गुरुस्तवनीराजनशतकम्
१ गुरुरेव सद्गुरुः गुरुरेव जगद्गुरुः
गुरुरेव सद्गुरुः गुरुरेव जगद्गुरुः ।
गुरुरेव विरिञ्चिविष्णुविषकण्ठः ॥ पल्लवि॥
अध्यात्मयोगनिष्ठो विशिष्टः
अनुभवतत्परः परमविशिष्टः
अपरविद्यातटदर्शकः
अक्षरविद्याप्रदायकः ॥ १॥
आर्षसंप्रदाय रक्षकः
आत्मश्रद्धासंवर्धकः
अन्तःकरणवैकल्यनाशकः
आत्मतृप्तः गीतसुधास्वादकः ॥ २॥
२ गुरुवरं वन्दे दिव्यनेत्रम्
गुरुवरं वन्दे दिव्यनेत्रम् ।
गुणसागरं सच्चरित्रम् ॥ पल्लवि॥
शान्तं दान्तं विपश्चितं
पञ्चविषयस्पन्दनरहितं
गुणातीतं द्वन्द्वातीतं
गहनतत्त्ववेत्तं रञ्जितम् ॥ १॥
अनुभवरहित संवाददूरं
अन्धश्रद्धाहरणचतुरं
कृतनिश्चयं अप्रतीकारं
कृतकृत्यं गीतसुधाकरम् ॥ २॥
३ गुरुपादवारिजाभ्यां नमस्ते
गुरुपादवारिजाभ्यां नमस्ते ।
गुरुहस्तनीरजाभ्यां नमस्ते ॥ पल्लवि॥
लोकसेवापरायणाय
लोकसम्पर्क विधिपावनाय
सहज सात्त्विकभावपूर्णाय
नमस्ते ज्ञानविज्ञानपूर्णाय ॥ १॥
समस्त जीवहितचिन्तकाय
समस्त शिष्यगणपरिरक्षकाय
स्वावलम्बनसुखदायकाय
नमस्ते गीतसुधास्तुताय ॥ २॥
४ गोचरागोचरतत्त्वकोविद
गोचरागोचरतत्त्वकोविद ।
गम्यं गच्छामि तव कारुण्येन ॥ पल्लवि॥
लोकव्यवहारनिरतोऽहं
राजसिकगुणग्राम सदनोऽहं
साधकगुणदोषमर्मज्ञ त्वया
ध्येयं पशयामि गीतसुधाश्रय ॥ १॥
वासनाबद्धोहं कामनावृतोऽहं
विवेकज्योतिं कथं पश्यामि
वैराग्यपूर्णेन बुद्धिबलपूर्णेन
तव कारुण्येन गम्यं गच्छामि ॥ २॥
५ गुरुदेव तव वचनसुधावाहिनी
गुरुदेव तव वचनसुधावाहिनी ।
गूढतत्त्वबोधिनी जीवभावकर्षिणि ॥ पल्लवि॥
साधकसंस्तुत ज्ञानवैभव
स्वाधीनकृत प्राणवैभव
सहज मधुर हितकरस्वभाव
संतृप्तिसदन सदा मामव ॥ १॥
स्वलाभ योजन दर्शन दूर
स्वजन व्यामोहभ्रान्तिहर
स्थूलसूक्ष्मविवेकपर
शिष्यगण कृतपुण्य सुरूपधर ॥ २॥
६ गुरोर्शान्ति निलये त्वं चर
गुरोर्शान्ति निलये त्वं चर ।
गुरोर्कान्ति वलये सञ्चर ॥ पल्लवि॥
सर्वतीर्थमयस्य ज्ञानधनस्य
सर्वकाल मन्दस्मितवदनस्य
सर्वस्वतन्त्रस्य प्रमोदस्य
सर्वसाधक स्तोम सम्भावितस्य ॥ १॥
शुभाशुभातीतस्य शान्तस्य
श्रवणमनन निधिध्यासनवेत्तस्य
पञ्चक्लेशरहितस्य भीतिहरस्य
पाञ्चभौतिक देह मोहहरस्य ॥ २॥
७ गुरुमूर्तिस्थापित ज्ञानालये
गुरुमूर्तिस्थापित ज्ञानालये ।
गुरुविश्वविद्यालये समुद्धर ॥ पल्लवि॥
गुरुरेव निर्मलः गुरुरेव केवलः
गुरुरेव ध्यानसमाधिमूलः
क्षराक्षरविवेचनविशारदः
पुरुषोत्तम धामारूढः ॥ १॥
सनातनधर्म परिरक्षकः
निरुपद्रवकर कर्मकुशलः
ईषणत्रय पाशमुक्तः
ईप्सितदायकः गीतसुधासक्तः ॥ २॥
८ गुरुवचनपीयूष सरसि निमग्न
गुरुवचनपीयूष सरसि निमग्न ।
गुरुचरण रजस्पर्शे संलग्न ॥ पल्लवि॥
वाक्कायमानस सामरस्ये आरोह
वाग्वादभेद तरुशाखाभ्याम् अवरोह
जपतप ध्यानादि योगे अनुगच्छ
सत्प्रवर्तने सर्वदा त्वं गच्छ ॥ १॥
वेदसारवर्षिणी गुरुबोधतरङ्गिणी
इत्यस्तु गुरुस्म्रृतिः चित्तवृत्तिपावनी
निजानन्दनिधि संशोधया त्वरया
निस्त्रैगुण्यो भव गीतसुधामय ॥ २॥
९ गुरुदेव त्वमेव निस्त्रैगुण्यः
गुरुदेव त्वमेव निस्त्रैगुण्यः ।
गुणमय प्रकृतिलीलाविलासे ॥ पल्लवि॥
सत्यमिथ्यदर्शन स्पर्शमणीश
दृग्दृश्यविवेक चिन्तामणीश
चतुरन्तःकरण नागमणीश
सम्भाव्य संसेव्य स्वयम्प्रकाश ॥ १॥
नूतन समाज सत्यनिर्मापक
नव नव यौगिक विधाननिर्देशक ।
परम्परासंप्राप्त ज्ञानरक्षकः
परस्परं भावयितुं शिक्षकः ॥ २॥
१० गुरोरङ्घ्रि वारिजद्वये
गुरोरङ्घ्रि वारिजद्वये ।
गहनविषयं सुग्राह्यम् ॥ पल्लवि॥
घटनावलि मध्ये सत्यमावृतं
घोषित सुभाषित सारमज्ञातं
यशापयशसम जीवितमस्तु
एतानि विषयाः प्रतिदिनं विदिताः ॥ १॥
कृतकर्मफलानि समर्पिताः
विकृतभावाः परिवर्तिताः
शान्ताः वचनाः संवर्धिताः
गीतसुधामय गीतास्सुगीताः ॥ २॥
११ गुरुसेवाकार्ये दीक्षां वह
गुरुसेवाकार्ये दीक्षां वह ।
गुरुकृपावर्षे दोषान् दह ॥ पल्लवि॥
सच्चिन्तनसमयः शुक्लपक्षः
विषयचिन्तनायां कृष्णपक्षः
एतत् बुद्ध्वा भव योगस्थः
गीतसुधानुत भवाशुस्वस्थः ॥ १॥
लौकिकजनमध्ये मूकवद्भव
विकारग्रीष्मे अन्धवद्भव
शमदमयुक्तो भव प्रतिदिनं
रजस्तमो रहितो भव प्रतिक्षणम् ॥ २॥
१२ गुरुनयन शशिभानु तेजोदर्शने
गुरुनयन शशिभानु तेजोदर्शने ।
गीर्वाणि कृपा ज्योतिं स्थापय ॥ पल्लवि॥
उपवास गिरिवास महत्वमल्पं
दानहवनयात्रा साफल्यमल्पं
लोकप्रदक्षिणे आद्यन्तमस्ति
आत्मप्रदक्षिणे सोऽहम्भावमस्ति ॥ १॥
सहस्रसहस्रकर्माणि करोषि
सहस्रसहस्रालोचनान् करोषि
उदात्तभागे तव प्राप्तिरस्ति
लौकिकभागे अल्पप्राप्तिरस्ति ॥ २॥
१३ गुरवर धीवर तवाराधने
गुरवर धीवर तवाराधने ।
विकसित मम प्रज्ञा प्रज्वलितः ॥ पल्लवि॥
दैवीभावोद्दीपितोऽहं
धृत्युत्साह पूरितोऽहं
सहज समर्पणभावार्चने
सुनिश्चित सुमतिर्जागृतं मम ॥ १॥
शरणागतं मां कृपया दृष्ट्वा
सच्छिष्य गुणान् नवरत्नान् दत्वा
सृजनशील प्रवृत्तिं सर्वदा यच्छ
जन्म मे सफलमस्तु गीतसुधाश्रित ॥ २॥
१४ गुरुदेव प्रसरसि ज्ञानकिरणान्
गुरुदेव प्रसरसि ज्ञानकिरणान्
गगनमणीव मम भाग्यमिदम् ॥ १॥
गद्य पद्य शिक्षाप्रदानेन
बुद्धिव्यवसाय विधानेन
अनूह्य विधिनेम प्रेमबलेन
आनयसि मां हे दिव्यचेतन ॥ १॥
विमृश्य लौकिकं किं मम लाभम् ?
विमृश्य तात्त्विकं कुत्र मम शोकम् ?
प्रज्ञाप्रबोधक योगपथदर्शक
गीतसुधानुत जीवशुभचिन्तक ॥ २॥
१५ गुरुपदपङ्केरुहौ ध्यायामि
गुरुपदपङ्केरुहौ ध्यायामि ।
गुरुपदरजेन भवपङ्कं त्यजामि ॥ पल्लवि॥
मम गुरुः परमगुरुरिति हृष्यामि
मम गुरुसान्निध्य भाग्यं स्मरामि
अमलं छलं ममाभूषणमिति
अहं तु तृप्तः गुरुध्यानेन ॥ १॥
उद्विग्न जनमध्ये मौनरतो भूत्वा
सद्भावमय भक्तिगानरतो भूत्वा
अद्वैतसुधा स्वातिवृष्टि कातरे
चातकोऽहमस्मि करिष्यतु मां मौक्तिकम् ॥ २॥
१६ गुरुर्श्रेष्ठ हृदयगुहान्तर्गामी
गुरुर्श्रेष्ठ हृदयगुहान्तर्गामी
गुरुवर ममाभ्यासे भवतु क्षमी ॥ पल्लवि॥
ऋषिसन्देशामृत प्रचारकः
ऋषिरचित सद्ग्रन्थमर्म बोधकः
शरणागत धीयन्त्रचालकः
लोकसङ्ग्रहानन्ददायकः ॥ १॥
सच्छिष्यजित योगपथ परिपालकः
जीवेश्वराभेद सद्दर्शकः
ज्ञानखड्गधरः मोहभ्रान्तिदूरः
ज्ञानधरः भवतु गीतसुधाकरः ॥ २॥
१७ गहनतम परम तत्त्वदर्शि
गहनतम परम तत्त्वदर्शि ।
गुहोपम हृदये हे प्राणस्पर्शि ॥ पल्लवि॥
कारुण्य मेरुशृङ्गारोहि
औदार्यगुणनिधि त्वमेव सम्भाव्य
विरुद्ध संस्कार घर्षणेऽहं
निरुद्धसंस्कारः कथं भवामि ॥ १॥
जीवनसमर समये हृद्दौर्बल्ये
साधनायात्रापथे विचलितोऽहं
सर्वाक्षराः तव मन्त्राः तन्त्त्राः
स्तुतिबले पाहि मां गीतसुधाश्रित ॥ २॥
१८ गुरुवर सुधीवर परमाश्रय
गुरुवर सुधीवर परमाश्रय ।
गुरुभास्कर मां पालय ॥ पल्लवि॥
जन्मतः पुण्यगृहे पुण्यपुरे
गान काव्य कला मुदितोहं
लघुचेतसां बहुपरुषवादान्
श्रुत्वा मम मनोबलमस्ति विचलितम् ॥ १॥
सर्वविरक्त हे प्रशान्तहृदय
अनभिषिक्त निज विश्वाचार्य
तव सन्निधिफलम् मम धीचोदनं
रक्ष गीतसुधा धनम् ॥ २॥
१९ गुरुकुलवासे त्वमेव प्रेरकः
गुरुकुलवासे त्वमेव प्रेरकः ।
त्वमेव कारकः त्वमेव तारकः ॥ पल्लवि॥
अनुपमवात्सल्य सागरो त्वं
असीम दयानिधीश्वरो त्वं
क्षण क्षण संस्मरण स्पर्शपुलकेन
अशृ कम्पनभावे मूकोऽस्मि ॥ १॥
नाहमेकाकी न चिन्तावृतः
तव स्मृतिदीपः नित्य स्थापितः
नाहन्निरतोऽपि विषयानन्दे
मुदितं कुरु मां गीतसुधानन्दे ॥ २॥
२० गुरुवरं वन्दे ज्ञानाधिपतिम्
गुरुवरं वन्दे ज्ञानाधिपतिम् ।
गुणशेखरं राजयोगाधिपतिम् ॥ पल्लवि॥
ब्रह्मकमलोपम दिव्यचरणं
ब्रह्मतत्त्वासनं सुप्रसन्नवदनं
मृदु पल्लव सदृश वराभयकरं
मुक्तिमोददायकं गीतसुधाकरम् ॥ १॥
चरितार्थं सच्चरितार्थं शुभचरितार्थं
महा शुभचरितार्थं शिष्यगण वेष्टितं
शुद्धोऽसि बुद्धोऽसि प्रबुद्धोऽसि
सिद्धोऽसि प्रसिद्धोऽसि गीतसुधाप्रियोऽसि ॥ २॥
२१ गुरुमूर्ति त्वमेव परब्रह्म दूतोऽसि
गुरुमूर्ति त्वमेव परब्रह्मर्षि दूतोऽसि
गुरुतर कार्ये मां किं नियोजयसि ॥ पल्लवि॥
सारस्वतनिधि संरक्षकोऽसि
प्रतिभाज्योतिरुद्दीपकोऽसि
आत्मयात्रार्थं त्वामाश्रयामि
अनुदिनं तव महिमान् कीर्तयामि ॥ १॥
धर्मक्षेत्रप्रभो नास्ति तव कामना
तपोयज्ञव्रत नास्ति तव वेदना
किन्तु सन्तुष्यसि साधकवृन्देन दृष्ट्वा
सम्भाषितोऽसि गीतसुधामथनेन ॥ २॥
२२ गगनोपम साधनमण्डले
गगनोपम साधनमण्डले
गुरुरेव विहरति विहगो भूत्वा ॥ पल्लवि॥
लौकिकस्पर्शान् क्षणमात्रे त्यजति
ज्ञानतपसा सर्वदा खेलति
दहराकाशे निरालम्ब सुखे
पूर्णो भवति परमात्मसम्मुखे ॥ १॥
पराविद्यालयं स्थापयित्वा
परमपद निर्देशनं कृत्वा
परमाप्तशिष्य हृदिप्रविष्ठः
परमहंसः सुगीतसुधानिष्ठः ॥ २॥
२३ गुरुं सद्गुरुं परमगुरुं वन्दे
गुरुं सद्गुरुं परमगुरुं वन्दे
गुरुवरं हितकरं भयहरं वन्दे ॥ पल्लवि॥
उत्तिष्ठत जाग्रत प्राप्य वरान्नि-
बोधतेति श्रुतिघोषं तु सुशृतं
उत्तिष्ठत एव मया श्रुतं
जाग्रत इत्यपि मयाश्रितम् ॥ १॥
प्राप्य वरान्निबोधतेति ध्वनि मात्रं
मन्दं शृतं तु अग्राह्यं मया
योगप्रशिक्षकः मां मा विस्मरतु
गीतसुधाकरः मम दोषान् दहतु ॥ २॥
२४ गुरुवर्य मयि स्थैर्यं प्रवर्धय
गुरुवर्य मयि स्थैर्यं प्रवर्धय
गुरुवर कार्पण्यदोषं निवारय ॥ पल्लवि॥
श्रद्धान्वितः बन्धात् प्रमुच्यते
द्वन्द्वमय जीवने त्वामुपसेवते
अहं तु खिन्नमनस्कः भावशुष्कः
भोगेपि वञ्चितः योगेपि वञ्चितः ॥ १॥
ध्येयराहित्यं कदापि न प्रियः
ज्ञेयशून्यत्त्वं सदा मे अप्रियः
अतो त्वामाश्रयामि गीतसुधाश्रय
आर्जव गुणं दत्वा मां पालय ॥ २॥
२५ गुरुदेव तव तपोबलं प्रसादय
गुरुदेव तव तपोबलं प्रसादय
गुरुभक्तिपुष्पं स्वीकुरु कृपालय ॥ पल्लवि॥
मोद प्रमोद प्रमाद विषादादि
भावावेशेभ्यो अप्रबुद्धोऽस्मि
जीवसंस्करण शास्त्रज्ञोऽसि त्वं
अद्वितीय समुदाय हितरतोऽसि त्वम् ॥ १॥
स्वयङ्कृतापराधाः ममैव
सुज्ञानभिक्षां देहि गुरुदेव
संश्रितवत्सल शिष्यगण परिपाल
संशय निवारक गीतसुधालोल ॥ २॥
२६ गुरु तव ध्यानं सर्वकलुषहरम्
गुरु तव ध्यानं सर्वकलुषहरं
गुरुगुण गानं मधुरातिमधुरम् ॥ पल्लवि॥
ऋषिसंप्रदाय परम्परावन
ऋषिवेषनाटकदूर निर्गुण
निर्भय निर्भव करुणान्तरङ्ग
निर्मम निरञ्जन हे मुक्तसङ्ग ॥ १॥
परन्धामसदन परतत्त्वासन
परब्रह्मरूप परम पवित्र
परामानस शास्त्रवेत्त तृप्त
पराभक्तवरेण्य गीतसुधाशरण्य ॥ २॥
२७ गुणगम्भीर योगधुरन्धर
गुणगम्भीर योगधुरन्धर
गुरुवर कारुण्यसागर ॥ पल्लवि॥
प्रणव नादानुसन्धान निरत
प्रमाणादि पञ्चवृत्ति रहित
सर्वात्मभावन साधकपरीक्षण
शरणागत प्रलोभन निवारण ॥ १॥
सर्व देशकाल प्रेमपूर्ण
सर्व पुरुषार्थ साफल्य कारण
महाशक्त हे महाविरक्त
महाभक्त गीतसुधारक्त ॥ २॥
२८ गुरुदेव त्वया कथं संप्राप्तम्
गुरुदेव त्वया कथं संप्राप्तं
गहनतम चिद्रूपं परतत्त्वम् ॥ पल्लवि॥
जन्मजन्मान्तरे परिपक्वोऽसि
लोकसङ्ग्रहार्थं जन्ममिदं तवैव
साधनारम्भं ममेदानीं
किं तु तव जन्म ममोद्धारकम् ॥ १॥
तव दिव्य कर्ममिदं साधकप्रेरकं
तव तपोफलं आत्मबलवर्धकं
धनिक पिता स्वयार्जित सम्पद्दत्वा
पुत्रं धनिकं पश्यतीव गीतसुधाकर ॥ २॥
२९ गुरुपीठ दीप्तिं प्रसारय
गुरुपीठ दीप्तिं प्रसारय
गुरुशक्ति वित्तं प्रयच्छ कृपया ॥ पल्लवि॥
हे जीवन्मुक्त सफलजन्मार्थं
ध्यानयोगे मां गमय त्वरया
हे समचित्त सदृढगात्र
अमनस्क योगे गमय चिन्मय ॥ १॥
गुणातीतोऽसि न निष्क्रियः
द्वन्द्वातीतोऽसि दयापूर्णः
अकर्तारोऽपि लोकसङ्ग्रहकर्ता
अभोक्तारोऽपि सेवातृप्त ॥ २॥
३० गुरुनाथ त्वया विना को दाता
गुरुनाथ त्वया विना को दाता
गुणनाथ त्वया विना को त्राता ॥ पल्लवि॥
ज्ञानाम्बुधि तलस्थित रत्नाः
श्रेयो पथे त्वया विनियुक्ताः
सर्वकाल गेय शिष्योत्तम ध्येय
प्रातःस्मरणीय अविस्मरणीय ॥ १॥
किमस्ति गुरो गोप्तं हे परिपूर्ण
अदृश्यं दृश्यं अग्राह्यं ग्राह्यं
अप्राप्तं प्राप्तं हे सिद्धिपूर्ण
सर्वदरणीय गीतसुधाप्रिय ॥ २॥
३१ गुरुदेव वरयोगानुशासक
गुरुदेव वरयोगानुशासक
गुरुवर्य पाहि मां शिष्योद्धारक ॥ पल्लवि॥
नित्यप्रवर्तित कर्मचक्रे
निकेतनरहित कालचक्रे
अनुवर्तयेति प्रबोधसि
अनुभव गम्ये मां नियोजयसि ॥ १॥
प्रतिदिनमहं अवस्थाचक्रे वशः
आजीवपर्यन्तं विकारचक्रे वशः
त्वद्दर्शित राजयोगे तिष्ठामि
गीतसुधाप्रेरक नतोऽस्मि श्रितोऽस्मि ॥ २॥
३२ गुरुरक्षितोऽस्मि जन्मान्तरपुण्येन
गुरुरक्षितोऽस्मि जन्मान्तरपुण्येन
गुरुशिक्षितोऽस्मि योगिवरेण्येन ॥ पल्लवि॥
शतशतानुभव कटुविषयवलये
साधनोल्लासं प्राप्तं गुरुकृपालये
सुदुष्कर मनो निग्रहमर्मं
संप्रीत गुरुणा बोधितमनुक्षणम् ॥ १॥
प्रारब्ध कर्माणी आवर्तिनीव
तिर्यग्गमने तु मम श्वासबन्धः
शिष्यवात्सल्यमहापूरेण
गुरुणा पोषितोऽस्मि गीतसुधानुतेन ॥ २॥
३३ गुणमणिधर त्वं तत्त्वभास्कर
गुणमणिधर त्वं तत्त्वभास्कर
गुरुदेव धीवर ज्ञानमकुटधर ॥ पल्लवि॥
सङ्कल्पमात्रेण इच्छाशक्तिघन
निश्चयमात्रेण ज्ञानशक्तिघन
चलनमात्रेण क्रियाशक्तिघन
अप्रतिम महातेज योगशक्तिधन ॥ १॥
तपोव्रत धर्मव्रत सत्यपथगामी
योगव्रत सुश्रुत त्वं संयमी
लोकहितकार्यं विश्वे प्रसिद्धः
गीतसुधावन गुरुकुलबद्धः ॥ २॥
३४ गुरुदेव पञ्चविषयपराङ्मुख
गुरुदेव पञ्चविषयपराङ्मुख
गुरुनाथ पञ्चशरापराजित ॥ पल्लवि॥
सर्व नराणां चित्ते संस्काराः
सर्व वयावस्थे सुप्रकटिताः
अविद्यापह सात्त्विक कर्ता
असीम प्रभाव शुद्धसत्त्वस्थ ॥ १॥
व्यष्टिभावरहित हे शान्तिदूत
विश्वसम्पूजित पावनचरित
साधकहृदय सन्निहित
सर्वाश्रित गीतसुधानुत ॥ २॥
३५ गुरुवर तव प्राप्तिरप्राप्त प्राप्तिः
गुरुवर तव प्राप्तिरप्राप्त प्राप्तिः
गुरुदेव मम तु कर्मणा प्राप्तिः ॥ पल्लवि॥
अन्तरतम शोधनं कृत्वा
त्वं तेजस्वी त्वं ओजस्वी
शमदमोपरति साधने नय
श्रेयोप्रियं मामजेयाभय ॥ १॥
जन्मजन्मान्तरे अनुत्तीर्णोऽहं
जरा व्यधिपीडे पुनरपि धृतिहीनः
अन्यथा शरणं नास्तीति प्रार्थना
मामव कृपया गीतसुधावन ॥ २॥
३६ गुरुवरेण विना कोऽस्ति सुचरितः
गुरुवरेण विना कोऽस्ति सुचरितः
गुरुकुलवासेन विना को सुशिक्षितः ॥ पल्लवि॥
नभःस्पृशं तस्य वात्सल्यशिखरः
नीरजदलमम्बुवत् निर्लिप्तः
देवप्रीत्यर्थं कर्मक्षेत्रस्थः
कर्तुं भोक्तुं सिद्धः न निबद्धः ॥ १॥
बहुमुख धर्म प्रवर्तकोऽपि
स्वधर्मगामी संरक्षकः
साधनाशैलिरञ्जनः निरञ्जनः
सद्दर्शनपरः गीतसुधावनः ॥
३७ गुरुवर एकदा ममाभिमुखो भव
गुरुवर एकदा ममाभिमुखो भव
गुरुभक्तिसागर पतितपावनो भव ॥ पल्लवि॥
साधकलोक साक्षिस्वरूप
सर्वभूत कारुण्यरूप
यज्ञ तपो दान कर्मप्रेरक
सद्भक्ति सच्छक्तिदायको भव ॥ १॥
ज्ञानघन लङ्घयसि पङ्गुं शैलं
तपोधन करोषि मूकं वाचालं
जिज्ञासु पोषक विज्ञानदर्शक
सुज्ञानदायक गीतसुधाभिमुख ॥ २॥
३८ गुरुसामीप्ये चक्षुरुन्मीलनम्
गुरुसामीप्ये चक्षुरुन्मीलनं
गुरुमार्गगमने सत्यदर्शनम् ॥ पल्लवि॥
निस्त्रैगुण्यः योगीशगण्यः
निन्दास्तुतिसमः ज्ञानिवरेण्यः
निर्लेपयोगे कर्मविमुक्तः
निर्भवः गुरुः जलजपत्रमिवजले ॥ १॥
गीतसुधारतः स्वार्थरहितः
निर्धूतकलुषः देवदूतः
भावविश्लेषण विशारदः
शास्त्रार्थकोविदः गुरुवर वरदः ॥ २॥
३९ गुरुवर्य हितकर तव शिष्योऽहम्
गुरुवर्य हितकर तव शिष्योऽहं
गुरुवरिष्ट तव प्रशिष्योऽहम् ॥ पल्लवि॥
त्वमेव सर्वस्वं ममाराध्य
त्वय्यैव सोऽहं विश्ववेद्य
अप्रबुद्ध प्रलाप विलाप मध्ये
मौनव्रत दीक्षां दत्वा पालय ॥ १॥
सम्पूजित भक्त समाश्रित
सम्भावित नित्यजागरित
जितकाम जितक्रोध जितान्तःकरण
जितनिद्र जितेन्द्रिय गीतसुधावन ॥ २॥
४० गुरुदेव तव सत्य ज्ञानयज्ञे
गुरुदेव तव सत्य ज्ञानयज्ञे
गुरुवर तव तत्त्वदर्शनमनुपमम् ॥ पल्लवि॥
द्रव्ययज्ञं तु बहुजनाश्रितं
बहुक्रिया कलाप पूरितं
बहुलायासं बहुवस्तुमयं
बहुमुख सामर्थ्य बलमयम् ॥ १॥
गुरुब्रह्म तवैव अन्तर्मुखयज्ञे ।
अक्लिष्टसाधनं सुलभसुयोजनं
अधिकतरशान्तिः विनष्टभ्रान्तिः
गीतसुधाज्योतिः योगतन्त्र क्रान्तिः ॥ २॥
४१ गुरुर्नारायणः नारायणो गुरुः
गुरुर्नारायणः नारायणो गुरुः
गुरुर्तत्परायणः गुरुर्कल्पतरुः ॥ पल्लवि॥
विष्णुहृदय स्थित विश्वगुरुपीठे
विराजति मद्गुरुः त्रिपुण्ड्रललाटः
मम विष्णुस्मरणे गुरुस्मरणं
मम गुरुस्मरणे महाविष्णु ध्यानम् ॥ १॥
सुज्ञानसिंहासनारूढः
विज्ञानतत्परः स्वानुभवे गाढः
नवविध भक्ति रसपाने मत्तः
गीतसुधासक्तः मन्त्रशक्तिवेत्तः ॥ २॥
४२ गुरुसन्निधानः कृपासागरः
गुरुसन्निधानः कृपासागरः
गुरुयोगदानः कार्यागारः ॥ पल्लवि॥
सञ्चर मानस स्वाध्याय गगने
सार्वभौम गुरोर्वचनं शृणु
सत्यार्थ तत्त्वार्थ ग्रहणार्थं
मनन चिन्तनाभ्यासं कुरु ॥ १॥
विमृश्य लौकिकं नास्त्यात्मलाभं
विमृशय तार्किकं नास्ति परमलाभं
गुरुवचन भावार्थसुधापानेन
दिव्यचक्षून्मीलनं गीतसुधावन ॥ २॥
४३ गूरुमूर्ति त्वमेव करुणानिधिः
गूरुमूर्ति त्वमेव करुणानिधिः
गुरुवर त्वं स्वानुभवनिधिः ॥ पल्लवि॥
मम मानस सरसि सन्दृश्य
भीकर रागद्वेष मकरौ
भीतिनिवारणं कथं न वेद्यं
मानसलयं कथं सुसाद्यम् ॥ १॥
जीवनक्षेत्रे तापत्रयसमरे
पुनीत विजेत त्वं गीतसुधाकर
ज्ञानेश्वर सर्वशत्रुभञ्जन
योगेश्वर धीशक्तिप्रेरण ॥ २॥
४४ गुरुसूर्य प्रकाशे जीवितं दृष्ट्वा
गुरुसूर्य प्रकाशे जीवितं दृष्ट्वा
गुरुकार्ये जह तव मनोगतान् ॥ पल्लवि॥
अव्यक्त भावाः सुप्रकटिताः
अग्राह्य विचाराः संस्फुरिताः
अनूह्य शक्तयः आशु जाग्रताः
अप्राप्त लाभाः सुखेन लब्धाः ॥ १॥
समस्त प्रपञ्चे नास्ति गुरोरधिकं
समस्त जीवव्यूहे नास्ति गुरोरधिकं
समस्त नृपेषु नास्ति गुरोरधिकम् ।
गीतसुधाप्रियानां गुरोरधिकम् ॥ २॥
४५ गुरुवर त्वयाध्यक्षेण कलाक्षेत्रम्
गुरुवर त्वयाध्यक्षेण कलाक्षेत्रं
गुरुवर्य भवति मधुर क्षेत्रम् ॥ पल्लवि॥
प्रत्येक जीवस्य चित्ते निवसितं
प्रमोद प्रिय ललित कलानन्दनं
अनुपम कला रथोत्सवकारक
अपूर्व कलाकृति निर्देशक ॥ १॥
लोकसङ्ग्रहार्थं जनस्तोमप्रेरक
आत्मविद्या लाभार्थं एकान्तवास
अवाङ्मानस गोचर तत्त्वलीन
आत्मबलं देहि गीतसुधारञ्जन ॥ २॥
४६ गुरुदेव नमामि स्वाराज्यपाल
गुरुदेव नमामि स्वाराज्यपाल
गुरुवर श्रितोहं गीतसुधालोल ॥ पल्लवि॥
यथा पुरे चरति नेत्ररहितः
पुनर्पुनर्पतति अन्धकूपे
तथैवान्ध साधकः गच्छति पतति
कृपया त्वमेव ज्योतिं दर्शय ॥ १॥
सकल विषयवश विचलितो
वक्रगामी चरति व्यर्थं जीवति
कृपया माममृतं गमय
सर्वदा संरक्ष गीतसुधामय ॥ २॥
४७ गुरुवरिष्ठ तव वर्णनमशक्यम्
गुरुवरिष्ठ तव वर्णनमशक्यं
गुरुवर तव कीर्तनमपूर्णम् ॥ पल्लवि॥
तव महिमान् कथं जानामि
तव सङ्कल्पान् कथं जानामि
अमित गुणशक्तिसाधननिधि
अमितान्तर्शोधन निधि ॥ १॥
तव स्मरणार्थं काव्यरक्तोऽस्मि
तव स्मरणार्थं गानरक्तोऽस्मि
तव ध्यानार्थं ज्ञानसक्तोऽस्मि
तव कृपार्थं गीतसुधारतोऽस्मि ॥ २॥
४८ गुरुपूजाराधन व्रतोऽसि
गुरुपूजाराधन व्रतोऽसि
गुरुदेव श्रुतिघोषं करोषि ॥ पल्लवि॥
अन्तर्बहिर्वृत्ति नद्याः तव
आत्मजलधिं प्रविशन्ति ब्रह्मभाव
आत्यन्तिकं सुखमाप्नोषि धीवर
अध्यात्म राज्याधिप काव्यसुधापर ॥ १॥
सत्य ज्ञानानन्द शरीरम् ।
सच्चिद्रूपं पापहरं परात्परं
असंशयं ज्ञात्वा गीतसुधाकर
अपरोक्ष ज्ञानं प्रद हे शुभकर ॥ २॥
४९ गुरुदेव नश्वर प्रपञ्चे त्वम्
गुरुदेव नश्वर प्रपञ्चे त्वं
गुरुवर तत्त्ववेत्तासि कथम् ॥ पल्लवि॥
भावविश्लेषण वेत्ताघहर
भावमैत्रिवर्धन श्वेतवस्त्रधर
करण सामरस्ये दक्ष रक्षक
करण निग्रहतन्त्रे गीतसुधा पोषक ॥ १॥
निरतिशय सुखनिर्मग्न चेतन
निरुपाधिकात्म चिन्तनलीन
निरुपद्रव जीवन मर्मबोधक
निरुपम भक्तिशक्ति संवर्धक ॥ २॥
५० गुरुपदसरोरुहे तव मकुटोऽस्ति
गुरुपदसरोरुहे तव मकुटोऽस्ति
गुरुहृदयाम्बुरुहे मोदसदनमस्ति ॥ पल्लवि॥
पञ्चविषय मण्डले पुष्पबाणः
पञ्चशरसन्धाने महाशनः
अनङ्गरूपेण सदास्ति सफलः
अनुत्तीर्णः त्वं त्वमसि विफलः ॥ १॥
सुजनस्य हृदये रमति रामः
कुजनस्य मनसि क्रीडति कामः
रामनामजपेन विजितोऽसि शृणु
कामः पराजितः गीतसुधारक्तः ॥ २॥
५१ गुरुवचन स्मृतिः तव जन्मसम्पदः
गुरुवचन स्मृतिः तव जन्मसम्पदः
गुरुदर्शित पथे सुगोचरो चिद्पदः ॥ पल्लवि॥
ज्ञानसाम्रट् शिष्योद्धारकः
विज्ञानविराट् लोकोद्धारकः
वर्णनमशक्यं सद्गुरुमहिमा
गुरुसिद्धिगरिमा गीतसुधाधाम ॥ १॥
निरुत्साह समये चैतन्याभावे
निस्सार साधने तन्मयताभावे
भक्तिसहितं कुरु गुरुवाक्य मननं
धृतिपूर्वकमस्ति कुरु कर्माचरणम् ॥ २॥
५२ गुरुदेव कथमस्ति विश्वप्रभुरेकः
गुरुदेव कथमस्ति विश्वप्रभुरेकः
गुरुवर कुत्रास्ति तत् अद्वितीयः ॥ पल्लवि॥
पञ्चभूत व्यापकः कथं प्राणदायकः
त्रिगुण प्रेरकः सुखदुःख प्रेक्षकः
धर्मरक्षकः कर्मनिर्वाहकः
देहवाहनचालकः किमर्थम् ॥ १॥
जनन मरण चक्रप्रवर्तकः कथं
कालचक्र नियन्त्रकः कथं
पापपुण्य नियामकः कथं
गीतसुधास्वादकः शक्यमेतत् कथम् ॥ २॥
५३ गुरु दिवाकर नमस्तुभ्यम्
गुरु दिवाकर नमस्तुभ्यं
गुरुदेव धीवर नमस्तुभ्यम् ॥ पल्लवि॥
कर्षति सौन्दर्यं विकर्षति वैकल्यं
कर्षति माधुर्यं विकर्षति पारुष्यं
समत्वयोगं मे प्रबोधय
द्वन्द्वातीत हे गुणातीत ॥ १॥
भावातीत तत्त्वदर्शि नमस्ते
देहातीतानुभवस्थ नमस्ते
देहयात्राविधानबोधक
गीतसुधाश्रित नमो नमस्ते ॥ २॥
५४ गुरुदेव सुधाकर ब्रह्मज्ञ
गुरुदेव सुधाकर ब्रह्मज्ञ
गुरुवर दिनकर हे तत्त्वज्ञ ॥ पल्लवि॥
स्वयार्जितं मम किञ्चित् नास्ति
त्वत्प्रसादं मम सर्वस्वं
अक्षरमक्षरं दत्तं त्वया
अध्यात्म गणितमपि बोध्यं त्वया ॥ १॥
सद्भाव सत्स्पन्दनाः त्वया वृद्धाः
सदाचार सुविचाराः शिक्षिताः
नाहं कविः नाहं वाक्पटुः
तव शिष्य मात्रोहं गीतसुधामय ॥ २॥
५५ गुरुवर्यं नमामि योगाधीशम्
गुरुवर्यं नमामि योगाधीशं
गुणसागरं ज्ञानाधीशम् ॥ पल्लवि॥
सुविचार रत्नाकरं वरगुरुं
सत्कर्म प्रेरक पारिजात तरुं
सुरगुरुसम गुरुं शिक्षकगुरुं
सद्गुरुं वन्दे जगद्गुरुम् ॥ १॥
नित्यसम्पूज्यं सद्भाववेद्यं
नित्यभक्तवेष्टितं सच्छिष्यसेव्यं
गीतसुधापोषकं आश्रितपालकं
ध्येयनिरूपकं ज्ञेयधाम निर्देशकम् ॥ २॥
५६ गुरु चरणाम्बुरुह द्वये
गुरु चरणाम्बुरुह द्वये
गहनविषयमपि सुग्राह्यम् ॥ पल्लवि॥
अभिमानमावृतं शतृषट्क मध्ये
सत्यमावृतं घटनावलि मध्ये
गुरुसन्निधाने जीवो पराजितः
गुरुपथगमने तत्त्वैव दर्शितः ॥ १॥
सुज्ञान नावे प्रमोदानुभवे
सुलभ विधाने तरसि संसारं
नेति नेति भावे हृदय गुहं प्रविश्य
इति इत्यनुभवे गीतसुधार्चको भव ॥ २॥
५७ गुरुमूर्ति त्वमेव सत्यवादी
गुरुमूर्ति त्वमेव सत्यवादी
गुरुवर हे अक्षय सुखनिधि ॥ पल्लवि॥
दुर्गम भवाद्रितारण श्रुतिपाल
दुरितमय चित्त परिवर्तनशील
ज्ञात्वा मम मानससञ्चारं
भावोद्वेगे कुरु मां निर्विकारम् ॥ १॥
रक्षक संरक्षक धर्मसंरक्षक
सद्दर्म सत्कर्म नित्यसंरक्षक
हे सर्वभूतात्मा ममान्तरात्मा
हे प्रसन्नात्मा गीतसुधात्मा ॥ २॥
५८ गुरुनाथ धीमन्त सद्गमय माम्
गुरुनाथ धीमन्त सद्गमय मां
गुरुदेव ज्योतिर्गमय माम् ॥ पल्लवि॥
लोकसेवारत ज्ञानदाननिरत
दीनजनाश्रित करुणापूरित
बुधप्राज्ञ द्विजगुरु रूपादिधर
भक्तिरत्नाकर गीतसुधाधर ॥ १॥
निर्मल समचित्त द्वन्द्वातीत
नृपगण कुलाश्रित धर्मवीरसेवित
सौजन्यभरित आर्तोपासित
सौमनस्यपूरित शिष्यपरिवेष्टित ॥ २॥
५९ संस्मर मानस परब्रह्मदूतम्
संस्मर मानस परब्रह्मदूतं
परिप्रश्नेन विद्धि स्वानुभव स्रोतम् ॥ पल्लवि॥
विषयकामने ज्ञातुं अशक्तोऽसि
तत्त्वकामने द्रष्टुं समर्थोऽसि
आदिमध्यान्तरहिते कर्मचक्रे
अन्तर्मुखी भव आत्मसुखी भव ॥ १॥
अवस्थाचक्रे दिनदिनं अतीतं
ऋतुचक्रे मासं मासं व्यतीतं
कायवाङ्मन बुद्ध्या भज हे गुरुभक्त
करणेभ्योऽपि भज गीतसुधासक्त ॥ २॥
६० गुरुमूर्ति श्रुतकीर्ति पालय माम्
गुरुमूर्ति श्रुतकीर्ति पालय मां
गुरुचन्द्र गुणसान्द्र परिपालय माम् ॥ पल्लवि॥
हे मेरुपुरुष गतिस्त्वं मम
हे विज्ञानेश गतिस्त्वं मम
कर्मचक्रव्यूहे न ताडितोऽसि
धर्मज्योतिगगने इन्दुरूपोऽसि ॥ १॥
हे विश्वरूप विश्वप्रेमरूप
हे बुद्धरूप निस्सन्ताप
गीतसुधाधिप तारय मां
गुरुगीतरसप्रिय पोषय माम् ॥ २॥
६१ गुरुब्रह्म त्वदीय ब्रह्म तेजोवलये
गुरुब्रह्म त्वदीय ब्रह्म तेजोवलये
गुरुहरि वर्धति मम सृजनबलम् ॥ पल्लवि॥
भक्तवृन्दाराध्य नव विश्वरूप
ब्रह्मनिर्वाणस्थित ज्ञानदीप
लीनोऽसि अन्तर्सौन्दर्य दर्शने
तन्मयोऽसि माधुर्यास्वादने ॥ १॥
नित्यनूतनास्मिन् दृश्यप्रपञ्चे
नित्यवन्दनीयोऽसि निरञ्जन
नित्यस्मरणीयोऽसि ज्ञानघन
नित्य सत्यमय गीतसुधावन ॥ २॥
६२ गुरुवर कृपया आरक्षणं कुरु
गुरुवर कृपया आरक्षणं कुरु
गूरो ममान्तर् ध्यानपीठीकाम् ॥ पल्लवि॥
पञ्चविषय वृक्षनिलयोऽहं
वाञ्छामूलं तु मया न दृश्यं
प्रसृत शाखोपशाखासहितोऽहं
दृढमूल सन्ततिः अच्छेद्यम् ॥ १॥
न जानामि ज्ञानास्त्र प्रयोगं
न जानामि भक्तिशस्त्र प्रयोगं
कथं ध्यायामि तत्परो भूत्वा
गीतसुधाश्रित मां रक्ष ॥ २॥
६३ गुरु तव प्रशिक्षण वसन्ते गायति
गुरु तव प्रशिक्षण वसन्ते गायति
गुरुदेव मम मानस कोकिलः ॥ पल्लवि ।
जितकाम जितक्रोध वात्सल्यसुधाकर
विजितलोभ जितमोह निर्मत्सर
निर्मम निर्मद सौम्यदिनकर
अमोघ कल्याणकर शुभ्राम्बर ॥ १॥
नानावृत्तिमय देहयात्रे
नान्यगामी चित्तं प्रसादय ।
हे शान्तिमय अवर्णनीय
हे गीतसुधामय सदा ध्यानप्रिय ॥ २॥
६४ गुरुवरिष्ठ योगिजनविशिष्ठ
गुरुवरिष्ठ योगिजनविशिष्ठ
गुरुदेव ज्येष्ठ ब्रह्मनिष्ठ ॥ पल्लवि॥
विद्वत्सुमेरु शिखराधिवास
विद्या विन्द्यद्रि क्रीडाविलास
अपर बृहस्पति जगद्गुरुरूप
दहराकाशे चिन्मयरूप ॥ १॥
पञ्चक्लेश निवारणनिष्ठ
पञ्चकोश नगरे सन्तुष्ट
तव विद्यादान विधानमसीमः
निजभक्तिरेव गीतसुधासुमः ॥ २॥
६५ गुरुस्मरणे त्यज अभिमान किल्बिषम्
गुरुस्मरणे त्यज अभिमान किल्बिषं
गुरुपदतले त्यज अनुमानकलुषम् ॥ पल्लवि॥
प्रकृति संस्कृति सोपानवेत्तः
प्रणव नादानुसन्धान रक्तः
नवनव परीक्षणे नवनव निरीक्षणे
अस्ति सुगतिप्रद मार्गे चालकः ॥ १॥
धर्मार्थ काम मोक्ष चतुर्विध
पुरुषार्थ सिद्धि साधन दर्शकः
शुभचिन्तन शुभयोजन सहितः
शुभनाम सुखधाम गीतसुधाश्रितः
६६ गुरुपुङ्गवः मां परिवर्तयतु
गुरुपुङ्गवः मां परिवर्तयतु
गुरुवरः मे कमलगुणं ददातु ॥ पल्लवि॥
निर्लेपगुणेन निस्सङ्गत्वेन
नीरज कुसुमः सर्वदेवप्रियः
सरसिजनाभेति माधवः प्रसिद्धः
सरसिजासनेति सरस्वतीपतिः ॥ १॥
सरसिजनाभ भगिनीति शिवसती
सरसिजालयेति केशवसती
वारिजहृदयः गीतसुधाप्रियः
वारिजचरणः गुरुर्मामवतु ॥ २॥
६७ गुरुगङ्गाधर शृणु मम वाञ्छाम्
गुरुगङ्गाधर शृणु मम वाञ्छां
गुरुवर भव नवमणिहारधर ॥ पल्लवि॥
कमलपुष्पमाला मर्पयामि
सूर्यकान्ति कुसुमार्चित चरणो भव
शिष्योद्धरणार्थं श्रुतिप्रवचने
तव कण्ठघोशं श्रुत्वा मोदयामि ॥ १॥
मम प्रति पद भाव योचनकर्मान्
शुद्धीकृत्य सृष्टीकृत्य
परिश्रान्तोऽसि विश्वशुभङ्कर
परिवर्तयसि मां गीतसुधाकर ॥ २॥
६८ गुरुवर तव कमलचरणौ शोभितौ
गुरुवर तव कमलचरणौ शोभितौ
गुरुदेव मयार्पित जलजौ राजितौ ॥ पल्लवि॥
नलिनपद नलिनसुम सख्यमतिशयं
नलिनहस्त नलिनगुण स्नेहमपूर्वं
नलिनहृदय नलिनकान्तिरनुपमं
नलिनषट्चक्रविकासं योगबलम् ॥ १॥
श्वेत नलिनकान्तिः सात्त्विकं
अरुण नलिनकान्तिः प्रेमात्मकं निजं
केसरीनलिनकान्तिः त्यागात्मकं
काञ्चन नलिनकान्तिः गीतसुधात्मकम् ॥ २॥
६९ गुरुदेव विश्वनेत्र सच्चरित्र
गुरुदेव विश्वनेत्र सच्चरित्र
गुरुनाथ नमामि चिन्मयगात्र ॥ पल्लवि॥
तव पात्रमहत्वं सुज्ञातव्यं
तव निरुपमात्मबलं सुविज्ञेयं
तव वात्सल्यधूपं लोकपूजनीयं
तव तपोनिष्ठा गीतसुधाश्रयम् ॥ १॥
सत्यान्वेषक गुणं मयि सृष्ट्वा
सत्यमार्ग गमने धीबलं यच्छसि
अन्तर्यामि त्वां ध्यायामि हे
चतुरास्य हरिहराधिक त्वां स्मरामि ॥ २॥
७० गुरुदेव मे स्थापय शिशुहृदयम्
गुरुदेव मे स्थापय शिशुहृदयं
गुरुदयाकर प्रेरय शिशुमन्दहासम् ॥ पल्लवि ।
शिशुहृदय सदृशं ऋषिहृदयं
ऋषिहृदयमेव आत्महृदयं
आत्महृदयमेव लोकहृदयं
लोकहृदयमेव विराट् हृदयम् ॥ १॥
शिशुहृदयं रागद्वेषरहितं
मृदुमधुरं वाञ्छा मोहसुदूरं
निर्दोषं निर्लिप्तं सन्तृप्तं
गीतसुधानुत कुरु मां सन्दीप्तम् ॥ २॥
७१ गुरुवर प्रज्ञारविः मयि भासयते
गुरुवर प्रज्ञारविः मयि भासयते
गुरुदेव त्वयि लग्न मनसैव रमते ॥ पल्लवि॥
नव नव सुविचार संस्फुरणे
अन्तर्गङ्गा वहति मम हृदये
नव नव सद्भावोद्दीपने
अव्याहृत सृजनधारा स्रवति ॥ १॥
नव नव सद्भक्ति गीतसङ्कीर्तने
नित्यनूतन कृतयः विरचिताः
नाहं बुधः नाहं कोविदः
तव चरणरजबलेन गीतसुधामोदः ॥ २॥
७२ गुरुऋषिपुङ्गव हे तत्त्वदर्शि
गुरुऋषिपुङ्गव हे तत्त्वदर्शि
गुरुवर यच्छ मे प्रमाणपत्रम् ॥ पल्लवि॥
हृदयराज्ये वसति पुरुषोत्तमः
त्वया वेद्यः त्वं धीरोत्तमः
हे ध्यानगम्य हे ज्ञानगम्य
भूयो भूयो वन्दे गीतसुधालय ॥ १॥
हिरण्मयकोश प्रवेशं तु कठिणं
प्रज्ञासारथ्ये पुरुषोत्तमैक्यं
हे दूरदर्शि हे दीर्घदर्शि
भूयो भूयो आश्रयामि समदर्शि ॥ २॥
७३ गुरुवर पालय हे दक्षिणामूर्ति
गुरुवर पालय हे दक्षिणामूर्ति
गुरुमूर्ति कृपया योगचक्रवर्ति ॥ पल्लवि॥
अचल निश्चल हे ध्यानमूर्ति
विमल क्रियाशील हे धर्ममूर्ति
अमल तत्त्वज्ञ हे ज्ञानमूर्ति
निर्मल भावज्ञ गानमूर्ति ॥ १॥
सुनायास साधन मर्मज्ञ
विज्ञानवेत्त दशनादलग्न
व्यष्टि समष्टि सम्बन्ध शोधक
पालय कृपया गीतसुधास्वादकः ॥ २॥
७४ गुरुदेव शुभकर शृणु विद्याधर
गुरुदेव शुभकर शृणु विद्याधर
गुरो यच्छ मे भक्तिं प्रेमसागर ॥ पल्लवि॥
बहुपद वाक्यान् वक्त्वाहं न मौनी
बहुदृश्यान् दृष्ट्वा निमिषोऽहं
बहुस्वाद बहुगन्ध विषयान् गृहीत्वा
नाहं तुष्यामि नाहं त्यजामि ॥ १॥
यावद् मम मनः धावत्यन्तर्मुखं
तावद् प्राप्यामि सत्यान्तः सुखं
क्षण क्षणेऽहं मृत्युमुखगामी
गीतसुधाकर कुरु मां मुक्तिगामी ॥ २॥
७५ गुरुनाथ त्रिदेह बन्धविवेचक
गुरुनाथ त्रिदेह बन्धविवेचक
गुरुवर त्रिगुणविलास क्रियानियन्त्रक ॥ पल्लवि॥
दृश्य देहमेतत् सर्वजीवप्रियः
अदृश्य मनोकरणं जीवनकारणं
गूढतमचित्ते संस्कार राशयः
अहंसहित जन्मयात्रा सहजः ॥ १॥
कर्माचरणे संस्कार प्रेरणं
भावाभिव्यक्ते मानस प्रेरणं
कार्यक्षेत्रे दृश्यति केवलं देहं
कथं देहमपराधी तनुः गीतसुधाकर ॥ २॥
७६ गुरुदेव प्रणमामि हे सत्यकाम
गुरुदेव प्रणमामि हे सत्यकाम
गुरो महानुभाव सत्यसङ्कल्प ॥ पल्लवि॥
ब्रह्माम्बुधि तटे साक्षी भूत्वा
क्रीडसि मोदसि सद्धर्म सदने
तव योगबलं वर्णयितुं न शक्नोमि
ज्ञातुं न शक्नोमि गीतसुधाकाम ॥ १॥
स्थिर गम्भीर सागरं प्रविश्य
समुद्रैव भवति यथा जलवाहिनि
तथा कुरु मां आत्मज्ञ्यं समदर्शि
सङ्गवर्जित प्रणमामि सम्यग्दर्शि ॥ २॥
७७ गुरुकुलपाल शिष्याय प्रतिबोधयसि
गुरुकुलपाल शिष्याय प्रतिबोधयसि
गुरुदेव इदमित्थमिति प्रतिपादयसि ॥ पल्लवि॥
अनुभवशून्य विद्वत्तु व्यर्थं
धनार्जनार्थं ज्ञानसूक्ति व्यर्थं
शास्त्रसार रहित वाक्चक्ति व्यर्थं
तव कृपयानुभवं परमार्थम् ॥ १॥
तव दर्शित मार्गे गम्यं सुनिश्चितं
तवानुभव वचने ध्येयं निस्संशयं
तव सान्निध्य मुदे लोकसुखमल्पं
तवानुशासने गीतसुधातानम् ॥ २॥
७८ गुरुवर आचार्याग्रगण्य
गुरुवर आचार्याग्रगण्य
गुरुगीताप्रिय गुरुवरेण्य ॥ पल्लवि॥
प्रतिमानवस्य अन्तिमयात्रे
पाप पुण्यैर्विना गच्छन्ति किं
अनित्यमसुखं अस्वतन्त्रं लोकं
प्राप्य कथं भजति किं जानाति ॥ १॥
एकान्ताभ्यासं मोदकरं
जनसम्पर्कं तु उद्विग्नकरं
देवमाराध्यं सदा स्मरामि
ध्याननिष्ठां प्रद गीतसुधाश्रय ॥ २॥
७९ गुरुमूर्तिं भजेऽहं शिष्योद्धरणम्
गुरुमूर्तिं भजेऽहं शिष्योद्धरणं
गुरुनाथं वन्दे पतितपावनम् ॥ पल्लवि॥
निराकार विश्वेश साकारं
निरुपम गुणशक्ति प्रसारकरं
निरुपाधिक तत्त्वे चिदानन्दलीनं
नामरूपरहितावस्थालीनम् ॥ १॥
साधकावनं सङ्कटहरणं
प्रसन्नवदनंं प्रदीप्त चरणं
भजेऽहं सदा शान्तिकारणं
गीतसुधावनं सौम्यगुणभूषणम् ॥ २॥
८० गुरुनाथ शृणृ मम नम्र निवेदनम्
गुरुनाथ शृणृ मम नम्र निवेदनं
गुरुवर बालानामपि बोधय ॥ पल्लवि॥
धर्मपाठबलं त्वया देयं
अज्ञोद्धारमपि त्वया साध्यं
कुटुम्ब जीवने सर्वेषां शुभं भवतु
सर्वेषां साधने पूर्णं भवतु ॥ १॥
कालधर्माधीन जीवनयात्रे
पाप पुण्येषु भेदमविदितं
आबालगोप चिन्तक शुभकर
आश्रित रक्षक गीतसुधाधर ॥ २॥
८१ गुरुदेव त्वं गरीयसे तुरीय
गुरुदेव त्वं गरीयसे तुरीय
गुरुवर देवानामपि पूजनीय ॥ पल्लवि॥
हिमगिरिवत् ममाहङ्कारमस्ति
ज्ञानाग्नि स्पर्शेन द्रवतु वहतु
गोचर पञ्चविषयाः कर्षयन्ति
अगोचर भावाः घर्षयन्ति ॥ १॥
सोऽहं दासोऽहं भावाः स्वानुभवे
घन गिरिवद्वर्धतु परा भक्तियोगे
सनातन धर्मसारथि त्वं
सारथ्यं कुरु मे गीतसुधानिधि ॥ २॥
८२ गुरुवर्य समाश्रित जननायक
गुरुवर्य समाश्रित जननायक
गुरुवर विनीत शिष्योद्धारक ॥ पल्लवि॥
सर्व जीवसुखोन्नति हितचिन्तक
सर्व खेद भीति भ्रान्तिनिवारक
समयासमय ज्ञानदायक
ध्यानमौनभावदीक्षित ॥ १॥
जिज्ञासा वने दृग्पथं न दृश्यं
सञ्चरामि अन्धवत् अहर्निशं
सर्वजीवबन्ध निर्मोचक
सर्वदोषहर गीतसुधामुख ॥ २॥
८३ गुरुरेव महानुभावः
गुरुरेव महानुभावः
गुरुदेवः ब्रह्मानुभावः ॥ पल्लवि॥
सञ्चर मानस स्वाध्यायगगने
सत्यार्थ तत्त्वार्थ ग्रहणार्थं
गुरु सार्वभौमः योगारूढः
वाङ्मनातीत शास्त्रविशारदः ॥ १॥
सञ्चर मानस गुरुभक्तिनन्दने
सर्व परिग्रह गुणान्त्यजसि
करुणात्मा युक्तात्मा दिव्यात्मा गुरुः
गीतसुधाधामे कृपापात्रो भव ॥ २॥
८४ गुरुवर शाश्वत धर्मगोप्ता
गुरुवर शाश्वत धर्मगोप्ता
गुरुदेव भवान् योगस्थचित्त ॥ पल्लवि॥
मिथ्या जगमिति त्वं न तटस्थः
आत्मैव सत्यमिति सदा न ध्यानस्थः
तवदिग्दर्शने करोमि कर्माणि
आत्मबलं देहि मे गीतसुधानुत ॥ १॥
स्थूलदेहस्य स्थूलभोगमिति
सूक्ष्मदेहस्य सूक्ष्मभोगमिति
ज्ञात्वा हे निर्भव चिदानन्दोऽसि
भोगातीत सम्यग्ज्ञानि ॥ २॥
८५ गुरुगुणगानं मधुरातिमधुरम्
गुरुगुणगानं मधुरातिमधुरं
गुरुशक्तिध्यानं सर्वदौर्बल्यहरम् ॥ पल्लवि॥
ऋषि संप्रदाय परम्परावनः
ऋषि वेष रहितोऽपि परमहंसः
प्रणवनादानुसन्धान निरतः
प्रमाणादि पञ्चवृत्तिरहितः ॥ १॥
सद्वर्तनशील वृन्दवेष्टितः
परिवर्तनशील समुदाय सेवितः
महाविरक्तः करुणान्तरङ्गः
मुक्तसङ्गः गीतसुधातरङ्गः ॥ २॥
८६ गुणगम्भीर योगधुरन्धर
गुणगम्भीर योगधुरन्धर
गुरुवर कारुण्यकामधेनुः त्वम् ॥ पल्लवि॥
सर्वात्मभावन साधकसंरक्षण
सर्वदेश विदेश मैत्रिकारण
सर्वभाषा रत्नगण सूत्रधर
सर्व पुरुषार्थ सिद्धिकारण ॥ १॥
परन्धामासन परन्धाम सदन
परब्रह्मरूप परम पवित्र
परा पश्यन्ती मध्यमा वैखरी
वाग्विलासरत गीतसुधाधारि ॥ २॥
८७ गुरुवर अघहर कृपासागर
गुरुवर अघहर कृपासागर
गुरुप्रभाकर रक्ष मां शुभकर ॥ पल्लवि॥
मनोचाञ्चल्यं निवारय चिन्मय
चिज्ज्योतिं स्थापय गीतसुधाप्रिय
जनन मरण चक्रं तु चक्रव्यूहवत्
निष्क्रमण मार्गं निर्देशय ॥ १॥
दीर्घसूत्रतालस्य जडताः
कबन्ध बाहुवत् निबध्नन्ति
मां विमोचय परिवर्तय
आनन्दमय गीतासारप्रिय ॥ २॥
८८ गुरुनभोमणि मां स्पृश स्पर्शमणि
गुरुनभोमणि मां स्पृश स्पर्शमणि
गुरुवर कुरु मां पुनीतं विजेतम् ॥ पल्लवि॥
सुविशेष गुण शक्ति धीयुक्तात्मा
निर्विशेष धामे रञ्जसि मुक्तात्मा
समाश्रितानां हे कल्पवृक्ष
सुधीवर धीरवर गीतसुधात्मा ॥ १॥
अधिदैविक तापे भूतराशि नष्टः
अधिभौतिक तापे जीवगण त्रस्तः
आध्यात्मिक तापे जीव्यन्तर्व्यस्तः ।
त्रितापरहित धामे त्वमेको स्वस्थः ॥ २॥
८९ गुरुदेव सदाचारनिष्ठोऽसि
गुरुदेव सदाचारनिष्ठोऽसि
गुरुवर करणनियामकोऽसि ॥ पल्लवि॥
सर्वारम्भाः दोषावृताः
सर्वमार्गाः व्यापार सहिताः
कर्महीनस्य नास्ति निजसुखं
कर्मकृतस्यापि नास्त्यात्मसुखम् ॥ १॥
कर्मणैवहि त्वं शुद्धः सिद्धः
विशुद्ध बुद्ध्या भवान् बुद्धः
योगसेवया चित्तं निरोधितुं
बलं प्रयच्छ गीतसुधानुत ॥ २॥
९० गुरुराज ब्रह्मतेज सर्वं तव महिमा
गुरुराज ब्रह्मतेज सर्वं तव महिमा
गुरुशिष्य भावैक्य बलं तव गरिमा ॥ पल्लवि॥
राजयोगयज्ञ दीक्षितोऽसि
भक्ति पुष्पक याने विहरसि
निष्काम कर्मचक्र स्थितोऽसि
ज्ञानदीपोत्सव तुष्टोऽसि ॥ १॥
द्रव्यसञ्चयेन न त्वं मुदितोऽसि
स्तुति स्तोत्रेण न प्रसन्नोऽसि
सेवाभावेन परिप्रश्नेन
प्रहसन्नोऽसि गीतसुधावन ॥ २॥
९१ गुरुवर्य हे कृतकृत्य
गुरुवर्य हे कृतकृत्य
गुरुसूर्य प्रणमामि सम्पूज्य ॥ पल्लवि॥
जनाः पश्यन्ति देहे आत्मानं
त्वमेव पश्यसि आत्मनि देहं
सर्वत्र सञ्चरसि आत्मौपम्येन
सर्वदा त्वं सुखी भेदराहित्येन ॥ १॥
सर्वकार्य कलापे अविरतोहं
लोकाभिमुखोऽपि तव दासोहं
अद्यैव जानामि ध्यानयोगलाभं
गीतसुधा स्वादं सुलभातिसुलभम् ॥ २॥
९२ गुरुवर्य प्रबोध समदर्शि
गुरुवर्य प्रबोध समदर्शि
गुरुवर प्रसीद सम्यग्दर्शि ॥ पल्लवि॥
राजविद्या सागर योगेश्वर
राजीवदलनेत्र ज्ञानेश्वर
महोदारचरित जितपञ्चशर
महाराजोपम गीतसुधाकर ॥ १॥
त्वयैव मात्रं ज्ञानविज्ञानं
त्वरितं मे दातव्यं सुज्ञानं
सद्धर्मप्रदीपः प्रज्वालितः
सत्कर्म पथमेव निर्देशितः ॥ २॥
९३ गुरुचरण रजं पावनात्मकम्
गुरुचरण रजं पावनात्मकं
गुरुकिरण प्रसारं ज्ञानात्मकम् ॥ पल्लवि॥
प्रकृतिसहज रजस्तमो गुणाः
ज्ञानाग्निदग्धाः पदरजरूपाः
भक्त्या नित्यं विभूतिवत् धारय
त्यक्त्वा शोकं गीतसुधाप्रिय ॥ १॥
शुद्धमानसो भूत्वा इहे रञ्जय
आत्मशिक्षणार्थं प्रवर्तय
कुरु सर्वकर्माणि गुरुसमर्पणं
कुरु सदात्मगानं मौनं ध्यानम् ॥ २॥
९४ गुरुबान्धवाः सन्तु निरामयाः
गुरुबान्धवाः सन्तु निरामयाः
गुरुशिष्याः भवन्तु सुखिनः ॥ पल्लवि॥
अपारप्रेम सुज्ञानधाम
आत्माराम पूर्णकाम ।
योगस्थः भूत्वाहं कर्माणि करोतुं
रागद्वेषरहितं मां कुरु ॥ १॥
केनचिदपि सहचर्ये न सुखं
अग्रे मुदकरं अन्त्ये तु दुःखं
भगवद्ध्यानेन मात्रं निजसुखं
इत्यहं जानामि गितसुधासुखम् ॥ २॥
९५ गुरुज्ञानरङ्गे दासानुदासोऽस्मि
गुरुज्ञानरङ्गे दासानुदासोऽस्मि
गुरुध्यान गङ्गे सुपुनीतोऽस्मि ॥ पल्लवि॥
श्रीपद्मचरण शमदमनिधान
निरवधिसुख शोध निरञ्जन
निरुपम सुखसदन सदयानयन
समाधान मानस स्मितवदन ॥ १॥
निगमागमसार सर्वस्वनिरत
स्वस्वरूपे निरतिशयप्रमोद
मार शर हर साम दान चतुर
समदर्शि गुरुवर गीतसुधाधर ॥ २॥
९६ गुरुवर ज्ञानसिंहासनाधीश
गुरुवर ज्ञानसिंहासनाधीश
गुरुहर हितकरं वद योगेश ॥ पल्लवि॥
कस्यचित् स्नेहे ऐक्यता नास्ति
केनचिदपि मम शुभकरं नास्ति
निरालम्ब सुखमेव मम परध्येयं
गीतसुधाश्रित किं मम श्रेयम् ॥ १॥
वचनेन प्रचनेन श्रवणेन
लोकसञ्चारेण लब्धं विषयसुखं
भक्तिगानेन ध्यानेन जपेन
लब्धं तल्लीनता शान्तिसुखम् ।
९७ गुरुदेव प्रारब्धं भोक्तव्यमित्युक्तम्
गुरुदेव प्रारब्धं भोक्तव्यमित्युक्तं
गुरुनाथ कर्मगतिं कथं वेद्यम् ॥ पल्लवि॥
तव मार्गदर्शने प्रतिवादी
अविद्या शृङ्खलया बद्धोऽस्ति
अन्धकूपे पतति अविधेय दुष्कर्मी
भ्रान्ति पङ्के निमग्नति निष्कर्मी ॥ १॥
नास्ति मम सदृशो इति गर्वितः
शम दम रहितोऽस्ति ज्ञानवञ्चितः
अहम्भाव त्यागमेव जन्मसाफल्यं
इति घोषय मे हृदि गीतसुधाराध्य ॥ २॥
९८ गुरुः साक्षात् चतुर्मुख ब्रह्म
गुरुः साक्षात् चतुर्मुख ब्रह्म
गुरुरेव हरिहररूपः परब्रह्म ॥ पल्लवि॥
शतकृति रचने सरस्वती सदने
प्रतिशब्द प्रतिवस्तु प्रतिक्षणानि
विद्यामयं दिव्य ज्योतिर्मयं
भावान्तर्वीणा वादनमयम् ॥ १॥
ब्रह्माण्ड वलये अगणित मुक्ताः
लोक सङ्ग्रहार्थं ध्यायन्ति सर्वदा
गुरुशक्तिपुञ्जं सर्वत्र प्रसरति
एतन्महाभाग्यं गीतसुधा प्रिय ॥ २॥
९९ गुरुभक्ति गीतमालिका रत्नमालिका
गुरुभक्ति गीतमालिका रत्नमालिका
गुरुशक्तियुत साधना चन्द्रिका ॥ पल्लवि॥
प्रातः साधने तेजोमय मतिः
न सन्ति कस्यामन्त्रण विघ्नाः
सायं साधने शान्त चित्तमस्ति
दिव्य तेजोवदन गीतसुधावन ॥ १॥
सात्त्विक गुणस्थितिरस्तु मे सर्वदा
तामसिक जडस्थिति वियोगमस्तु
धारणध्याने रजस् शान्तमस्तु
तव कृपावर्षे मम धीः स्थिरमस्तु ॥ २॥
१०० गुरुगीत शतकृतिरचने मथने
गुरुगीत शतकृतिरचने मथने
गुरुदिनकर मे प्राप्तं नवनीतम् ॥ पल्लवि॥
ध्यानासक्तीति नवनवनीतं
ध्याने सृजनमिति मधुरनवनीतं
ध्यानं गानमिति शान्तिनवनीतं
ध्यानप्रसादमिति कृष्णनवनीतम् ॥ १॥
शब्द गगनयाने प्रणवोपासक
प्राणवाहनगामि हे चित्तस्पर्शक
ज्योतिर्नौकायाने सर्वतत्त्वदर्शक
हे सगुण निर्गुणसम आराधक ॥ २॥
बहुविध समाधि योगान्तर्वीक्षक
व्यष्टि समष्टि विश्लेषण तिलक
अदृश्य तन्मात्रा विज्ञानशोधक
सर्वानुभव साम्राज्यपालक ॥ ३॥
नवरत्नमय ज्ञानदीपनीराजनं
नवरसमय भक्तिताननीराजनं
विज्ञानमय योगनीराजनं
सोऽहं दासोऽहं स्वानुभवनीराजनम् ॥ ४॥
विश्वस्पन्दनमय प्रणवनीराजनं
सृष्टिचक्र सञ्चलननीराजनं
गीतसुधावर्षनीराजनं
सर्वत्र परञ्ज्योति दीप्तिनीराजनम् ॥ ५॥
इति गुरुस्तवनीराजनशतकं सम्पूर्णम् ।
Composed, encoded, and proofread by
Smt. Rajeshwari Govindaraj