गुरुराजसप्ततिः
विज्ञानैकवदान्यं विबुधैर्मान्यं कलेशमूर्धन्यम् ।
श्रीमत्त्यागाधीशं गुरुं मखीशं भजेतरामनिशम् ॥ १॥
यागानन्दितदेवो रागादीनामगोचरस्वान्तः ।
वागालयाननाब्जस्त्यागाधीशाभिधो गुरुर्जयति ॥ २॥
गदितपदवाक्यमानं गलदभिमानं गभीरमहिमानम् ।
शिष्याणां दयमानं गुणभूमानं गुरुं भजेऽमानम् ॥ ३॥
तरुणाविवेकशैले स्वरुणा तुल्या कवित्वविधिकल्या ।
गुरुणा विहिता सुहिता करुणा काचित् करोति मयि खेलाम् ॥ ४॥
न्यस्ते विष्टरवर्ये ध्वस्तेतरदुर्मतस्थबुधचर्ये ।
शस्ते गुरुवरचरणे हस्ते कृत्वा कृतार्थ एषोऽहम् ॥ ५॥
आशाजाङ्घिककीर्तिः पाशापोहावलोकनिजमूर्तिः ।
ईशावतार एको धीशाली देशिकेश्वरो जयति ॥ ६॥
द्वैतमतध्वंसकरं कैतवरहितस्वभावजनसुलभम् ।
रैततिनिराशहृदयं नैतमुदारं जहामि गुरुनाथम् ॥ ७॥
धीकीलालजबन्धौ मूकीभूतप्रतीपबुधघूके ।
एकीभूतदयौघे कोकीभूयान्मनो गुरुवरार्के ॥ ८॥
अविरतहविरास्वादनघुमुघुमितश्वासलम्पटा भृङ्गाः ।
इति मतिवितारिगलगतरुद्राक्षं देशिकेन्द्रमद्राक्षम् ॥ ९॥
ध्यानारूढमहेशाज्ज्ञानानन्दामृतौघघनभावात् ।
दूना परमतविबुधात् का नाम कथा परत्र गुरुवर्यात् ॥ १०॥
त्रेतागारनिविष्टं पीतात्मीयावबोधसुखपूरम् ।
घृताखिलदुरितौघं पातास्म्यक्ष्णा कदा नु परमगुरुम् ॥ ११॥
द्राक्षेक्षुमाधुरीणामाक्षेपकसूक्तिकर्मसु धुरीणम् ।
भ्रूक्षेपदासभूपं वीक्षे विज्ञानशेवधिं कमपि ॥ १२॥
भासितसिततरभसितभ्राजितवपुषे कवित्वविभवपुषे ।
विदितर्कूसामकयजुषे विनतिर्गुरवे दय समुदयजुषे ॥ १३॥
दम्भादिदूरहृदयं पुम्भावापन्नशारदासदृशम् ।
सम्भावयामि चेतसि तं भासा तुलितचन्द्रशिशुमौलिम् ॥ १४॥
वरतरबहुनिजशिष्यं सुरगुरुलज्जाकरस्ववैदुष्यम् ।
विदलितधीकालुप्यं हृदये कलयन् परं गुरुमतुप्यम् ॥ १५॥
विद्या खलु देयानां हृद्या तदमूं वितीर्य सार्थाख्यः ।
अद्यासौ गुरुमुख्यश्छिद्यादस्मासु दृष्टिवैमुख्यम् ॥ १६॥
कुण्ठितकुमतगविद्वत्कुलगर्वं कूलमुद्वहकृपौघम् ।
कुन्दावभासयशसं कुर्वे हृदये गुरुं कुटिलदूरम् ॥ १७॥
मोहं विभिद्य सम्यक् सोऽहम्बुद्ध्या शिवं हृदि भजन्तम् ।
देहं च विस्मरन्तं कोऽहं कुक्षिभरिर्गुरुं स्तोतुम् ॥ १८॥
शान्तं शिवमिव भान्तं परिहतजान्तं पलायितध्वान्तम् ।
कान्तं विमलस्वान्तं भजे नितान्तं बुधीकृतभ्रान्तम् ॥ १९॥
दासायितावनीपं जितनलिनीपं यशोभृतद्वीपम् ।
ध्वान्तनिवहप्रदीपं धुतनततापं भजे कमपि दीपम् ॥ २०॥
अज्ञानाप्रतिहरणं यज्ञानां सुहितहिमकराभरणम् ।
विज्ञानार्थिषु शरणं प्रज्ञानघनं प्रणौमि गुरुचरणम् ॥ २१॥
दोषानुषङ्गदूरा भूषा सर्वज्ञमूर्ध्नि शुचिवेषा ।
एषा काचन नितरां तोषायास्माकमस्तु शशिलेखा ॥ २२॥
परितः परिहृतपङ्को भरितो भसितावदातरुचिभारैः ।
वर्जितगर्जितलेशो वर्षति बोधं बलाहकः कोऽपि ॥ २३॥
मण्डितचम्पकगहनं खण्डिततमभेदवादिजनकथनम् ।
दण्डितमदादिषडरिं पण्डितमणिमानतोऽस्मि परमगुरुम् ॥ २४॥
स्पर्शितभुजङ्गभीतिर्दर्शितषड्दर्शनस्ववाग्रीतिः ।
विविधं मेधं विघ्नन् विद्याकेकी विराजते कोऽपि ॥ २५॥
प्रतिमतबुधकुलजैत्रं प्रथितच्छात्रं प्रसादभृतनेत्रम् ।
प्रयततमदिव्यगात्रं प्रज्ञापात्रं भजे कलुषदात्रम् ॥ २६॥
विद्यापारावारं विमतविदारं विधेयसुखभारम् ।
भूमौ कृतावतारं गौरीदारं भजे गुरुमुदारम् ॥ २७॥
विलसति न बुधः पुरतः कविरपि कश्चित् तथाग्रतो यस्य ।
चित्रचरित्रः सोऽयं कुत्रचिदास्ते गुरुर्महति देशे ॥ २८॥
यशसा जितविधुबिम्बं वेदान्ताम्भोजसारलोलम्बम् ।
व्रजिनव्रजगिरिशम्बं विद्यालम्बं भजे तमविलम्बम् ॥ २९॥
विज्ञानौधनिकायं विनष्टमायं विशुद्धजनगेयम् ।
कलितमखसम्प्रदायं गुणसमुदायं गुरुं रसादायम् ॥ ३०॥
विहिताम्नायत्राणान् विरचितविद्याख्यरत्नविश्राणान् ।
कानपि वाणीप्राणान् कलये भसितं सित्तं सुबिभ्राणान् ॥ ३१॥
निजमहिमभरितलोकं नितरामुद्यत्तमोपहालोकम् ।
विमतभिदाधृतयत्नं विद्यारत्नं विराजते किमपि ॥ ३२॥
स्फारीभवत्स्ववाचा दूरिकृतदुर्मतस्थदुष्टगजः ।
पुण्ये चम्पारण्ये खेलति विज्ञानकेसरी कश्चित् ॥ ३३॥
गुरुरपि कविताशाली शुचिरपि भास्वान् विभूतिभरितोऽपि ।
सम्पदि निरीहचेताः संवित्पूरः प्रकाशते कोऽपि ॥ ३४॥
कलिना मर्महतानां कर्मवराणां स कश्चिदालम्बः ।
विलसति चम्पकविपिने वितरन् ज्ञानामृतं विनम्राणाम् ॥ ३५॥
शिष्टानां सहकृत्वा शितया बुद्ध्या तु जीवसहयुध्वा ।
श्रुतिनिवहपारदृश्या राजति यज्वा स मे मतावृज्वाम् ॥ ३६॥
विबुधजनैरपि मृग्यं विशिष्य भूपालकार्हणायोग्यम् ।
विनतजनमात्रभोग्यं विधिमहिलाया विराजते भाग्यम् ॥ ३७॥
भिन्दानमखिलविशयं विन्दानं विविधशास्त्रवाक्यार्थम् ।
मन्दाननुगृह्णन्तं स्पन्दानन्तरितचक्षुरीक्षे तम् ॥ ३८॥
कलिना मलिनस्वान्तैर्भ्रान्तैः सञ्चालितेन शीलेन ।
गाढं दृढ इति कलितः पण्डित एकः परोरजा भाति ॥ ३९॥
भस्मितदुर्मततूलं भव्ययशः कृतहरिद्वरदुकूलम् ।
जडतासरितः कूलं जयति जगत्यां महस्तु चिन्मूलम् ॥ ४०॥
श्रितनन्दनस्वभावः शाखाशतभूषितो बुधश्लाघ्यः ।
कल्पकभूरुह एको जल्पति जगतां कलाः समस्ताश्च ॥ ४१॥
अज्ञातपरुषघोषो विज्ञानाब्धिः परेण पुरुषेण ।
विलसितनिजान्तरोऽसौ वितरति कश्चित् सरस्वतीं भजताम् ॥ ४२॥
सम्पूर्णशारदागमसम्प्राप्तोल्लासभासुरो जगति ।
एको हि राजहंसो लोकोत्तर एजते विशुद्धात्मा ॥ ४३॥
रक्षन् क्षमामजस्रं तक्षन् दुर्वादकेलिमाक्षिप्य ।
अपथविदूरप्रकृतिर्नृप इव कश्चिद् विपश्चिदाभाति ॥ ४४॥
विज्ञानराशिकोशं वित्तनिराशं विरुद्धमतनाशम् ।
विमलयशोभरिताशं जितवागीशं श्रयामि गुर्वीशम् ॥ ४५॥
भसितत्रिपुण्ड्रयुक्तं भगवत्पूजाविधानसंसक्तम् ।
पठितातिपुण्यसूक्तं पण्डितमेकं भजे दिवानक्तम् ॥ ४६॥
अद्वैतराजधानीदृढतरवप्रं दिनेशमिव दीप्रम् ।
कलये हृदये तमहं करुणाभरितं कलङ्कहरचरितम् ॥ ४७॥
दग्धेतरमतवादस्निग्धे दयया दृशा भृशं कुर्वन् ।
मुग्धे मयि कोऽपि गुरुर्दुग्धे विद्याविशेषसर्वस्वम् ॥ ४८॥
जित्वरमखिलबुधानां सृत्वरयशसं दिशासु निखिलासु ।
सत्वरमुपैमि शरणं गत्वरमृजुना पथा गुरुश्रेष्ठम् ॥ ४९॥
जडतालताकृपाणी जपार्थमालाविलासयुतपाणी ।
पीयूषतुल्यवाणी पिनष्टु काचिच्छुचं कृपाश्रेणी ॥ ५०॥
वित्तविनिग्रहयालुं विनतदयालुं मतावनिद्रालुम् ।
शास्त्रेष्वसंशयालुं प्रणिपतयालुर्भवामि तं प्राज्ञम् ॥ ५१॥
क्षेपिष्ठं कवितायां क्षोदिष्ठद्वैतखण्डनवरिष्ठम् ।
कलये मतिवर्षिष्ठं कलुषदविष्ठं कलावतां श्रेष्ठम् ॥ ५२॥
नतजनकृपानुकम्पं नाम्नैवोद्यत्प्रतीपबुधकम्पम् ।
यशसा दिशासु लिम्पं हृदये कृत्वा गुरुं शुचमलुम्पम् ॥ ५३॥
कर्मवरकरणगृध्नुः कलुषत्रस्नुः कदध्वगक्षिप्नुः ।
कश्चन वादे धृष्णुः कलयति विहृतिं स चम्पकारण्ये ॥ ५४॥
निखिलजनेड्यं कर्मानुष्ठास्नुर्निगमसीम्नि निष्ठास्नुः ।
धिषणायामग्रस्नुर्धिनोतु कश्चिद्धिया धिषणजिष्णुः ॥ ५५॥
जनान्धङ्करणं सुभगङ्करणं सुधोपमैः सूक्तैः ।
नमतामाढ्यङ्करणं ज्ञानाद्वैतं चकास्ति विमपि भुवि ॥ ५६॥
परशिवसघ्रीचीनं विष्वद्रीचीनविमलकीर्तिभरम् ।
कलुषपराचीनमतिं कलये कञ्चिद् बुधं समीचीनम् ॥ ५७॥
अद्वैतद्रढिमानं धीकृशिमानं क्षणेन धुन्वानम् ।
विद्वत्परिबृढिमानं वीक्षे कञ्चिद्विशुद्धमहिमानम् ॥ ५८॥
सुचरितविधिजीवातुः सुधया सहयुध्वसूक्तिरसपूरः ।
विधुसघ्रीचीनयशाः विभाति कश्चिद्विपश्चिदग्रण्यः ॥ ५९॥
करुणारसाम्बुधीनां कलुषरिपूणां कनद्यशोभूम्नाम् ।
सततं वरिवसिताहं सारस्वतसारजीवनाडीनाम् ॥ ६०॥
निगमपथसञ्चरिष्णुर्निराकरिष्णुर्निकृष्टमतघोषम् ।
कापथविनिवर्तिष्णुः कलयतु मेधां गुरुः प्ररोचिष्णुः ॥ ६१॥
छविभूतिस्फुरदङ्गोऽप्यच्छविभूतिस्फुरच्छरीरोऽयम् ।
कीर्तिभृतोऽपि विशुद्धो गुह्यश्चित्रीयते गुरूत्तंसः ॥ ६२॥
विबुधैरखिलैर्वन्द्यः विहितप्रीतिर्विशिष्य गणपतये ।
विज्ञानदानशौण्डः कोऽपि गिरीशः कुतूहलं कुरुते ॥ ६३॥
सङ्क्षुण्णतमस्काण्डः सभुवनजातप्रतीक्ष्यनिजपादः ।
निखिलजगद्बोधकरः निस्तुलतेजाश्चकास्ति मिहिर इव ॥ ६४॥
वासर इवासदृक्षः वारिद इव वर्षितामृतस्रोताः ।
वादे निपुणश्चम्पकवन्यामास्ते वदावदः कश्चित् ॥ ६५॥
क्षीरमपि क्षारतरं मोचा नीचा सुधाविधापि मुधा ।
माक्षिकमनीक्षिकार्हं कलिते ललिते गिरो गुरोः सारे ॥ ६६॥
भास्वान् कलाधिनाथः मङ्गलरूपो बुधो गुरुश्च कविः ।
सूर्यानन्दनरूपस्तनुते कश्चिन्मुदं तमः-केतुः ॥ ६७॥
विचनीकसीति मेधा विसनीस्रंसीति येन जडता च ।
तं प्रणिपनीपतीमि प्रश्रयभरितः प्रवेकमार्याणाम् ॥ ६८॥
ज्ञानलवलाभमात्रा धन्यम्मन्यैरलं बुधैरन्यैः ।
वाङ्मनसदूरदूरं वन्दे विज्ञानराशिमेव गुरुम् ॥ ६९॥
जगदभिवन्द्याय नमो जडजनचैतन्यवर्षकाय नमः ।
नतजनसुलभाय नमो निस्तुलविज्ञानराशयेऽस्तु नमः ॥ ७०॥
इति गणपतिना कृतिना गुह्या गुरुराजसप्ततिः कलिता ।
ललितारसभरमिलिता पठतां भक्त्या ददाति पाण्डित्यम् ॥ ७१॥
विजये चिरचितविजये विहिता गुरुराजसप्ततिः सेयम् ।
अहिमकरे प्रेमकरे मकरे च करे परे बरे वारे ॥ ७२॥
इति श्री(पैङ्गनाडु)गणपतिशास्त्रिणा विरचिता गुरुराजसप्ततिः सम्पूर्णा ।
स्तोत्रसमुच्चयः २ (९२)
Painnanadu Ganapatisastrin is a recent author
(A.D. 1871-1913) and a reputed scholar, being
a disciple of Mm. Mannargudi Rajusastrin ( alias
Tyagarajamakhin) belonging to Appayadiksita’s
family. The Gururajasaptali (92) in Arya metre
is on his Guru (Tyagarajamakhin).
Proofread by Rajesh Thyagarajan