श्रीज्ञानेश्वरस्तोत्रम्

श्रीज्ञानेश्वरस्तोत्रम्

सद्गुरुं सच्चिदानन्दं केवलं करुणाकरम् । ज्ञानयोगेश्वरं वन्दे ज्ञानदेवं पुनः पुनः ॥ १॥ वाङ्मनोबुद्धिभावानामतीतं परमेश्वरम् । निष्कलं सगुणं वन्दे ज्ञानदेवं पुनः पुनः ॥ २॥ निर्मलं सदयं शान्तं प्रणताखिलमङ्लम् । ज्ञानैकरूपिणं वन्दे ज्ञानदेवं पुनः पुनः ॥ ३॥ भक्तिकल्पतरोर्मूलं बीजं साधनसम्पदः । सर्वलोकहितं वन्दे ज्ञानदेवं पुनः पुनः ॥ ४॥ आविर्भूतो हरिः साक्षात् पावने गौतमीतटे । रुपेण यस्य तं वन्दे ज्ञानदेवं पुनः पुनः ॥ ५॥ निवृत्तिमार्गिणो मुक्तिः सोपानसुलभा कृता । कृपया यस्य तं वन्दे ज्ञानदेवं पुनः पुनः ॥ ६॥ ज्ञानं भक्तिरसं यस्य यद्भक्तिर्ज्ञानभास्वती । तमद्वैतपरं वन्दे ज्ञानदेवं पुनः पुनः ॥ ७॥ दृष्टिः कृपावती यस्य नित्यं पीयूषवर्षिणी । नताश्रयांघ्रिं तं वन्दे ज्ञानदेवं पुनः पुनः ॥ ८॥ सुधाविजयिनी तापशमनी लोकपावनी । भारती यस्य तं वन्दे ज्ञानदेवं पुनः पुनः ॥ ९॥ भावार्थदीपिका यस्य अनुभवामृतजीवनी । तं बुद्धिभास्करं वन्दे ज्ञानदेवं पुनः पुनः ॥ १०॥ शरदिन्दुमनोज्ञाङ्गं कमलायतलोचनम् । पद्मासनस्थितं वन्दे ज्ञानदेवं पुनः पुनः ॥ ११॥ प्रसन्नं परमोदारं वरदं सुस्मिताननम् । आलन्दिवल्लभं वन्दे ज्ञानदेवं पुनः पुनः ॥ १२॥ सुहृदं सर्वभूतानां मातरं पितरं प्रभूम् । प्रेमलं वत्सलं वन्दे ज्ञानदेवं पुनः पुनः ॥ १३॥ बुद्धिनद्याः शरत्कालं प्रग्रहं चित्तवाजिनः । पापतापहरं वन्दे ज्ञानदेवं पुनः पुनः ॥ १४॥ हे तात ! भवतैवोक्तं शिशोर्माता स्वयं हिता । चित्तवृत्तेः समाधानं बुद्धेः स्थैर्यं सदाऽस्तु मे ॥ १५॥ इति श्री अनन्तराव आठवलेविरचितम् श्रीज्ञानेश्वरस्तोत्रं सम्पूर्णम् ।
% Text title            : jnAneshvarastotramAThavale
% File name             : jnAneshvarastotramAThavale.itx
% itxtitle              : jnAneshvarastotram (anantarAva AThavalevirachitam)
% engtitle              : jnAneshvarastotramAThavale
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Anantarav Athavale
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Shashank Purandare
% Latest update         : September 19, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org