कार्तवीर्यार्जुनमन्त्रः १

कार्तवीर्यार्जुनमन्त्रः १

श्री गुरुगणपतये नमः ॥ श्रीदत्तात्रेयाय नमः ॥ अथ ध्यानं प्रवक्ष्यामि श‍ृणुध्वं मुनिपुङ्गवाः । यं निजध्यानमात्रेण शत्रवो यान्ति सङ्क्षयम् ॥ १॥ रणाजिरे जयोदग्रं रणत्किङ्किणिजालकम् । जगद्धिताय संरन्धं नदज्जलदनिस्वनम् ॥ २॥ मदभ्रमरझङ्कारपतद्भ्रमरमस्तकम् । क्वणाकनकघसृणारुझणत्कृतिचमत्कृतिम् ॥ ३॥ परिश्रमणवैचित्त्र्यजितत्रिदशसिन्धुरम् । उदग्रमणिमालाक्षिरुदञ्चिमुखमण्डलम् ॥ ४॥ अतिप्रबलशुण्डाग्रविलग्नमुसलायुधम् । करिप्रवरमारुह्य गिरिप्रतिनिभाकृतिम् ॥ ५॥ अधिष्टितमहासत्वप्रतिष्टितजगत्त्रयम् । अधिध्यदृढसन्धानं धनुश्शतमखानुगम् ॥ ६॥ मुसलादि कुठारादि पाशचर्मधरावृतम् । प्रत्यस्रं दधतं देवं सहस्रवरबाहुभिः ॥ ७॥ निबद्धकवचं देवं पिनद्धीवरबन्धनम् । प्रबुद्धसचिवानीतं प्रसिद्धबलपौरुषम् ॥ ८॥ प्रबोधितजगच्चक्रं प्रवर्धितधनागमम् । नीलनीरद सङ्काशं नित्यराम्बु-निभाननम् ॥ १०॥ विराजासक्तनयनं नीलकुञ्चितमूर्धजम् । महनीयमहानीलमणिकुण्डलमण्डितम् ॥ ११॥ रमणीयतरं वीरं विविधैरपि भूषणैः । भुजगाधिपभोगाभभुजमण्डलमण्डितम् ॥ १२॥ दृढपीवरपञ्चास्यपृथुकन्दुरमन्दरम् । कमनीयमणिप्रोततपनीयनवस्रजम् ॥ १३॥ तरसा महितं देवं महसामधिपं जनम् । नदन्तमिव कल्पान्ते भवन्तमतिभीषणम् ॥ १४॥ वमन्तमिव कालाग्निं दहन्तमिव पावकम् । किरन्तमिषुवेषेण स्फुरन्तमिव भास्करम् ॥ १५॥ कृतान्तमिव निर्यातं युगान्तरविपर्यये । मृगेन्द्रमिव गर्जन्तं तर्जन्तमरिमण्डलम् ॥ १६॥ ग्रसन्तमिव लोकाङ्घ्रिं नुदन्तमतिभीषणम् । द्विषन्तमतिवेगेन निहन्तं कृतनिश्चयम् ॥ १७॥ प्रचण्डतरकोदण्डप्रभिन्नपरसैनिकम् । प्रतपन्तमिवादित्यं प्रचरन्तमितस्ततः ॥ १८॥ प्रदहन्तमरीनन्तः प्रविशन्तमरिन्दमम् । क्वचित्प्रचण्डकोदण्डचण्डभैरवनिस्वनम् ॥ १९॥ क्वचिन्मनोजवोत्तुङ्गतुरङ्गममधिष्ठितम् । क्वचिद्रक्ताम्भुरोचिष्णुरथोपरिविनिष्टितम् ॥ २०॥ क्वचिच्चक्रसहस्रेण कृन्तयन्तं क्रुधा रिपून् । कचिच्छङ्खसहस्राणां मोहयन्तं महारवैः ॥ २१॥ क्वचिच्चर्मासिसाहस्रविदारितविरोधिनम् । क्वचित्कठोरसाहस्रकुठारादिविमर्दनम् ॥ २२॥ क्वचित्पाशाङ्कुशधरं क्वचिन्मुसलधारिणम् । क्वचिदादत्तपरिघं मर्दयन्तं रिपून्क्रमात् ॥ २३॥ रथनागतुरङ्गदि पतिभिः सहसासितैः । चोरमारिविपक्षाद्यैर्दशभिः परितोवृतम् ॥ २४॥ अङ्गैरपि समायान्तं निषङ्गेषु शरासनैः । आसेवितमनाधृष्यं अमलैरात्तकञ्चुकैः ॥ २५॥ पुरन्दरपरेतेशपाशायुधधनाधिपैः । समीरणसहायाग्रनिरृत्यनिलशूलिभिः ॥ २६॥ स्वकाष्टादिगतैः स्वस्ववाहनायुधभूषणैः । भीषणैः परितो वीतं परसैन्यविदारणैः ॥ २७॥ अतिप्रमाणाकारेण सङ्क्रान्ताशान्तमर्जुनम् । पदत्रितयसङ्क्रान्तलोकत्रयमिवाच्युतम् ॥ २८॥ आचिन्त्य विभवं देवं विचिन्त्यैवं विभोः पदम् । आमन्त्र्य निजहृद्वाच्यां स्वमन्त्रजपमारभेत् ॥ २९॥ अनुष्टुभाणां मन्त्राणां ऋषिरस्य स्वरस्य च । दत्तात्रेयोऽपि भगवान् छन्दोऽनुष्टुप् उदाहृतम् ॥ ३०॥ कार्तवीर्यार्जुनो विष्णुः देवता परिकीर्तितः । रक्षायै वाञ्छिताप्त्यै च विनियोगोऽरिनिग्रहे ॥ ३१॥ रं क्षं यम् । कृतान्त इव कल्पानां गर्जन्जृम्भितोऽर्जुनः । अस्मद्विरोधिनामायुर्हरत्वतिभयङ्करः ॥ रं क्षं यम् ॥ ३२॥ (मूलमन्त्रः ) ठं क्रोम् ॥ आबध्नामि दृढपाशैरलमस्मद्विरोधिनम् । स्वादिरे ध्मे महत्यग्नौ क्षिपत्वक्षरपविक्रमः ॥ ठं क्रोम् ॥ ३३॥ रें रिम् ॥ युगान्तघननिर्घातनिर्झरैरतिभीषणैः ॥ अस्मद्रिपोर्हरत्वायुरर्जुनः शङ्खनिस्वनैः ॥ रें रिम् ॥ ३४॥ धं नुम् ॥ धनुः पञ्चशतध्वाननिर्गतप्राणमारुतम् । कल्पान्तरुद्रकल्पोऽसौ कुर्यान्मे रातिभञ्जनम् ॥ धं नुम् ॥ ३५॥ स्वां लम् ॥ मल्लैरुल्लसितफलैरुज्वलद्भिः विचेतसम् । कुर्यादनार्यमार्यस्मदरातिं कृतवीर्यजः ॥ स्वां लम् ॥ ३६॥ प्रों हुम् । स्वबाहुनिर्गतैः पञ्चशतसङ्ख्यैस्सिताशुगैः । शिरः कृन्ततु मच्छत्रोर्जितशत्रुगणोर्जुनः ॥ प्रो हुम् ॥ ३७॥ क्लीं ह्रीम् ॥ अतितीक्ष्णकरैरुग्रैररिनिग्रहविग्रहे । करवालैः कराळाग्रैश्छिन्द्यात् मदरिमर्जुनः ॥ क्लीं ह्रीम् ॥ ३८॥ गं आम् ॥ गदाभिरतिभीमाभिरायसाभिररिन्दम । संहारकालसम्बन्धभीमनिर्घातभीषणैः ॥ गं आम् ॥ ३९॥ सर सर ॥ मुसलैःखलसङ्गेऽरिं निदर्यं मर्दयार्जुन । आयताभिरनायासं हन हेहय भूपते ॥ सर सर ॥ ४०॥ युं अम् ॥ युगान्तो गम्भीरमहानिर्घोषनिष्ठुरम् । अट्टहासैररातिं मे हन हेहय भूपते ॥ युं अम् ॥ ४१॥ नं सम् ॥ सहस्रकरसाहस्र दुस्सहोदग्रतेजसे । नमस्तुभ्यं सहस्रारे हन हेहय मद्रिपून् ॥ नं सम् ॥ ४२॥ करुकालि ॥ कालकण्ठगलाकारकरालाकृतिमर्जुन । कालिभ्योऽलिबलिं दद्यादस्मद्रिपुकलेबरम् ॥ ४३॥ घण घण ॥ अतिनीलगजारुढो निरूढामितविक्रमः । आघट्टतु ममारातिमर्जुनो निशितांशुकैः ॥ घण घण ॥ ४४॥ युं दम् ॥ युगान्तकर्बुरोदग्ररोचिषा चक्षुषा त्वचि । दह देव ममारातिं दह भूयो हरार्जुन । युं दम् ॥ ४५॥ ठं सुम् । गाढं गृहीत्वा केशेषु भ्रामयित्वाऽतिवेगतः । प्रक्षिप्योच्चैव्यसुं भूमौ पातयारिं ममार्जुन ॥ ठं सुम् ॥ ४६॥ सं हाम् ॥ त्वयि गर्जितसङ्ग्रामे संरम्भो जृम्बतेऽर्जुन । ब्रह्माण्डमपि भिन्नाण्डं भवेत्किमरिमण्डलम् ॥ सं हाम् ॥ ४७॥ नं रों मम् ॥ मध्यन्दिनदिनाधीशामन्निरीक्ष्याति भीषणः । क्षणेनैव ममारातिं कुर्यान्निर्जीवमर्जुनः ॥ नं रों मम् ॥ ४८॥ खं डम् ॥ अतिभीषणानिर्घोषो युधि निर्जितशात्रवः । अलमस्मदरिं कुर्यादचिरायुषमर्जुनः ॥ खं डम् ॥ ४९॥ नर नर ॥ अविचारमनाचारमचिरादचिरायुषम् । रचयेदचिरापातैरिषुभिर्मेऽरिमर्जुनः ॥ नर नर ॥ ५०॥ हं साम् । परचक्रविनिर्भिन्नरथचक्रविमर्दनम् । मम शत्रुमिमं हन्याज्जितशत्रुगणोर्जुनः ॥ हं साम् ॥ ५१॥ नां षम् ॥ कालमेघनिभं कालं कालकण्ठातिभीषणः । कालायसधनुः कालवशं नयतु मे रिपुम् ॥ नां षम् ॥ ५२॥ धं फम् ॥ अधिवारणमारुढो मदवारणाविक्रमः । विदधारुणोऽक्षोस्मदरिमारणमर्जुनः ॥ धं फम् ॥ ५३॥ मं दम् ॥ परायुहरणो घोरधुरीणमदवारणम् । नियोधय ममारातिं हरणे हेहयेश्वर । मं दम् ॥ ५४॥ जं ञम् ॥ खरकोटिखुरापातक्षितिरेणुसमुत्थितैः । हयसादिभिरद्यैव हन मे रिपुमर्जुन ॥ जं ञम् ॥ ५५॥ विं शम् ॥ प्रलयेश समादिष्टः प्रमथैरिव सद्भटैः । परिकृन्तय मच्छत्रून् शरणं भव मेऽर्जुन । विं शम् ॥ ५६॥ ख्रों लिम् ॥ प्राचीमाश्रित्य हरितं यातमस्मद्विरोधनम् । निहन्यान्निशितैश्शस्त्रैश्चोरमारीविभञ्जनः ॥ ख्रों लिम् ॥ ५७॥ जं रिम् ॥ दिशा दक्षिणया यादं निगृह्यास्मद्रिपुन् बलात् । निहन्याद्धृतचापेषुमहामारीविभज्जनः ॥ जं रिम् ॥ ५८॥ क्रां क्रीम् । पश्चिमया दिशा यातपरेतप्रग्रहातिथिम् । तनोत्वस्मद्रिपुं भल्लैर्निगृह्येदरिभञ्जनः ॥ क्रां क्रीम् ॥ ५९॥ सं फिम् ॥ सौम्याशया समाक्रान्तं समाक्रान्तं सुरेश्वर । समापयतु सर्वायुः मदरेः सौम्यदिक्स्थितः ॥ सं फिम् ॥ ६०॥ रां लाम् ॥ गृहीतचापबाणोसौ बली दुष्टनिबर्हणः । निबर्हयतु मच्छत्रुं मखच्छकहरिस्थितः ॥ रां लाम् ॥ ६१॥ डं फुम् । द्विषन्तं मम देवेश विशन्तं मारुताशयात् । विशन्तं विशिखैरेनं निहन्यादुरितापहः ॥ डं फुम् ॥ ६२॥ शिवाशया विवृद्धस्य शिताङ्कुरशिलीमुखैः । शिरश्छेदय मच्छत्रोर्महामायाविभञ्जन । ॐ अः ॥ ऊर्ध्वाशयोत्पतिष्यन्तं मद्विषन्तं महाबल । महाचक्रेण विच्छिद्यान्महामृत्युविभञ्जन ॥ ॐ अः ॥ ६३॥ औं डम् । रसारन्ध्रामप्यस्मत्सपत्नमधराशया । शङ्खध्वानेन विध्वस्ते स हन्याद् दुःखभञ्जनः ॥ औं डम् ॥ ६४॥ श्री दत्तात्रेयो जयतु ॥ इति कार्तवीर्यार्जुनमन्त्रः १ सम्पूर्णः । Proofread by Manish Gavkar
% Text title            : Kartavirya Arjuna MantraH 1
% File name             : kArtavIryArjunamantraH1.itx
% itxtitle              : kArtavIryArjunamantraH 1
% engtitle              : kArtavIryArjunamantraH 1
% Category              : deities_misc, mantra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Description/comments  : Thanjavur Sarasvati Mahal Series No. 568 kArtavIryArjuna-upAsanA paddhatiH 
% Indexextra            : (Scan)
% Latest update         : October 28, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org