वसिष्ठगणपतिमुनिविरचिता गीतमाला

वसिष्ठगणपतिमुनिविरचिता गीतमाला

१. प्रथमम् । अग्निगीतम् ॥

वाचमधितिष्ठज्ज्योतिरपि भौमम् । किञ्चिदपि दैवं गेयमविरामम् ॥ १॥ स क्रतुषु होता विप्रमुखवासी । अत्ति च स हव्यं वेदितलभासी ॥ २॥ पावक वसुस्त्वं ज्वालशतमाली । कश्चिदसि रुद्रः शास्त्रशतशाली ॥ ३॥ पावक यदास्ये भासि मनुजानाम् । ते तदिह राज्यं बिभ्रति पशूनाम् ॥ ४॥ अस्मि तव दास्ये सञ्चर मदास्ये । सत्सदसि मोहं यामि न यथाहम् ॥ ५॥ नास्ति शरणं मे कोऽप्यवनिपृष्ठे । अग्निमवनार्थी देवमुपतिष्ठे ॥ ६॥ अस्ति करमाली कोऽपि दिवि राजा । एष ननु कीली भाति भुवि राजा ॥ ७॥ आह्वयति भानुं प्रातरशनाय । त्वामनल यज्वा सायमशनाय ॥ ८॥ एकममृतत्वां प्रातरपि सायम् । श्रोतुमयि वाणीराह्वयति सोऽयम् ॥ ९॥ दीप्ततरकील त्वं भजसि हव्यम् । नेतरयि वाचां स्तोत्रमपि भव्यम् ॥ १०॥ अस्मि न समर्थो यज्ञमयि कर्तुम् । स्तोत्रमवलम्बे शर्म तव भर्तुम् ॥ ११॥ पार्थिवविभूतिस्त्वं पचनकारी । वैद्युतविभूतिर्वाक्पटलधारी ॥ १२॥ त्वं पचनकारी भास्युदरभाण्डे । वाक्पटलधारी देव कुलकुण्डे । १३॥ भास्युदर भाण्डे भासि कुलकुण्डे । किं च हृदि जीवो भास्यनल पिण्डे । १४॥ स्वस्य हृदि रूपं त्वामनल लोके । भामि विमलोऽयं धाम्नि गतभीके ॥ १५॥ त्वां तमहमर्थं यः स्मरति नित्यम् । पावक विशोकः पश्यति स सत्यम् ॥ १६॥ यत्स्फुरणमन्तः स्वस्य धुतपापम् । ध्येयमिदमग्ने देव तव रूपम् ॥ १७॥ देव भवसि त्वं वह्निरिह लोके । सर्वद समन्ताद्विद्युदसि नाके । १८॥ अत्र जननी ते भूमिरतिपूता । द्यौरनल देवी तत्र तव माता ॥ १९॥ अत्र वसवस्ते वायुसख हस्ते । वाचमनुभद्रास्तत्र तव रुद्राः ॥ २०॥ अत्र हृदि राजन्राजसि नराणाम् । तत्र वरदान्तः खेलसि सुराणाम् ॥ २१॥ अत्र जगदीश त्वं ज्वलननामा । तत्र मघवा त्वं निःसदृशधामा ॥ २२॥ द्वावनलशक्रौ पामरजनानाम् । स द्वितनुरेकः पण्डितजनानाम् ॥ २३॥ भानुरपि देवो लोक सुहृदेषः । व्यापककृशानो कोऽपि तव वेषः ॥ २४॥ देहि भगवन्मे सम्पदमुदाराम् । बुद्धिमपि वह्ने त्रातरतिधीराम् ॥ २५॥ देव वरदाग्ने त्वं भव ममास्त्रम् । बोधय च मह्यं सर्वमपि शास्त्रम् ॥ २६॥ सुप्रभ घिया त्वां व्याप्तमखिलानि । नौमि सकलानि क्षेमद जयानि ॥ २७॥ गाणपतमग्ने सर्वजनहृद्यम् । भातु भयहारि च्छन्द इदमाद्यम् ॥ २८॥

२. द्वितीयम् । गणपतिगीतम् ॥

भद्रतरमूर्तिं भद्रतमकीर्तिम् । रुद्रतनयं तं गायत महान्तम् ॥ १॥ ज्योतिरिह सूक्ष्मज्वालमतिदीप्तम् । भाति कुलकुण्डे योगिमनुजाप्तम् ॥ २॥ तन्नमत वाचो दैवतमुदारम् । सङ्कटशतानां यातुमिह पारम् ॥ ३॥ तं गणपतिं यो विस्मरति लोके । सन्ततमभाग्यो मज्जति स शोके ॥ ४॥ दम्पतिविहारः शीतशशिखण्डे । नन्दननिवासो दीप्तकुलकुण्डे ॥ ५॥ मित्र कुरु भक्तिं विश्वयुवराजे । देहि हृदमुष्मै योगिनुतिभाजे ॥ ६॥ अत्र सशरीरे मूलशिखिरूपी । योगविमुखो ना विन्दति न पापी ॥ ७॥ ध्यायति सदान्तर्योऽग्रभुजमेतस् । तं भजति देवो सिद्धिरतिपूतम् ॥ ८॥ तस्य वरभासा सन्द्रवति शीर्षम् । यस्य परितप्तं विन्दति सहर्षम् ॥ ९॥ योगविद आहुः शीर्षरसधाराम् । सिद्धिशतहेतुं ताममृतसाराम् ॥ १०॥ पीठमधिरूढं मूलसरसीजम् । सर्वभुवनानां नौमि युवराजम् ॥ ११॥ काचन रुचिस्ते भर्गसुत पूता । मङ्गलसुषुम्नामार्गचरमाता ॥ १२॥ भाग्यमखिलानां देव तव हस्ते । भूरि महिमानं वर्णयतु कस्ते ॥ १३॥ हस्तिवदनो ना सत्वमधिदैवम् । सङ्कटहरार्यैः सङ्गदितमेवम् ॥ १४॥ त्वत्पदसरोजे यस्य हृदि भक्तिः । काऽपि शिवसूनो तद्वचसि शक्तिः ॥ १५॥ त्वं खलु मघोनो धूतसुजनार्तिः । अत्र भुवि काचित्कार्यकरमूर्तिः ॥ १६॥ त्वां भजति गाढप्रीतिरतिशस्ता । सिद्धिरिति लक्ष्मीस्तामरसहस्ता ॥ १७॥ सश्रियमुदारां श्रीहृदयहारी । संवितरतान्मे सर्वबलधारी ॥ १८॥ शीतनगजायाः सूनुरतिहृद्याम् । भूरिकरुणो मे पूरयतु विद्याम् ॥ १९॥ वारणमुखो मे वारयतु कष्टम् । सर्वमपि देयाच्छर्वसुत इष्टम् ॥ २०॥ मां चरणभाजं पापहरनामा । पालयतु शम्भोः सूनुरतिधामा ॥ २१॥ निर्जितजराधिं निर्दलितरोगम् । दन्तिवदनो मे वर्धयतु योगम् ॥ २२॥ सुक्षमतमं मे कष्टहिमभानो । प्राणबलमग्र्यं देहि हरसूनो ॥ २३॥ वाचि मम दिव्यां धेहि निजधाटीम् । सिद्धिमजितास्यै देहि वरचेटीम् ॥ २४॥ हस्तिमुख याचे गाढरसभक्त्या । आविश विभो मां दिव्यनिजशक्त्या ॥ २५॥ देहि निजतेजः किङ्करजनाय । ईश्वर गणानां भारतहिताय ॥ २६॥ सर्वद जनोऽयं वाञ्छति न मुक्तिम् । देशकुशलाय प्रार्थयति शक्तिम् ॥ २७॥ गाणपतमेतद्गीतमतिशुद्धम् । भातु भयहारि च्छन्दसि निबद्धम् ॥ २८॥

३. तृतीयम् । इन्द्रगीतम् ॥

धर्ता सुकृतानां हर्ता दुरितानाम् । भर्ता नभसो मे कर्तास्तु शुभानाम् ॥ १॥ ख्याताऽमितवीर्यो धूताखिलवैरी । नेता विबुधानां त्राता भवतान्मे ॥ २॥ विक्रम्य विधुन्वन्वक्रान्त्समरेषु । चक्रायुधमित्रः शक्रः शरणं नः ॥ ३॥ शक्रः शुभवित्तां लक्ष्मीमनियत्तास् । आनन्दितचित्तां मह्यं भुवि धत्ताम् ॥ ४॥ नाकं त्वमरक्षः पाकं युधि जित्वा । वृत्रं च विधूयामित्रं पविपाणे ॥ ५॥ एतानि विकुर्वन्भूतानि स पाकः । शुभ्रे विफलोऽभूदभ्रे तव जिष्णो ॥ ६॥ पाकः प्रभुरेव प्राणांश्च विकर्तुम् । यद्यम्बरनाथ त्वं न प्रतिकर्तुम् ॥ ७॥ न त्वं यदि रोद्धा वृत्रः परिभूय । प्रज्ञा-मयि विश्वं दद्यात्तिमिराय ॥ ८॥ प्रज्ञामुषसं तां ज्ञं चाजित सूर्यम् । यद्रक्षासि वृत्रात्तत्ते सुरकायम् ॥ ९॥ सम्मोहनशक्तिर्वृत्रस्य तु निद्रा । सम्बोधनशक्तिर्विद्युत्तव भद्रा ॥ १०॥ नादान्तविभास्यं वेदान्तरहस्यम् । मोदान्तरयोधं भेदान्तकमीडे ॥ ११॥ खे वायुमनन्तं रुद्रं निनदन्तम् । भान्तं मघवन्तं वन्दे भगवन्तम् ॥ १२॥ तारं मदनारिं प्राणं पवमानम् । देवं मघवानं ध्यायाम्यतिमानम् ॥ १३॥ वीर्ये सकलं त्वद्देवेश्वर नूनम् । देवासुरमर्त्यैर्युक्तं जगदूनम् ॥ १४॥ निर्जित्य समस्तान्भावानपि जिष्णो । संराड् भुवनानामासीः प्रभविष्णो ॥ १५॥ नाभेत्स्य इमं चेद्वृत्रं दिवि वीरम । नामोक्ष्यदघारे मेघो भुवि नीरम् ॥ १६॥ गोपायासि विश्वं शश्वद्बहुरीतीः । स्वर्नाथ विधुन्वन्वृत्रस्य विभूतीः ॥ १७॥ चत्वारि वपूंषि प्राहुर्मुनयस्ते । येषां जगदेतद्देवाधिप हस्ते ॥ १८॥ रूपाणि विभो ते भूयांसि ततानि । दिङ्भात्रतयाद्यैश्चत्वार्युदितानि ॥ १९॥ सर्वस्य च कर्ता सर्वस्य च धर्ता । प्राणः पुरुहूतः को नाम स गीतः ॥ २०॥ सूत्रं विदुरेके सुश्लोकमनन्तम् । केचिद्विधिमाहुः कं तं भगवन्तम् ॥ २१॥ विश्वस्य निदानं विश्वातिगमानम् । एतं विदुरन्ये वायुं पवमानम् ॥ २२॥ सर्वस्य च नेत्री सर्वैरपि मान्या । गीर्वाणपते ते कालस्तनुरन्या ॥ २३॥ रुद्रं विदुरेके नेतर्बहुलीलम् । प्राहुर्यममन्ये कायं तव कालम् ॥ २४॥ कालोऽयमनादिः सूर्यादपि पूर्वः । भाक्तो जनिवादस्तस्याजर सर्वः ॥ २५॥ सद्व्यापकशक्तिं प्राणं कथयन्ति । व्यक्तेतरशब्दं कालं गणयन्ति ॥ २६॥ व्यक्तेतरशब्दान्नैव प्रणवोऽन्यः । तस्येन्द्र तवाङ्के विश्राम्यति धन्यः ॥ २७॥ सच्छक्तिरभाणि प्राणः परमस्य । चिच्छक्तिरगादि प्राज्ञैः प्रणवोस्य ॥ २८॥ सर्वत्र विसारि ज्योतिस्तटिदाख्यम् । देवेन्द्र शरीरं गीतं तव मुख्यम् ॥ २९॥ प्राणं प्रणवं च ज्योतिश्च विसारि । दैवं नयदेकं वन्दे भवधारि ॥ ३०॥ एकः स तिसॄणामस्थूलतनूनाम् । राजत्यभिमानी राजा भुवनानाम् ॥ ३१॥ दृश्यस्य परस्ताद्ब्रह्मागुणमस्ति । इन्द्राभिधया तत् दृश्येत्र चकास्ति ॥ ३२॥ बन्धुर्भुवनानां सूर्यस्ततकीर्तिः । राजन्नमराणां तुर्या तव मूर्तिः ॥ ३३॥ देव प्रतिबिम्बीभूय प्रसि सूर्यम् । विश्वस्य महेन्द्र त्वं पश्यति कार्यम् ॥ ३४॥ नो केवलमर्के पिण्डेषु च तातः । अन्तः प्रतिबिम्बीभूतः पुरुहूतः ॥ ३५॥ पिण्डे प्रतिबिम्बीभूतं पुरुहूतम् । वैश्वानरमाहुर्लोकत्रयतातम् ॥ ३६॥ नान्यानि किल त्वद्रूपाण्यखिलानि । मायिन्विभवं ते किं वा कथयामि ॥ ३७॥ पाहि त्रिदशानामीशान कृशान्नः । भूयात्तव देव स्तोता बहुलान्नः ॥ ३८॥ सर्वं भवताऽहं पक्षेण जयानि । ईशो भुवि लोके नाकेश भवानि ॥ ३९॥ आविश्य विभो मां कर्तुं भुवि कार्यम् । सम्प्रेषय किञ्चिद्दिव्यं तव वीर्यम् ॥ ४०॥ धाता भुवनानां नेता त्रिदशानाम् । आविश्य विभुर्मामाभातु सुकर्मा ॥ ४१॥ इन्द्रं प्रभजन्तामेतास्तनुमध्याः । नाथं गुणवत्यो यद्वत्तनुमध्याः ॥ ४२॥

४. चतुर्थम् । वायुगीतम् ॥

दिष्टात्पतितोऽहं मन्दे नरवृन्दे । त्राणाय समीरं तं सम्प्रति वन्दे । १॥ तारासुमचित्रं खेलत्खगजालम् । उद्यानमिदं ते खं वात विशालम् ॥ २॥ देवोऽसि बलस्य प्राणोऽस्यखिलस्य । ब्रूयादतिमानं कस्ते महिमानम् ॥ ३॥ भक्त्या तव पुण्यं तुल्यं क्व नु गण्यम् । तद्वक्ति चरित्रं रैक्वस्य पवित्रम् ॥ ४॥ मेयः स च नाकः स्वल्पो नरलोकः । नित्यानिल शुभ्रं निःसीम तवाभ्रम् ॥ ५॥ घुष्यन्नसि रुद्रो दीप्यन्नसि शक्रः । प्राणन्नसि वातस्त्रेघासि नुतोऽतः ॥ ६॥ सर्वाश्च दिशस्ते व्योमेश्वर हस्ते । भाक्ता पुनरेषा कोणेडिति भाषा ॥ ७॥ नित्याध्वग कर्तुं श्रान्ते परिहारम् । वासिष्ठवचोऽम्भो हृद्यं पिब धीरम् ॥ ८॥ अन्नानि कृशानौ जुह्वत्वदरिद्राः । वायो जुहुमोऽमी वाचस्त्वयि भद्राः ॥ ९॥ यद्यप्ययि दिव्यो गुप्तस्तव वेषः । व्योमेश तथाऽपि व्यक्तस्तव घोषः ॥ १०॥ आकाशगृहाणामात्मासि सुराणाम् । वीर्यद्रविणानां कोशोऽसि नराणाम् ॥ ११॥ त्वामाह सरैक्वः संवर्गमनन्तम् । स्वस्मिन्त्सुदृढानां दुःखानि हरन्तम् ॥ १२॥ मूलं तपसां त्वं देवासि ऋषीणाम् । लोके सकलानां हेतुश्च कृषीणाम । १३॥ दानार्थमसूनां प्राप्तक्षितिरङ्गाः । एते तव वाताः खेशान तरङ्गाः ॥ १४॥ आत्मा मरुतां त्वं कैरप्यसि गीतः । कैरप्यधिराजः कैरप्ययि तातः ॥ १५॥ आत्मा मरुतां त्वं गीतः पृषदश्वः । राजा पुरुहूतस्तातो निगमाश्वः ॥ १६॥ वातस्तव वीचिर्विद्युत्तव कायम् । तारस्तव शब्दो देवाधिय सोऽयम् ॥ १७॥ वेदादिमनादिं तारं प्रणवाख्यम् । ध्यायन्ति विदो ये तैः स्यात्तव सख्यम् ॥ १८॥ वातोऽस्यधिभूतं शक्रोऽस्यधिवेदम् । रुद्रोऽस्यधिपिण्डं पक्षान्तरमेवम् ॥ १९॥ गीताः कविराजा सर्वस्तवभाजे । एतास्तनुमध्यास्ताताय खराजे ॥ २०॥

५. पञ्चमम् । सूर्यगीतम् ॥

भुवनत्रयपतिमूर्धजमध्ये दीप्यन्मणिरयमहिममयूखः । भुवनत्रयतोऽप्यधिको मूल्ये भवतां सम्पदमतुलां भणतु ॥ १॥ एतन्मण्डलमतुहिनभानो- र्भासां स्थानं निगमनिधानम् । विप्रैर्वन्द्यं काले काले विश्वप्राणायतनं जयति ॥ २॥ शम्भोः केशे वपुषा केन श्रोत्रे मातुर्वपुषा केन । राजसि नलिनीप्रिय दम्पत्यो- र्भूषणमसि वा पर्यायेण ॥ ३॥ कश्चन दक्षिणनयनं भर्तु- र्मूर्तिं कामपि भणति विदन्यः । अपरो भवनं भुवनं त्वितरः प्राणं दशशतकिरण परस्त्वाम् ॥ ४॥ प्राणिति भवता पश्यति भवता खादति पाति च भुवनं भवता । भाति च भवता भास्कर भवतो माहाभाग्यं न भणिति मार्गे ॥ ५॥ हृदयं यद्वज्जीवानां नो मण्डलमेतन्नाथस्यैवम् । तस्मादेतत्परिदृष्टान्तै- र्हृदयसमष्टिः कथिता शिष्टैः ॥ ६॥ मण्डलमध्ये यत्तज्ज्योति- र्हृदयस्यान्तर्यत्तज्ज्योतिः । भवति तदस्मिन्नक्षिणि गम्यं रम्यं पूर्णं मम खलु काम्यम् ॥ ७॥ क्षेत्रे क्षेत्रे बहुशोऽन्विष्टं लोचनमण्डलामध्ये दृष्टम् । कष्टं गलितं फलितं चेष्टं पुनरस्माकं किं परिशिष्टम् ॥ ८॥ साक्षिणमक्षिणि निश्चलदृष्ट्या निर्मलनभसि स्थितया द्वारा । लक्ष्यं रात्रावपि दिननाथं पश्यत नश्यं मुञ्चत निखिलम् ॥ ९॥ नरकामानामयमिह राजा जागर्त्यक्षिणि सायं पाता । सुरकामानामीशानोऽसौ सूर्ये भाति प्रातः पाता ॥ १०॥ ज्ञानाकारं तेजः पश्य- त्प्रतिबिम्बं वा पुंसो हैमम् । धीरो ध्यायन्नयनस्थाने पाशैर्मुक्तः कृतकृत्यः स्यात् ॥ ११॥ निःशेषाभिः सहितं श्रीभि- र्निर्हतपापे दहरसरोजे । कृतिनः किरणैरङ्गुष्ठाभं तं लोकेरन्पुरुषमणिष्ठम् ॥ १२॥ परमविदुस्त्वां पावकमवनौ दिवि रविमम्बरभुवने शक्रम् । आत्मानं वा ज्योतिर्वैकं जगतां भेदात्कवयस्त्रेधा ॥ १३॥ वैभवशाली दीधितिमाली प्रशमितपापस्त्रिभुवनदीपः । दिवि भाति रविर्यत्राचरत- श्चरतश्चेशितृपरमं ज्योतिः ॥ १४॥ जयति विवस्वान्दशशतधामा जयति च तस्मिन्परमं धाम । पादाकुलकैर्नुतिरदसीया गणपतिमुनिना रचिता जयति ॥ १५॥

६. षष्ठम् । दशावतारगीतम् ॥

वेदचोरमाशरं विमथ्य सोमकं पुरा- युः स्मृतिं ध्रुवां पुनः सुताय भास्वतो ददौ । सिन्धुवारि बन्धुरास नौधरस्तपस्विनां यश्च तं सखे भजस्व झाषवेषमच्युतम् ॥ १॥ मन्दराद्रिधारिणे महेन्द्रकार्यकारिणे मौनिचित्तचारिणे महोग्रपापहारिणे । अञ्जलिं कुरुष्व भोर्हरिल्लतान्तमञ्जुल स्वच्छकीर्तये विलासकच्छपाय विष्णवे ॥ २॥ काञ्चनाक्षमुष्णरश्मिजालया दृशैकया च्यावयन्तमोजसः प्रदीप्तघोरतारया । सान्त्वयन्तमन्यया दयार्द्रया वसुन्धरां शीतलत्विषा हरिं किरिच्छलं स्मरान्तरे ॥ ३॥ प्राणमुज्जहार दैत्यवक्षसो विदारिता द्योनखैरखर्वशक्तिपौरुषोज्वलन्रुषा । आसुरात्कुलाच्छ्रियं सुपर्वचेतसो भियं नारसिंहमूर्तिरार्तिमच्युतः स हन्तु ते ॥ ४॥ त्रीणि यः पदान्यजः समन्ततो विचक्रमे नाङ्गुलं यथात्यरिच्यतात्र दिव्यमुत्र वा । नाकचारिणोऽधिकर्तुमाशु हर्तुमासुरीं सम्पदं च तं परं पुमांसमाश्रयस्व रे ॥ ५॥ योऽर्जुनं भुजावलेन निर्जिगाय दुर्जयं चेतसा वशंवदेन पर्यभूदनन्यजम् । लोभमासमुद्रभूमिदानकर्मणाजय- द्रैणुकेयभूमिकः स ते स्यताद्भियं हरिः ॥ ६॥ वाक्यकृत्सुतः पितुः प्रभुश्च रक्षिता विशा- मग्रजोऽतिवत्सलो नियामकोऽनुजन्मनाम् । श्रीकरः सतां सखा द्विषां च भीकरो रिपुः सीतया कलत्रवान्नरो हरिर्धिनोतु वः ॥ ७॥ भूमिभारवारणाय यो यदुष्वभूद्विभु- र्विस्मयं शिशोश्च यस्य चेष्टितानि तेनिरे । शर्म वः स पूरुषो रथाङ्गमायुधं दध- त्कर्मयोगदेशिकः करोतु पार्थसारथिः ॥ ८॥ भारतं न केवलं चतुःसमुद्रमुद्रितं भूमिखण्डमेव योव्यभूषयन्निजैर्गुणैः । तस्य पूरुषोत्तमस्य बुद्धनामधारिणः पावनी कथा मुदे विदां नदीव नाभसी ॥ ९॥ गायत स्तुताद्रियध्वमाश्रयध्वमुत्तमं पूरुषं पुराणमर्कमण्डलान्तरालयम् । कल्कभारवारणाय कल्किभूमिकाघरो योऽयमस्य भूतलस्य रक्षणाय चेष्टते ॥ १०॥

७. सप्तमम् । अम्बिकागीतम् ॥

सेवकपातकशमनं दैवं मानसवाञ्च्छितफलदं दैवम् । सज्जनरक्षणचतुरं दैवं दुर्जनमर्दनपरुषं देवम् ॥ १॥ भास्करबिम्बे दीप्तं दैवं लोचनमध्ये सुप्तं दैवम् । सितकरमण्डलगुप्तं दैवं त्रिगुणितभुवनव्याप्तं दैवम् ॥ २॥ बहुशतचेटीसहितं दैवं रेणुसमष्ट्या विहितं दैवम् । अम्बरसौधे निहितं दैवं भैरववदनाभिहितं दैवम् ॥ ३॥ असुरुचिपद्याभूतं दैवं वसुरुद्रार्कैर्गीतं दैवम् । क्षितिजलशुचिषु प्रोतं दैवं शितमतिभिः समधीतं दैवम् ॥ ४॥ मृदुहृदयानां सौम्यं दैवं प्रियरूपाणां रम्यं दैवम् । तत्त्वज्ञानां विश्वं दैवं गुणविरुचीनां शून्यं दैवम् ॥ ५॥ चालकमवनेः शक्त्या दैवं शम्पाद्वारा दृश्यं दैवम् । दोग्ध्रीमनुवरवाच्यं दैवं विदधद्विनतमशोच्यं दैवम् ॥ ६॥ शैले शैले विहरद्दैवं विपिने विपिने विचरद्दैवम् । ग्रामे ग्रामे ख्यातं दैवं नगरे नगरे प्रथितं दैवम् ॥ ७॥ परितो योन्नि निराकृति दैवं स्वर्गे पौलोम्याकृति दैवम् । हिमवति गौरीरूपं दैवं तनुषु प्राणाकारं दैवम् ॥ ८॥ अर्धं सुरगिरिधनुषो दैवं भुवनत्रितये पूर्णं दैवम् । हृदि भूतानां किञ्चिद्दैवं तृणवन्मनसि प्रचुरं दैवम् ॥ ९॥ लज्जाभावो ललितं दैवं रसनाभावो भीमं दैवम् । दृष्टौ दृष्टौ सूक्ष्मं दैवं विषये विषये स्थूलं दैवम् ॥ १०॥ स्तोत्रे स्तोत्रे मधुरं दैवं ध्याने घ्याने मदकृद्दैवम् । नमने नमने वरदं दैवं चरिते चरिते पूतं दैवम् ॥ ११॥ आकाशामलगात्रं दैवं तारारविशशिनेत्रं दैवम् । व्यापकपवनश्वसितं दैवं पारावारस्वेदं दैवम् ॥ १२॥ लीलानारीवेषं दैवं दिव्यहिरण्मयभूषं दैवम् । केषाञ्चित्कृतपोषं दैवं केषाञ्चित्कृतशोषं दैवम् ॥ १३॥ पोषविधाने शीतं दैवं शोषविधाने तपनं दैवम् । सर्गविधाने विकसद्दैवं प्रलयविधाने मीलद्दैवम् ॥ १४॥ सोमं पीत्वा पुष्टं दैवं द्विषतो हत्वा हृष्टं दैवम् । भुवनप्रलये शिष्टं दैवं सर्वपदार्थोत्कृष्टं दैवम् ॥ १५॥ कौलाचारिषु माद्यद्दैवं समयाचारिषु शान्तं दैवम् । योगाचारिषु पीनं दैवं ज्ञानाचारिषु लीनं दैवम् ॥ १६॥ कामविरोधि कलत्रं दैवं गणपषडाननपुत्रं दैवम् । पापविदारि पवित्रं दैवं जयति मुनिस्तुतिपात्रं दैवम् ॥ १७॥

८. अष्टमम् । रेणुकागीतम् ॥

सुरशिरश्चरच्चरणरेणुका । जगदधीश्वरी जयति रेणुका ॥ १॥ देवताशिरोदेशलालितम् । रेणुकापदं दिशतु मे मुदम् ॥ २॥ कुण्डलीपुरीमण्डनं महः । किमपि भासतां मम सदा हृदि ॥ ३॥ मस्तकैतवं वस्तु शाश्वतम् । अस्ति मे सदा शस्तदं हृदि ॥ ४॥ आदिनारि ते पादपङ्कजम् । स्फुरतु मे मनः सरसिजे सदा ॥ ५॥ केवलं पदोः सेवकोऽस्मि ते । वेद्मि नेतरद्वेदसन्नुते ॥ ६॥ हृदय तेणुनः समुचितोऽणुना । परिचयोऽम्बिकापादरेणुना ॥ ७॥ पाहि मुञ्च वा पादपङ्कजम् । त्रिदशसन्नुते न त्यजामि ते ॥ ८॥ चरणमम्ब ते यो निषेवते । पुनरयं कुचौ धयति किं कृती ॥ ९॥ अहरहोऽम्ब ते रहसि चिन्तया । धन्यतां गतो नान्यदर्थये ॥ १०॥ स्मरजितो यथा शिरसि जाह्नवी । जननि रेणुके मनसि ते कृपा ॥ ११॥ अम्ब पाहि मां दम्भतापसि । पादकञ्जयोरादिकिङ्करम् ॥ १२॥ पुत्रमात्मनः पुण्यकीर्तने । बहुकृपे कुतो मामुपेक्षसे ॥ १३॥ अम्ब संस्तुते जम्भवैरिणा । पाहि मामिमं मग्नमापदि ॥ १४॥ तत्त्ववादिनः सत्वशालिनि । त्वामजे विदुः सत्स्वरूपिणीम् ॥ १५॥ त्वां प्रचक्षते सदयवीक्षिते । वेदवेदिनो मोदरूपिणीम् ॥ १६॥ संविदं विदुस्त्वामिदं प्रसु । परमयोगिनः परमदेवते ॥ १७॥ जननि कुण्डलीपुरनिवासिनि । परशुरामवत्पश्य मामिमम् ॥ १८॥ तनयरोदनं श्रवणशालिनि । श‍ृणु सुरार्चिते यदि दया हृदि । १९॥ याचकः सुतो भजनमीप्सितम् । तदपि दुर्लभं किमिदमम्बिके ॥ २०॥ मास्तु वेतनं छिन्नमस्तके । भजनमेव ते याच्यते मया ॥ २१॥ तरलतारया जलजदीर्घया । सानुकम्पया शीतपातया ॥ २२॥ केवलं दृशा पश्य रेणुके । तेन मे शुभं न च तवाशुभम् ॥ २३॥ किङ्करीभवत्सुरविलासिनी । जयति कुण्डलीनगरवासिनी ॥ २४॥ मधुरमम्ब ते चरणपङ्कजम् । तत्र यद्रतै स्त्यज्यतेऽखिलम् ॥ २५॥ चरणमम्ब ते चरतु मे हृदि । इयमनामये प्रार्थना मम ॥ २६॥ भुजगकङ्कणप्रभृति संस्तुते । भुजभुवामरेर्जननि पाहि माम् ॥ २७॥ कुण्डलीपुरीमण्डनायिता । गणपतिस्तुता जयति रेणुका ॥ २८॥

९. नवमम् । गुरुगीतम् ॥

अव्यक्ताद्यत एतद्व्यक्तं जातमशेषम् । यद्धत्ते तदजस्रं यत्रान्ते लयमेति ॥ १॥ आधारे खलु यस्मिन्गोलानां सह लक्षैः । ब्रह्माण्डं प्रतितिष्ठत्येतन्निस्तुलसत्वे ॥ २॥ सूर्यादिग्रहभासां यन्मूलं घनतेजः । यद्ब्रह्मादिसुराणां शक्त्यै शक्तिरुताहो ॥ ३॥ ज्ञात्वा तत्त्वमसङ्गा भासा यस्य रमन्ते । यज्जालेन समस्ते द्वैतेक्षाल्पमतीनाम् ॥ ४॥ यद्ध्यानेन भवन्ति स्वात्मानन्दनिमग्नाः । यन्निष्ठा खलु मुक्तिर्यच्छन्दोऽपि तदर्थः ॥ ५॥ तद्ब्रह्म प्रणवाख्यं चित्ते ध्यानकृते मे । अश्रान्तं रमणाख्यां बिभ्रद्भातुमदिष्टाम् ॥ ६॥ आधारे धृतमूलं हार्दाब्जे कृतवासम् । शीर्षाब्जाय वहद्यत्पश्चादिन्द्रियशक्त्यै ॥ ७॥ दृष्टयां तत्र पराच्यां यद्देहभ्रमकारि । आवृत्तं तु पुनर्यत्स्वात्मैक्यानुभवाय ॥ ८॥ पश्यद्वा विषयौघं विश्रान्तं यदुताहो । मुक्त्यै संस्थितमन्तर्वृत्त्यैक्यानुभवेन ॥ ९॥ आत्मज्योतिरिदं मे बिभ्राणं रमणाख्याम् । अश्रान्तं स्फुरतात्तच्छुद्धं हार्दसरोजे ॥ १०॥ यद्दीपाद्रमणाख्याद्व्याप्तं गाणपतीषु । वाणीभित्तिषु धत्ते गीताचित्रविलासम् ॥ ११॥ यद्धन्ति च्छविजालैरज्ञानां तिमिराणि । तत्तत्त्वं स्फुरताद्वस्तारध्यानसमाधौ ॥ १२॥ यातायातविहारैराधारेषु च शीर्षे । सञ्चारं विदधानं किञ्चाशेषविसारि ॥ १३॥ आलम्बेन विहीनं व्योमाभं परिपूर्णम् । निःशब्दं गुरुरूपं तद्ब्रह्म स्फुरतान्मे ॥ १४॥ ज्ञानं भाति परोक्षं यत्तत्त्वश्रवणेन । यत्साङ्गत्यविशेषो हेतुः स्यादपरोक्षे । १५॥ यच्चिन्ता स्थिरमुक्त्यै ब्रह्मैतद्रमणाख्यम् । मामावृत्य समन्तादानन्दे निदधातु ॥ १६॥ तारानन्दनियुक्तः प्रीत्या तस्य मतेन । आधाद्दीप्तगभीरं वासिष्ठो गुरुगीतम् ॥ १७॥

१०. दशमम् । योगसारगीतम् ॥

निशितया धिया हृदि निभालनम् । भुवनभूपतेर्भवनशोधनम् ॥ १॥ दहरमज्जनं विदधतं जनम् । बहुलसम्मदं नयति धीः पदम् ॥ २॥ अहमिति स्मृतेर्व्रज जनिस्थलम् । भवकथानकं गलति तेऽखिलम् ॥ ३॥ निजविलोकितं यदि निभाल्यते । विषयसङ्गिता क्वनु विभाव्यते ॥ ४॥ नयनदृश्ययोर्गगनमन्तरम् । समवलोकयन्भज विभुं परम् ॥ ५॥ विषयवर्जनाद्विषयिणि स्थिरे । सकलसिद्धयो यतधियः करे ॥ ६॥ रसननीरगे मनसि सन्ततम् । करगतं सुखं भवति निश्चितम् ॥ ७॥ गमय मस्तकात्कुलगृहानलम् । अवतरन्निव स्मृतिमिदं त्वलम् ॥ ८॥ स्मरणसर्पिषा कुलगृहे शिखी । ज्वलति यस्य स क्षितितले मखी ॥ ९॥ यदि शशी द्रवेत्कुलशिखित्विषा । अमृततः शमं व्रजति न स्तृषा । १०॥ चलतमं मनः प्रशममेति नः । स्मरणयुक्तया श्वसितयात्रया ॥ ११॥ निजचितिस्मृतिर्यदि न विच्युता । भवति योगिता सुलभसाधिता ॥ १२॥ दशशतच्छदस्थितमनाः सदा । अनुभवेन्महोमहददो मुदा ॥ १३॥ भवति निष्ठितो यदि चतुष्पथे । महसि लीयते धृतजगत्कथे । १४॥ अयि विचिन्तय स्ववपुरुत्तरम् । वशमितं भवेत्तव महत्तरम् ॥ १५॥ परमशक्तये स्ववपुरर्प्यताम् । अयि किमद्भुतं भवति दृश्यताम् ॥ १६॥ करणशक्तिवित्कृतिषु राजते । गमनशक्तिविद्गतिषु शोभते ॥ १७॥ श्रवणशक्तिविच्छ्रुतिषु न स्खलेत् । मननशक्तिविन्मतिषु नो पतेत् ॥ १८॥ अतुलसिद्धिदानिह पृथग्विधान् । मुनिवरोऽभ्यधादिति तपः पथान् ॥ १९॥ बहुलयोगिवाङ्मथनतोऽमृतम् । अनुभवक्षमं तदिदमाहृतम् ॥ २०॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोर्गणपतेः कृतिर्गीतमाला समाप्ता । Songs on agni, gaNapati, indra, vAyu, sUrya, dashAvatAra, ambikA, reNukA, guru, yogasAra composed by Vasishtha Ganapati Muni Proofread by Paresh Panditrao
% Text title            : gItamAlA by vasiShThagaNapatimuni
% File name             : gItamAlAvasiShThagaNapatimuni.itx
% itxtitle              : gItamAlA vasiShThagaNapatimunivirachitA (agni, gaNapati, indra, vAyu, sUrya, dashAvatAra, ambikA, reNukA, guru, yogasAra)
% engtitle              : gItamAlA by vasiShThagaNapatimuni
% Category              : deities_misc, sanskritgeet
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : Songs agni, gaNapati, indra, vAyu, sUrya, dashAvatAra, ambikA, reNukA, guru, yogasAra
% Indexextra            : (Scan)
% Latest update         : March 31, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org