श्रीमहापेरियवासुप्रभातम्

श्रीमहापेरियवासुप्रभातम्

श्रीचन्द्रशेखरेन्द्रसरस्वती सुप्रभातम् श्रीकाञ्च्यां भगवत्पादैरादिमैरवधारिते । मूलाम्नाय-महापीठे साष्ट-षष्टितमो गुरुः ॥ आदिम First साष्ट-षष्टितमो Sixty eighth भूत्वाऽनर्घ- स्वैस्त्रैलोक्यं मङ्गलं कुरु । कामाक्षी-रूपसम्पप्रभावैःन्न दिव्यमङ्गल-विग्रह ॥ अनर्घ प्रभाव Invaluable greatness द्वितीय-भगवत्पाद-नामवैभव-विश्रुत । महास्वामीति विख्यात कीर्तनीय-गुणोज्ज्वल ॥ अव्याज-करुणापूर्ण दीर्घाक्ष स्वर्णभास्वर । जीवन्मुक्ताग्रणीर्नित्यं जगतां मङ्गलं कुरु ॥ अग्रणी Foremost यस्याववबोद्धुमिह लौकिक-जीवतत्त्वं सर्वेपि जाग्रति हि लोक-कथास्वकस्मात् । दिव्यांश-शङ्करवदेव सुलौकिकस्सन् श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ १॥ अवबोद्धुम् To understand दुर्गास्तवो रचित एव पदार्थ-पुष्टः पित्रार्पितं लसति रिक्थमिवात्र भक्ते । मातेव यत् प्रतिपदं व्युषितं न आरात् श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ २॥ पित्रार्पितं रिक्थम् Inheritance given by a father व्युषितं नः Distributed to us (na: becomes na due to following vowel) यः शोक-मोहरहितस्स हि गण्यतेऽत्र ज्ञानीति नेषमपि शिष्यहिताय विद्यन् । शिष्यं च ब्रह्म गमयन्निगमान्त-मूलं श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ ३॥ नेष - With supreme guidance नीरे वसन्ननुनयैरपि मीनजीवः किं वासमीप्सति कदापि वरिष्ठ-दुग्धे । एवं स्वशक्तिमनुपालयतेति सूक्त्या श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ ४॥ अनुनय Persuasion वरिष्ठ-दुग्धे - Superior milk ऋग्वेदि-विप्रकुलमादर-सम्भृतं ते सम्पूर्णकुम्भमुपधिं कुरुतेऽनुसन्ध्यम् । वेदार्थ-वाचन-कृते निधियोजनां ते श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ ५॥ आदर-सम्भृतं Carried with love and gratitude अनुसन्ध्यम् Every evening (Every day) उपधिं Support भक्त्या स्वमातृ-पितृ-गुर्वनुवर्त-सेवा सर्वस्य शोभत इति श्रुतिसार-वाचम् । मातेव वत्सलतया ह्युपदेष्टुमस्मान् श्रीचन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ ६॥ अनुवर्त-सेवा - Obedience and serving धूतो यदीय-महसा नु तमोनुषङ्गः प्रज्ञान-वारिज-विकाशनमप्यकारि । तं मन्दहासमिह भासय भक्तवर्गे श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ ७॥ यदीय-महसा - By whose brilliance धूत: तमोनुषङ्गः Darkness is shattered प्रज्ञान-वारिज-विकाशन - Blooming of the lotus of wisdom भीतं न भीषयति भागवतं शरण्यो रक्षत्यपीति करुणा-वरुणालयस्सन् । स्वस्यैव तैर्विशदयङ्कृतकैरुदारैः श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ ८॥ विशदयन् - exemplifying, making clear कृतकैरुदारैः - with benevolent deeds भावैः षडङ्ग-सदसामपि संहितानां ऐक्यं फलं बहुविधं विदधान आद्यः । आचार्यपाद इव सद्गुरुपाद-नाम्ना श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ ९॥ आब्रह्म-कीट-जननी यदि सैव गीता वर्णाश्रमान्तर-विधायक-वाहिनीति । शिष्ये तदाशय-विरोध-मतिं व्यपोह्य श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ १०॥ तदाशय-विरोध-मतिं - Mind going against Her wishes व्यपोह्य - Refuting, removing शास्त्रं चतुर्विधमितीह विमर्श-दृष्ट्या व्यासीय-सूत्र-गणनेन विबोधयन्नः । शास्त्रार्थ-वित्तम-हृदामभिमान-जैत्रं श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ ११॥ शास्त्रार्थ-वित्तम - Best among those who know the Shastras षष्ठी-समास-विधयेति जगद्गुरूक्तिं व्याख्याय विस्मयवशादभिसन्दधानः । काशीस्थ-पण्डितगणं परतो विजेतः श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ १२॥ जगद्गुरूक्तिं The title “Jagadguru” षष्ठी-समास - A type of Compound Word काशीस्थ Residing in Kashi अभिसन्दधानः Creating peace and friendship धर्मस्स्थितिर्भवति हाचरणेन नित्यं साहाय्यकं तु कुरुते भुवि तत्प्रचारः । इत्यादिशन्नधिकता-जितरामधर्मः श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ १३॥ ह Indeed आङ्ग्लेतिहास-गणितेषु च गीतनाट्ये षड्-दर्शनेषु च कुशाग्र-धियाऽधिवक्ता । सारस्वतं पदमलङ्कुरुषे गरीयान् श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ १४॥ आङ्ग्ल इतिहास English Literature कुशाग्र-धिया Intellect sharp as the tip of a Darbha grass यद्यद्-यदीयमनिशं कुरुते मनस्तद् रूपं च भावमभियान् भगवानिवाद्यः । शिष्याननीदृश-दृशा परिपालयन्नः श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ १५॥ अनीदृश-दृशा In dissimilar, different ways संयुक्त-राष्ट्र-समितावभिरूप-संज्ञान् उद्दिश्य गापित-सुगीतमुखोपदेशः । भूयात्स सज्जनहिताय च दीनबन्धो श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ १६॥ संयुक्त-राष्ट्र-समिति United Nations गापित Caused to be sung वेदस्य शास्त्र-निवहस्य च देवधाम्नां कन्या-गवां स्थविर-पूजक-दीन-नॄणाम् । सौहित्य-हेतु-निधि-योजनमुज्ज्वलं ते श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ १७॥ स्थविर-पूजक-दीन-नॄणाम् Seniors, priests and poor people सौहित्य-हेतु-निधि Welfare Fund उत्थापितादिम-नटालयतः सतारा ताराग्रहाभ-जनता-महिता बभूव । अद्यापि सन्निधि-वशात्तदनुग्रहार्थं श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ १८॥ आदिम-नट-आलय Temple for Lord Nataraja सतारा The town Satara वृन्दार-तावक-कृपाभरधारया सा द्यौरेव नूनमधरी-क्रियते सतारा । काञ्च्यां हि सन्ति विबुधा गुरुवार-सभ्याः श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ १९॥ द्यौ: सतारा The sky with stars अधरी-क्रियते Made inferior धर्म्यं च सामयिकमेव यतीश्वरस्तत् कर्तुं न कर्तुमभिपूर्वतयाऽपि कर्तुम् । विस्मापयन्नखिल-साधुजनान् स्ववृत्तैः श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ २०॥ अभिपूर्वतया In regular order विस्मापयन् Causing wonder पादक्रमो लसति भारत-पुण्य-भूमौ आवर्तितस्तव हि पावित-पांसुधामा । भूयोऽपि काङ्क्षित-फलान्युपनेतुमस्मान् श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ २१॥ पादक्रम Footsteps पावित-पांसुधामा Purified by the dust काञ्चीपुरे गुरुवरैर्भृत-पीठ-भक्ताः दीना नदीन-मध्य-शिथिला न मग्नाः । भीता न भीति-विवशा न रुदन्त्यनाथाः श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ २२॥ नदीन Ocean साम्राज्यं आस्तिक-दृशानमिदंयुगीनं बाभास्ति सर्वमतिदीर्घ-मठाधिपत्ये । इत्येव गीतयशसस्तव सुप्रभातं श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ २३॥ दृशान Lighting (the path) इदंयुगीनं Particular to this Yuga सत्यव्रतस्त्वमसि तत्सुलभोपसेव्यं मार्गं प्रदर्श्य महनीय-दशोपदेशैः । अस्मादृशानपि समुत्सुकयन्महात्मन् श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ २४॥ अस्मादृशानपि Even those like us श्रीमज्जयेन्द्र-विजयेन्द्र-विनेय-मुख्यैः आराधितः सदसि काञ्चन-विल्व-पत्रैः । उद्दीपयन्नमितमात्म-बलं जनानां श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ २५॥ उद्धृत्य पाणिमभयैक-परायणं तं संयोज्य दत्त-सुवरेण परेण भावम् । अद्वैत-मुद्रमुदितः कनकाभिषेके श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ २६॥ त्वं योऽसि सोऽसि कथमात्मबलस्य लोपात् जानीमहे तदथवा नु तव प्रसादात् । जानीम एव महनीय गुरो प्रसीद दोषान् क्षमस्व कलितानविमृश्य तत्त्वम् ॥ २७॥ आत्मबलस्य लोपात् Due to lack of spiritual strength श्रीकामकोटि-मठ-कार्यमशीतिमब्दान् सप्तोत्तरं दधदहो यदवैमि धत्से । वैराजमात्मनि गुरो भगवत्स्वरूपं श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ २८॥ सप्तोत्तरं अशीतिमब्दान् Eighty seven years जाने न शास्त्रमुत वेदपुराण-गाथाः वाग्मी न चाहमिह यत्तव तोषकारी । वात्सल्यमेकमवलम्ब्य तव स्वकीयं मातेव पङ्किल-शिशुं कृपया क्षमस्व ॥ २९॥ वाग्मी Eloquent speaker तोषकारी Causing satisfaction क्षेमं त्वमाप्स्यसि शुभं भवितेति मह्यं सानुग्रहं स्मितमुखो यदददाः प्रसादम् । मीराज-मन्दिर-महागणपस्य साक्ष्ये सत्यापितञ्च तदहं किमु विस्मरेयम् ॥ ३०॥ यदददाः प्रसादम् The blessings which you gave भक्त्यार्द्र-भारत-महाजन-वन्दितायै निष्कम्प-नन्दित-मतान्तर-सेवकायै । निस्तारतम्य-तदनुग्रह-तत्परायै नित्यं नमोऽस्तु कुलदैवत-पादुकायै ॥ ३१॥ भक्त्यार्द्र Melting with devotion आबाल-वृद्धमभिजात-महोत्सवायै श्रुत्यन्त-सुन्दर-कटाक्ष-सुवीक्षितायै । शिष्याग्रणी-द्वय-निषेवित-पादुकायै श्री चन्द्रशेखरगुरोर्नम एतदस्तु ॥ ३२॥ आबाल-वृद्धम् From children to elders (everyone) शिष्याग्रणी Foremost among disciples मैत्री-विजेय-शुभ-दण्ड-कमण्डलायै श्रीकामकोटि-सुमठाधिप-वाहनायै । अश्रान्त-भारत-परिक्रम-साक्षिदेव्यै नित्यं नमोऽस्तु जगतां गुरुपादुकायै ॥ ३३॥ श्रीमज्जयेन्द्र-विजयेन्द्र-कृतावलम्बः कष्टात् समुन्नतिमवाप्त-मठीय-धर्मः । भक्तैः स्वशिष्य-निवहैश्च समिध्यमानः जेजीयतामिह यथापुरमायुगान्तम् ॥ ३४॥ यथापुरम् Just as before आयुगान्तम् Till the end of this Yuga मङ्गलं जगते भूयात् प्रसादात् जगतां गुरो । पठद्भ्यः सुप्रभातं च भूयादेव सुमङ्गलम् ॥ ३५॥ पठद्भ्यः To those who read इति चन्द्रशेखरेन्द्रसरस्वतीसुप्रभातं अथवा श्रीमहापेरियवासुप्रभातं सम्पूर्णम् । Encoded and proofread by Aruna Narayanan, Rajani Arjun Shankar
% Text title            : Mahaperiyava Suprabhatam
% File name             : mahAperiyavAsuprabhAtam.itx
% itxtitle              : chandrashekharendrasarasvatIsuprabhAtam athavA mahAperiyavAsuprabhAtam
% engtitle              : mahAperiyavAsuprabhAtam
% Category              : deities_misc, gurudev, suprabhAta
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aruna Narayanan, Rajani Arjun Shankar
% Proofread by          : Aruna Narayanan, Rajani Arjun Shankar
% Translated by         : Notes : Rajani Arjun Shankar
% Indexextra            : (1 2, Tamil)
% Latest update         : November 24, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org