श्रीशिवगणसहस्रनामस्तोत्रम्
श्री मल्लिकार्जुन पण्डिताराध्य विरचिता
ॐ अस्य श्रीशिवगणसहस्रनाममहामन्त्रस्य भृङ्गिऋषिः ।
नाना छन्दांसि, श्री सदाशिवोऽधिदेवता ।
ॐ बीजं ह्रीं शक्तिः क्लीं कीलकम् ।
मम सकल मनोरथसिद्ध्यर्थे जपे विनियोगः ।
करन्यासः -
ॐ नां अङ्गुष्ठाभ्यां नमः ।
ॐ मां तर्जनीभ्यां नमः ।
ॐ शीं मध्यमाभ्यां नमः ।
ॐ वां अनामिकाभ्यां नमः ।
ॐ यां कनिष्ठिकाभ्यां नमः ।
ॐ श्रीगुरु बसवलिङ्गाय नमः ।
करतलकरपृष्ठाभ्यां नमः ॥
अङ्गन्यासः -
ॐ नां हृदयाय नमः ।
ॐ मां शिरसे स्वाहा ।
ॐ शीं शिखायै वषट् ।
ॐ वां कवचाय हुम् ।
ॐ यां नेत्रत्रयाय वौषट् ।
श्रीगुरु बसवलिङ्गाय अस्त्राय फट् ।
ॐ भूर्भुवस्सुवरोम् ॥
ॐ नं ॐ कनिष्ठिकाभ्यां नमः ।
ॐ मं ॐ अनामिकाभ्यां नमः ।
ॐ शिं ॐ मध्यमाभ्यां नमः ।
ॐ वां ॐ तर्जनीभ्यां नमः ।
ॐ यं ॐ अङ्गुष्ठाभ्यां नमः ।
ॐ ॐ ॐ श्री गुरु बसवलिङ्गाय नमः ।
करतलकरपृष्ठाभ्यां नमः ॥
अथ दशदिग्धन्धः - ध्यानम् -
पूर्वे प्रमथनाथश्च आग्नेय्यां त्रिपुरान्तकः ।
दक्षिणे कालनाशश्च नैरृत्यां सर्पभूषणः ॥
पश्चिमे वामदेवश्च वायव्यां कामसंहरः ।
उत्तरे च विरूपाक्षः ईशान्यामीश्वरस्तथा ॥
आकाशे वयोमकेशश्च पाताळे त्रिजगत्पतिः ।
पञ्चवक्त्रं दशभुजं त्रिनेत्रं चन्द्रभूषणम् ।
उमालिङ्गितवामाङ्गं ध्याये सर्वेश्वरं शिवम् ॥
अथ हृदयादिन्यासः -
ॐ नं ॐ हृदयाय नमः ।
ॐ मं ॐ शिरसे स्वाहा ।
ॐ शिं ॐ शिखायै वषट् ।
ॐ वां ॐ कवचाय हुम् ।
ॐ यं ॐ नेत्रत्रयाय वौषट् ।
ॐ ॐ ॐ श्री गुरु बसवलिङ्गाय अस्त्राय फट् ।
इति करहृदयादिन्यासो उक्तः ॥
अथ सहस्रनामस्तोत्रम् ।
अथ प्रमथगण सङ्कीर्तनम् ।
ॐ श्री नन्दीशः शिवकर आनन्दो नन्दिकेश्वरः ।
नन्दिनाथोऽक्षयो वीरभद्रो विजयभद्रकः ॥ १॥
भद्राक्षो वीरको भद्रो महाकालस्त्रियक्षरः ।
एकाक्षरो द्वय्क्षरषष्डक्षरोऽक्षरसंज्ञकः ॥ २॥
पञ्चाक्षरोग्राक्षसंज्ञावनलाक्षसमाह्वयः ।
धूम्राक्षो विकटाक्षश्च विश्वविश्वाक्षसंज्ञकौ ॥ ३॥
विमलाक्षोऽभ्रवर्णश्च विकटाङ्गोऽजयस्तथा ।
विजयो गगनाङ्गश्च सूर्यवर्णो महोज्वलः ॥ ४॥
ज्वरो महाभैरवश्च श्रेष्ठो निष्कम्प संज्ञकः ।
सोमवर्णो निष्कळश्च नित्यनीरदनिस्वनौ ॥ ५॥
निश्यङ्कः पुष्कलः कालरूपो नीरूप संज्ञकः ।
विरूपाक्षो विश्वरूपश्यान्तरूपश्च सुन्दरः ॥ ६॥
उग्ररूपः कोकिलश्च किङ्किणी कुन्दकस्तथा ।
कुमुदः काकपादश्च कटकापादसंज्ञकौ ॥ ७॥
पिण्डकश्चाहिकटकः पिङ्गलोऽनक्षरस्तथा ।
मधुपिङ्गलसंज्ञश्च मधुपः पिङ्गलाम्बकः ॥ ८॥
विष्टम्भो लोकविजयश्शिष्टः श्रीकण्ठसंज्ञकः ।
सद्योजातो निजजलस्सर्वभूतविजृम्भणः ॥ ९॥
सूर्यपातननीलौ च चण्डीशस्सोमपातनः ।
अङ्गारभक्षणो विन्ध्यपातनस्सर्वपातनः ॥ १०॥
सर्वदाहस्सुरगिरिपातनः सर्वकम्पनः ।
चण्डकीर्तिर्दण्डपाणिरीशानश्चण्डघर्घरौ ॥ ११॥
महाकायो हरिहरः कपालधरनन्दिनौ ।
महाकालो भृङ्गिरिटः पुण्डरीकश्च गोपतिः ॥ १२॥
दीर्घोह्रस्वः स्थूलसूक्षौ लम्बकर्णो विकर्षणः ।
सहनेशो गुहोरौद्रः कूष्माण्डो जटिलस्तथा ॥ १३॥
शिखण्डिरुण्डाभरणौ भिण्ड्यण्डाभरणौ(?) तथा ।
घण्टाकर्णो मुण्डधर श्शङ्खकर्णोद्विकर्णकः ॥ १४॥
गजकर्णो विकर्णस्त्रिकर्णो गोकर्णसंज्ञकः ।
सहस्रकर्णो वाराहकर्णस्सङ्कर्षणस्तथा ॥ १५॥
पर्वताभरणो दर्पस्सर्वात्मा सर्वसंहरः ।
विपुलोत्कर्षणावुष्ट्र मुखाहिमुखगोमुखाः ॥ १६॥
कठोरवचनस्सिंहमुखाश्व मुखषण्मुखाः ।
सर्वज्ञोद्विमुखो मेषमुखः पञ्चमुखस्तथा ॥ १७॥
सहस्रमुखशार्दूलमुखा मुखचतुर्मुखाः ।
त्रिमुखाष्टमुखौ दक्षभास्करो ब्रह्मभक्षणः ॥ १८॥
भद्रकर्णः करिमुखो विमुखो विषभक्षणः ।
पूर्णभद्रो नरमुखो महाभद्रो गुहेश्वरः ॥ १९॥
अन्तकान्तकभुग्वज्रदन्तास्खलित भास्कराः ।
पुष्पदन्तश्च शरभमुखः कपिमुखोऽशनिः ॥ २०॥
श्री पञ्चाक्षो नवमुखश्चन्द्रगङ्गाम्बुशेखरः ।
दिगम्बरो दशमुखो वराहमुखदर्दुरौ ॥ २१॥
रेणुको दारुकशतसहस्राक्षौत्रियम्बकः ।
असितग्रीव डमरुहस्तौ श्री कालमर्दनः ॥ २२॥
अर्धनारीश्वरः क्षेत्रपालः श्री दक्षमर्दनः ।
वियोक्ता साम्बरः श्रीमद्घटार्धः फणिभूषणः ॥ २३॥
सुहोता वृषभः श्रीमत्कराळो हाटकेश्वरः ।
श्रीमद्देहार्ध वक्त्रार्ध नासार्धमणिभूषणाः ॥ २४॥
विप्रमाली वषट्कारः कपाली कालशङ्करौ ।
वामदेवश्चोर्ध्वाह वराहौ मेघवहनः ॥ २५॥
श्री कङ्कालधरो वज्रकाय स्त्रिभुवनन्तकः ।
धूमकेतुर्व्याघ्रवक्त्रस्सुषेणौङ्कारबभ्रवः ॥ २६॥
शूलायुधः श्रीसुमनाधूमाङ्गस्सुगतिर्भवः ।
कोलाहलो वज्रपाणिस्सु पाणिर्दमनश्शिव ॥ २७॥
उत्तुङ्गः श्वेतसर्वाङ्गो महाबाहुर्महाव्रतः ।
श्री सुदर्शनपाणिर्झेङ्कारोऽप्रतिमनिर्मलौ ॥ २८॥
गुरुर्लघुर्महाकेशस्सु केशस्सोम कम्पनः ।
कामाङ्गदहनो भर्गःप्रकुण्डो भानुकम्पनः ॥ २९॥
कुण्डोदरो विषबलश्चण्डोदर शतोदरौ ।
पिनाकपाणिरसितकायस्सन्तानकोन्नतौ ॥ ३०॥
मृत्युञ्जयो नागदन्तस्सोमदन्तस्सुरार्चितः ।
श्री प्रपञ्चान्तको भीमो दैत्यान्तकमहोदरौ ॥ ३१॥
महेन्द्रश्चोभयशिराः श्रीधरसूर्यपेषणः ।
ब्रह्माण्ड पेषणस्सोम पेषणो घोरशूलिनौ ॥ ३२॥
अतिकायाभ्रकाय प्रचण्डसंवर्तकास्तथा ।
प्रकम्पनोंऽभोदनादो निकुम्भः कुलिशोदरः ॥ ३३॥
कुम्भोदरो हरिजटाकेसरान्दोल काङ्गदौ ।
अट्टहासः स्वयञ्ज्योतिरङ्गोलालासुरान्तकः ॥ ३४॥
वृषाङ्कः कङ्कटीभस्नेश्वरो हालाहलो हरः ।
नक्षत्रकृन्तनो मेघो रुद्र सूत्र निपीडनौ ॥ ३५॥
अतिवासो गुहावासः कपर्दी सूर्यखेटकः ।
इन्दुखेटस्ततुरुषः स्थाणुर्दिग्वाहनाशनः ॥ ३६॥
सागरध्वानसंहार कालदिक्पालकारयः ।
सागरापोशनो विद्युत् प्रभावो ह्रस्वकन्धरः ॥ ३७॥
दिग्वारणाहारि महारथलिङ्गाक्षदुष्कराः ।
महामायश्शषिधरो (?) द्वीपिनिर्दळनः पृथुः ॥ ३८॥
खट्वाङ्गपाणिर्गरुडपक्षच्छेदोऽसिताम्बरः ।
अष्टनागाङ्गुलीयस्सु केशानङ्गाद्रि कुण्डलाः ॥ ३९॥
भगदत्तः पशुपतिर्व्याघ्रः चर्मोत्तरीयकः ।
कालापहरणे विष्णु कङ्काळाङ्कोऽग्नि कुण्डलः ॥ ४०॥
काष्ठ कूटानन्दगिरिकन्दुकाटनदुर्धराः ।
एकपादःक्षितिवियत्ताळनन्दोग्र कुण्डलाः ॥ ४१॥
भीमकायोविधिशिरच्छेद्युद्ध तवरप्रदाः ।
विष्णु नेत्रादान कुण्डकर्णदीर्घ विलोचनाः ॥ ४२॥
चक्रापहो विधितिरस्करणो लम्बनासिकः ।
श्री बडबाग्नि तिलकवर्तुलाक्षोर्ध्वबाहवः ॥ ४३॥
श्रीकालरुद्र बडबानलाननसुबाहवः ।
आजाण्डबाहुप्रळयाग्नि नेत्रौ दीर्घदंष्ट्रकः ॥ ४४॥
सोमदत्तः कुलगिरिश्यातनस्सु चरित्रकः ।
कुठारदन्तो विलयाग्नि खेलनसुजङ्घकौ ॥ ४५॥
कूर्माहिनटनाभी लाभ्रतालललिताङ्गकाः ।
वराहदंष्ट्राङ्कमुखाक्ष पादबहु वर्णकाः ॥ ४६॥
श्री बादरायणभुजोत्पाटनश्चण्डघर्घरः ।
मातङ्गः क्षीरशरधिपानः श्रीलम्बजिह्वकः ॥ ४७॥
यज्ञ चर्मासन सिंहचर्मवासास्सु पोषणः ।
त्यक्षश्श्रीभगवोऽकायो वह्नि जिह्वानिकृन्तनः ॥ ४८॥
विश्वक्सेनहरः पाण्डुरङ्ग स्त्रिजटधूर्जटी ।
सोमो हरिरथारूढः श्री नाकि पशिरोहरः ॥ ४९॥
श्रीलम्बकर्णेभचर्मचेलौ श्रीबहुवक्त्रकः ।
चारुदन्तस्तत्वमतिः कालकण्ठोक्षवाहनौ ॥ ५०॥
स्वच्छन्दकर्णसेनोरुतालुजिह्वोग्र जिह्वका ः ।
लोहजङ्घः श्रीमहोक्षपताको बहुघोणकः ॥ ५१॥
बहुजङ्घोर्ध्वकेशः श्रीपातालतलवासिनः ।
बहुकर्णो महाबाहु बहुनेत्रोर्ध्वबाहवः ॥ ५२॥
श्रीसहस्रोदरबहुतालुजिह्वमहालयाः ।
महाभीलोविश्वमुखस्सुमुखः स्थूलविग्रहः ॥ ५३॥
प्रचण्डबलदीर्घोष्ठौ लम्बाक्षो धूमविग्रहः ।
मयूरकण्ठो बिम्बोष्ठ महासेनोरुबाहवः ॥ ५४॥
श्रीमेघमुखलम्बाक्षौ शूलाक्षो लम्बकन्धरः ।
रौद्राक्षः शाश्वतसुखानन्दशम्भोरुजिह्वकाः ॥ ५५॥
ऊरुबाहुमुखोजानुमुखः श्रीजतुकर्णकः ।
सहस्रबाहुस्सोमाक्ष महाकेश द्विबाहवः ॥ ५६॥
लम्बाननो बहुमुख श्रीप्रलम्बत्रि बाहवः ।
विकटो गगनः पादमुखकुक्षिमुखावपि ॥ ५७॥
सिंहग्रीवो दीर्घबाहुर्विद्युज्जिह्यस्त्रिजिह्वकः ।
सहस्र जिह्ववर्णाक्षश्रीसुकेशद्विजिह्यकाः ॥ ५८॥
श्रीधराराध्यरक्ताक्ष नीलाम्बरसमाह्वयाः ।
पीताम्बरः क्रतुहरोऽग्नि केशो द्विभुजस्तथा। ॥ ५९॥
लम्बोदरो लम्बहनुर्भीमाङ्ग प्रबलस्तथा ।
महाजिह्वो महादंष्ट्रः श्रीजिह्वोदरनामकः ॥ ६०॥
सूर्याक्षरोमाङ्ग कम्बुग्रीवादशभुजस्तथा ।
ऊरुपादो लम्बतनुः पादबाहुरितीरितः ॥ ६१॥
प्रमथानां प्रसिद्धनां च यस्त्रैलोक्य पावनः ।
इति ।
अथ रुद्रगण सङ्कीर्तनम् ।
भुवनेश्वर सर्वज्ञ विभूतिभवशाश्वताः ॥ ६२॥
मेघनादो भूतिकरः पिनाकी भूतपावनः ।
अजश्चक्रधरः श्वेतः कपाली वेदपारगः ॥ ६३॥
महाबलो दन्तदंष्ट्रस्त्रिकलो मेघवाहनः ।
ऊर्ध्व देहः क्रूरदंष्ट्रो धनञ्जय कपर्दिनौ ॥ ६४॥
नीलरुद्रः कालकाल रुद्र विश्वेश बभ्रवः ।
सर्वेशदहनौ स्थूलरुद्र भद्रानिलाशनाः ॥ ६५॥
दीर्घहस्त स्सुखकर स्सुनादहरपिङ्गळाः ।
बलभर्गमहेशत्रिदंष्ट्र स्सर्वमनोन्मनाः ॥ ६६॥
अघोरः पूरकज्योति रौद्रो विषधरो गुहः ।
क्रोधेशो वटरुद्रः श्रीज्वलनाक्षो विवाहनः ॥ ६७॥
धूम्रवर्णस्सर्वभूतदमनः श्रीचरस्तथा ।
विद्याधरेशो रुद्राग्निस्सु केशः श्रीगणप्रियः ॥ ६८॥
मृत्युञ्जयो महानाट्यरुद्रः श्रीबडबामुखः ।
लघुरूपधरो मृत्युञ्जय रुद्रोभयानकः ॥ ६९॥
ईशानरुद्रः प्रळयाग्नि रुद्रः काललोहितः ।
हररुर्द्रोऽर्धनारीश रुद्रस्त्रिदशवन्दितः ॥ ७०॥
शीघ्राविकरणौ विश्वाधिकरुद्रो विचक्षणः ।
विज्ञानरुद्रः शरभरुद्रः शूलधरो विभुः ॥ ७१॥
महोग्ररुद्रः शबररुद्रो दाता हुताशनः ।
आदिरुद्रो महाकाल रुद्रभीमभवोद्भवाः ॥ ७२॥
संहाररुद्रैक पादरुद्रार्चिर्वरपानकाः ।
महावृषभरुद्रश्च वायुवेगस्सुदुम्बरः ॥ ७३॥
किरातरुद्रो जयविजयरुद्रः परापरः ।
कर्ता जटाधर सदाशिवरुद्रौ क्षयान्तकः ॥ ७४॥
श्रीमहाशिवरुद्रो ग्रौ स्थाणुसंहारघातुकौ कराख्यरु ।
वीराख्यरुद्रः कर्माख्यरुद्रो मृत्युहरोमृड ः ॥ ७५॥
बकरुद्रः कालमेघो निवृत्तिः पाशहस्तकः ।
मातङ्ग क्षयरुद्रौ च विटरुद्रः प्रमर्दकः ॥ ७६॥
बुद्धो विधाता क्षेमीशो वियोक्ता प्रबलोऽव्ययः ।
हितप्रमतनौ ज्येष्ठो विरूपाक्षश्च गोपतिः ॥ ७७॥
श्रीनिधीशो महातेजा विद्वेषानन्तशम्भवः ।
गणाध्यक्षान्तरिक्षाङ्ग श्रीमत्पञ्चशिखेश्वराः ॥ ७८॥
सौम्यदेहोर्ध्वकेशाति भवेश गगनेश्वाराः ।
श्रीवज्रदन्तोज्वलनप्रकाशसहनेश्वरौ ॥ ७९॥
सर्वात्मा सितवर्णश्च ग्रसनः पिङ्गलेक्षणः ।
असाध्यः श्रेष्ठगौरीश परमात्मसमाह्वयाः ॥ ८०॥
परन्धाता प्रभुस्वामि श्रीमद्रत्नधरस्तथा ।
वामदेवो दुःखकरः फणीन्द्रसूक्ष्मसंज्ञिकः ॥ ८१॥
बलविकरणरुद्रोस्नेक वीरस्त्रिनेत्रो ।
हरहरिहर कालामारहन्तैकवीरः ।
कलविकरणरुद्रो याम्य भस्मान्तकः ।
श्रीक्षणवृषभ गणेन्द्राश्चेत्ययं रुद्रवर्गः ॥ ८२॥
अथ-योगाचार्य गण सङ्कीर्तनम् ।
श्रीमद्दमनगोकर्णमुखौ लोकाक्षिदारुकौ ।
जटामालीवेदशिखी सर्वेश्वरशिखण्डिनौ ॥ ८३॥
सेनो डिण्डिदधीवाहौ चारुहासस्सुधारकः ।
-युवालोको गुहावासो लकुलीश्वर शूलिनौ ॥ ८४॥
उग्रात्रिलाङ्गुलि महाकायकङ्कसहिष्णवः ।
जेगीषव्यः श्रीवृषभमहाकायश्च गौतमः ॥ ८५॥
सुहोत्र मुण्डिनौ चेति योगाचार्याः प्रकीर्तिताः ।
आष्टा विंशति सङ्ख्याता भुवनत्रय वन्दिताः ॥ ८६॥
धर्माचार्य इति ख्यातास्तेषां शिष्या महीतले ।
अभवन् द्वादशाधिक्य शतसङ्ख्या गुणोन्नताः ॥ ८७॥
अथ त्रिषष्टिगण सङ्कीर्तनम् ।
सद्भक्ति विख्यात तिरुनीलकण्ठश्च कोल्पुलिः ।
चोलश्च चेरम तिनिरुनीलनाक्कौच वेल्पघुः ॥ ८८॥
तिरुनाल्वोवश्च तिरुमूलदेवश्च नम्ब्यणः ।
चेलन्दिरानकञ्जारो मङ्गायक्का च चङ्गला ॥ ८९॥
चीलालः कारिकालम्बा वीरपेर्मडिभूपतिः ।
वागीशनयिनाराख्ये रित्ताण्डि जडेयारयः ॥ ९०॥
अङ्गसङ्गानायिनारिश्चण्डेशः पूसलस्तथा ।
श्रीपिळ्ळेनैनारिश्चैणादि नाथश्च चिरुत्तोणः ॥ ९१॥
कलिकम्बः पिट्टेनङ्गरोहिणिर्मोनेयाधिपः ।
सोमासिमारो मुरुघः कलिकामोऽरिवालयः। ॥ ९२॥
साङ्ख्यतोण्डो रुद्र पशुपतिश्चिरुपुलिस्तथा ।
कण्णप्पस्तापसो दीपकलियाररिरच्युतः ॥ ९३॥
श्रीवीरचोळस्तिर्कुर्पितोण्डश्चन्नयनामकः ।
नमिनन्दी कलिगननाथो यलयदन्गुलीः ॥ ९४॥
इरिवोत्तश्च परमनाचि रेकालिगुग्गुलौ ।
कलयोऽमरनीतिः श्रीसेदिराजाणुमूर्तयः ॥ ९५॥
कलियम्बः कडवलनम्बीडुगुडिमारयौ ।
श्रीमन्न मित्तण्डि करवूरचोळमहीभुजौ ॥ ९६॥
श्रीमच्चिरुत्तोण्ड निडुमारदेवसमाह्वयौ ।
मिरुमिण्डेरिभक्तौच श्रीकुलच्चरियस्तथा ॥ ९७॥
एते त्रिषष्टि सङ्ख्याकाः शिवसद्भक्तपुङ्गवाः ।
अथ शोडषगण सङ्कीर्तनम् ।
होन्नय्य किन्नरिब्रह्मा केताम्बा पाण्ड्यनायकः ॥ ९८॥
श्री गुड्डव्वा सेननाथो देवबाचय्य बिज्जयौ ।
नागय्यः श्री चिक्कुलिगिनागय्य पुष्प चाचयः ॥ ९९॥
श्रीबाचलाम्बा च पडिहारिसोमण्ण बीरयौ ।
उघे नागय हन्दय्यौ कालाम्बा चेति षोडश ॥ १००॥
अथ दशगण सङ्कीर्तनम् ।
श्रीवीरघण्टामैली च दोरिदेवय्य सङ्गयौ ।
बोप्पदेवी कामदेवी चोडाम्बा मायिदेवयः ॥ १०१॥
अन्नमाम्बा दशगणास्सिङ्गयो बिज्जयो दश ।
अथ त्रयोदशगण सङ्कीर्तनम् ।
श्रीमद्बसवराजार्यः प्रभातगणसिङ्गयः ॥ १०२॥
बोम्मिशेट्टिर्मेळ्गे निज सङ्गाम्बा पुष्पबाचयः ।
पडियाराख्य बसवणार्यस्सात्विकसङ्गयः ॥ १०३॥
श्रीकामलाख्यदेवी च बोप्पि देवी च देवयः ।
कन्नमाम्बा देवरसावोहिलश्चत्रयोदश ॥ १०४॥
अथ अमरगण सङ्कीर्तनम् ।
परवादिघनोच्चण्डमरुच्च्रीपतिपण्डितः ।
सिन्धुबल्लाळ बळ्ळेश मल्लयौ जट्टि मारयः ॥ १०५॥
श्रीमद्धूपदमाचय्याल्लय्य धूर्जटिकेशनः ।
श्रीमादिराजय्य मडिवाळमाचय्य कक्कयाः ॥ १०६॥
बाचराजोबडवर ब्रह्मय्यो बिब्ब बाचयः ।
किन्नरब्रह्मयः केशिराजः कन्नदबोम्मयः ॥ १०७॥
शूलद ब्रह्मयः काचिराजो मोळिगे मारयः ।
कलकेत ब्रह्महोन्न ब्रह्मयौ वीरनाचयः ॥ १०८॥
उत्तमाङ्गद केशी च श्रीमत्सुरगि चौडयः ।
श्वपचय्यस्तेलुङ्गेशो मसणय्यो हलायधः ॥ १०९॥
तेलुङ्गुजोम्मयो मारगौडो मुष्टियचौडयः ।
कालाग्नि रुद्रो होन्नयो गण्डगत्तरिनाचयः ॥ ११०॥
महाकालय्य उदररामय्यो मोल्ले बोम्मयः ।
पूतिदेवस्सवरदनाचय्यो दासकेशयः ॥ १११॥
मधुवय्यो हडपद रेचय्यो गोल्लमल्लयः ।
वेल्लगोण्डमहादेवोद्भटौ (?) कदिररेमयः ॥ ११२॥
अमात्यमल्लय्य निजलिङ्गचिक्कय्य भोगयाः ।
निर्लज्जशान्तो गजेशमसणय्योऽण्ण बोम्मयः ॥ ११३॥
नित्यनेमद मौलिश्च निजभावोऽज्जदासयः ।
गौळभट्टारकः पञ्चाग्नि सूर्यश्चाकीकिदेवयः ॥ ११४॥
दसरय्यो मोरटद बङ्कय्यो वीरकल्लयः ।
श्रीमद्देवरदासी च हाटकेश्वर मल्लयः ॥ ११५॥
गोविन्दभट्टारकश्च निम्बाणद गणेश्वरः ।
पिट्टव्वा चिङ्करमुगि देवस्सुङ्कद बङ्कयः ॥ ११६॥
दारय्योऽमुगिदेवः केम्बाविभोगय्य नाचयौ ।
वीरमाचय्य सन्यासि मञ्चय्योरगरायणाः ॥ ११७॥
वीरनागय्य मलयराजौ शङ्करदासयः ।
श्रीसूरसानिरमरगोण्डमल्लय्यदेशिकः ॥ ११८॥
बाहूरब्रह्मय्यो वीरब्रह्मय्यो वेङ्गिसङ्गयः ।
वीरकेदारबाचय्यो मुद्दय्यश्चिक्कसोमयः ॥ ११९॥
मूरुजावद देवय्योऽमृतनाथाप्पयस्तथा ।
शिवनागय्य बेल्देवी वेमनाराध्य, पुङ्गवाः ॥ १२०॥
विजयापुर सोमय्यो रेवणार्यश्च हम्पयः ।
श्री वीरचाकिराजय्यश्चिप्पनूरप्पयास्तथा ॥ १२१॥
सिद्ध बुद्धय्य सकलिदेवौ मादरदूडयः ।
शिवरात्र्यप्पयोगोग्गोर्त्यक्कय्यश्च वीरयः ॥ १२२॥
शूलायुधय्य इडुबनाथ तिप्पय्यमारयाः ।
इण्डेशान्तय्य साहित्य ब्रह्मचेटलवेमयाः ॥ १२३॥
बालब्रह्मय्य कोवूरब्रह्मयौ मुण्डबोम्मयः ।
बलदेवस्सगरद ब्रह्मय्यो बुड्ड बोम्मयः ॥ १२४॥
केलवूरब्रह्मशूलब्रह्मरक्कसबोम्मयाः ।
भानुदेवः कल्लिनाथ भीमो विरुपकल्लयः ॥ १२५॥
वीरसङ्गय्योरुलिङ्गपेद्दयौ सिद्धरामयः ।
मेधाविरुद्रः परमहंसोनिर्विषयसङ्गयः ॥ १२६॥
राजमल्लय्य कुमारपालघोर्जरभूपतिः ।
श्रीमत्सेद्दिगदेवौहिलय्य रेमयदेवयाः ॥ १२७॥
जूटरमल्लयोवीरशिवय्यो गङ्गमल्लयः ।
मिण्डसङ्गय्य राजार्धदेवौ शिवकुमारकः ॥ १२८॥
श्रीमन्मैदुनरामय्य स्सिङ्गबोप्पय्य सेट्टियौ ।
रामेशहण्यङ्गरायौ श्रीमत्ताळ्वर्तिबोल्लयः ॥ १२९॥
शिवदेवो मृगतिलकव्वा कोट्टारबाचयः ।
श्रीचक्रवर्तिचाळुक्य भीमो भास्करदेवयः ॥ १३०॥
कुर्कुण्टदेवेलेहाळब्रह्मयौ रामदेवयः ।
श्रीकाळिमरसः पादाळक्का चैळेशकेतयः। ॥ १३१॥
श्रीकेटिमल्लय्य गणदासिवीरय्य देवयाः ।
आदय्यो वीरबल्लाळः शिखरेश्वरमल्लयः ॥ १३२॥
पल्लेशसोमयश्चन्नबसवोऽल्लमदेवयः ।
श्रीमत्सद्योजातदेवार्यमराजात्मदेवयाः ॥ १३३॥
एकान्तमल्लयश्चङ्गुबोल्लय्यो मूगसङ्गयः ।
प्रसादिबङ्कय्य गुरुभक्तय्य शिवमुद्दयाः ॥ १३४॥
निराळदेवय्य जगदेवय्याणति चन्दयाः ।
भानुदेवश्चिक्कराज मल्लवशसोमयाः ॥ १३५॥
श्रीनिर्धनय्य द्रोणीशमल्लयाचार्यभीमयाः ।
प्रसादिदासय्य केरेयूरदासयशिव्वयाः ॥ १३६॥
गोयिदेवो महाबलदेवस्सुङ्कद सोमयः ।
दण्डिप्रसन्नबसवो धवळेश्वररामयः ॥ १३७॥
वरगुण्डचक्रवर्तीजत्तरटद सोमणेण्डेसोमण्णौ ।
बिसिगेलसददेवण्णोनिलविगे बैचय्यगोनेयमारय्यौ ॥ १३८॥
बैतलेय मायिदेवो वेरलदमारय्य रुद्रियण्णय्यौ ।
सेट्टण्ण सेट्टियय्यो बेट्टददेवरस वीरपोल्लय्यौ ॥ १३९॥
वनिपुरशङ्करदेवो बलगरमाचय्य वेड्डु सोमयौ ।
आय्दक्किय मारण्णो जोदुळमायण्णलेङ्कमञ्चण्णौ ॥ १४०॥
सरवूरबङ्किदेवो धर्मय्यो हसियमस्तकदमाचः ।
पडियारिवुत्तणार्यः श्रीहाविनहाळ कल्लिदेवार्यः ॥ १४१॥
पल्लवरायो गोल्लळरायो गङ्गापुरद बसवण्णः ।
इङ्गुळिय वैजव्वा शङ्करसेट्ट्यवगडद बसवय्यौ ॥ १४२॥
श्रीमत्कङ्गळबसवः शिवरात्रियसङ्कणः शिगुरिचेन्दः ।
प्रख्यातानिमिषय्यः श्वेतय्यो वीरगुड्डव्वा ॥ १४३॥
भवलश्चाकलदेवी चरेकव्वपि तथैव कमळव्वा ।
वीररेमव्वोडुतडिमहादेव्यावपि तथैवकमलव्वा ॥ १४४॥
बोन्तादेव्यादव्वारेब्यव्वा चापि बिज्ज महादेवी ।
सत्यक्का चामव्वा वैजव्याप्यरसवाचनिम्ब्यव्वा ॥ १४५॥
कोडगूसुश्चापि तथा होट्टलकेरे वीरचोळव्वा ।
एवं सहस्रनामानि गणानां बुधपुङ्गवैः ॥ १४६॥
आदृतानिभवन्त्यत्र पावनानि जगत्रये ।
गणसहस्रनामाख्ये स्तवेऽन्पठितेश्रुते ॥ १४७॥
लिखिते भक्तिविस्फूर्तिलभ्यते शुभमेधते ।
दुरितानि प्रणश्यन्ति सिद्ध्यन्ताशु मनोरथाः ॥ १४८॥
महाप्रसाद सम्पत्तिर्जायते गिरिजापतेः ।
घनदुष्ककर्मदुःस्वप्नदुःश्यकुन कुलान्यपि ॥ १४९॥
सर्वग्रहादिदोषाश्च ज्वलनाहिजलोद्भवम् ।
मृगवृश्चिकचोरामृत्यु रोगविषो(?)तम् ॥ १५०॥
विपक्षरक्षःपवनभूतोल्कापविभूजपम् ।
दारिद्र्यजं भयमपि प्रविनश्यतितत् क्षणात् ॥ १४१॥
ये दनार्थं पठन्त्येनं स्तवं तैर्लभ्यते धनम् ।
पठन्त्येनं स्तवं पुण्यं भक्त्याये पुत्रकाङ्क्षिणः ॥ १५२॥
तेषां सत्पुत्र जननी विभूतिरुपजायते ।
शत्रुक्षयार्थं येभक्त्या पठन्त्येनं स्तवं जनाः ॥ १५३॥
तेषां शत्रुक्षयकरी शक्ति सञ्जायते क्षणात् ।
भुक्त्यर्थं ये पठन्त्येतत् स्तवनं भोगसम्पदः ॥ १५४॥
लभ्यन्तेऽभीप्सिततमास्त्तयैरत्रैव महीतले ।
मुक्तीच्छया सम्पठिते सत्येतस्मिंस्तवोत्तमे ॥ १५५॥
अचिरादेव सिद्ध्यन्ति त्रिविधामुक्तयः क्रमात् ।
भक्तीच्छयाऽस्मिन्पठिते भक्तिस्सिद्यन्त्यनुत्तमा ।
आयाति दिक्षु भरिता कीर्तिः श्रीरपि मङ्गला ॥ १५६॥
श्रीमल्लिकार्जुनपण्डिताराध्य विरचिता शिवगणसहस्रनामस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Saritha Sangameswaran