गुरुस्तुतिप्रमाणिका
ॐ
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ॐ त्यागराजाय विद्महे । वाक्स्वरूपाय धीमहि ।
तन्नो गुरुः प्रचोदयात् ॥
अथ गुरुस्तुतिप्रमाणिका ।
सुनादरामपूजनं सुगानसर्वमोदनम् ।
सरागभक्तिवन्दितं सुगीतसेवितं गुरुम् ॥ १॥
सुरामनामकीर्तनं सुनामगानतल्लजम् ।
समाधियोगसंस्थितं सदासुलीननामकम् ॥ २॥
सुगानवर्षगङ्गिकं सुगीतनामतारकम् ।
गलस्वरातिमञ्जुलं श्रुतिस्वलीनगीतकम् ॥ ३॥
लयप्रशान्तिकीर्तनं प्रवाहरागसारतम् ।
सुनामतारकाजपं सुदृष्टरामविग्रहम् ॥ ४॥
सुनादरूपतेजसं सुलीननादसद्रसम् ।
सदाविलीनरामकं सदानुभूतदैविकम् ॥ ५॥
कराम्बुजस्थझल्लकं सुलासपादपङ्कजम् ।
लयश्रुतिस्वभावकं प्रगीतभावकीर्तनम् ॥ ६॥
सुतत्त्वसत्त्वदर्शनं अहंहरम् अहँल्लयम् ।
मनोविलीनसद्गुरुं विलीनमानसार्चितम् ॥ ७॥
मनःप्रसन्नदैवतं मनःप्रसादरूपकम् ।
मनोजपुष्पसार्चितं मनोजभावसामुदम् ॥ ८॥
स्वभावमानसार्पणं सुरागभावमोदितम् ।
स्वरागरत्नमालिकं स्वशिष्यपुष्पमालिकम् ॥ ९॥
सुपादसेविताश्रयं पदागतासुरक्षणम् ।
सदा भजे गुरुं शुभं सुभव्यमङ्गलास्पदम् ॥ १०॥
गुरुस्तुतिप्रमाणिका गुरुप्रचोदमातृका ।
गुरुप्रमोददायिका गुरुप्रसादमङ्गला ॥ ११॥
गुरुप्रसादमङ्गलं सदाशुभं सुमङ्गलम् ।
सरक्तिगाथमङ्गलं सुभक्तिगीतमङ्गलम् ॥ १२॥
मङ्गलं त्यागराजाय गुरुदेवाय मङ्गलम् ।
प्रमाणिकास्तुतिस्तोत्रपुष्पार्चिताय मङ्गलम् ॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृता
गुरुस्तुतिप्रमाणिका गुरुपादपुष्पे समर्पिता ।
ॐ शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan