गुरुसेवामाहात्म्यम्
विष्णुरुवाच ।
श्वेतद्वीपादागतोऽहं ज्ञात्वा कोलाहलं च वः ।
अस्य रामस्य रक्षार्थं कृष्णभक्तस्य साम्प्रतम् ॥ ५६॥
नैतेषां कृष्णभक्तानामशुभं विद्यते क्वचित् ।
रक्षामि तांश्चक्रहस्तो गुरुमन्यं विना शिव ॥ ५७॥
नाहं पाता गुरौ रुष्टे बलवद्गुरुहेलनम् ।
तत्परः पातकी नास्ति सेवाहीनो गुरोश्च यः ॥ ५८॥
मान्यः पूज्यश्च सर्वेभ्यः सर्वेषां जनको भवेत् ।
अहो यस्य प्रसादेन सर्वान्पश्यति मानवः ॥ ५९॥
जनको जन्मदानाच्च पालनाच्च पिता नृणाम् ।
ततो विस्तारकरणात्कलया स प्रजापतिः ॥ ६०॥
पितुः शतगुणं माता पोषणाद्गर्भधारणात् ।
वन्द्या पूज्या च मान्या च प्रसूस्स्याद्वै वसुन्धरा ॥ ६१॥
मातुः शतगुणं वन्द्यः पूज्यो मान्योऽन्नदायकः ।
यद्विना नश्वरो देहो विष्णुश्च कलयाऽन्नदः ॥ ६२॥
अन्नदातुः शतगुणोऽभीष्टदेवः परः स्मृतः ।
गुरुस्तस्माच्छतगुणो विद्यामन्त्रप्रदायकः ॥ ६३॥
अज्ञानतिमिराच्छन्नं ज्ञानदीपेन चक्षुषा ।
यः सर्वार्थं दर्शयति तत्परो नैव बान्धवः ॥ ६४॥
गुरुदत्तेन मन्त्रेण तपसेष्टसुखं लभेत् ।
सर्वज्ञत्वं सर्वसिद्धिं तत्परो नैव बान्धवः ॥ ६५॥
सर्वं जयति सर्वत्र विद्यया गुरुदत्तया ।
तस्मात्पूज्यो हि जगति को वा बन्धुस्ततोऽधिकः ॥ ६६॥
विद्यान्धो वा धनान्धो वा यो मूढो न भजेद्गुरुम् ।
ब्रह्महत्यादिभिः पापैः स लिप्तो नात्र संशयः ॥ ६७॥
दरिद्रं पतितं क्षुद्रं नरबुद्ध्याऽऽचरेद्गुरुम् ।
तीर्थस्नातोऽपि न शुचिर्नाधिकारी च कर्मसु ॥ ६८॥
पितरं मातरं भार्यां गुरुपत्नीं गुरुं परम् ।
यो न पुष्णाति कापट्यात्स महापातकी शिव ॥ ६९॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुरेव परं ब्रह्म गुरुर्भास्कररूपकः ॥ ७०॥
गुरुश्चन्द्रस्तथेन्द्रश्च वायुश्च वरुणोऽनलः ।
सर्वरूपो हि भगवान्परमात्मा स्वयं गुरुः ॥ ७१॥
नास्ति वेदात्परं शास्त्रं न हि कृष्णात्परः सुरः ।
नास्ति गङ्गासमं तीर्थं न पुष्पं तुलसीदलात् ॥ ७२॥
नास्ति क्षमावती भूमेः पुत्रान्नास्त्यपरः प्रियः ।
न च दैवात्परा शक्तिर्नैकादश्याः परं व्रतम् ॥ ७३॥
शालग्रामात्परो यन्त्रो न क्षेत्रं भारतात्परम् ।
परं पुण्यस्थलानां च पुण्यं वृन्दावनं यथा ॥ ७४॥
मोक्षदानां यथा काशी वैष्णवानां यथा शिवः ।
न पार्वत्याः परा साध्वी न गणेशात्परो वशी ॥ ७५॥
न च विद्यासमो बन्धुर्नास्ति कश्चिद्गुरोः परः ।
विद्यादातुः पुत्रदारौ तत्समौ नात्र संशयः ॥ ७६॥
गुरुस्त्रियां च पुत्रे चाप्यभवद्रामहेलनम् ।
परं सम्मार्जनं कर्तुमागतोऽहं तवालयम् ॥ ७७॥
इति ब्रह्मवैवर्तपहराणे गणपतिखण्डे चतुश्चत्वारिंशाध्यायान्तर्गतं
गुरुसेवामाहात्म्यं समाप्तम् ।
ब्रह्मवैवर्तपुराण । गणपतिखण्ड । अध्याय ४४/५८-७६॥
brahmavaivartapurANa . gaNapatikhaNDa . adhyAya 44/58-76..
Proofread by PSA Easwaran