श्रीगुरुवन्दनम्
ॐ
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ॐ त्यागराजाय विद्महे । नादगङ्गाय धीमहि ।
तन्नस्सद्गुरुः प्रचोदयात् ॥
अथ गुरुवन्दनम् ।
नमः श्रीत्यागराजाय नमः सुज्ञानतेजसे ।
नमः श्रीरामभक्ताय आचार्याय नमो नमः ॥ १॥
नादावतारपूज्याय नादोपासनमार्गिणे ।
नादार्चितपरब्रह्मश्रीरामाय नमो नमः ॥ २॥
जप्ततारकसन्मन्त्रशतकोटिसुकीर्तये ।
श्रीरामभद्रसन्नामतारकानन्दमूर्तये ॥ ३॥
यागरक्षणसंदर्शनाह्लादहृष्टिरूपिणे ।
गङ्गाप्रवाहवाग्वर्षसंसिक्तराममूर्तये ॥ ४॥
सुस्वरासारसत्कीर्तनानन्दबाष्पकण्ठिने ।
प्रासानुप्राससम्भासशैलीगभीरगायिने ॥ ५॥
सहस्रायुतसत्कीर्तनागीतरामतेजसे ।
सुदिव्यनामसङ्कीर्तनालासलयलासिने ॥ ६॥
रागताललयालास्यकृतिवृन्दप्रसारिणे ।
रामभक्तिसुधाप्लावस्वानुभूतिप्रकाशिने ॥ ७॥
रागानुरागसज्ज्ञानसंक्षेपकृतिबोधिने ।
नामगानाधिराजाय सद्भक्तिरसगीतये ॥ ८॥
नादयोगसुनिष्ठाय ध्यानयोगसमाधये ।
भक्तियोगवरिष्ठाय ज्ञानयोगसुसिद्धये ॥ ९॥
वेदोपनिषदासारकृतिगङ्गाप्रवाहिणे ।
वेदवेदान्तसत्सारबोधसद्गुरवे नमः ॥ १०॥
पुष्पासवसुगानाय नामपुष्पार्चिताय च ।
पुष्पावलिसुरागाय त्यागराजाय मङ्गलम् ॥ ११॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं
श्रीगुरुवन्दनं गुरुपादपुष्पे समर्पितम् ।
ॐ शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan