श्रीगुरुचरित्राध्यायसारांशश्लोकाः
%१३९
अध्याये प्रथम इहेष्टवन्दनाख्यं
प्रोक्तं मङ्गलमथ नामधारकाख्यम् ।
प्राप्येष्टं स्तुत इह धाम हर्षणीयं
दत्तोऽदर्शयदु तनुः प्रहर्षिणीयम् ॥ १॥
सिद्धः सृष्टियुगस्थितीरिह जगौ सर्गे द्वितीये विधेः ।
संवादं कलिना च दीपकगुरूपाख्यानकं सद्विधेः ॥
यच्चाकारि हि दीपकेन गुरुसत्सेवाख्यविक्रीडितम् ।
कुर्यात्कोऽत्र तथा करोत्यपि शशः शार्दूलविक्रीडितम् ॥ २॥
तृतीयेऽध्यायेऽम्भोनशनमिति मौनैः प्रथमतोऽ-
म्बरीषोपाद्विष्णुव्रतहतिभिया वैष्णवमतः ।
व्रजानेका योनीरिति शपति दुर्वाससि हरि-
स्तमादाच्छापं यन्निजसहनताभूच्छिखरिणी ॥ ३॥
तुर्ये त्रीशाः सत्वहृत्यै यथान्नं
स्मेहन्तेऽदाच्चानसूया तथान्नम् ॥
बाला भूत्वा दुग्धमस्याः पपुस्ते
यत्कीर्तिदिक्शालिनी सर्वदाऽऽस्ते ॥ ४॥
दत्ताय ददौ द्विजाङ्गनान्नं श्राद्धात्पुरतः स पञ्चमेऽभूत् ।
श्रीपादाभिधः सुतोऽन्धपङ्गूद्धृद्भद्रविराडभूत्परिव्राट् ॥ ५॥
शिवो दशास्याय ददौ स्वलिङ्गं
प्रगृह्य तस्माद्गणपतस्ततस्तत् ॥
उपेन्द्रवज्रास्त्रमुखेरितः कौ
महाबलेशं निदधौ स षष्ठे ॥ ६॥
भूपेन्द्रवंशोन्नतयेऽत्र सप्तमे
गोकर्णमाहात्म्यमुवाच गौतमः ॥
तद्ब्रह्महत्त्यालयकृद्गतिं वदन्
चण्डालिकायाः प्रशशंस भूभते ॥ ७॥
सकुसुतविधवा सा मर्तुकामा प्रदोष-
व्रतकथनत ईशस्तान्निवत्र्याष्टमेऽन्तात् ॥
स विबुधमकरोत्तज्जं च जन्मान्तरेऽस्याः
सुत इह भविता दिङ्मालिनी यस्य कीर्तिः ॥ ८॥
आख्यानकीर्तिश्रुतितोऽस्य मुक्तिर्भवान्तरेऽसौ रजकाय राज्यम् ।
दास्यन्तिरोभून्नवमेऽत्र कृष्णातटेऽपि सम्पूरयति स्वतृष्णाम् ॥ ९॥
पथि तस्करघातितभक्तं सार्थमजीवयदेत्य चिरस्य ।
विनिहत्य च तान्दशमे श्रीपादातिवेगवती गतिरस्य ॥ १०॥
एकादशे नृहरिसंज्ञक आस सोऽम्बा-
पुत्रः प्रदोषफलदः प्रणवं पठिष्यन् ॥
भूत्वाप्यवाक्श्रुतिगणानुपनीत ऊच
उद्धर्षणीं स्वजननीं बहुधा परिष्यन् ॥ ११॥
माणवक्राक्रीडितकृद्वादश आश्वास्य विभुः ।
मातरमेत्य च काशीं न्यास्यभवत्स निराशीः ॥ १२॥
प्रसूमुखैर्जनिभुवि सङ्गतः स्वकै-
स्त्रयोदशेऽनुगयुगुपेत्य गौतमीम् ॥
मृतोत्सुकं जठररुगार्तमुद्धरन्
व्यदर्शयद् भुवि रुचिरां प्रभुर्गतिम् ॥ १३॥
सायन्देवं शक्रमिताध्याय उवाच
त्रीशो म्लेच्छं याहि न भीस्ते स तथेति ॥
गत्वा भीतम्लेच्छनृपेणार्चित एत्य नृत्यन्
रेजे मत्तमयूरो हि यथा सः ॥ १४॥
चित्रपदोक्तित ईशस्तीर्थगमाय स शिष्यान् ।
पञ्चदशे कथयित्वा तद्विधिमीरयदेव ॥ १५॥
षोडशे गुरुरथोद्धृतात्मने धौम्यशिष्यचरितोपदेशतः ।
ब्राह्मणाय विदमर्पयद् गुरुद्रोहिणेऽलमनुतप्तचेतसे ॥ १६॥
आर्यावमानितोऽदादार्यायै मूढविप्र इह जिह्वाम् ।
सप्तदशे तत्प्रेरित ईशमवाप्यालभत्ततो जिह्वाम् ॥ १७॥
भिक्षार्थं गत्वा कुसुमितलतावेल्लितद्वारदेशं
गेहं विप्रस्य प्रभुरतिदरिद्रस्य भुक्त्वापि शाकम् ॥
छित्वा वल्लीं स्ववसतिमगात्तल्लतामूलदेशे
लेभेऽर्थौघं द्विजवर इहाष्टादशे चाशिषोऽपि ॥ १८॥
अमरापूर ऊनविंशकेऽनुगगङ्गानुजपा उदुम्बरे ।
वरदे स निधाय पादुके गुरुराश्वास्य च योगिनीरगात् ॥ १९॥
प्रेतार्तिहृताऽर्भौ दत्तौ मृत एकः ।
वर्ण्यापतदम्बां विंशे तनुमध्याम् ॥ २०॥
विद्युन्मालावत्सम्बन्धं पुत्रादेः सन् चोक्त्वा बोधम् ।
सत्यै चक्रे जीवोपेतं सैके विंशेऽसौ तत्पोतम् ॥ २१॥
गन्धर्वं प्राप्य भीमामरदुहितृयुतिं भिक्षार्थमथ गुरु-
र्गत्वा दीनद्विजौको गतरदमहिषीं वन्ध्यां भरवहाम् ॥
दृष्ट्वा दुग्धं ययाचे तदनु सुवदना स्त्रीः क्षीरमदुहद्वा
इंवशेऽदात्पयोऽस्मै तदु वरदगुरुः पीत्वागमदसौ ॥ २२॥
राट् त्रयोविंश आकर्ण्य सत्तद्यशः
स्रग्विणीं स्वां पुरीमानयत्तद्वशः ॥
श्रीगुरू रक्षसेऽदाद्गतिं राजवद्राजदत्ते
मठे विश्ववासोऽवसत् ॥ २३॥
निन्दाकर्तृयतित्रिविक्रमं प्राप्य श्रीगुरुराश्वदर्शयत् ।
सैन्यं न्यासिवपुः क्षणं चतुर्विंशे यानगराजवद्विराट् ॥ २४॥
मत्तावाप्तौ श्रुतिनयविज्ञौ म्लेच्छाज्ञप्तौ द्विजविजिगीषू ।
भिक्षुर्निन्ये श्रितशिबिकौ तौ गुर्वग्र्यं पञ्चसहितविंशे ॥ २५॥
चित्रपदोक्तिभिरीशः षड्युतविंश उवाच ।
वेदतदङ्गविशाखा यं प्रणमन्ति हि लेखाः ॥ २६॥
अपि क इह यदीक्षणादपराजिताः
स बुरुडवदनाच्छ्रुइईः समवाचयत् ॥
अनयदुभमिते द्विजौ च पिशाचतां
सुगतिमथ गतौ च तौ द्विषडद्बतः ॥ २७॥
अकथयदसाविष्टाविंशे स्वकर्मविपाकतो
विविधकुगतिं हीनत्वाप्ति सचिह्नपुनर्भवम् ॥
तदघहृतये प्रायश्चित्तं च कृच्छ्रजपादिकं
पतितमकरोद् भूयोऽज्ञं सा मनोहरिणी कथा ॥ २८॥
नवद्वययुते नतेन मुनिना स पृष्टोऽवदत्
विभूतिमहिमानमानतपदास्रपायावदत् ॥
कुमारहरवादमप्यथ स वामदेवो ददौ
गतिं भसितधारणेन विधिवच्च पृथ्वीधरः ॥ २९॥
गोपीनाथसुतोऽत्रिसुतभजनात्पुत्रमापोद्वहोर्ध्वं
तत्स्त्री रुग्णं तमनयदथो पत्तनं गाणगाख्यम् ॥।
मन्दाक्रान्ताध्वनि स तु पुरस्योपकण्ठं ममार
तिंरशे तत्स्त्रीनिकटमथ गतो भूतिरुद्राक्षधृक्सन् ॥ ३०॥
स्त्रीधर्ममुवाच कुपूर्मितेऽध्याये धिषणोक्तमुपस्थिताम् ।
विन्ध्याद्रिचरित्रसमन्विताऽगस्त्यर्षिसतीचरितं च सन् ॥ ३१॥
रुक्मवतीमूचे प्रणतां तामष्टसुता सौभाग्यवती स्याः ।
प्रेतमपि द्वातिंरश इहास्या वल्लभमाशूत्थापयदीशः ॥ ३२॥
भुजगशिशुभृता नीता कुलयुगिह पुराग्न्याढ्ये ।
स्वपुरमपि सती वेश्या तत इह विकपी भूपौ ॥ ३३॥
कृतकरपुटराजप्रार्थितर्षिः सुतमृतिहतये रुद्राभिषेकम् ।
श्रुतिपुरमितसर्गेकारयद्राट्तनयमुत मृतितोऽजीवयद्द्राक् ॥ ३४॥
सुरहितदकचकथा वृत्ता शरपुरमित इह सोमाख्यम् ।
व्रतमपि यत इह सीमन्तिन्यलभदपि च दयितं नष्टम् ॥ ३५॥
तर्कपूर्युजि हलमुखी स्त्री सुशिक्षणमिषत ईट् ।
आह्निकाचरणमवदच्छाक्त्यसम्मतमु सुधिये ॥ ३६॥
प्रमिताक्षरोक्तिगुरुराह सुचिरसुरपूजनादिसकलाह्निकवित् ।
अशनादिधर्मशयनादिविधिः स्वरपूर्मितेऽत्र हतभक्तविधिः ॥ ३७॥
त्रिलोकपर्याप्तकृतोदनेन सम्भोजिता विप्रमुखा अनेन ।
अष्टत्रियुक्ते ह्युपजातयोऽपि भक्ताय दत्तो गुरुणा वरोऽपि ॥ ३८॥
नवत्रिमितसर्गे व्यधात्स्थविरवन्ध्याम् ।
कुमारललितां पिप्पलार्चनत ईशः ॥ ३९॥
खयुगमितेऽत्र कुष्ठविनिवृत्त्यै नरहरयेऽवदत्समिदर्चाम् ।
तदु विटपी द्विजश्च शुचिरासीदियमजकीर्तिरिन्नवमालिनी ॥ ४०॥
अवददिह परीक्ष्य सायन्देवं कुयुगमिते भगवान्गुरूक्तलब्ध्यै ।
विधिजमुपगतः सुपुष्पिताग्रगमवन आर्य उवाच काशीयात्राम् ॥ ४१॥
वातोर्मीतिर्द्वियुगाढ्ये स सर्गे शिष्टां यात्रां कथयन्दर्शयित्वा ।
काशीं दारादिनुतश्चानयित्वा सायन्देवं गुरुराह व्रतं सत् ॥ ४२॥
सायन्देवाय त्रियुगपरिमितेऽध्याये
प्राहेशोऽनन्तव्रतमिह च परत्रेष्टम् ॥
यस्याचीर्णेन व्यपगतदुरितो यायात्कौण्डिण्
यः पार्थश्च सुगतिमितोसम्बाधाम् ॥ ४३॥
क्षणतः श्रुतिवेदसम्मितेऽस्मिन्ननयद्यतिराज एकरूपः ।
श्र्यगमात्मरतं स तन्तुकं चानयदाशु निवेद्य राट्चरित्रम् ॥ ४४॥
यद्धीरासीद्भ्रमरविलसिता नन्द्यम्बोक्त्या कुरुगुपशमधीः ।
प्राप्येशं द्राक्स शुचिकविरभूद् गुर्वीक्षातोऽक्षयुगमित इह ॥ ४५॥
स्वप्न उपेत्य स आदद ईशो रसकृतयुक्त इहार्चनमग्र्यम् ।
केसरिदत्तमभूद्द्रुतमध्यात्मकपददस्य कविः स च शिष्यः ॥ ४६॥
दीपावल्यां सम्प्रार्थितः सप्तशिष्यैः
सप्तग्रामान्तत्क्षेत्रसंस्थोऽप्यगात्सः ॥
अष्टात्मा भूत्वा सप्तवेदाढ्य्सर्गे
लोके यन्मूर्तिर्विश्रुता वैश्वदेवी ॥ ४७॥
क्षेत्रं गुरूक्तवदशेषमपक्वधान्यं
चिच्छेद शूद्र उपगां विनिवारयन्तीम् ॥
सिंहोन्नताक्ष इव चात्मवधूं निवार्य
लेभेऽमितर्धिमिभवेदयुजीशभक्त्या ॥ ४८॥
सर्गेऽङ्कवाक्सम्मित इन्द्रवज्रालेपोपमाघक्षतिकृद्भगिन्याः ।
तत्क्षेत्रमाहात्म्यमुवाच सोऽष्टतीर्थानि चादर्शयदत्र सद्भ्यः ॥ ४९॥
खशरयुते पुरोक्तरजकोऽभवद्यवनराज आस वृषकृत्
पृथुपिटकस्तदङ्क उदितस्तदीयशमकृद्विजो नृपकथाम् ॥
अवददथो ययौ स गुरुं स्मृतिं प्रथमजन्मनोऽलभदथो
गतरुगसौ सुयानगमजं गजाश्वललितं पुरं स्वमनयत् ॥ ५०॥
राजपुरादेत्य स च नीजपीठं कीर्तिरभून्मम सुशुचिरतन्वी
स्थेयमिहातः परमिह न साक्षादित्यवनीषुयुजि स च विचार्य ॥
स्वानपि चाश्वास्य बहुवरदानैः पुष्पकृतासनगत इदमाह
मद्भजनाद्वः सुगतिरिह तिष्ठे सत्यमितीडरमभवददृश्यः ॥ ५१॥
श्रवणेच्छाश्रुतानां च तदन्येषां स्मृतिर्यतः ।
सैकपञ्चाशदध्यायसारभूतार्थमालिका ॥ ५२॥
तीर्णा आशु तरन्त्यस्मात्तरिष्यन्त्यघतो नराः ।
तीर्थं गुरुचरित्राख्यमवगाह्यमिदं बुधैः ॥ ५३॥
इति श्रीवासुदेवानन्दसरस्वतीविरचिता
श्रीगुरुसंहिता(समश्लोकीगुरुचरिता)ध्यायसारावतरणिका सम्पूर्णा ।