गुरुमहिमागुरुकृत्य

गुरुमहिमागुरुकृत्य

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ २-२२॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ २-२३॥ देवतायाः दर्शनस्य कारणं करुणानिधिम् । सर्वसिद्धिप्रदातारं श्रीगुरुं प्रणमाम्यहम् ॥ २-२४॥ वराभयकरं नित्यं श्वेतपद्मनिवासिनम् । महाभयनिहन्तारं गुरुदेवं नमाम्यहम् ॥ २-२५॥ महाज्ञानाच्छापिताङ्गं नराकारं वरप्रदम् । चतुर्वर्गप्रदातारं स्थूलसूक्ष्मद्वयान्वितम् ॥ २-२६॥ सदानन्दमयं देवं नित्यानन्दं निरञ्जनम् । शुद्धसत्त्वमयं सर्वं नित्यकालं कुलेश्वरम् ॥ २-२७॥ ब्रह्मरन्ध्रे महापद्मे तेजोबिम्बे निराकुले । योगिभिर्ध्यानगम्ये च चक्रे शुक्ले विराजिते ॥ २-२८॥ सहस्रदलसङ्काशे कर्णिकामध्यमध्यके । महाशुक्लभासुरार्ककोटिकोटिमहौजसम् ॥ २-२९॥ सर्वपीठस्थममलं परं हंसं परात्परम् । वेदोद्धारकरं नित्यं काम्यकर्मफलप्रदम् ॥ २-३०॥ सदा मनःशक्तिमायालयस्थानं पदद्वयम् । शरज्ज्योत्स्नाजालमालाभिरिन्दुकोटिवन्मुखम् ॥ २-३१॥ वाञ्छातिरिक्तदातारं सर्वसिद्धीश्वरं गुरुम् । भजामि तन्मयो भूत्त्वा तं हंसमण्डलोपरि ॥ २-३२॥ आत्मानं च निराकारं साकारं ब्रह्मरूपिणम् । महाविद्यामहामन्त्रदातारं परमेश्वरम् ॥ २-३३॥ सर्वसिद्धिप्रदातारं गुरुदेवं नमाम्यहम् । कायेन मनसा वाचा ये नमन्ति निरन्तरम् ॥ २-३४॥ अवश्यं श्रीगुरोः पादाम्भोरुहे ते वसन्ति हि । प्रभाते कोटिपुण्यञ्च प्राप्नोति साधकोत्तमः ॥ २-३५॥ मध्याह्ने दशलक्षञ्च सायाह्ने कोटिपुण्यदम् । प्रातःकाले पठेत् स्तोत्रं ध्यानं वा सुसमाहितः ॥ २-३६॥ तदा सिद्धिमवाप्नोति नात्र कार्या विचारणा ॥ २-३७॥ गुरुस्तोत्रम् । शिरसि सितपङ्कजे तरुणकोटिचन्द्रप्रभं वराभयकराम्बुजं सकलदेवतारूपिणम् । भजामि वरदं गुरुं किरणचारुशोभाकुलं प्रकाशितपदद्वयाम्बुजमलत्ककोटिप्रभम् ॥ २-३८॥ जगद्भयनिवारणं भुवनभोगमोक्षप्रदं गुरोः पादयुगाम्बुजं जयति यत्र योगे जयम् । भजामि परमं गुरुं नयनपद्ममध्यस्थितं भवाब्धिभयनाशनं शमनरोगकायक्षयम् ॥ २-३९॥ प्रकाशितसुपङ्कजे मृदुलषोडशाख्ये प्रभुं परापरगुरुं भजे सकलबाह्यभोगप्रदम् । विशालनयनाम्बुजद्वयतडित्प्रभामण्डलं कडारमणिपाटलेन्दुबिन्दुबिन्दुकम् ॥ २-४०॥ चलाचलकलेवरं प्रचपलदले द्वादशे । महौजसमुमापतेर्विगतदक्षभागे हृदि । प्रभाकरशतोज्ज्वलं सुविमलेन्दुकोट्याननम् । भजामि परमेष्ठिनं गुरुमतीव वारोज्ज्वलम् ॥ २-४१॥ गुर्वाद्यञ्च शुभं मदननिदहनं हेममञ्जरीसारं नानाशब्दाद्भुताह्लादितपरिजनाच्चारुचक्रत्रिभङ्गम् । नित्यं ध्यायेत् प्रभाते अरुणशतघटाशोभनं योगगम्यं नाभौ पद्मेऽतिकान्ते दशदलमणिभे भाव्यते योगिभिर्यत् ॥ २-४२॥ या माता मयदानवादिस्वभुजा निर्वाणसीमापुरे स्वाधिष्ठाननिकेतने रसदले वैकुण्ठमूले मया । जन्मोद्धारविकारसुप्रहरिणी वेदप्रभा भाव्यते कन्दर्पार्पितशान्तियोनिजननी विष्णुप्रिया शाङ्करी ॥ २-४३॥ या भाषाननकुण्डली कुलपथाच्छामाभशोभाकरी । मूले पद्मचतुर्दले कुलवती निःश्वासदेशाश्रिता । साक्षात्काङ्क्षितकल्पवृक्षलतिका सूद्भाषयन्ती प्रिया । नित्या योगिभयापहा विषहरा गुर्वम्बिका भाव्यते ॥ २-४४॥ ऊर्द्ध्वाम्भोरुहनिःसृतामृतघटी मोदोद्वलाप्लाविता गुर्वास्या परिपातु सूक्ष्मपथगा तेजोमयी भास्वती । सूक्ष्मा साधनगोचरामृतमयी मूलादिशीर्षाम्बुजे पूर्णा चेतसि भाव्यते भुवि कदा माता सदोर्द्ध्वामगा ॥ २-४५॥ गुरुस्तोत्रफलश्रुतिः । स्थितिपालनयोगेन ध्यानेन पूजनेन वा । यः पठेत् प्रत्यहं व्याप्य स देवो न तु मानुषः ॥ २-४६॥ कल्याणं धनधान्यं च कीर्तिमायुर्यशःश्रियम् । सायाह्ने च प्रभाते च पठेद्यदि सुबुद्धिमान् ॥ २-४७॥ स भवेत् साधकश्रेष्ठः कल्पद्रुमकलेवरः । स्तवस्यास्य प्रसादेन वागीशत्वमवाप्नुयात् ॥ २-४८॥ पशुभावस्थिता ये तु तेऽपि सिद्धाः न संशयः । गुरुलक्षणम् । आदौ साधकदेवश्च सदाचारमतिः सदा ॥ २-४९॥ पशुभावस्ततो वीरः सायाह्ने दिव्यभाववान् । एतेषां भाववर्गाणां गुरुर्वेदान्तपारगः ॥ २-५०॥ शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेषवान् । शुद्धाचारः सुप्रतिष्ठः शुचिर्दक्षः सुबुद्धिमान् ॥ २-५१॥ आश्रमी ध्याननिष्ठश्च मन्त्रतन्त्रविशारदः । निग्रहानुग्रहे शक्तो वशी मन्त्रार्थजापकः ॥ २-५२॥ निरोगी निरहङ्कारो विकाररहितो महान् । पण्डितो वाक्पतिः श्रीमान् सदा यज्ञविधानकृत् ॥ २-५३॥ पुरश्चरणकृत् सिद्धो हिताहितविवर्जितः । सर्वलक्षणसंयुक्तो महाजनगणादृतः ॥ २-५४॥ प्राणायामादिसिद्धान्तो ज्ञानी मौनी विरागवान् । तपस्वी सत्यवादी च सदा ध्यानपरायणः ॥ २-५५॥ आगमार्थविशिष्टज्ञो निजधर्मपरायणः । अव्यक्तलिङ्गचिह्नस्थो भावको भद्रदानवान् ॥ २-५६॥ लक्ष्मीवान् धृतिमान्नाथो गुरुरित्यभिधीयते । शिष्यलक्षणम् । शिष्यस्तु तादृशो भूत्त्वा सद्गुरुं पर्युपाश्रयेत् ॥ २-५७॥ वर्जयेच्च परानन्दरहितं रूपवर्जितम् । कुष्ठिनं क्रूरकर्माणं निन्दितं रोगिणं गुरुम् ॥ २-५८॥ अष्टप्रकारकुष्ठेन गलत्कुष्ठिनमेव च । श्वित्रिणं जनहिंसार्थं सदार्थग्राहिणं तथा ॥ २-५९॥ स्वर्णविक्रयिणं चौरं बुद्धिहीनं सुखर्वकम् । श्यावदन्तं कुलाचाररहितं शान्तिवर्जितम् ॥ २-६०॥ सकलङ्कं नेत्ररोगैः पीडितं परदारगम् । असंस्कारं प्रवक्तारं स्त्रीजितं चाधिकाङ्गकम् ॥ २-६१॥ कपटात्मानकं हिंसाविशिष्टं बहुजल्पकम् । बह्वाशिनं हि कृपणं मिथ्यावादिनमेव च ॥ २-६२॥ अशान्तं भावहीनं च पञ्चाचारविवर्जितम् । दोषजालैः पूरिताङ्गं पूजयेन्न गुरुं बिना ॥ २-६३॥ गुरौ मानुषबुद्धिं तु मन्त्रेषु लिपिभावनम् । प्रतिमासु शिलारूपं विभाव्य नरकं व्रजेत् ॥ २-६४॥ जन्महेतू हि पितरौ पूजनीयौ प्रयत्नतः । गुरुर्विशेषतः पूज्यो धर्माधर्मप्रदर्शकः ॥ २-६५॥ गुरुः पिता गुरुर्माता गुरुर्देवो गुरुर्गतिः । शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥ २-६६॥ गुरोर्हितं प्रकर्तव्यं वाङ्मनःकायकर्मभिः । अहिताचरणाद् देव विष्ठायां जायते कृमिः ॥ २-६७॥ मन्त्रत्यागाद् भवेन्मृत्युर्गुरुत्यागाद् दरिद्रता । गुरुमन्त्रपरित्यागाद् रौरवं नरकं व्रजेत् ॥ २-६८॥ गुरौ सन्निहिते यस्तु पूजयेदन्यदेवताम् । प्रयाति नरकं घोरं सा पूजा विफला भवेत् ॥ २-६९॥ गुरुवद् गुरुपुत्रेषु गुरुवत् तत्सुतादिषु । अविद्यो वा सविद्यो वा गुरुरेव तु दैवतम् ॥ २-७०॥ अमार्गस्थोऽपि मार्गस्थो गुरुरेव तु दैवतम् । उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदो गुरुः ॥ २-७१॥ तस्मान्मन्येत सततं पितुरप्यधिकं गुरुम् । गुरुदेवाधीनश्चास्मि शास्त्रे मन्त्रे कुलाकुले ॥ २-७२॥ नाधिकारी भवेन्नाथ श्रीगुरोः पदभावकः । गुरुर्माता पिता स्वामी बान्धवः सुहृत् शिवः ॥ २-७३॥ इत्याधाय मनो नित्यं भजेत् सर्वात्मना गुरुम् । एकमेव परं ब्रह्म स्थूलशुक्लमणिप्रभम् ॥ २-७४॥ सर्वकर्मनियन्तारं गुरुमात्मानमाश्रयेत् । गुरुश्च सर्वभावानां भावमेकं न संशयः ॥ २-७५॥ निःसन्दिग्धं गुरोर्वाक्यं संशयात्मा विनश्यति निःसंशयी गुरुपदे सर्वत्यागी पदं व्रजेत् ॥ २-७६॥ खेचरत्वमवाप्नोति मासादेव न संशयः । सद्गुरुमाश्रितं शिष्यं वर्षमेकं प्रतीक्षयेत् ॥ २-७७॥ सगुणं निर्गुणं वापि ज्ञात्वा मन्त्रं प्रदापयेत् । शिष्यस्य लक्षणं सर्वं शुभाशुभविवेचनम् ॥ २-७८॥ अन्यथा विप्रदोषेण सिद्धिपूजाफलं दहेत् । कामुकं कुटिलं लोकनिन्दितं सत्यवर्जितम् ॥ २-७९॥ अविनीतमसमर्थं प्रज्ञाहीनं रिपुप्रियम् । सदापापक्रियायुक्तं विद्याशून्यं जडात्मकम् ॥ २-८०॥ कलिदोषसमूहाङ्गं वेदक्रियाविवर्जितम् । आश्रमाचारहीनं चाशुद्धान्तःकरणोद्यतम् ॥ २-८१॥ सदा श्रद्धाविरहितमधैर्यं क्रोधिनं भ्रमम् । असच्चरित्रं विगुणं परदारातुरं सदा ॥ २-८२॥ असद्बुद्धिसमूहोत्थमभक्तं द्वैतचेतसम् । नानानिन्दावृताङ्गं च तं शिष्यं वर्जयेद् गुरुः ॥ २-८३॥ यदि न त्यज्यते वीर धनादिदानहेतुना । नारकी शिष्यवत् पापी तद्विशिष्टमवाप्नुयात् ॥ २-८४॥ क्षणादसिद्धः स भवेत् शिष्यासादितपातकैः । अकस्मान्नरकं प्राप्य कार्यनाशाय केवलम् ॥ २-८५॥ विचार्य यत्नात् विधिवत् शिष्यसङ्ग्रहमाचरेत् । अन्यथा शिष्यदोषेण नरकस्थो भवेद् गुरुः ॥ २-८६॥ न पत्नीं दीक्षयेद् भर्ता न पिता दीक्षयेत् सुताम् । न पुत्रं च तथा भ्राता भ्रातरं नैव दीक्षयेत् ॥ २-८७॥ सिद्धमन्त्रो यदि पतिस्तदा पत्नीं स दीक्षयेत् । शक्तित्त्वेन भैरवस्तु न च सा पुत्रिका भवेत् । मन्त्राणां देवता ज्ञेया देवता गुरुरूपिणी ॥ २-८८॥ तेषां भेदो न कर्तव्यो यदीच्छेच्छुभमात्मनः । एकग्रामे स्थितः शिष्यस्त्रिसन्ध्यं प्रणमेद् गुरुम् ॥ २-८९॥ क्रोशमात्रस्थितो भक्त्या गुरुं प्रतिदिनं नमेत् । अर्धयोजनतः शिष्यः प्रणमेत् पञ्चपर्वसु ॥ २-९०॥ एकयोजनमारभ्य योजनद्वादशावधिः । दूरदेशस्थितः शिष्यो भक्त्या तत्सन्निधिं गतः ॥ २-९१॥ तन्त्रयोजनसङ्ख्योक्तमासेन प्रणमेद् गुरुम् । वर्षैकेण भवेद् योग्यो विप्रो हि गुरुभावतः ॥ २-९२॥ वर्षद्वयेन राजन्यो वैश्यस्तु वत्सरैस्त्रिभिः । चतुर्भिर्वत्सरैः शूद्रः कथिता शिष्ययोग्यता ॥ २-९३॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सर्वविद्यानुष्ठाने सिद्धिमन्त्रप्रकरणे भैरवीभैरवसंवादे गुरुमहिमागुरुकृत्यः द्वितीयः पटलः ॥ १॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra. Proofread by Aruna Narayanan
% Text title            : Gurumahima Gurukritya
% File name             : gurumahimAgurukRRitya.itx
% itxtitle              : gurumahimAgurukRitya (rudrayAmalAntargatam)
% engtitle              : gurumahimAgurukRRitya
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : staff of Muktabodha.org Mark S.G. Dyczkowski
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : rudrayAmale uttaratantre 1 bhairava bhairavI sa.nvAde
% Source                : Rudrayamalam part 1 edited by Ram Prasad Tripathi and Sudhakar Malaviya
% Acknowledge-Permission: Marjorie Woollacott, Ph.D., Digital Library Coordinator muktabodha.org
% Latest update         : February 16, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org