श्रीकार्तवीर्यार्जुनकवचस्तोत्रमहामन्त्रः
श्रीः ॥
॥ श्रीगणेशाय नमः ॥
उड्डामिरेश्वरतन्त्रोक्तम् ।
अस्य श्री कार्तवीर्यार्जुनकवचस्तोत्रमहामन्त्रस्य दत्तात्रेयो भगवान्नृषिः ॥
अनुष्टुप् छन्दः ॥
श्री कार्तवीर्यार्जुनो विष्णुश्चक्रवर्ती देवता ॥
कृतवीर्यो बीजम् ।
सहस्रबाहुश्शक्तिः ।
अव्याहृतः कीलकम् ।
कार्तवीर्यार्जुनप्रसादसिद्धये जपेविनियोगः ॥
ॐ राजन्यचक्रवर्तिने अङ्गुष्टाभ्यां नमः ।
वीराय चक्रवर्तिने तर्जनीभ्यां नमः ।
शूराय चक्रवर्तिने मध्यमाभ्यां नमः ।
माहिष्मतीपतये चक्रवर्तिने अनामिकाभ्यां नमः ।
रेवाम्बुलीलासन्तृप्त -परितृप्त -दशास्य -
चक्रवर्तिने कनिष्टिकाभ्यां नमः ।
कारागृहप्रतिबन्धितदशाश्य चक्रवर्तिने करतलकरपृष्टाभ्यां नमः ।
राजन्यचक्रवर्तिने हृदयाय नमः ।
वीराय चक्रवर्तिने शिरसे स्वाहा ।
शूराय चक्रवर्तिने शिखायै वषट् ।
माहिष्मतीपतये चक्रवर्तिने कवचाय हुम् ।
रेवाबुलीलासन्तृप्तपरितृप्तदशास्यचक्रवर्तिने नेत्रत्रयाय वौषट् ।
कारागृहप्रतिबन्धितदशास्यचक्रवर्तिने अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
ध्यानं
सहस्रबाहुं सशरं सचापं रक्ताम्बरं रत्नकिरीटकुण्डलम् ।
चोरारिदुष्टभयनाशनमिष्टदं तं ध्यायेन्महाबलविजृम्भितकार्तवीर्यम् ॥ १॥
अव्यात्सर्वभयात्प्रभाकरनिभः प्रद्योतनो नूतनः
स्वर्णस्रक् परिवीतकन्धरधरो रक्तांशुकोष्णीषवान् ।
नानाकल्पविभूषणः करसहस्रार्धात्तबाणासनो
बाणर्धात्तसहस्रबाहुरनिशं भूवल्लभो नः प्रभुः ॥ २॥
श्रीदेव्युवाच ।
देवादिदेव सर्वज्ञ सर्वभूतहिते रत ।
केन रक्षा भवेन्नॄणां भीतानां विविधापदि ॥
राजचोरादि पीडासु शस्त्राग्निविषपातने ।
मारिदुस्स्वप्नपीडासु ग्रहरोगभयेषु च ॥
ज्वरापस्मारपीडासु सिंहव्याघ्रनिपातने ।
राक्षस - असुरवेतालपिशाचप्रेत-पातने ॥ ३॥
महाभये महानाशे महानावगतेऽर्णवे ।
महामृत्युभये घोरे महाकलहसम्भवे ॥ ४॥
केनोपायेन शान्तिः स्यात् साधकानां महेश्वर ।
अनष्टद्रव्यरक्षा च नष्टस्य पुनरागमः ॥ ५॥
सर्वाकर्षणसङ्क्षोभसर्वसंहननं तथा ।
भवत्यभीष्टदं नृणां केन तद्वद मे शिव ॥ ६॥
ईश्वर उवाच ।
शृणु गुह्यतमं देवि गोपनीयं प्रयत्नतः ।
अवाच्यमपि वक्ष्यामि तव लोकहिताय वै ॥ ७॥
कवचं कार्तवीर्यस्य साङ्गावरणकं क्रमात् ।
स्वमूर्तिशक्तिमन्त्रौघसहितं ध्यानपूर्वकम् ॥ ८॥
सहस्रादित्यसङ्काशे नानारत्नसमुज्ज्वले ।
भास्वद्ध्वजपताकाढ्ये तुरङ्गायुतशोभिते ॥ ९॥
महासंवर्तक्रान्तेमहाराजविराजिते ।
समुद्धृतमहाच्छत्रवितानितवियत्पथे ॥ १०॥
निक्वणत्किङ्किणीजाले चलच्चामरमण्डिते ।
महारथ्यावलयिते सर्वालङ्कारशोभिते ॥ ११॥
महावररथे दीप्ते नानाशस्त्रविराजिते ।
सुस्थितं विपुलोदारसहस्रभुजमण्डलम् ॥ १२॥
वामैरुदारैः कोदण्डान् दधानमपरैश्शरान् ।
किरीटहारमुकुटकेयूरवलयाङ्गदैः ॥ १३॥
मुद्रिकोदरबन्धाद्यैः काञ्चीनूपुरकादिभिः ।
भूषितं विविधाकल्पैर्भास्वरैस्सुविराजितम् ॥ १४॥
आबद्धकवचं वीरं सुप्रसन्नाननाम्बुजम् ।
धनुर्ज्यासिंहनादेन कम्पयन्तं जगत्त्रयम् ॥ १५॥
सर्वशत्रुक्षयकरं सर्वव्याधिविनाशनम् ।
सर्वसम्पत्प्रदातारं विजयश्रीनिषेवितम् ॥ १६॥
सर्वसौभाग्यदं भद्रं भक्तानां भयनाशनम् ।
दिव्यमाल्यानुलेपाङ्गं सर्वलक्षणसंयुतम् ॥ १७॥
रथनागाश्वपादातिवृन्दमध्यगमीश्वरम् ।
वरदं चक्रवर्तीनां आद्यं लोकैकपालकम् ॥ १८॥
सभानोदितसाहस्र-सूर्येन्दुज्वलनप्रभम् ।
उदितादित्यसङ्काशं कुण्डलद्वयशोभितम् ॥ १९॥
महायोगबलैश्वर्यकीर्त्याक्रान्तजगत्त्रयम् ।
श्रीमच्चक्रं हरेरंशादवतीर्णं महाबलम् ॥ २०॥
सम्यगात्माविभेदेन ध्यात्वा रक्षामुदीरयेत् ।
दत्तात्रेय ऋर्षिः प्रोक्तोऽनुष्टुप्छन्दः प्रकीर्तितम् ॥ २१॥
कार्तवीर्यार्जुनो विष्णुश्चक्रवर्ती च देवता ।
विनियोगश्च रक्षायै सर्वत्र परिकीर्तितः ॥ २२॥
सर्वशत्रुविनाशाय सर्वार्थस्य च सिद्धये ।
तस्यैव मूर्तयः पञ्च भानुमत्किरणोज्ज्वलाः ॥ २३॥
अग्नीशासुरवायव्यकोणेषु हृदयन्तिकाः ।
सर्वतस्तु ज्वलद्रूपा वरचर्मासिपाणयः ॥ २४॥
अव्याहतबलैश्वर्यशक्तिसामार्थ्यविग्रहाः ।
क्षेमङ्करीं शक्तियुक्तःचोराणां च विभञ्जनः ॥ २५॥
प्राचीं दिशं रक्षतु मे बाणबाणासनैर्युतः ।
श्रीकरीशक्तिसहितो मारीमदविभञ्जनः ॥ २६॥
शरचापधरः श्रीमान् दिशं मे पातु दक्षिणाम् ।
महावश्यकरी युक्तो शत्रूणां मदभञ्जनः ॥ २७॥
महेषुचापधृक् पातु मम प्राचेतसीं दिशम् ।
यशः करी यशस्करो दैत्यानां मदभञ्जनः ॥ २८॥
कोदण्डेषुधरस्सौम्यां दिशं मे परिरक्षतु ।
प्रज्ञाकरीयुतश्चापःबाणधृक् दुष्टशासनः ॥ २९॥
परिरक्षतु मां सम्यक् सम्यक् विदिशं चाग्निदेवताम् ।
विद्याकरी समायुक्तः सुमहान् दुष्टशासनः ॥ ३०॥
पातु मे नैरृतीं चापबाणो विदिशमीश्वरः ।
धनाकर्षणसमायुक्तो महादुरितनाशनः ॥ ३१॥
इष्वासनेषु दृक् पातु विदिशो मम वायवीम् ।
आयुष्कार्यायुतःश्रीमान् महाभयविनाशनः ॥ ३२॥
चापेषुधारीरौवीं मे विदिशं परिरक्षतु ।
विजयश्रीयुतस्साक्षात्साहस्त्रारधरो विभुः ॥ ३३॥
दिशमूर्ध्वामवतु मे महाभयविभञ्जनः ।
शङ्खभृत्सुमहाशक्तिस्सम्भूतो मे धरां दिशम् ॥ ३४॥
परिरक्षतु मे दुःखध्वान्तसम्भेदभास्करः ।
महाशोभाश्रयायुक्तः सर्वदिक्चक्रमण्डलः ॥ ३५॥
महायोगीश्वरः पातु सर्वतो मम पद्मधृक् ।
एतश्च कार्तवीर्यस्य शुक्लमाल्यांशुकावृताः ॥ ३६॥
प्रधानदेवतारूपाः पृथग्वररथस्थिताः ।
शक्तयः पद्महस्ताश्च नीलेन्दीवरसन्निभाः ॥ ३७॥
शुक्लमाल्यसुवसना ललितास्तिलकोज्वलाः ।
तत्पार्श्वदेवताः स्वस्ववाहनायुधभूषणाः ॥ ३८॥
स्वस्वदिक्षु स्थिताः पान्तु मामिन्द्राद्या महाबलाः ।
एतास्तस्य समाख्याताः सर्वावरणदेवताः ॥ ३९॥
सर्वतो मां सदा पातु सर्वशक्तिसमन्विताः ।
हृदये चोदरे नाभौ जठरे गुह्यमण्डले ॥ ४०॥
ऊरुयुग्जानुपादेषु मूर्ध्नि भ्रूयुगलेऽपि च ।
कर्णाक्षिनासिकाजिह्वाकण्ठबाहुयुगेषु च ॥ ४१॥
दशबीजात्मिकामन्त्राः यस्य संवृद्दिदायकाः ।
तेजोरूपधराः पान्तु वाञ्चापूरसुरद्रुमाः ॥ ४२॥
दश चान्ये महावर्णाः मन्त्ररूपा महोज्ज्वलाः ।
व्यापकत्वेन पान्त्वस्मानापादतलमस्तकम् ॥ ४३॥
कार्तवीर्यः शिरः पातु ललाटं हैहयेश्वरः ।
सुमुखो मे मुखं पातु कर्णौ व्याप्तजगत्त्रयः ॥ ४४॥
सुकुमारो हनूं पातु तालौ भ्रुयुगलेपि च ।
नयने पुण्डरीकाक्षो नासिकां मे गुणाकरः ॥ ४५॥
दन्तोष्टौ तु सदा पातु ब्रह्मगेयः सनातनः ।
सर्वशास्त्रकलाधारो जिह्वां चुबुकमव्ययः ॥ ४६॥
दत्तात्रेयप्रियः कर्णौ स्कन्धौ राजकुलेश्वरः ।
भुजौ दशास्यदर्पघ्नो हृदयं मे महाबलः ॥ ४७॥
कुक्षौ रक्षतु मे विद्वान् वक्षः परपुरञ्जयः ।
करौ सर्वार्थदः पातु काराग्रे त्रिजगत्पतिः ॥ ४८॥
रेवाम्बुलीलासन्तृप्तो ज्वरं मेऽभिरक्षतु ।
महावीरस्तु मे नाभिं पार्श्वौ मे सर्वदुष्टहा ॥ ४९॥
सहस्रभुजधृक् पृष्टं सप्तद्वीपाधिपः कटिम् ।
गुह्यं जितेन्द्रियः पातु सन्धिं नो योगवल्लभः ॥ ५०॥
ऊरू माहिष्मतीनाथ जानुनी वल्लभो भुवः ।
जङ्घे वीराधिपः पातु पादौ पातु मनोजवः ॥ ५१॥
पातु सर्वायुधधरः सर्वाङ्गं सर्वसन्धिषु ।
सर्वदुष्टान्तकः पातु धात्वष्टककलेवरम् ॥ ५२॥
प्रणादि दशजीवेशान् सर्वशिष्ठेष्टदोऽवतु ।
वशीकृतेन्द्रियग्रामो पातु सर्वेन्द्रियाणि मे ॥ ५३॥
रोमकूर्चानि राजेन्द्रस्त्वचं मेऽसाध्यविग्रहः ।
अस्थिमांसादिकं पातु सर्वक्षुद्रनिवारकः ॥ ५४॥
अनुक्तमपि च यत्स्थानं शरीरान्तर्बहिश्च यत् ।
तत्सर्वं पातु मे सर्वलोकनाथेश्वरेश्वरः ॥ ५५॥
वज्रासारतरं चेदं शरीरं कवचावृतम् ।
बाधाशतविनिर्मुक्तमस्तु मे भयवर्जितम् ॥ ५६॥
यद्विदं कवचं दिव्यमभेद्यं हैहयेशितुः ।
विचरामि दिवारात्रौ निर्भयेनान्तरात्मना ॥ ५७॥
राजमार्गे भये दुर्गे मार्गे चोरादिसङ्कुले ।
विषमे विपिने घोरे दावाग्नौ गिरिकन्धरे ॥ ५८॥
सङ्ग्रामे शत्रुसम्बाधे सिंहव्याघ्रनिपातने ।
गह्वरे सर्पसङ्कीर्णे देशे चोरगणावृते ॥ ५९॥
सर्वस्वहरणे प्राप्ते प्राप्ते प्राणस्य सङ्कटे ।
नाना रोगज्वरावेशे पिशाचप्रेतपातने ॥ ६०॥
मारीदुःस्वप्नपीडासु क्लिष्टविश्वासघातके ।
शरीरे च महादुःखे मानसे च महाज्वरे ॥ ६१॥
आधिव्याधिभये विघ्ने मान्त्रोपद्रवकेऽपि च ।
न भवेत्तु भयं किञ्चित्कवचेनावृतस्य मे ॥ ६२॥
आगन्तुकामानखिलानस्मद्वस्तु विलुम्पकान् ।
निवारयतु दोर्दण्डसहस्रेण महारथः ॥ ६३॥
स्वकरोददृतसाहस्रपाशबन्धान् सुदुर्जयान् ।
संरुद्धगतिसामर्थ्यान् करोतु कृतवीर्यजः ॥ ६४॥
सृणीसहस्रनिर्भिन्नान्सहस्रशरखण्डितान् ।
राजचूडामणिः क्षिप्रं करोत्वस्मद्विरोधकान् ॥ ६५॥
खड्गसाहस्रदलितान् सहस्रमुसलार्दितान् ।
चोरादिदुष्टसर्वौघान् करोतु कमलेक्षणः ॥ ६६॥
स्वशङ्खनादसन्त्रस्तान् सहस्रारविदारितान् ।
करोतु दुष्टसत्वौघान् साहस्रारस्सहस्रधृक् ॥ ६७॥
कृतवीर्य सुतो राजा सहस्रभुजमण्डलः ।
अवतारो हरेस्साक्षात्पालयेत्सकलं मम ॥ ६८॥
कार्तवीर्यार्जुनो नाम राजाबाहुसहस्रवन् ।
तस्य संस्मरणादेव हृतं नष्टं च लभ्यते ॥ ६९॥
धनुः पञ्चशतं वामे दाक्षिणे तावतः शरान् ।
बिभ्राणः कार्तवीर्योऽसौ पालयेत्सकलं मम ॥ ७०॥
यद् भवेल्लोकरक्षार्थं अंशाच्चक्रं हरेर्विभोः ।
तन्नमामि महावीर्यमर्जुनं कृतवीर्यजम् ॥ ७१॥
कार्तवीर्य महावीर्य सर्वशत्रुविनाशन ।
सर्वत्र सर्वदा तिष्ठन् चोरान्नाशय पाहिमाम् ॥ ७२॥
उत्तिष्ट दुष्टदमन सप्तद्वीपैकपालक ।
त्वामेव शरणं प्राप्तं सर्वार्ताद्रक्ष पाहिमाम् ॥ ७३॥
दुष्टघ्न किं त्वं स्वपिषि किं तिष्टसि चिरापदि ।
पाहि नः सर्वदा सर्वं भयेभ्यः स्वसुतानि च ॥ ७४॥
ये चोरा वसुहर्तारो दुष्टा ये च हिंस्रकाः ।
अन्तरायकरा दुष्टाः छद्मकाः ये दुरात्मकाः ॥ ७५॥
दुर्हृदो दुष्टभूपाला दुष्टामात्याश्च घातकाः ।
ये च कार्यविलुप्तारो ये खलाः परिपन्थिनः ॥ ७६॥
सर्वस्वहरणा ये च महामायाविनोऽपि ये ।
महाक्लेशकरा म्लेच्छा दस्यवो वृषलाश्च ये ॥ ७७॥
ये महागरदातरो वञ्चकाः शश्त्रपाणयः ।
ये पापा दुष्टकर्माणो दुःखदा दुष्टबुद्धयः ॥ ७८॥
व्याजकाः कुपथासक्ता ये च नानाभयप्रदाः ।
छिद्रान्वेषकरा नित्यं येऽस्मान्बाधितुमुद्यताः ॥ ७९॥
ते सवै कार्तवीर्यस्य महाशङ्खरवाद्धताः ।
सहसा विलयं यन्तु दूरादेव विमोहिताः ॥ ८०॥
ये दानवा महादैत्या ये यक्षा ये च राक्षसाः ।
पिशाचा ये महासत्वा ये भूता ब्रह्मराक्षसाः ॥ ८१॥
अपस्मारग्रहा ये च ये ग्रहा पिशिताशिनः ।
महालोहितभोक्तारो वेताला ये च गुह्यकाः ॥ ८२॥
गन्धर्वाप्सरसस्सिद्धाः ये च देवादियोनयः ।
डाकिन्यो धोणसाः प्रेता क्षेत्रपाला विनायकाः ॥ ८३॥
महाव्याघ्रमुखाः क्रूराः महातुरगमूर्तयः ।
महाव्यघ्रा महामेषाः महामहिषसन्निभाः ॥ ८४॥
महाराजो महासिंहः महाभल्लूकसन्निभाः ।
ऋक्षवाराहशुनकवानरालूकमूर्तयः ॥ ८५॥
महोष्ट्रखरमार्जारसर्पगो विषपुच्छकाः ।
नानारूपमहासत्वाः नानाक्लेशसहस्रधाः ॥ ८६॥
नानारोगकराः क्षुद्रा नानावीर्याः महाबलाः ।
वातका पैत्तिका घोराश्श्लेष्मिकास्साक्षिपातिकाः ॥ ८७॥
माहेश्वरा वैष्णवाश्च वैरिञ्चश्च महाज्वराः ।
स्कान्दा वैनायकाः क्रूराः ये च मन्मथसंज्ञिकाः ॥ ८८॥
महाशत्रुग्रहा रौद्रा महामारीमसूरिकाः ।
एकाह्निका द्व्याह्निकाश्च त्र्याह्निकाश्च महाज्वराः ॥ ८९॥
साप्ताहिकाः पाक्षिकाश्च मासषाण्मासिकाश्च ये ।
संवत्सरा दुर्निवार्याः ज्वराः परमदारुणाः ॥ ९०॥
स्वाप्निकाश्च महोत्पाताः ये च दुःस्वप्नजा ग्रहाः ।
कूष्माण्डा भैरवा भीमाः धोणसा निधिवञ्चकाः ॥ ९१॥
भ्रामकाः प्राणहन्तारो ये च बालग्रहादयः ।
मनोबुद्धीन्द्रियहराः स्फोटकाश्च महाग्रहाः ॥ ९२॥
महाशना बलिभुजो महाकुणपभोजनाः ।
दिवाचरा रात्रिचराः ये च सन्ध्यासु दारुणाः ॥ ९३॥
प्रमत्तमप्रमत्तं च ये मां बाधितुमुद्याताः ।
ते सर्वे हैहयेन्द्रस्य धनुर्मुक्तश्शरार्दिताः ॥ ९४॥
सहस्रधा प्रणश्यन्तु भग्नसत्वबलोद्यमाः ।
ये सर्पा ये महानागाः महागिरिविलेशयाः ॥ ९५॥
कालाव्याला महादंष्ट्रा महाजगरसंज्ञिकाः ।
अनन्तगुलिकाद्याश्च दृग्विषाश्व महाभयाः ॥ ९६॥
अनेकशतवर्षाश्च खड्गपुच्छाश्च दारुणाः ।
महाविषजलूकाश्च वृश्चिका रक्तपुच्छकाः ॥ ९७॥
आशीविषाः कालकूटाः महाहालाहलाह्वयाः ।
जलसर्पा जलव्याला जलग्राहाश्च कच्छपाः ॥ ९८॥
मत्स्यका विषपुच्छा ये चान्ये जलनिवासिनः ।
जलजा स्थलजाश्चैव नानाभेदकुलोद्भवाः ॥ ९९॥
ये च षड्बिन्दवो लूताः भ्रमराः शूलपुच्छकाः ।
स्थावरा जङ्गमाश्चैव कृत्रिमाश्च महाविषाः ॥ १००॥
गुप्ता विगुप्तारूपाश्च भूषिकाः गृहगोधिकाः ।
कृकलासा कुलीराश्च ये चान्ये यादसां गणाः ॥ १०१॥
स्मरणा विषमा घोरा महोग्रविषसंज्ञिकाः ।
येऽस्मान्बाधितुमिच्छति शरीरप्राणनाशकाः ॥ १०२॥
ते सर्वे कार्तवीर्यस्य खड्ग-साहस्रसादिताः ।
दूरादेव विनश्यन्तु प्रणष्टेन्द्रियमानसाः ॥ १०३॥
मनुष्याः पशवो ऋक्षाः वानराः वनगोचराः ।
सिंहव्याघ्रवराहाश्च माहिषा ये महामृगाः ॥ १०४॥
गजास्तुरङ्गाटव्या रासभाश्शरभा बृकाः ।
शुनका विपिनः शुम्भमार्जाराः विषलोमशाः ॥ १०५॥
शृगालाः शशकाः श्येनाः गरुत्मन्तो विहङ्गमाः ।
भेरुण्डा वायसाः गृध्रा हंसाद्याः पक्षिजातयः ॥ १०६॥
उद्भिजाश्वाडजाश्वैव स्वेदजाश्च जरायुजाः ।
नानाभेदकुले जाताः नानाभूताः पृथग्विधाः ॥ १०७॥
येऽस्मान्बाधितुमुद्यन्ति सन्ध्यासु च दिवानिशि ।
ते क्षिप्रं कार्तवीर्यस्य चक्रसाहस्रखण्डिताः ॥ १०८॥
दूरादेव विनश्यन्तु विनष्टगतिपौरुषाः ।
ये चाक्षेपप्रदातारो द्वेष्टारो ये विदूषकाः ॥ १०९॥
कृत्यं यत्र प्रदातारः कूटमायाविनश्च ये ।
मारणोच्चाटनोच्चाटुद्वेषमोहनकारकाः ॥ ११०॥
विश्वस्तघातका दुष्टा ये च स्वामिद्रुहो नराः ।
ये चाततायिनो दुष्टा ये पापा गुप्तहारिणः ॥ १११॥
दाहोपघातगरलशस्त्रपातनदुःखदाः ।
क्षेत्रवित्तापहरणाः बन्धनादि बहुप्रदाः ॥ ११२॥
ईतयो विविधाकारा ये चान्ये दुष्टजातयः ।
पीडाकरा ये सततं क्षुद्रका घ्नन्ति सन्ततम् ॥ ११३॥
ते सर्वे कार्तवीर्यस्य गदासाहस्रचूर्णिताः ।
दूरादेव विनश्यन्तु लयं यान्तु सहस्रधा ॥ ११४॥
ये मेधा ये महावर्षाः ये वाता याश्च विद्युतः ।
ये महाशनो ये दीप्ताः यो निर्घाताः सुदारुणाः ॥ ११५॥
उल्कापाताश्च ये घोराः ये महोन्द्रायुधादयः ।
अर्केन्दुकुजसौम्याश्च गुरुकाव्यशनैश्चराः ॥ ११६॥
राहुश्च केतवो घोरा नक्षत्रराशयस्तथा ।
तिथयस्सङ्क्रमा मासत्वययनायुगनायकाः ॥ ११७॥
मन्वन्तरस्सिद्धर्षयो योगसिद्धाः सदोज्वलाः ।
विधयो ऋग्यजुःसामात्यथर्वाद्याश्च वह्नयः ॥ ११८॥
ऋतवो लोकपालाश्च पितरो देवसन्ततिः ।
विद्याश्चैव चतुःषष्टिभेदोक्ता भुवनत्रये ॥ ११९॥
सेवन्ते कीर्तितास्सर्वे ये चान्येनानुकीर्तिताः ।
ते सन्तु नः सदा सौम्याः सर्वलोकसुखावहाः ॥ १२०॥
अज्ञया कार्तवीर्यस्य योगीन्द्रस्यामितद्युतेः ।
कार्तवीर्यार्जुनो धन्वी योगीन्द्रो हेहयेश्वरः ॥ १२१॥
दत्तात्रेयप्रियतमः सहस्रभुजमन्डलः ।
चापी खड्गी रथी बाणी चर्मवर्मी महाबलः ॥ ११२॥
सुभगः सुमुखः शान्तः चक्रवर्ती गुणाकरः ।
दशास्यदर्पहा रेवालीलातृप्तः सुदुर्जयः ॥ १२३॥
दुःखहा चोरदमनो राजराजेश्वरः प्रभुः ।
सर्वज्ञः सर्वगः श्रीमान् सर्वशिष्टप्रदः कृती ॥ १२४॥
राजचूडामणिर्योगी सप्तद्वीपाधिनायकः ।
विजयी विश्रुतो वाग्मी महागतिरलोलुपः ॥ २५॥
यज्वा विप्रप्रियो विद्वान् ब्रह्मज्ञो यस्सनातनः ।
माहिष्मतीपतिर्योद्धा महाकीर्तिर्महाभुजः ॥ १२६॥
सुकुमारो महावीरो मारिघ्नो मदिरेक्षणः ।
शत्रुघ्नः शाश्वतः शूरः शङ्खभृद्योगवल्लभः ॥ १२७॥
महाभागवतो धीमान् महाभयविनाशनः ।
असाध्यविग्रहो दिव्यो भयव्याप्तजगत्त्रयः ॥ १२८॥
सर्वशास्त्रकलाधारो विरजो लोकवन्दितः ।
वीरो मलिनचित्ताढ्यो महाबलपराक्रमः ॥ १२९॥
विजयश्रीमयो मान्यो जितारिर्मन्त्रनायकः ।
खड्गभृत्कामदः कान्तः कालघ्नः कमलेक्षणः ॥ १३०॥
भद्रवादाप्रियो वैद्यो वरदो विबुधो वशी ।
जितेन्द्रियो जितारातिः स्वच्छन्दोऽनन्तविग्रहः ॥ १३१॥
चक्रभृत्परचक्रघ्नः सङ्ग्रामविधिपूजितः ।
महाधनो निधिपतिर्महायोगी गुरुप्रियः ॥ १३२॥
योधाद्यो सर्वरोगघ्नो राजिताखिलभूषणः ।
दिव्यास्त्रविदमेयात्मा सर्वगोप्ता महोज्वलः ॥ १३३॥
सर्वायुधधरोऽभीष्टप्रदः परपुरञ्जयः ।
योगसिद्धो महाकायो महाबृन्दशताधिपः ॥ १३४॥
सर्वज्ञाननिधिस्सर्वभोगदानकृतोद्यमः ।
इत्यष्टशतनामोक्ता मूर्तयो दशदिक्पतेः ॥ १३५॥
सम्यक्दशदिशो व्याप्य पालयन्तु च मां सदा ।
सर्वेन्द्रियाणि सुस्थानि सुशान्तिश्च सदास्तु मे ॥ १३६॥
शिष्ठायामूर्तयोष्टौ च विक्रमेणैव भास्वराः ।
अग्निनिरृतिवाय्वीशकोणगाः पान्तु मां सदा ॥ १३७॥
मनस्सौख्यमसम्बाधामरोगमपराजितम् ।
दुःखहा निरविघ्नश्च प्रजावृद्विस्सुखोदयः ॥ १३८॥
वाञ्छावाप्तिश्च कल्याणं अवैषम्यमनामयम् ।
अनष्टद्रव्यरक्षा च नष्टस्य पुनरागमः ॥ १३९॥
धर्मायुष्यं यशोलाभस्सौकुमार्यमभीप्सितम् ।
अनालस्यमभीष्टं च मृत्युहानिर्बलोन्नतिः ॥ १४०॥
भयहानिः यशः कान्तिर्विद्यावृद्धिर्महाश्रयः ।
अप्रधृष्यं महत्वं च महासामर्थ्यकोविदः ॥ १४१॥
सन्तु मे कार्तवीर्यस्य हैहयेन्द्रस्य कीर्तनात् ।
य इदं कार्तवीर्यस्य कवचं पुण्यवर्धनम् ॥ १४२॥
सर्वपापप्रशमनं सर्वोपद्रवनाशनम् ।
सर्वसम्पत्करं गुह्यं समस्तभयनाशनम् ॥ १४३॥
विजयार्थप्रदं नृणां सर्वसम्पत्करं शुभम् ।
श्रुणुयाद्वा पठेद्वाऽपि सर्वान्कामानमाप्नुयात् ॥ १४४॥
आयुरारोग्यमैश्वर्यपुत्रपौत्रादिसम्पदः ।
भवन्ति सर्वदाऽभीष्टाः पुस्तकस्यापि पूजनात् ॥ १४५॥
मुच्यते सर्वदुःखैस्तु सर्वत्र विजयी भवेत् ।
मारीचोरादिपीडाद्यैर्न कदाचित्प्रबाध्यते ॥ १४६॥
पठतः प्रातरुत्थाय दुःस्वप्नादि विनश्यति ।
लभते वाञ्चितानर्थान् पूज्यते त्रिदशैरपि ॥ १४७॥
शय्यातलगतो रात्रौ च इदं कवचं पठेत् ।
न तस्य तस्करारातिः दुःस्वप्नादिभवं भयम् ॥ १४८॥
चोरैर्यदाहृतं पश्येत्पश्वादि धनमात्मनः ।
एकवारं जपेद्यस्तु सर्वाभीष्टफलप्रदम् ॥ १४९॥
सप्तवारं तथा जप्त्वा निशि पश्चिमदिङ्मुखः ।
सप्तरात्रेण लभते नष्टद्रव्यं न संशयः ॥ १५०॥
सप्तविंशति वारं तु प्राचीदिग्वदनो यदि ।
तदा देवासुरयुतं परचक्रं निवारयेत् ॥ १५१॥
विवादे विपुले घोरे पञ्चवारं पठेदिम् ।
विजयो जायते तस्य न कदाचित्पराजयः ॥ १५२॥
सम्यक् द्वादशधा रात्रौ प्रजपेद्बाधमुक्तये ।
त्रिदिनान्निगलग्रस्तो मुच्यते न विचारणा ॥ १५३॥
अनेनैव विधानेन सर्वसाधनकर्मणि ।
असाध्यमपि सप्ताहात्साधयेन्मन्त्रवित्तमः ॥ १५४॥
यात्राकाले पठित्वेदं मार्गं गच्छति यः पुमान् ।
न दुष्टचोरव्याघ्ग्रद्यैः भयं स्यात्परिपन्थिनः ॥ १५५॥
नित्यं ग्रहगतो जित्वा कल्याणैः परिपूर्यते ।
न भयं जायते तस्य दुष्टसत्वादिभिः क्वचित् ॥ १५६॥
सर्वरोगप्रपीडासु त्रिधा वा पञ्चधा पठेत् ।
सरोगमृत्युवेतालभूतप्रेतैः प्रमुच्यते ॥ १५७॥
पठनात्स्मरणात्कुर्याज्जलेनाञ्जलिना रवौ ।
स चाग्निविषकृत्यासु रोगस्फोटैर्न बाध्यते ॥ १५८॥
त्रिसन्ध्यासु पठेदेतत् षण्मासं विजितेन्द्रियः ।
कालमृत्युमपि प्राप्तं जयत्यत्र न संशयः ॥ १५९॥
पठतः कवचं चेदं विषं नाक्रमते तनौ ।
जडान्धत्वं च मूकत्वं नोपसर्गभयं क्वचित् ॥ १६०॥
विंशद्वर्णोक्तविधिना धार्येदेवं तदात्मकम् ।
मन्त्री गुरुप्रसादात्तं मन्त्रराजं जपेत्पुनः ॥ १६१॥
कवचेनावृतो भूयो मन्त्रध्यानं समाचरेत् ।
यथोक्तं लभते सद्यः फलं वज्रतनुर्भवेत् ॥ १६२॥
यथा तथेदं कवचं न कस्यापि प्रकाशयेत् ।
आदौ संशोधनं कृत्वा तन्नाम ध्यानपूर्वकम् ॥ १६३॥
सिद्धयै तच्चक्रमन्त्राणां उच्चरेत् द्विजपूर्वकम् ।
गोपनीयं प्रयत्नेन शिवस्य वचनं तथा ॥ १६४॥
सुभक्ताय सुशिष्याय दद्यात्सर्वस्वदायिने ।
साधकानां हितार्थाय यदुक्तं चन्द्रमौलिना ॥ १६५॥
कार्तवीर्यस्य कवचं यदुक्तं वै मया तव ।
येनैदं रक्षतो देहः कालेनापि न जीर्यति ॥ १६६॥
तस्मात्सर्वप्रयत्नेन कवचं धारयेत्सुधीः ।
॥ इति श्रीकार्तवीर्यार्जुनकवचस्तोत्रमहामन्त्रः सम्पूर्णः ॥
Note:
This is similar to kArtavIryakavachakathanam from
from bRRihannAradIyapurANa . pUrvabhAga . adhyAya 77
Proofread by Manish Gavkar