श्रीगुरुमहिम्नस्तोत्रम्
(श्रीअमरप्रसादभट्टाचार्यविरचितम्)
नमः श्रीगुरवे नित्यं नमोऽस्तु गुरवे सदा ।
अज्ञानध्वान्तसम्मग्नं यो मामुद्धृतवान् मुदा ॥ १॥
श्री कृष्ण कृपया नूनं प्राप्तवानस्मि त्वां विभो ।
कृष्णरूपो भवान् ह्येतद् विस्मरेयं न जातुचित् ॥ २॥
देहि त्वच्चरण द्वन्द्वे भक्ति प्रेम्नोज्जितं सदा ।
तत्त्वज्ञानप्रदानेन चक्षुरुन्मीलितं कुरु ॥ ३॥
नास्ति पारो महिम्नस्ते नास्ति तुला तव क्वचित् ।
नास्ति सीमा गुरुत्वस्य त्वं नाम्ना कार्यतो गुरुः ॥ ४॥
येन सन्दर्शितं विष्णोः सर्वव्याप्तं परं पदम् ।
दग्ध्वा विद्यां परं ज्ञानं दत्तं येन नमोऽस्तुते ॥ ५॥
निम्बार्कसम्प्रदायो यः कृष्णोपासनतत्परः ।
सदा गुर्वैकनिष्ठः सन् राजते धरणीतले ॥ ६॥
रामदासो यतिश्रेष्ठ प्रादुवर्भुव तत्र तु ।
``काठिया''नामतः ख्यातो योगी ब्रह्मविदा वरः ॥ ७॥
परात्परः गुरुं त्वञ्च भवसंसारतारकम् ।
रामदासं सदा वन्दे भक्तया परमया मुदा ॥ ८॥
तच्छिष्यः सन्तदासो यस्त्यागी सत्य परायणः ।
गुरुसेवी गुरुप्रेमी सत्तमो ब्रह्मवित्तमः ॥ ९॥
शास्त्रग्रन्थप्रणेता च इष्ट विग्रहस्थापकः
तं नोमि सततं भक्तया सन्तदासं परं गुरुम् ॥ १०॥
सन्तदासस्य शिष्यो यः सन्तदासप्रियङ्करः ॥॥
``काठिया'' नाम प्रख्यातो ह्यस्मिन् भारतमण्डले ॥ ११॥
तं धनञ्जयदासञ्च गुरुं वन्दे ह्यनिर्निशम् ।
शरणञ्च सदा यामि नित्यं गुर्वात्मदैवतः ॥ १२॥
ब्रह्मानन्दामृतास्वादी देहात्मबुद्धिवर्जितः ।
ईशार्पितमनःप्राणो योऽहं वोधविवर्जितः ॥ १३॥
यद्वपुदर्शनेनैव-तापशान्तिः प्रजायते ।
चित्तह्लादकरं तञ्च प्रणमामि सदागुरुम् ॥ १४॥
परमेशे सदा रक्तं यतिवरमनुत्तमम् ।
निश्चिन्तं परमानन्दं चित्तशान्ति प्रदायकम् ॥ १५
वासुदेवस्वरूपं तं जगन्मङ्गल विग्रहम् ।
आविर्भूत नराधारे गुरुं ब्रह्म नमाम्यहम् ॥ १६॥
जीवोद्धारव्रते युक्तो भगवच्छक्तिधारकः ।
जीवानुद्धरते यश्च करुणापूर्णमानसः ॥ १७॥
सदाप्रशान्तचित्तो यो वासुदेवपरायणः
तं नौमि सततं भक्तया परमानन्दसद्गुरुम् ॥ १८॥
सङ्गोपितात्मशक्तिर्यश्चरति लोकवत् सदा ।
तं गुरुं सततं वन्दे ममत्वबुद्धिर्वाजतम् ॥ १९॥
योद्वेष्टा सर्वभूतानां समदुःखसुखः क्षमी ।
समत्वयोगयुक्तं तं गुरुं वन्दे अहर्निशम् ॥ २०॥
शास्त्रानुशीलने निष्ठं सदाचारपरायणम् ।
श्रीधनञ्जयदासं प्रपद्येऽहं सदा गुरुम् ॥ २१॥
गुरुभक्तिसमायुक्तं गुरोः प्रियङ्करं सदा ।
धनञ्जय गुरुं वन्दे गुरुसेवापरायणम् ॥ २२॥
गुर्वानन्दसदानन्दं गुर्वर्थे सर्वचेष्टितम् ।
``गुरौ हुतामनः--प्राणं गुरुं'' नौमि धनञ्जयम् ॥ २३॥
शास्त्रज्ञो मन्त्रविद्भक्तः शास्त्र व्याख्यान क विदः ।
शास्त्रप्रचारको यश्च निम्बार्कपथचारणः ॥ २४॥
निम्बार्कमतव्याख्याता द्वैताद्वैतप्रचारकः ।
(तं) धनञ्जयं गुरुं नोमि ज्ञाने भक्तौ प्रतिष्ठितम् ॥ २५॥
पूर्वाचार्यचरित्राणि योऽलिखत् सर्वमङ्गलः ।
प्राकाशयच्च यस्तानि जगत्कल्याणकाङ्क्षया ॥ २६॥
स्थापितवांश्च देशेषु दयाश्रमान् धर्मगुप्तये ।
सर्वहिते रतं तञ्च भजामि सततं गुरुम् ॥ २७॥
सिद्धान्तनिर्णये दक्षं शास्त्रानन्दं विमत्सरम् ।
श्रोत्रियं तं गुरुं नौमि अज्ञानतिमिरापहम् ॥ २८॥
येन प्रज्वलितो ज्ञानप्रदीपो हृदिकन्दरे ।
नाशिताः संशयाः सर्वे छेदितं भववन्धनम् ॥ २६॥
दर्शितमात्मरूपं तत जनिता भगवद्रतिः ।
महिम्नः स्तवने तस्य कः समर्थः कदा भवेत् ॥ ३०॥
हे गुरो ! महिमानस्ते सदा स्फुरन्तु में हृदि ।
भवतु विमला भक्तिस्तत्पादकमले मम ॥ ३१॥
क्षमाशीलः सदेव त्वं सततं भक्तवत्सलः ।
नित्यापराधशीलस्य अपराधान् क्षमस्व मे ॥ ३२॥
नास्ति मे योग्यता काचित्त्वमेव शरणं मम ।
अशरणशरण्यस्त्वं कृपां कुरु ममोपरि ॥ ३३॥
केशेषु मां गृहोत्वा त्वं संसारसागरान्नय
आनीय पादपद्मे ते स्थापय मां सदाऽच्युतम् ॥ ३४॥
नमोऽस्तु गुरवे तुभ्यं संसारार्णवतारक ।
संसारसागरे मग्नं मां समुद्धर हे गुरो ॥ ३५॥
न जातु विस्मरेयं त्वां न त्वं मां विस्मरेः क्वचित् ।
भवतान्मे परा भक्तिस्त्वयि जन्मनि जन्मति ॥ ३६॥
देहि मे प्रेमभक्ति त्वं कृपया स्वात्मसात् कुरु ॥
गुरो ! त्वच्चरणद्वन्द्वे भूयो भूयो नमाम्यहम् ॥ ३७॥
! ! जय श्रीराधे ! !
इति श्री अमरप्रसादभट्टाचार्यविरचितं
श्रीश्रीश्रीगुरुमहिम्नस्तोत्रं सम्पूर्णम् ।
Proofread by Mohan Chettoor