गुरुमहिमास्वमहिमा

गुरुमहिमास्वमहिमा

गुरुर्मूलं हि मन्त्राणां गुरुर्मूलं परन्तपः ॥ १-१८८॥ गुरोः प्रसादमात्रेण सिद्धिरेव न संशयः । अहं गुरुरहं देवो मन्त्रार्थोऽस्मि न संशयः ॥ १-१८९॥ भेदका नरकं यान्ति नानाशास्त्रार्थवर्जिताः । सर्वासामेव विद्यानां दीक्षा मूलं यथा प्रभो ॥ १-१९०॥ गुरुमूलस्वतन्त्रस्य गुरुरात्मा न संशयः । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ १-१९१॥ आत्मना क्रियते कर्म भावसिद्धिस्तदा भवेत् । हीनाङ्गी कपटी रोगी बह्वाशी शीलवर्जितः ॥ १-१९२॥ मय्युपासनमास्थाय उपविद्यां सदाभ्यसेत् । धनं धान्यं सुतं वित्तं राज्यं ब्राह्मणभोजनम् ॥ १-१९३॥ शुभार्थं संप्रयोक्तव्यं नान्यचिन्ता वृथाफलम् । नित्यश्राद्धरतो मर्त्यो धर्मशीलो नरोत्तमः ॥ १-१९४॥ महीपालः प्रियाचारः पीठभ्रमणतत्परः । पीठे पीठे महाविद्यादर्शनं यदि लभ्यते ॥ १-१९५॥ तदा तस्य करे सर्वाः सिद्धयोऽव्यक्तमण्डलाः । अकस्माज्जायते सिद्धिर्महामायाप्रसादतः ॥ १-१९६॥ महावीरो महाधीरो दिव्यभावस्थितोऽपि वा । अथवा पशुभावस्थो मन्त्रपीठं विवासयेत् ॥ १-१९७॥ क्रियायाः फलदं प्रोक्तं भावत्रयमनोरमम् । तथा च युगभावेन दिव्यवीरेण भैरव ॥ १-१९८॥ प्रपश्यन्ति महावीराः पशवो हीनजातयः । न पश्यन्ति कलियुगे शास्त्राभिभूतचेतसः ॥ १-१९९॥ अपि वर्षसहस्रेण शास्त्रान्तं नैव गच्छति । तर्काद्यनेकशास्त्राणि अल्पायुर्विघ्नकोटयः ॥ १-२००॥ तस्मात् सारं विजानीयात् क्षीरं हंस इवाम्भसि । कलौ च दिव्यवीराभ्यां नित्यं तद्गतचेतसः ॥ १-२०१॥ महाभक्ताः प्रपश्यन्ति महाविद्यापरं पदम् । साधवो मौनशीलाश्च सदा साधनतत्पराः ॥ १-२०२॥ दिव्यवीरस्वभावेन पश्यन्ति मत्पदाम्बुजम् । भावद्वयं ब्राह्मणानां महासत्फलकाङ्क्षिणाम् ॥ १-२०३॥ अथवा चावधूतानां भावद्वयमुदाहृतम् । भावद्वयप्रभावेण महायोगी भवेन्नरः ॥ १-२०४॥ मूर्खोऽपि वाक्पतिः श्रेष्ठो भावद्वयप्रसादतः । ये जानन्ति महादेव मम तन्त्रार्थसाधनम् ॥ १-२०५॥ भावद्वयं हि वर्णानां ते रुद्रा नात्र संशयः । भावुको भक्तियोगेन्द्रः सर्वभावज्ञसाधनः ॥ १-२०६॥ उन्मत्तजडवन्नित्यं निजतन्त्रार्थपारगः । वृक्षो वहति पुष्पाणि गन्धं जानाति नासिका ॥ १-२०७॥ पठन्ति सर्वशास्त्राणि दुर्लभा भावबोधकाः । प्रज्ञाहीनस्य पठनमन्धस्यादर्शदर्शनम् ॥ १-२०८॥ प्रज्ञावतो धर्मशास्त्रं बन्धनायोपकल्पते । तत्त्वमीदृगिति भवेदिति शास्त्रार्थनिश्चयः ॥ १-२०९॥ अहं कर्ताऽहमात्मा च सर्वव्यापी निराकुलः । मनसेति स्वभावञ्च चिन्तयत्यपि वाक्पतिः ॥ १-२१०॥ सौदामिनीतेजसो वा सहस्रवर्षकं यदा । प्रपश्यति महाज्ञानी एकचन्द्रं सहस्रकम् ॥ १-२११॥ कोटिवर्षशतेनापि यत्फलं लभते नरः । एकक्षणमङ्घ्रिरजो ध्यात्वा तत्फलमश्नुते ॥ १-२१२॥ विचरेद्यदि सर्वत्र केवलानन्दवर्धनम् । कामरूपं महापीठं त्रिकोणाधारतैजसम् ॥ १-२१३॥ जलबुद्बुद्शब्दान्तमनन्तमङ्गलात्मकम् । स भवेन्मम दासेन्द्रो गणेशगुहवत्प्रियः ॥ १-२१४॥ कङ्कालाख्या--साट्टहासा--विकटाक्षोपपीठकम् । विचरेत् साधकश्रेष्ठो मत्पादाब्जं यदीच्छति ॥ १-२१५॥ ज्वालामुखीमहापीठं मम प्रियमतर्कवित् । यो भ्रमेन्मम तुष्ट्यर्थं स योगी भवति ध्रुवम् ॥ १-२१६॥ भावद्वयादिनिकरं ज्वालामुख्यादिपीठकम् । भ्रमन्ति ये साधकेन्द्रास्ते सिद्धा नात्र संशयः ॥ १-२१७॥ भावात् परतरं नास्ति त्रैलोक्यसिद्धिमिच्छताम् । भावो हि परमं ज्ञानं ब्रह्मज्ञानमनुत्तमम् ॥ १-२१८॥ कोटिकन्याप्रदानेन वाराणस्यां शताटनैः । किं कुरुक्षेत्रगमने यदि भावो न लभ्यते ॥ १-२१९॥ गयायां श्राद्धदानेन नानापीठाटनेन किम् । नानाहोमैः क्रियाभिः किं यदि भावो न लभ्यते ॥ १-२२०॥ भावेन ज्ञानमुत्पन्नं ज्ञानान्मोक्षमवाप्नुयात् । आत्मनो मनसा देव्या गुरोरीश्वरमुच्यते ॥ १-२२१॥ ध्यानं संयोजनं प्रोक्तं मोक्षमात्ममनोलयम् । गुरोः प्रसादमात्रेण शक्तितोषो महान् भवेत् ॥ १-२२२॥ शक्तिसन्तोषमात्रेण मोक्षमाप्नोति साधकः । गुरुमूलं जगत्सर्वं गुरुमूलं परन्तपः ॥ १-२२३॥ गुरोः प्रसादमात्रेण मोक्षमाप्नोति सद्वशी । न लङ्घयेद् गुरोराज्ञामुत्तरं न वदेत् तथा ॥ १-२२४॥ दिवारात्रौ गुरोराज्ञां दासवत् परिपालयेत् । उक्तानुक्तेषु कार्येषु नोपेक्षां कारयेद् बुधः ॥ १-२२५॥ गच्छतः प्रयतो गच्छेद् गुरोराज्ञां न लङ्घयेत् । न श‍ृणोति गुरोर्वाक्यं श‍ृणुयाद् वा पराङ्मुखः ॥ १-२२६॥ अहितं वा हितं वापि रौरवं नरकं व्रजेत् । आज्ञाभङ्गं गुरोर्दैवाद् यः करोति विबुद्धिमान् ॥ १-२२७॥ प्रयाति नरकं घोरं शूकरत्वमवाप्नुयात् । आज्ञाभङ्गं तथा निन्दां गुरोरप्रियवर्तनम् ॥ १-२२८॥ गुरुद्रोहञ्च यः कुर्यात् तत्संसर्गं न कारयेत् । गुरुद्रव्याभिलाषी च गुरुस्त्रीगमनानि च ॥ १-२२९॥ पातकञ्च भवेत् तस्य प्रायश्चित्तं न कारयेत् । गुरुं दुष्कृत्य रिपुवन्निर्हरेत् परिवादतः ॥ १-२३०॥ अरण्ये निर्जने देशे स भवेद् ब्रह्मराक्षसः । पादुकां आसनं वस्त्रं शयनं भूषणानि च ॥ १-२३१॥ दृष्ट्वा गुरुं नमस्कृत्य आत्मभोगं न कारयेत् । सदा च पादुकामन्त्रं जिह्वाग्रे यस्य वर्तते ॥ १-२३२॥ अनायासेन धर्मार्थकाममोक्षं लभेन्नरः । श्रीगुरोश्चरणाम्भोजं ध्यायेच्चैव सदैव तम् ॥ १-२३३॥ भक्तये मुक्तये वीरं नान्यभक्तं ततोऽधिकम् । एकग्रामे स्थितः शिष्यो गत्वा तत्सन्निधिं सदा ॥ १-२३४॥ एकदेशे स्थितः शिष्यो गत्वा तत्सन्निधिं सदा । सप्तयोजनविस्तीर्णं मासैकं प्रणमेद् गुरुम् ॥ १-२३५॥ श्रीगुरोश्चरणाम्भोजं यस्यां दिशि विराजते । तस्यां दिशि नमस्कुर्यात् कायेन मनसा धिया ॥ १-२३६॥ विद्याङ्गमासनं मन्त्रं मुद्रां तन्त्रादिकं प्रभो । सर्वं गुरुमुखाल्लब्ध्वा सफलं नान्यथा भवेत् ॥ १-२३७॥ कम्बले कोमले वापि प्रसादे संस्थिते तथा । दीर्घकाष्ठेऽथवा पृष्ठे गुरुञ्चैकासनं त्यजेत् ॥ १-२३८॥ श्रीगुरोः पादुकामन्त्रं मूलमन्त्रं स्वपादुकाम् । शिष्याय नैव देवेश प्रवदेद् यस्य कस्यचित् ॥ १-२३९॥ यद् यदात्महितं वस्तु तद्द्रव्यं नैव वञ्चयेत् । गुरोर्लब्ध्वा एकवर्णं तस्य तस्यापि सुव्रत ॥ १-२४०॥ भक्ष्यं वित्तानुसारेण गुरुमुद्दिश्य यत्कृतम् । स्वल्पैरपि महत्तुल्यं भुवनाद्यं दरिद्रताम् ॥ १-२४१॥ सर्वस्वमपि यो दद्याद् गुरुभक्तिविवर्जितः । नरकान्तमवाप्नोति भक्तिरेव हि कारणम् ॥ १-२४२॥ गुरुभक्त्या च शक्रत्वमभक्त्या शूकरो भवेत् । गुरुभक्तः परं नास्ति भक्तिशास्त्रेषु सर्वतः ॥ १-२४३॥ गुरुपूजां विना नाथ कोटिपुण्यं वृथा भवेत् ॥ १-२४४॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सर्वविद्यानुष्ठाने सिद्धिमन्त्रप्रकरणे भैरवीभैरवसंवादे प्रथमः पटलः ॥ १॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra. Proofread by Aruna Narayanan
% Text title            : Gurumahima Svamahima
% File name             : gurumahimAsvamahimA.itx
% itxtitle              : gurumahimAsvamahimA (rudrayAmalAntargatam)
% engtitle              : gurumahimAsvamahimA
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : staff of Muktabodha.org Mark S.G. Dyczkowski
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : rudrayAmale uttaratantre 1 bhairava bhairavI sa.nvAde
% Source                : Rudrayamalam part 1 edited by Ram Prasad Tripathi and Sudhakar Malaviya
% Acknowledge-Permission: Marjorie Woollacott, Ph.D., Digital Library Coordinator muktabodha.org
% Latest update         : February 16, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org