श्रीमायेश्वरस्तोत्रम्
(शार्दूलविक्रीडितवृत्तम्)
ईशा वास्यमिदं जगद्भगवता येनेति वक्ति श्रुतिः
सर्वं दृश्यमिदं च तद्विलसितं तस्यांशमात्रे स्थितम् ।
शक्यं स्वांशविभावनं निरवधौ दृश्यं तथा निर्गुणे
मायाजालमिदं च तन्निरसने मायेश्वरः प्रार्थ्यते ॥ १॥
नित्ये सत्यघने समात्रपरमे जायेत दृश्यं कथं
ज्ञानेनैव विभाति सत्यमिति चेत्साज्ञानमात्रे कथम् ।
आनन्दे वितते कथं जगदिदं दुःखास्पदं सम्भवेत्
मायाया घटनं च तन्निरसने मायेश्वरः प्रार्थ्यते ॥ २॥
सर्वप्राणिगुहास्वहं स्फुरति यंज्ञात्वा स्वमात्रं परं
तस्मिन् सर्वविभासकेऽद्वयशिवे बाहुल्यमित्थं कथम् ।
क्लेशाः पञ्च च बन्धमोक्ष इति वा तिष्ठेत्कथं स्वप्रभे
मायायाश्च विडम्बनं निरसने मायेश्वरः प्रार्थ्यते ॥ ३॥
दृष्टा दृश्यमिदं च तत्स्फुटमपि स्पर्धेत मुह्येत्कथं
दृश्यं द्रष्टरि नैव चेत्कथमिदं तद्बाधकं मन्यते ।
आद्यन्ते वितते स्वमात्रपरमे मध्ये स्वभिन्नं कथं
मायायाश्च विमोहनं निरसने मायेश्वरः प्रार्थ्यते ॥ ४॥
नो माया न च मायिकं यदि कुतो जीवेशविश्वभ्रमो
ब्रह्मैवास्ति सदैकमेव न भिदा ब्रूते श्रुतिर्नित्यशः ।
नो भावोऽप्यसतः सतोऽपि च यदाऽभावो न वा विद्यते
मायायाः कृतकं च तन्निरसने मायेश्वरः प्रार्थ्यते ॥ ५॥
अप्राणो ह्यमनाश्च यस्तु मनसः श्रुत्या मनः कथ्यते
तत्सृष्टिर्मनसश्च तन्निरसनाद्विष्णोः पदं मन्यते ।
भूम्यस्मिन् सकलं मनः कृतमहो जातं कथं कुत्र वा
मायायाः प्रविलोभनं निरसने मायेश्वरः प्रार्थ्यते ॥ ६॥
भीर्नो ब्रह्मणि तद्द्वितीयमिति वा श्रुत्या च निर्दिश्यते
तस्मिन् भिन्नमहो भयं कथमिदं प्राप्तं स्थितं वा भवेत् ।
अज्ञानं कथमद्वये सुखघने ज्ञानात्मके सम्भवेत्
मायाया भ्रमणं च तन्निरसने मायेश्वरः प्रार्थ्यते ॥ ७॥
श्रुत्या यद्गदितं च नेति खलु तल्लुप्येत्कथं मायया
जातं यन्न तथा विकार इति वा यस्मिन्न किञ्चित् क्वचित् ।
तस्मिन्नद्वयरूपके कथमयं जीवश्च सङ्गीभवेत्
मायायाः कपटं च तन्निरसने मायेश्वरः प्रार्थ्यते ॥ ८॥
जानन्सर्वमिदं बलात्कथमहं मुग्धः समावेष्टितः
नित्यात्मस्थितिमद्वयामिह विदि स्याद्विघ्नकृत्किं मयि ।
सच्चित्सौख्यमिदं स्वरूपममलं मत्वैव चेद्दोषभाक्
मायौद्धत्यमहोऽत्र तन्निरसने मायेश्वरः प्रार्थ्यते ॥ ९॥
ब्रह्मैवाहमिदं च सर्वमपि यद्ब्रह्मैव वक्ति श्रुतिः
न स्त्री नैव पुमान्न तिर्यगथवा देवो न वा दानवः ।
नाना नेह तथापि यत्खलु वृथा मिथ्येन्द्रजालादिवत्
मायाया नटनं च तन्निरसने मायेश्वरः प्रार्थ्यते ॥ १०॥
यश्चैकः श्रुतिभिर्मुहुर्मुहुरहो संस्तूयमानो महान्
माया यस्य दुरत्यया जनमनो व्यामोहकर्त्री भवेत् ।
मामेवेह यदा प्रपन्न इति चेन्मायां तरेद्योऽवदत्
तं मायाविनिवर्तकं सुखघनं नत्वाथ सम्प्रार्थये ॥ ११॥
यश्चात्मा गुरुरीश्वरः सुखघनो विभ्राजतेऽहर्निशं
नेतुं भीमभवार्णवान्निजपदं यो वै कृपालुर्महान् ।
जीवानां भवनाशनात्परतरं स्यात्कर्म नो यस्य वा
सर्वज्ञोऽत्र च सर्वशक्तिरपि यः सोस्मान्भवात्तारयेत् ॥ १२॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं श्रीमायेश्वरस्तोत्रं सम्पूर्णम् ।
Proofread by Manish Gavkar