गरुडपञ्चाशत्स्तोत्रम्
वेदान्तदेशिककृतम् ।
१। परव्यूहवर्णकः
अङ्गेष्वानन्दमुख्यश्रुतिशिखरमिलद्दण्डकं गण्डपूर्वं
प्रागेवाभ्यस्य षट्सु प्रतिदिशमनघं न्यस्य शुद्धास्त्रबन्धाः ।
पक्षि व्यत्यस्तपक्षिद्वितयमुखपुटप्रस्फुटोदारतारं
मन्त्रं गारुत्मतं तं हुतवहदयिताशेखरं शीलयामः ॥ १॥
वेदः स्वार्थाधिरूढो बहिरबहिरभिव्यक्तिमभ्येति यस्यां
सिद्धिः साङ्कर्षणी सा परिणमति यया सापवर्गत्रिवर्गा ।
प्राणस्य प्राणमन्ये प्रणिहितमनसो यत्र निर्धारयन्ति
प्राची सा ब्रह्मविद्या परिचितगहना पातु गारुत्मती नः ॥ २॥
नेत्रं गायत्रमूचे त्रिवृदिति च शिरो नामधेयं यजूंषि
छन्दांस्यङ्गानि धिष्ण्यात्मभिरजनि शफैर्विग्रहो वामदेव्यम् ।
यस्य स्तोमात्मनोऽसौ बृहदितरगरुत्तादृशाम्नायपुच्छः
स्वाच्छन्द्यं नः प्रसूतां श्रुतिशतशिखराभिष्टुतात्मा गरुत्मान् ॥ ३॥
यो यं धत्ते स्वनिष्ठं वहनमपि वरः स्पर्शितो येन यस्मै
यस्माद्यस्याहवश्रीर्विदधति भजनं यत्र यत्रेति सन्तः ।
प्रायो देवः स इत्थं हरिगरुडभिदाकल्पितारोह वाह-
स्वाभाव्यः स्वात्मभव्यः प्रदिशतु शकुनिर्ब्रह्मसब्रह्मतां नः ॥ ४॥
एको विष्णोर्द्वितीयस्त्रिचतुरविदितं पञ्चवर्णीरहस्यं
षाड्गुण्यं स्मेरसप्तस्वरगतिरणिमाद्यष्टसम्पन्नवात्मा ।
देवो दर्वीकरारिर्दशशतनयनाराति साहस्रलक्षैः
विक्रीडत्पक्षकोटिर्विघटयतु भयं वीतसङ्ख्योदयो नः ॥ ५॥
सत्याद्यैः सात्वतादि प्रथितमहिमभिः पञ्चभिर्व्यूहभेदैः
पञ्चाभिख्यो निरुन्धन् भवगरलभवं प्राणिनां पञ्चभावम् ।
प्राणापानादि भेदात्प्रतितनु मरुतो दैवतं पञ्चवृत्तेः
पञ्चात्मा पञ्चधाऽसौ पुरुष उपनिषद्घोषितस्तोषयेन्नः ॥ ६॥
श्लिष्यद्भोगीन्द्रभोगे श्रुतिनिकरनिधौ मूर्तिभेदे स्वकीये
वर्णव्यक्तीर्विचित्राः परिकलयति यो वक्त्रबाहूरुपादैः ।
प्राणः सर्वस्य जन्तोः प्रकटितपरमब्रह्मभावः स इत्थं
क्लेशं छिन्दन् खगेशः सपदि विपदि नः सन्निधिः सन्निधत्ताम् ॥ ७॥
अग्रे तिष्ठन्नुदग्रो मणिमुकुर इवानन्यदृष्टेर्मुरारेः
पायान्मायाभुजङ्गीविषमविषभयाद्गाढमस्मान् गरुत्मान् ।
क्षुभ्यत्क्षीराब्धिपाथः सहभवगरलस्पर्शशङ्की स शङ्के
छायां धत्ते यदीयां हृदि हरिहृदयारोहधन्यो मणीन्द्रः ॥ ८॥
२। अमृतहरणवर्णकः ।
आहर्तारं सुधाया दुरधिगममहाचक्रदुर्गस्थितायाः
जेतारं वज्रपाणेः सह विबुधगणैराहवे बाहुवेगात् ।
विष्णौ सम्प्रीयमाणे वरविनिमयतो विश्वविख्यातकीर्तिं
देवं याऽसूत साऽसौ दिशतु भगवती शर्म दाक्षायणी नः ॥ ९॥
वित्रासाद्वीतिहोत्रं प्रथममधिगतैरन्तके मन्दधाम्ना
भूयस्तेनैव सार्धं भयभरतरलैर्वन्दितो देववृन्दैः ।
कल्पान्तक्षोभदक्षं कथमपि कृपया सङ्क्षिपन् धाम चण्डं
भित्त्वाऽण्डं निर्जिहानो भवभयमिह नः खण्डयत्वण्डजेन्द्रः ॥ १०॥
क्षुण्णक्षोणीधराणि क्षुभितचतुरकूपारतिम्यद्गरुन्ति
त्रुट्यत्तारासराणि स्थपुटितविबुधस्थानकानि क्षिपेयुः ।
पातालब्रह्मसौधावधिविहितमुधावर्तनान्यस्मदार्तिं
ब्रह्माण्डस्यान्तराले बृहति खगपतेरर्भकक्रीडितानि ॥ ११॥
संविच्छस्त्रं दिशन्त्या सह विजयचमूराशिषः प्रेषयन्त्या
सम्बध्नन्त्या तनुत्रं सुचरितमशनं पक्कणं निर्दिशन्त्या ।
एनोऽस्मद्वैनतेयो नुदतु विनतया क्लृप्तरक्षाविशेषः
कद्रूसङ्केतदास्यक्षपणपणसुधालक्षभैक्षं जिघृक्षुः ॥ १२॥
विक्षेपैः पक्षतीनामनिभृतगतिभिर्वादितव्योमतूर्यो
वाचालाम्भोधिवीचीवलयविरचितालोकशब्दानुबन्धः ।
दिक्कन्या कीर्यमाणक्षरदुडुनिकरव्याजलाजाभिषेको
नाकोन्माथाय गच्छन् नरकमपि समये नागहन्ता निहन्तु ॥ १३॥
ऋक्षाक्षक्षेपदक्षो मिहिरहिमकरोत्तालतालाभिघाती
वेला वाः केलि लोलो विविधघनघटाकन्दुकाघातशीलाः ।
पायान्नः पातकेभ्यः पतगकुलपतेः पक्षविक्षेपजातो
वातः पातालहेलापटहपटरवारम्भसंरम्भधीरः ॥ १४॥
किं निर्घातः किमर्कः परिपतति दिवः किं समिद्धोऽयमौर्वः
किंस्वत्कार्तस्वराद्रिर्ननु विदितमिदं व्योमवर्त्मा गरुत्मान् ।
आसीदत्याजिहीर्षत्यभिपतति हरत्यत्ति हा तात हाम्बे-
त्यालापोद्युक्तभिल्लाकुलजठरपुटः पातु नः पत्रिनाथः ॥ १५॥
आसृक्वाक्तैरसृग्भिर्दुरुपरमतृषा शातनी शातदंष्ट्रा-
कोटी लोटत्करोटी विकटकटकटारावघोरावतारा ।
भिन्द्यात्सार्धं पुलिन्द्या सपदि परिहृतब्रह्मगा जिह्मगारेः
उद्वेल्लद्भिल्लपल्लीनिगरणकरणापारणाकारणां नः ॥ १६॥
स्वच्छन्दस्वर्गिवृन्दप्रथमतममहोत्पातनिर्घातघोरः
स्वान्तध्वान्तं निरुन्ध्याद्धुतधरणिपयोराशिराशीविषारेः ।
प्रत्युद्यद्भिल्लपल्लीभटरुधिरसरिल्लोलकल्लोलमाला-
हाला निर्वेशहेला हलहलबहुलो हर्षकोलाहलो नः ॥ १७॥
सान्द्रक्रोधानुबन्धात्सरसि नखमुखे पादपे गण्डशैले
तुण्डाग्रे कण्ठरन्ध्रे तदनु च जठरे निर्विशेषं युयुत्सू ।
अव्यादस्मानभव्यादविदितनखरश्रेणिदंष्ट्रानिवेशौ
जीवग्राहं गृहीत्वा कमठकरटिनौ भक्षयन् पक्षिमल्लः ॥ १८॥
अल्पः कल्पान्तलीलानटमकुटसुधासूतिखण्डो बहूनां
निःसारस्त्वद्भुजाद्रेरनुभवतु मुदा मन्थनं त्वेष सिन्धुः ।
राकाचन्द्रस्तु राहोः स्वमिति कथयतः प्रेक्ष्य कद्रूकुमारान्
सान्तर्हासं खगेन्द्रः सपदि हृतसुधस्त्रायतामायतान्नः ॥ १९॥
आरादभ्युत्थितैरावतममितजवोदञ्चदुच्चैःश्रवस्कं
जातक्षोभं निमथ्नन् दिशि दिशि दिविषद्वाहिनीशं क्षणेन ।
भ्राम्यन्सव्यापसव्यं सुमहति मिषति स्वर्गिसार्थे सुधार्थं
प्रेङ्खन्नेत्रः श्रियं नः प्रकटयतु चिरं पक्षवान्मन्थशैलः ॥ २०॥
अस्थानेषु ग्रहाणामनियतविहितानन्तवक्रातिचारा
विश्वोपाधिव्यवस्था विगमविलुलितप्रागवागादिभेदाः ।
द्वित्राः सुत्रामभक्तग्रहकलहविधावण्डजेन्द्रस्य चण्डाः
पक्षोत्क्षेपा विपक्षक्षपणसरभसाः शर्म मे निर्मिमीरन् ॥ २१॥
तत्तत्प्रत्यर्थि सारावधि विहितमृषा रोषगन्धो रुषान्धैः
एकः क्रीडन्ननेकैः सुरपतिसुभटैरक्षतो रक्षतान्नः ।
अन्योन्याबद्धलक्षापहरणविहितामन्दमात्सर्यतुङ्गैः
अङ्गैरेव स्वकीयैरहमहमिकया मानितो वैनतेयः ॥ २२॥
अस्तव्योमान्तमन्तर्हितनिखिलहरिन्मण्डलं चण्डभानोः
लुण्टाकैर्यैरकाण्डे जगदखिलमिदं शर्वरी वर्वरीति ।
प्रेङ्खोलत्स्वर्गगोलस्खलदुडुनिकरस्कन्धबन्धान् निरुन्धन्
रंहोभिस्तैर्मदम्हो हरतु तरलितब्रह्मसद्मा गरुत्मान् ॥ २३॥
यः स्वाङ्गे सङ्गरान्तर्गरुदनिलवस्तम्भिते जम्भशत्रौ
कुण्ठास्त्रे सन्नकण्ठं प्रणयति पवये पक्षलेशं दिदेश ।
सोऽस्माकं संविधत्तां सुरपतिपृतनाद्वन्द्वयुद्धैकमल्लो
माङ्गल्यं वालखिल्यद्विजवरतपसां कोऽपि मूर्तो विवर्तः ॥ २४॥
रुद्रान् विद्राव्य सेन्द्रान् हुतवहसहितं गन्धवाहं गृहीत्वा
कालं निष्काल्य धूत्वा निरृतिधनपतीपाशिनं क्लेशयित्वा ।
सर्पाणां छाद्मिकानाममृतमयपणप्रापणप्राप्तदर्पो
निर्बाधं क्वापि सर्पन्नपहरतु हरेरौपवाह्यो मदंहः ॥ २५॥
३। नागदमनवर्णकः
भुग्नभ्रूर्भ्रुकुटीभृद्भ्रमदमितगरुत्क्षोभितक्ष्मान्तरिक्षः
चक्राक्षो वक्रतुण्डः खरतरनखरः क्रूरदंष्ट्राकरालः ।
पायादस्मानपायाद्भयभरविगलद्दन्दशूकेन्द्रशूकः
शौरेः सङ्क्रन्दनादि प्रतिभटपृतनाक्रन्दनः स्यन्दनेन्द्रः ॥ २६॥
अर्यम्णा धुर्ययोक्त्रग्रहणभयभृता सान्त्वितोऽनूरुबन्धात्
कोदण्डज्यां जिघृक्षेदिति चकितधिया शङ्कितः शङ्करेण ।
तल्पे कल्पेत मा ते मतिरिति हरिणाऽप्यादरेणानुनीतः
पक्षीन्द्रस्त्रायतां नः फणधरमहिषीपत्रभङ्गापहारी ॥ २७॥
छायातार्क्ष्यानहीनां फणमणिमुकुरश्रेणिविस्पष्टबिम्बान्
त्राणापेक्षाधृतस्वप्रतिकृतिमनसा वीक्ष्य जातानुकम्पः ।
तेषां दृष्ट्वाऽथ चेष्टाः प्रतिगरुडगणाशङ्कया तुङ्गरोषः
सर्पन् दर्पोद्धतो नः शमयतु दुरितं सर्पसन्तानहन्ता ॥ २८॥
उच्छ्वासाकृष्टतारागणघटितमृषा मौक्तिकाकल्पशिल्पः
पक्षव्याधूतपाथोनिधिकुहरगुहागर्भदत्तावकाशः ।
दृष्टिं दंष्ट्राङ्ग्रदूतीं पृथुषु फणभृतां प्रेषयन्नुत्तमाङ्गे-
ष्वङ्गैरङ्गानि रुन्धन्नवतु पिपतिषुः पत्रिणामग्रणीर्नः ॥ २९॥
आ वेधः सौधशृङ्गादनुपरतगतेरा भुजङ्गेन्द्रलोकात्
श्रेणीबन्धं वितन्वन् क्षणपरिणमितालातपातप्रकारः ।
पायान्नः पुण्यपापप्रचयमयपुनर्गर्भकुम्भीनिपातात्
पातालस्यान्तराले बृहति खगपतेर्निर्विघातो निपातः ॥ ३०॥
प्रत्यग्राकीर्णतत्तत्फणमणिनिकरं शङ्कुला कोटिवक्रं
तुण्डाग्रं सङ्क्ष्णुवानः कुलगिरिकठिने कर्परे कूर्मभर्तुः ।
पातालक्षेत्रपक्वद्विरसनपृतनाशालि विच्छेदशाली
शैलीं नः सप्तशैली लघिमदरभसः सौतु साध्वीं सुपर्णः ॥ ३१॥
पर्यस्यत्पन्नगीनां युगपदसमयानर्भकान् गर्भकोशाद्-
ब्रह्मस्तम्बप्रकम्पव्यतिषजदखिलोदन्वदुन्निद्रघोषम् ।
चक्षुश्चक्षुः श्रुतीनां सपदि बधिरयत् पातु पत्रीश्वरस्य
क्षिप्रक्षिप्तक्षमाभृत्क्षणघटितनभः स्फोटमास्फोटितं नः ॥ ३२॥
तोयस्कन्धो न सिन्धोः समघटत मिथः पक्षविक्षेपभिन्नः
पातालं न प्रविष्टं पृथुनि च विवरे रश्मिभिस्तिग्मरश्मेः ।
तावद्ग्रस्ताहिवक्त्रक्षरितविषमषीपङ्ककस्तूरिकाङ्कः
प्रत्यायातः स्वयूथ्यैः स्थित इति विदितः पातु पत्रीश्वरो नः ॥ ३३॥
बद्धस्पर्धैरिव स्वैर्बहुभिरभिमुखैरेककण्ठं स्तुवाने
तत्तद्विश्वोपकारप्रणयिसुरगणप्रार्थितप्राणरक्षे ।
पायान्नः प्रत्यहं ते कमपि विषधरं प्रेषयामीति भीते
सन्धित्सौ सर्पराजे सकरुणमरुणानन्तरं धाम दिव्यम् ॥ ३४॥
क्वाप्यस्थ्ना शर्कराढ्यं क्वचन घनतरासृक्छटा शीधु दिग्धं
निर्मोकैः क्वापि कीर्णं विषयमपरतो मण्डितं रत्नखण्डैः ।
अध्यारूढैः स्ववारेष्वहमहमिकया वध्यवेषं दधानैः
काले खेलन् भुजङ्गैः कलयतु कुशलं काद्रवेयान्तको नः ॥ ३५॥
४। परिष्कारवर्णकः ।
वामे वैकुण्ठशय्या फणिपतिकटको वासुकिब्रह्मसूत्रो
रक्षेन्नस्तक्षकेन ग्रथितकटितटश्चारुकार्कोटहारः ।
पद्मं कर्णेऽपसव्ये प्रथिमवति महापद्ममन्यत्र बिभ्रत्
चूडायां शङ्खपालं गुलिकमपि भुजे दक्षिणे पक्षिमल्लः ॥ ३६॥
वर्त्याभ स्वस्तिकाग्रस्फुरदरुणशिखादीप्ररत्नप्रदीपैः
बध्नद्भिस्तापमन्तर्बहुलविषमषीगन्धतैलाभिपूर्णैः ।
नित्यं नीराजनार्थैर्निजफणफलकैर्घूर्णमानानि तूर्णं
भोगैरापूरयेयुर्भुजगकुलरिपोर्भूषणानीषणां नः ॥ ३७॥
अङ्गप्रत्यङ्गलीनामृतरसविसरस्पर्शलोभादिवान्तः-
त्रासाद्घ्रासानुबन्धादिव सहजमिथो वैरशङ्कोत्तरङ्गात् ।
रुद्रागाढोपगूढोच्छ्वसननिबिडितस्थानयोगादिवास्मद्-
भद्राय स्युर्भजन्तो भगवति गरुडे गाढतां गूढपादः ॥ ३८॥
कोटीरे रत्नकोटिप्रतिफलिततया नैकधा भिन्नमूर्तिः
वल्मीकस्थान् स्वयूथ्यानभित इव निजैर्वेष्टनैः क्लृप्तरक्षः ।
क्षेमं नः सौतु हेमाचलविधृतशरन्मेघलेखानुकारी
रोचिश्चूडालचूडामणिरुरगरिपोरेष चूडाभुजङ्गः ॥ ३९॥
द्राघीयः कर्णपाशद्युति परिभवनव्रीलयेव स्वभोगं
सङ्क्षिप्याश्नन् समीरं दरविनतमुखो निःश्वसन् मन्दमन्दम् ।
आसीदद्गण्डभित्तिप्रतिफलनमिषात् क्वापि गूढं विविक्षुः
क्षिप्रं दोषान् क्षिपेन्नः खगपति कुहनाकुण्डलः कुण्डलीन्द्रः ॥ ४०॥
वालाग्रग्रन्थिबन्धग्रथितपृथुशिरोरत्नसन्दर्शनीयो
मुक्ता शुभ्रोदराभो हरिमणिशकलश्रेणिदृश्येतरांशः ।
विष्वग्दम्भोलिधाराव्रणकिणविषमोत्तम्भनस्तब्धवृत्तिः
व्यालाहारस्य हृद्यो हरतु स मदघं हारदर्वीकरेन्द्रः ॥ ४१॥
वैकक्ष्यस्रग्विशेषच्छुरणपरिणमच्छस्त्रबन्धानुबन्धो
वक्षः पीठाधिरूढो भुजगदमयितुर्ब्रह्मसूत्रायमाणः ।
अश्रान्तस्वैरनिद्राविरचितविविधोच्छ्वासनिश्वासवेग-
क्षामोच्छूनाकृतिर्नः क्षपयतु दुरितं कोऽपि कद्रूकुमारः ॥ ४२॥
श्लिष्यद्रुद्रासुकीर्तिस्तनतटघुसृणालेपसङ्क्रान्तसार-
स्फारामोदाभिलाषोन्नमितपृथुफणाचक्रवालाभिरामः ।
प्रायः प्रेयः पटीरद्रुमविटपधिया श्लिष्टपक्षीन्द्रबाहुः
व्याहन्यादस्मदीयं वृजिनभरमसौ वृन्दशो दन्दशूकः ॥ ४३॥
ग्रस्तानन्तर्निविष्टान् फणिन इव शुचा गाढमाश्लिष्य दुःख्यन्
क्षुण्णानेकः स्वबन्धून् क्षुधमिव कुपितः पीडयन् वेष्टनेन ।
व्यालस्तार्क्ष्र्योदरस्थो विपुलगळगुहावाहि फूत्कारवात्या-
पौनःपुन्येन हन्यात्पुनरुदरगुहागेहवास्तव्यतां नः ॥ ४४॥
गाढासक्तो गरुत्मत्कटितटनिकटे रक्तचण्डातकाङ्के
फक्कत्काञ्चीमहिम्ना फणिमणिमहसा लोहिताङ्गो भुजङ्गः ।
सत्तासांसिद्धिकं नः सपदि बहुविधं कर्मबन्धं निरुन्ध्याद्-
विन्ध्याद्र्यालीनसन्ध्या घनघटिततटित्कान्तचातुर्यधुर्यः ॥ ४५॥
५। अद्भुतवर्णकः ।
वेगोत्तानं वितानं व्यजनमनुगुणं वैजयन्ती जयन्ती
मित्रं नित्याभ्यमित्रं युधि विजयरथो युग्ययोगानपेक्षः ।
दासो निष्पर्युदासो दनुतनयभिदो निःसहायः सहायो
दोधूयेतास्मदीयं दुरितमधरितारातिपक्षः स्वपक्षैः ॥ ४६॥
उक्षा दक्षान्तकस्य स्खलति वलजितः कुञ्जरः खञ्जरीतिः
क्लान्तो धातुः शकुन्तोऽनुग इति दयया सामिरुद्धस्यदोऽपि ।
ग्राहग्रस्तद्विपेन्द्रक्षतिभयचकिताकुण्ठवैकुण्ठचिन्ता-
नासीरोदारमूर्तिर्नरकविहतये स्याद्विहङ्गेश्वरो नः ॥ ४७॥
वेगोद्वेलः सुवेलः किमिदमिति मिथो मन्त्रतो वानरेन्द्रैः
मायामानुष्यलीलामभिनयति हरौ लब्धसेवाविशेषः ।
वैदेहीकर्णपूरस्तबकसुरभिणा यः समाश्लेषि दोष्णा
तृष्णा पारिप्लवानां स भवतु गरुडो दुःखवारिप्लवो नः ॥ ४८॥
दुग्धोदन्वत्प्रभूतः स्वकमहिमपृथुर्विष्णुना कृष्णनाम्ना
पिञ्छाकल्पानुकल्पः समघटि सुदृढो यत्प्रदिष्टः किरीटः ।
वीरो वैरोचनास्त्रव्रणकिणगुणितोदग्रनिर्घातवातः
सङ्घातं सर्वघाती स हरतु महतामस्मदत्याहितानाम् ॥ ४९॥
रुन्ध्यात्संवर्तसन्न्ध्याघनपटलकनत्पक्षविक्षेपहेला-
वातूलास्फालतूलाञ्चलनिचयतुलाधेयदैतेयलोकः ।
आस्माकैः कर्मपाकैरभिगतमहितानीकमप्रत्यनीकैः
दीव्यन् दिव्यापदानैर्दनुजविजयिनो वैजयन्ती शकुन्तः ॥ ५०॥
यत्पक्षस्था त्रिवेदी त्रिगुणजलनिधिर्लङ्घ्यते यद्गुणज्ञैः
वर्गस्त्रैवर्गिकाणां गतिमिह लभते नाथवद्यत्सनाथः ।
त्रैकाल्योपस्थितात् स त्रियुगनिधिरघादायतात् त्रायतां नः
त्रातानेकस्त्रिधाम्नस्त्रिदशरिपुचमूमोहनो वाहनेन्द्रः ॥ ५१॥
सैकां पञ्चाशतं यामतनुत विनतानन्दनं नन्दयिष्यन्
कृत्वा मौलौ तदाज्ञां कविकथकघटाकेसरी वेङ्कटेशः ।
तामेतां शीलयन्तः शमितविषधरव्याधि दैवाधिपीडाः
काङ्क्षा पौरस्त्यलाभाः कृतमितरफलैस्तार्क्ष्यकल्पा भवन्ति ॥ ५२॥
इति वेदान्तदेशिककृतं गरुडपञ्चाशत्स्तोत्रं सम्पूर्णम् ।
This stotra couched in the grand sragdharA metre (21 syllables to a quarter) is in praise of garuDa, the vehicle of viShNu and also the ensign on His banner. garuDa is celebrated as vedAtma or embodiment of the vedas. garuDa it was that gave upadesha of hayagrIva mantra to deshika atop the Hill in Tiruvahindrapuram and hence out of gratitude deshika must have sung this hymn. shloka 85 says that garuDa had also laid a command on him in this behalf. The stotra consists of 5 sections as indicated in the stotra itself. For sheer rhythm and flow of words this stotra has no equal. Several shabda-chitras add to its greatness. shloka 38 reckons from 1 to infinity. Above all this stotra is a talismanic recipe for all poisons, diseases etc. The very first shloka enshrines the garuDa mantra.
Proofread by PSA Easwaran