श्रीसद्गुरुज्ञानेश्वरस्तोत्रम्
ॐ श्री ।
श्रीशङ्कर ।
श्रीसद्गुरुज्ञानेश्वरस्तोत्रम् ।
ॐ नमो भगवते श्रीज्ञानदेवाय ।
सद्गुरुं सच्चिदानन्दं केवलं करुणाकरम् ।
ज्ञानयोगेश्वरं वन्दे ज्ञानदेवं पुनः पुनः ॥ १॥
वाङ्मनोबुद्धिभावानामतीतं परमेश्वरम् ।
निष्कलं सगुणं वन्दे ज्ञानदेवं पुनः पुनः ॥ २॥
निर्मलं सदयं शान्तं प्रणताखिलमङ्गलम् ।
ज्ञानैकरूपिणं वन्दे ज्ञानदेवं पुनः पुनः ॥ ३॥
भक्तिकल्पतरोर्मूलं बीजं साधनसम्पदः ।
सर्वलोकहितं वन्दे ज्ञानदेवं पुनः पुनः ॥ ४॥
आविर्भूतो हरिः साक्षात् पावने गौतमीतटे ।
रूपेण यस्य तं वन्दे ज्ञानदेवं पुनः पुनः ॥ ५॥
निवृत्तिमार्गिणो मुक्तिः सोपानसुलभाकृता ।
कृपया यस्य तं वन्दे ज्ञानदेवं पुनः पुनः ॥ ६॥
ज्ञानं भक्तिरसं यस्य यद्भक्तिर्ज्ञानभास्वती ।
तमद्वैतपरं वन्दे ज्ञानदेवं पुनः पुनः ॥ ७॥
दृष्टिः कृपावती यस्य नित्यं पीयूषवर्षिणी ।
नताश्रयाङ्घ्रिं तं वन्दे ज्ञानदेवं पुनः पुनः ॥ ८॥
सुधाविजयिनी तापशमनी लोकपावनी ।
भारती यस्य तं वन्दे ज्ञानदेवं पुनः पुनः ॥ ९॥
भावार्थदीपिका यस्याऽनुभवामृतजीवनी ।
तं बुद्धिभास्करं वन्दे ज्ञानदेवं पुनः पुनः ॥ १०॥
शरदिन्दुमनोज्ञाङ्गं कमलायतलोचनम् ।
पद्मासनस्थितं वन्दे ज्ञानदेवं पुनः पुनः ॥ ११॥
प्रसन्नं परमोदारं वरदं सुस्मिताननम् ।
आलन्दिवल्लभं वन्दे ज्ञानदेवं पुनः पुनः ॥ १२॥
सुहृदं सर्वभूतानां मातरं पितरं प्रभुम् ।
प्रेमलं वत्सलं वन्दे ज्ञानदेवं पुनः पुनः ॥ १३॥
बुद्धिनद्याः शरत्कालं प्रग्रहं चित्तवाजिनः ।
पापतापहरं वन्दे ज्ञानदेवं पुनः पुनः ॥ १४॥
हे तात भवतैवोक्तं शिशोर्माता स्वयं हिता ।
चित्तवृत्तेः समाधानं बुद्धेः स्थैर्यं सदाऽस्तु मे ॥ १५॥
इति स्वामी वरदानन्दभारतीविरचितं श्रीसद्गुरुज्ञानेश्वरस्तोत्रं सम्पूर्णम् ।
ज्ञानेश्वरस्तोत्रं
भावार्चना (प्राचार्य अ. दा. आठवले)
https://www.santkavidasganu.org, https://www.youtube.com/@varad-vani1496
Encoded and proofread by Arun Parlikar