजनार्दितपातकहारिणि विश्वजनोद्धरिके जय यमुने जय भीतिनिवारिणिसङ्कटनाशिनि पावय माम् ॥

मालास्तुतिः ।

महामाये महामाले सर्वशक्तिस्वरूपिणि! । चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ १॥ अविघ्नं कुरु माले ! त्वं गृह्णामि दक्षिणे करे । जपकाले च सिद्ध्यर्थं प्रसीद मम सिद्धये ॥ २॥

इन्द्रस्तुतिः ।

ऐरावतसमारूढो वज्रहस्तो महाबलः । शतयज्ञाभिधो देवस्तस्मादिन्द्राय ते नमः ॥

शशाङ्कस्तुतिः ।

ज्योत्स्नानां पतये तुभ्यं ज्योतिषां पतये नमः । नमस्ते रोहिणीकान्त! सुधावास! नमोऽस्तु ते ॥ १॥ नमो मण्डलदीपाय शिरोरत्नाय धूर्जटेः । कलाभिर्वर्द्धमानाय नभश्चन्द्राय चारवे ॥ २॥

नवग्रहाः

रविस्तुतिः ।

ग्रहाणामादिरादित्यो लोकरक्षणकारकः । विषमस्थानसम्भूतां पीडां दहतु मे रविः ॥

चन्द्रस्तुतिः ।

रोहिणीशः सुधामूर्तिः सुधागात्रो सुधाशनः । विषमस्थानसम्भूतां पीडां दहतु मे विधुः ॥

कुजस्तुतिः ।

भूमिपुत्रो महातेजा जगतोभयकृत्सदा । वृष्टिकृद्वृष्टिहर्ता च पीडां दहतु मे कुजः ॥

बुधस्तुतिः ।

उत्पातरूपी जगतां चन्द्रपुत्रो महाद्युतिः सूर्यप्रियकरो विद्वान् पीडां दहतु मे बुधः ॥

गुरुस्तुतिः ।

देवमन्त्री विशालाक्षो सदा लोकहिते रतः । अनेकशिष्यसम्पूर्णः पीडां दहतु मे गुरुः ॥

भृगुस्तुतिः ।

दैत्यमन्त्री गुरुस्तेषां प्रणवश्च महाद्युतिः । प्रभुस्ताराग्रहाणां च पीडां दहतु मे भृगुः ॥

शनिस्तुतिः ।

सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः । मन्दचारः प्रसन्नात्मा पीडां दहतु मे शनिः ॥

राहुस्तुतिः ।

महाशीर्षी महावक्त्रो महादंष्ट्रो महायशाः । अतनुश्चोर्ध्वकेशश्च पीडां दहतु मे तमः ॥

केतुस्तुतिः ।

अनेकरूपवर्णैश्च शतशोऽथ सहस्रशः । उत्पातरूपी घोरश्च पीडां दहतु मे शिखी ॥

सार्धश्लोकी दुर्गा ।

मधुकैटभनाशं च महिषासुरघातनम् । शक्रादिस्तुतिकं चैव दूतसंवाद एव च ॥ १॥ शुम्भराजवधश्चैव नारायणकृतस्तुतिः । सार्धपाठमिदं प्रोक्तं नवपाठफलप्रदम् ॥ २॥

अर्धश्लोकीभागवतम् ।

श्लोकार्धे तथा प्रोक्तं भगवत्याऽखिलार्थदम् । सर्वं खल्विदमेवाऽहं नाऽन्यदस्ति सनातनम् ॥

अनन्तस्तुतिः ।

अनन्तसंसारमहासमुद्रे मग्नं समभ्युद्धर वासुदेव! । अनन्तरूपे विनियोजयस्व अनन्तसूत्राय नमो नमस्ते ॥

दशमहाविद्यानामानि ।

काली तारा महाविद्या षोडशी भुवनेश्वरी । भैरवी छिन्नमस्तां च विद्या धूमावती तथा ॥ १॥ बगला सिद्धिविद्या च मातङ्गी कमलात्मिका । एता दशमहाविद्याः सिद्धिविद्याः प्रकीर्तिताः ॥ २॥ The shlokas for each dashamahAvidyA form are given below. Also see dashamahavidya section under devii dropdown menu for different extended hymns.

कालीस्तुतिः ।

रक्ताऽब्धिपोतारुणपद्मसंस्थां पाशाङ्कुशेष्वासशराऽसिबाणान् । शूलं करालं दधतीं कराऽब्जै रक्तां त्रिनेत्रां प्रणमामि देवीम् ॥

तारास्तुतिः ।

मातर्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदे प्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे । फुल्लेन्दीवरलोचने त्रिनयने कर्त्री कपालोत्पले खड्गञ्चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये ॥ १॥ वाचामीश्वरि भक्तकल्पलतिके सर्वार्थसिद्धीश्वरि ! गद्यप्राकृतपद्यजातरचनासर्वार्थसिद्धिप्रदे! । नीलेन्दीवरलोचनत्रययुते कारुण्यवारान्निध! सौभाग्यामृतवर्द्धनेन कृपया सिञ्चत्वमस्मादृशम् ॥ २॥

षोडशीस्तुतिः ।

बालव्यक्तविभाकरामितनिभां भव्यप्रदां भारतीं ईषत्फुल्लमुखाम्बुजस्मितकरैराशाभवान्धापहाम् । पाशं साभयमङ्कुशं च वरदं संविभ्रतीं भूतिदा भ्राजन्तीं चतुरम्बुजाकृतिकरैर्भक्त्या भजे षोडशीम् ॥ १॥ बालार्कमण्डलाभासां चतुर्वाहुं त्रिलोचनाम् । पाशाऽङ्कुशशरांश्चापं धारयन्तीं शिवां भजे ॥ २॥

भुवनेश्वरीस्तुतिः ।

उद्यद्दिनद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् । स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम् ॥ १॥ जगज्जनानन्दकरीं जयाख्यां यशस्विनीं यन्त्रसुयज्ञयोनिम् । जितामितामित्रकृतप्रपञ्चां भजामहे श्रीभुवनेश्वरी ताम् ॥ २॥ हरौ प्रसुप्ते भुवनत्रयान्ते अवातरन्नाभिजपद्मजन्मा । विधिस्ततोऽन्धे विदधारयत्पदं भजामहे श्रीभुवनेश्वरीं ताम् ॥ ३॥

छिन्नमस्तास्तुतिः ।

नाभौ शुद्धसरोजवक्त्रविलसद्बन्धूकपुष्पारुणं भास्वद्भास्करमण्डलं तदुदरे तद्योनिचक्रं महत् । तन्मध्ये विपरीतमैथुनरतप्रद्युम्नसत्कामिनी- पृष्ठस्थां तरुणार्ककोटिविलसत्तेजःस्वरूपां भजे ॥

त्रिपुरभैरवीस्तुतिः ।

उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् । हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं देवीं बद्धहिमांशुरत्नमुकुटां वन्दे समन्दस्मिताम् ॥ ( var वन्देऽरविन्दस्थिताम्)

धूमावतीस्तुतिः ।

प्रातर्या स्यात् कुमारो कुसुमकलिकया जापमाला जपन्ती मध्याह्ने प्रौढरूपाविकसितवदना चारुनेत्रा निशायाम् । सन्ध्यायां वृद्धरूपा गलितकुचयुगा मुण्डमालां वहन्ती सा देवी देवदेवी त्रिभुवनजननी कालिका पातु युष्मान् ॥

बगलास्तुतिः ।

मध्ये सुधाब्धिमणिमण्डपरत्नवेद्यां सिंहासनोपरिगतां परिपीतवर्णाम् । पीताम्बराभरणमाल्यविभूषिताङ्गीं देवीं स्मरामि धृतमुद्गरवैरिजिह्वाम् ॥ १॥ चलत्कनककुण्डलोल्लसितचारुगण्डस्थलां लसत्कनकचम्पकद्युतिमदिन्दुबिम्बाननाम् । गदाहतविपक्षकां कलितलोलजिह्वा चलां स्मरामि बगलामुखीं विमुखवाङ्मनःस्तम्भिनीम् ॥ २॥ जिह्वाग्रमादाय करेण देवीं वामेन शत्रून् परिपीडयन्तीम् । गदाभिघातेन च दक्षिणेन पीताम्वराढ्यां द्विभुजां नमामि ॥ ३॥ प्रभातकाले प्रयतो मनुष्यः पठेत् सुभक्त्या परिचिन्त्य पीताम् । द्रुतं भवेत् तस्य समस्तवृद्धिर्विनाशमायाति च तस्य शत्रुः ॥ ४॥

मातङ्गीस्तुतिः ।

श्यामां शुभ्रांशुभालां त्रिकमलनयनां रत्नसिंहासनस्थां भक्ताभीष्टप्रदात्रीं सुरनिकरकरासेव्यकञ्जाङ्रिघ्रयुग्माम् । नीलाम्भोजांशुकान्तिं निशिचरनिकरारण्यदावाग्निरूपां पाशं खड्गं चतुर्भिर्वरकमलकरैः खेटकं चाङ्कुशं च ॥ १॥ नमस्ते मातङ्ग्यै मृदुमुदिततन्वै तनुमतां परश्रेयोदायै कमलचरणध्यानमनसाम् । सदा संसेव्यायै सदसि विबुधैर्दिव्यधिषणै- र्द्रयाद्रायै देव्यै दुरितदलनोद्दण्डमनसे ॥ २॥

कमलात्मिकास्तुतिः ।

ध्यानम् - कान्त्या काञ्चनसन्निभां हिमगिरिप्रख्यश्चतुर्भिर्गजै- र्हस्तोत्क्षिप्तहिरण्मयाऽमृतघटैरासिच्यमानां श्रियम् । बिभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वलां क्षौमाबद्धनितम्बबिम्बललितां वन्देऽरविन्दस्थिताम् ॥ स्तुतिः - त्रैलोक्यपूजिते देवि! कमले विष्णुवल्लभे! । यथा त्वमचला कृष्णे तथा भव मयि स्थिरा ॥ १॥ ईश्वरी कमला लक्ष्मीश्चला भूतिर्हरिप्रिया । पद्मा पद्मालया सम्यगुच्चैः श्रीपद्मधारिणी ॥ २॥ द्वादशैतानि नामानि लक्ष्मीं सम्पूज्य यः पठेत् । स्थिरा लक्ष्मीर्भवेत् तस्यपुत्रदारादिभिः सह ॥ ३॥ इति श्रीकमलात्मिकास्तुतिः समाप्ता । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : Stutisangraha Short Hymns of Various Deities
% File name             : devadevatAstutisangrahaH.itx
% itxtitle              : devadevatAstutisaNgrahaH
% engtitle              : Stutisangraha Short Hymns of Various Deities
% Category              : deities_misc, vishhnu, shiva, navagraha, devii, misc, dashamahAvidyA, sangraha, devI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : Brihat Stotra Ratnakar Shivadutta Shastri (Ed.)
% Latest update         : February 24, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org