कार्तवीर्यार्जुनमन्त्रः १
श्री गुरुगणपतये नमः ॥ श्रीदत्तात्रेयाय नमः ॥
अथ ध्यानं प्रवक्ष्यामि शृणुध्वं मुनिपुङ्गवाः ।
यं निजध्यानमात्रेण शत्रवो यान्ति सङ्क्षयम् ॥ १॥
रणाजिरे जयोदग्रं रणत्किङ्किणिजालकम् ।
जगद्धिताय संरन्धं नदज्जलदनिस्वनम् ॥ २॥
मदभ्रमरझङ्कारपतद्भ्रमरमस्तकम् ।
क्वणाकनकघसृणारुझणत्कृतिचमत्कृतिम् ॥ ३॥
परिश्रमणवैचित्त्र्यजितत्रिदशसिन्धुरम् ।
उदग्रमणिमालाक्षिरुदञ्चिमुखमण्डलम् ॥ ४॥
अतिप्रबलशुण्डाग्रविलग्नमुसलायुधम् ।
करिप्रवरमारुह्य गिरिप्रतिनिभाकृतिम् ॥ ५॥
अधिष्टितमहासत्वप्रतिष्टितजगत्त्रयम् ।
अधिध्यदृढसन्धानं धनुश्शतमखानुगम् ॥ ६॥
मुसलादि कुठारादि पाशचर्मधरावृतम् ।
प्रत्यस्रं दधतं देवं सहस्रवरबाहुभिः ॥ ७॥
निबद्धकवचं देवं पिनद्धीवरबन्धनम् ।
प्रबुद्धसचिवानीतं प्रसिद्धबलपौरुषम् ॥ ८॥
प्रबोधितजगच्चक्रं प्रवर्धितधनागमम् ।
नीलनीरद सङ्काशं नित्यराम्बु-निभाननम् ॥ १०॥
विराजासक्तनयनं नीलकुञ्चितमूर्धजम् ।
महनीयमहानीलमणिकुण्डलमण्डितम् ॥ ११॥
रमणीयतरं वीरं विविधैरपि भूषणैः ।
भुजगाधिपभोगाभभुजमण्डलमण्डितम् ॥ १२॥
दृढपीवरपञ्चास्यपृथुकन्दुरमन्दरम् ।
कमनीयमणिप्रोततपनीयनवस्रजम् ॥ १३॥
तरसा महितं देवं महसामधिपं जनम् ।
नदन्तमिव कल्पान्ते भवन्तमतिभीषणम् ॥ १४॥
वमन्तमिव कालाग्निं दहन्तमिव पावकम् ।
किरन्तमिषुवेषेण स्फुरन्तमिव भास्करम् ॥ १५॥
कृतान्तमिव निर्यातं युगान्तरविपर्यये ।
मृगेन्द्रमिव गर्जन्तं तर्जन्तमरिमण्डलम् ॥ १६॥
ग्रसन्तमिव लोकाङ्घ्रिं नुदन्तमतिभीषणम् ।
द्विषन्तमतिवेगेन निहन्तं कृतनिश्चयम् ॥ १७॥
प्रचण्डतरकोदण्डप्रभिन्नपरसैनिकम् ।
प्रतपन्तमिवादित्यं प्रचरन्तमितस्ततः ॥ १८॥
प्रदहन्तमरीनन्तः प्रविशन्तमरिन्दमम् ।
क्वचित्प्रचण्डकोदण्डचण्डभैरवनिस्वनम् ॥ १९॥
क्वचिन्मनोजवोत्तुङ्गतुरङ्गममधिष्ठितम् ।
क्वचिद्रक्ताम्भुरोचिष्णुरथोपरिविनिष्टितम् ॥ २०॥
क्वचिच्चक्रसहस्रेण कृन्तयन्तं क्रुधा रिपून् ।
कचिच्छङ्खसहस्राणां मोहयन्तं महारवैः ॥ २१॥
क्वचिच्चर्मासिसाहस्रविदारितविरोधिनम् ।
क्वचित्कठोरसाहस्रकुठारादिविमर्दनम् ॥ २२॥
क्वचित्पाशाङ्कुशधरं क्वचिन्मुसलधारिणम् ।
क्वचिदादत्तपरिघं मर्दयन्तं रिपून्क्रमात् ॥ २३॥
रथनागतुरङ्गदि पतिभिः सहसासितैः ।
चोरमारिविपक्षाद्यैर्दशभिः परितोवृतम् ॥ २४॥
अङ्गैरपि समायान्तं निषङ्गेषु शरासनैः ।
आसेवितमनाधृष्यं अमलैरात्तकञ्चुकैः ॥ २५॥
पुरन्दरपरेतेशपाशायुधधनाधिपैः ।
समीरणसहायाग्रनिरृत्यनिलशूलिभिः ॥ २६॥
स्वकाष्टादिगतैः स्वस्ववाहनायुधभूषणैः ।
भीषणैः परितो वीतं परसैन्यविदारणैः ॥ २७॥
अतिप्रमाणाकारेण सङ्क्रान्ताशान्तमर्जुनम् ।
पदत्रितयसङ्क्रान्तलोकत्रयमिवाच्युतम् ॥ २८॥
आचिन्त्य विभवं देवं विचिन्त्यैवं विभोः पदम् ।
आमन्त्र्य निजहृद्वाच्यां स्वमन्त्रजपमारभेत् ॥ २९॥
अनुष्टुभाणां मन्त्राणां ऋषिरस्य स्वरस्य च ।
दत्तात्रेयोऽपि भगवान् छन्दोऽनुष्टुप् उदाहृतम् ॥ ३०॥
कार्तवीर्यार्जुनो विष्णुः देवता परिकीर्तितः ।
रक्षायै वाञ्छिताप्त्यै च विनियोगोऽरिनिग्रहे ॥ ३१॥
रं क्षं यम् । कृतान्त इव कल्पानां गर्जन्जृम्भितोऽर्जुनः ।
अस्मद्विरोधिनामायुर्हरत्वतिभयङ्करः ॥ रं क्षं यम् ॥ ३२॥
(मूलमन्त्रः )
ठं क्रोम् ॥ आबध्नामि दृढपाशैरलमस्मद्विरोधिनम् ।
स्वादिरे ध्मे महत्यग्नौ क्षिपत्वक्षरपविक्रमः ॥ ठं क्रोम् ॥ ३३॥
रें रिम् ॥ युगान्तघननिर्घातनिर्झरैरतिभीषणैः ॥
अस्मद्रिपोर्हरत्वायुरर्जुनः शङ्खनिस्वनैः ॥ रें रिम् ॥ ३४॥
धं नुम् ॥ धनुः पञ्चशतध्वाननिर्गतप्राणमारुतम् ।
कल्पान्तरुद्रकल्पोऽसौ कुर्यान्मे रातिभञ्जनम् ॥ धं नुम् ॥ ३५॥
स्वां लम् ॥ मल्लैरुल्लसितफलैरुज्वलद्भिः विचेतसम् ।
कुर्यादनार्यमार्यस्मदरातिं कृतवीर्यजः ॥ स्वां लम् ॥ ३६॥
प्रों हुम् । स्वबाहुनिर्गतैः पञ्चशतसङ्ख्यैस्सिताशुगैः ।
शिरः कृन्ततु मच्छत्रोर्जितशत्रुगणोर्जुनः ॥ प्रो हुम् ॥ ३७॥
क्लीं ह्रीम् ॥ अतितीक्ष्णकरैरुग्रैररिनिग्रहविग्रहे ।
करवालैः कराळाग्रैश्छिन्द्यात् मदरिमर्जुनः ॥ क्लीं ह्रीम् ॥ ३८॥
गं आम् ॥ गदाभिरतिभीमाभिरायसाभिररिन्दम ।
संहारकालसम्बन्धभीमनिर्घातभीषणैः ॥ गं आम् ॥ ३९॥
सर सर ॥ मुसलैःखलसङ्गेऽरिं निदर्यं मर्दयार्जुन ।
आयताभिरनायासं हन हेहय भूपते ॥ सर सर ॥ ४०॥
युं अम् ॥ युगान्तो गम्भीरमहानिर्घोषनिष्ठुरम् ।
अट्टहासैररातिं मे हन हेहय भूपते ॥ युं अम् ॥ ४१॥
नं सम् ॥ सहस्रकरसाहस्र दुस्सहोदग्रतेजसे ।
नमस्तुभ्यं सहस्रारे हन हेहय मद्रिपून् ॥ नं सम् ॥ ४२॥
करुकालि ॥ कालकण्ठगलाकारकरालाकृतिमर्जुन ।
कालिभ्योऽलिबलिं दद्यादस्मद्रिपुकलेबरम् ॥ ४३॥
घण घण ॥ अतिनीलगजारुढो निरूढामितविक्रमः ।
आघट्टतु ममारातिमर्जुनो निशितांशुकैः ॥ घण घण ॥ ४४॥
युं दम् ॥ युगान्तकर्बुरोदग्ररोचिषा चक्षुषा त्वचि ।
दह देव ममारातिं दह भूयो हरार्जुन । युं दम् ॥ ४५॥
ठं सुम् । गाढं गृहीत्वा केशेषु भ्रामयित्वाऽतिवेगतः ।
प्रक्षिप्योच्चैव्यसुं भूमौ पातयारिं ममार्जुन ॥ ठं सुम् ॥ ४६॥
सं हाम् ॥ त्वयि गर्जितसङ्ग्रामे संरम्भो जृम्बतेऽर्जुन ।
ब्रह्माण्डमपि भिन्नाण्डं भवेत्किमरिमण्डलम् ॥ सं हाम् ॥ ४७॥
नं रों मम् ॥ मध्यन्दिनदिनाधीशामन्निरीक्ष्याति भीषणः ।
क्षणेनैव ममारातिं कुर्यान्निर्जीवमर्जुनः ॥ नं रों मम् ॥ ४८॥
खं डम् ॥ अतिभीषणानिर्घोषो युधि निर्जितशात्रवः ।
अलमस्मदरिं कुर्यादचिरायुषमर्जुनः ॥ खं डम् ॥ ४९॥
नर नर ॥ अविचारमनाचारमचिरादचिरायुषम् ।
रचयेदचिरापातैरिषुभिर्मेऽरिमर्जुनः ॥ नर नर ॥ ५०॥
हं साम् । परचक्रविनिर्भिन्नरथचक्रविमर्दनम् ।
मम शत्रुमिमं हन्याज्जितशत्रुगणोर्जुनः ॥ हं साम् ॥ ५१॥
नां षम् ॥ कालमेघनिभं कालं कालकण्ठातिभीषणः ।
कालायसधनुः कालवशं नयतु मे रिपुम् ॥ नां षम् ॥ ५२॥
धं फम् ॥ अधिवारणमारुढो मदवारणाविक्रमः ।
विदधारुणोऽक्षोस्मदरिमारणमर्जुनः ॥ धं फम् ॥ ५३॥
मं दम् ॥ परायुहरणो घोरधुरीणमदवारणम् ।
नियोधय ममारातिं हरणे हेहयेश्वर । मं दम् ॥ ५४॥
जं ञम् ॥ खरकोटिखुरापातक्षितिरेणुसमुत्थितैः ।
हयसादिभिरद्यैव हन मे रिपुमर्जुन ॥ जं ञम् ॥ ५५॥
विं शम् ॥ प्रलयेश समादिष्टः प्रमथैरिव सद्भटैः ।
परिकृन्तय मच्छत्रून् शरणं भव मेऽर्जुन । विं शम् ॥ ५६॥
ख्रों लिम् ॥ प्राचीमाश्रित्य हरितं यातमस्मद्विरोधनम् ।
निहन्यान्निशितैश्शस्त्रैश्चोरमारीविभञ्जनः ॥ ख्रों लिम् ॥ ५७॥
जं रिम् ॥ दिशा दक्षिणया यादं निगृह्यास्मद्रिपुन् बलात् ।
निहन्याद्धृतचापेषुमहामारीविभज्जनः ॥ जं रिम् ॥ ५८॥
क्रां क्रीम् । पश्चिमया दिशा यातपरेतप्रग्रहातिथिम् ।
तनोत्वस्मद्रिपुं भल्लैर्निगृह्येदरिभञ्जनः ॥ क्रां क्रीम् ॥ ५९॥
सं फिम् ॥ सौम्याशया समाक्रान्तं समाक्रान्तं सुरेश्वर ।
समापयतु सर्वायुः मदरेः सौम्यदिक्स्थितः ॥ सं फिम् ॥ ६०॥
रां लाम् ॥ गृहीतचापबाणोसौ बली दुष्टनिबर्हणः ।
निबर्हयतु मच्छत्रुं मखच्छकहरिस्थितः ॥ रां लाम् ॥ ६१॥
डं फुम् । द्विषन्तं मम देवेश विशन्तं मारुताशयात् ।
विशन्तं विशिखैरेनं निहन्यादुरितापहः ॥ डं फुम् ॥ ६२॥
शिवाशया विवृद्धस्य शिताङ्कुरशिलीमुखैः ।
शिरश्छेदय मच्छत्रोर्महामायाविभञ्जन ।
ॐ अः ॥ ऊर्ध्वाशयोत्पतिष्यन्तं मद्विषन्तं महाबल ।
महाचक्रेण विच्छिद्यान्महामृत्युविभञ्जन ॥ ॐ अः ॥ ६३॥
औं डम् । रसारन्ध्रामप्यस्मत्सपत्नमधराशया ।
शङ्खध्वानेन विध्वस्ते स हन्याद् दुःखभञ्जनः ॥ औं डम् ॥ ६४॥
श्री दत्तात्रेयो जयतु ॥
इति कार्तवीर्यार्जुनमन्त्रः १ सम्पूर्णः ।
Proofread by Manish Gavkar