॥ नवरत्नमालिकामञ्जूषा अथवा नाथनवरत्नमालिका ॥

श्रीगणेशाय नमः श्रीमहेशनाथकृता श्रीनाथनवरत्नमालिका श्रीभासुरानन्दनाथविरचितया मञ्जूषाख्यया व्याख्यया संवलिता श्रीनाथादित्रितयं नत्वा गम्भीररायसूरिसुतः । नाथनवरत्नमालागूढार्थव्यावृतिं तनुते॥ इह खलु निखिलोपासनाः गुरुप्रसादलभ्याः, ``गुरुमूलाः क्रियाः सर्वाः '' इति वचनात् । तत्प्रसादश्च तत्स्वरूपोपास्तिमन्तरा दुर्लभः । तद्रूपं तु त्रिविधम् - स्थूलं, सूक्ष्मं, परं चेति । तेषु आद्यं, ``सहस्रदलपङ्कजे सकलशीतरश्मिप्रभम्'' इत्यादिना करणचरणाद्यवयववैशिष्ट्येणोक्तं प्रसिद्धम् । द्वितीयं तु गुरुपादुकामन्त्ररूपम् । तृतीयं वासनात्मकम् । तच्च रहस्यत्वात् सङ्केतभाषयोपासकानुजिधृक्षया विवृणोति- हंसः सोऽहं मन्त्रमयैः श्वासनिकायै- र्या गायत्री जन्तुषु सर्वेषु पिनद्धा । सन्नाविरभूद्वासनया य- स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ १॥ हंस इति । प्राथमिकसृष्टौ यद्बिन्दुत्रयं प्रादुरभूत् । तत्र बिन्दुः पुमान्; विसर्गः प्रकृतिः; ताभ्यां क्रमेण स्वस्य विशिष्टौ हकारसकारावुत्पन्नौ । सोऽहं हंसः, स त्वजपानामको मन्त्रः । तस्यैव वैपरीत्यकथनेन सोऽहमितिपरमात्ममन्त्नः; परमात्मनि योगे तु, ``पराप्रासादमन्त्रः'' इत्यादिशारदायां चरमपटलेऽन्यत्र चोक्तम् । तदिदं परस्परभिन्नमन्त्रपञ्चकमुच्छ्वासनिश्वासरूपम् । ``उच्छ्वासे चैव निःश्वासे हंस इत्यक्षरद्वयम् ।'' इति वचनात् । स च मन्त्रः सर्वैः प्राणिभिः अहोरात्रसंमिते काले षट्शताधिकैकविंशतिसहस्र(२१६००)मावर्त्यते । सोऽयमनायासेन जपः । तथात्वेन ज्ञानमात्रेण मोक्षप्रदत्वात्सर्वमन्त्रोत्तमः । तदुक्तम्- ``हंसः पदं परेशानि प्रत्यहं जपते नरः । मोहान्धो यो न जानाति मोक्षस्तस्य न विद्यते॥ श्रीगुरोः कृपया देवि ज्ञायते जप्यते ततः । तस्माच्छ्वासैश्च निःश्वासैस्तदा बन्धक्षयो भवेत्॥ अजपा नाम गायत्री योगिनां मोक्षदायिनी । तस्या विज्ञानमात्रेण नरः पापैः प्रमुच्यते॥ अनया सदृशी विद्या चानया सदृशो जपः । अनया सदृशं पुण्यं न भूतं न भविष्यति ॥'' इति च तदुपासनेतिकर्तव्यता शारदायां चतुर्दशे पटले, अन्यत्र च विस्तृतेति नेहोच्यते । गुरुदेवतामन्त्राणामैक्यं च, ते सर्वे श्वासाः नाथरूपा एव । अक्षरार्थस्तु - हंस इत्यजपामन्त्रादिरूपश्वाससमूहाभिन्ना या गायत्री सर्वप्राणिष्वाच्छन्ना वर्तते, तदभिन्नः सन् वासनात्मकरूपेण यः प्रादुर्भूतः, तं गुरुं नौमीति । स एव च गुरुः, सतां मार्गः, मुक्तिपुरगमनोपायः ; ''गुरुरुपायः'' इति शिवसूत्रात् । आनन्दमन्त्रो हि मयूरः स्वपिञ्च्छावयवान् प्रसार्य नृत्यकाले यथा विचित्ररूपो दृश्यते, तेन तथा कालान्तरे, अतः तस्य तद्रूपमाच्छन्नम् । एवं गुरोरपि वक्ष्यमाणं विचित्ररूपमाच्छन्नमस्तीति गौण्या मत्तमयूरपदेन गुरुः स्तूयते । अस्मिन् स्तोत्रे दशापि श्लोकाः मत्तमयूराभिधवृत्तरूपाः । तल्लक्षणं चोक्तं पिङ्गलमुनिना - ``मत्तमयूरं म्तौ य्सौ ग्समुद्ग(४) नवकौ'' इति । मतयसगणाः गुरुश्च, प्रतिपदं चतुर्भिर्नवभिश्च यतिरिति तदर्थः । प्रकृतेऽप्युक्तैरेव पदैः सूच्यार्थकथनादिह मुद्रालङ्कारः । तल्लक्षणं चोक्तं चन्द्रालोके- ``सूच्यार्थसूचकं मुद्रा प्रकृतार्थपदै: पदैः । नितम्बगुर्वी तरुणी दृग्युग्मविपुलालसा ॥'' इति । सङ्केतरीत्या अनुक्तश्वाससङ्ख्याया अपि पदद्वयेन सूचनात् स एवालङ्कारः । तत्प्रकारस्तु - ``क-ट-प-य-वर्गभवैरिह पिण्डान्त्यैरक्षरैरङ्का । नञ्शून्यं विज्ञेयं तथा स्वरे केवले कथिते ॥'' इति श्लोकरीत्या मकारः पञ्चसङ्ख्याङ्के ; तकारः षष्ठाङ्के ; पुनर्मकारः पञ्चाङ्के, यकाररेफगकाराः एकद्वित्र्यङ्केषु सङ्केतिताः । तथा, ``अङ्कानां वामतो गतिः'' इत्युक्तरीत्या लेखने कृते सति, म ५, त्त ६, म ५, यू १, रे २, पदेन एकविंशतिसहस्राणि पञ्चशतानि पञ्चषष्टिश्च कथितानि भवन्ति । सन्; विद्यमानो मार्गः (३५) यस्मिन्निति व्युत्पत्या मार्गशब्दोक्तपञ्चत्रिंशत्सङ्ख्यया अस्या मेलनेन षट्शताधिकैकविंशतिसहस्रसङ्ख्यानिष्पत्ति-(२१६००)रिति । एवमग्रेऽपि सङ्केतोऽवगन्तव्यः ॥ १॥ तन्त्रराजे हि सप्तविंशे पटले श्वासानां वासनाद्वयमुक्तम् ``सङ्ख्याभिर्वासनाव्याप्तिं श्वासानां शृणु सुन्दरि । यया विदितया मन्त्री सदा दर्शनवान्भवेत् ॥'' इत्यादिना । तयो: प्रथमां वासनामुद्यदित्यादिभिः चतुर्भिः श्लोकैः प्रदर्शयति - उद्यद्भास्वन्मण्डलकालाद्दिननित्या- विद्यारूपः प्राप षडथीनरभावम् । यस्तीर्थात्मा मण्डलपूर्णाक्षरवर्ष्मा तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ २॥ उद्यदिति । सूर्यमण्डलोदयकालमारभ्य प्रथमतः श्वासा एकैकदिनविद्यारूपाः । अ आ इ ई इत्यारभ्य क्ष: क्षायै इत्यन्ता मन्त्राः षट्त्रिंशदधिकसप्तदशोत्तरविंशतिसहस्रसङ्ख्याका (५७६x३६=२०७३६) । षट्त्रिंशद्वर्णा अपि षोडशस्वरसंयोगेनोक्ताः ३६x१६=(५७६) प्रतिदिनमेवं षट्त्रिशद्दिनपर्यन्तं जप्तास्तावन्त एव भवन्ति । यतस्तन्त्रे प्रसिद्धः एता एव स्वीदैवत्यतया विद्या इत्युच्यन्ते । ``स्त्रीदैवत्या स्मृता विद्या पुंदैवत्यास्तु मन्त्रकाः'' न इति कोशात् । गुरुनाथस्तु तावद्रूपः । ते च विद्याया अर्था योगिनी हृदयव्याख्यायामस्माभिः प्रपञ्चिताः । षडथीनरपदेन दिननित्याविद्यानां सङ्ख्योक्ताः (२०७३६) । एवमुत्तरत्र सर्वत्रापि सङ्ख्यासङ्केताक्षरपदानां श्रीगुरोः श्लेषेण द्व्यर्थता अवसेया । तत्परतः षट्सप्तत्युत्तरपञ्चशतं (५७६) श्वासाः पूर्णमण्डलाक्षररूपाः । अकार एकः, ककारादिक्षकारान्ताः पञ्चत्रिंशद्व्यञ्जनानि चेत्येवं षट्त्रिंशदक्षराणां प्रत्येकमकारादिषोडशस्वरसंयोगे सत्युक्तसङ्ख्यानि (५७६) अक्षराणि भवन्ति । तानि पूर्णमण्डलपदेन दिनार्णवपदेन च तन्त्रे व्यवहियन्ते । तदभिन्नं वर्ष्मा, शरीरं यस्य सः, तीर्थात्मा (५७६) गुरुरूपा एव, ``तीर्थमृषिजुष्टजले गुरौ'' इत्यमरः ॥ २॥ तीर्थात्मापदं चोक्तसङ्ख्यां (५७६) व्यनक्ति - तत्पश्चात्यप्राणसमूहनवनाथा यः षट्त्रिंशत्तत्त्वमयः षोडश नित्याः । एवं रीत्या वासितसंध्यात्रयमूर्ति- स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ ३॥ तदिति । पूर्णमण्डलात् परे नव (९) श्वासाः प्रकाशादिसुभगान्ता नाथनवकरूपाः । ततः परे शिवादिक्षित्यन्ततत्त्वरूपाः षट्त्रिंशत् (३६) । तदुत्तरं त्रिपुरसुन्दरीकामेश्वर्यादिचित्रान्तरूपास्तु नित्याः षोडश (१६) । एत एव क्रमेण संध्यात्रये उपास्यन्ते । तेन तद्वासनारूपा गुरुरेवेत्यर्थः ॥ ३॥ श्वासैः षष्टया षष्टिघटीदैवतरूपो (६०) मेषप्रष्टद्वादशशशि (१२) प्रतिमानः । अर्काद्यात्मा यो नवसङ्ख्याग्रहमूर्ति- स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ ४॥ श्वासैरिति । तदनन्तरं विसर्गरहितानां पञ्चाशन्मातृकाणां दशाक्षरैरेकैको वर्ग इत्येवं पञ्च वर्गाः; अ (६०), ए (६०), च (६०), त (६०), य (६०) मानः । तेषु प्रथमवर्गस्य आदावन्ते च जपे सति, षष्टिर्वर्णा अहोरात्रघटिका रूपा भवन्तीति तन्त्रे स्पष्टम् । नित्यश्वासानन्तरं षष्टिः श्वासाः तद्देवतात्मानः (६०); ततो द्वादश मेषादिराशिरूपाः । प्रष्टशब्दोऽग्रेसरवाची सन् प्रभृतिपरः, ``प्रष्टोऽग्रगामिनि'' इति निपातनात् । (१२) तदुत्तरं नव श्वासाः (९) अर्कादिनवग्रहरूपाः; तत्स्वरूपो गुरुरित्यर्थः ॥४॥ पञ्चात्मा भूतनिकायो गतमायो यः पञ्चाशद्वर्ण (५०) वपुश्चक्रगताभिः । शक्त्यालीभिः सङ्गतिमानेकनवत्या तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ ५॥ पञ्चात्मेति । ग्रहात्मकश्वासानन्तरं पञ्च श्वासाः आकाशादिपञ्चभूतरूपाः (५) । तदुत्तरं पञ्चशच्छ्वासाः मातृकारूपाः (५०) तासामेकपञ्चाशतो (५१) मध्येऽपि सर्गस्वरत्यागात्तच्छेषेणाह - गतमाय इति । मायाशब्दोऽपि सर्गस्वरवाचकः, तद्रहित इत्यर्थः । तदनन्तरमेकनवतिश्वासाः चक्रश्चिदावरणशक्तिसमूहपराः । तासामेकनवतित्वं (९१) मूल एव नवमश्लोके विशदीकरिष्यते । ततश्च पूर्वोक्तदिननित्याविद्या (२०७३६) पूर्णमण्डला (५७६) नवनाथ (९) तत्त्व (३६) नित्या (१६) घटिका (६०) राशि (१२) नवग्रह (९) भूत (५) मातृका (५०) वर्णशक्ति (९१) सङ्ख्यानामेकीकरणे श्वाससङ्ख्यापूर्तिः (२१६००) संपद्यते । तदुक्तं तन्त्रराजे - ``नित्यातत्त्वाप्तिविद्यानां सङ्ख्याः स्युः पूर्वमेकशः । ततो दिनार्णाः संध्याश्च ततश्च घटिकार्णकाः॥ राशयो द्वादश ततो ग्रहभूतानि पञ्च वै । मातृकाश्चापि पञ्चाशच्छ्रीचक्रस्थाश्च शक्तयः॥ सैका नवतयः प्रोक्ता देवी सर्वात्मना स्थिता ।'' इति । नित्याः षोडश (१६) स्वराः, तत्त्वाक्षराणि (३६) पूर्वोक्तानि, तेषामाप्तिः परस्परसंयोगविशेषरूपः प्रस्तरः तत्संवर्धितानां दिननित्याविद्यानामित्यर्थः । शिष्टं स्पष्टम् ॥ ५॥ एतावता प्रबन्धेन श्वासानामवयवशो विभागेन वासना उपदिश्येदानीं संपूर्णस्यैव श्वाससमूहस्यैकैका वासना उपदिशति - यद्वा पञ्चाशल्लिपिपीडैकरदाना- मावृत्त्यासीद्यः फलवान् देशिकवर्यः । ज्ञानोत्तुङ्गो (३६००) डरलकसहषट्कवृतै- स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ ६॥ यद्वेति । उक्तानां वक्ष्यमाणानां च वासनानामन्यतमानुसंधाने विकल्पद्योतनार्थो वाकारः । इमाश्च वासना मूलेऽनुक्ता अपि पूज्यपादमुखावगन्तव्या इति तु मनोरमाकारः । ``अथ षोडश नित्यानां कालेन प्राणतोच्यते । मातृकाभूतनाथाद्यैः श्रीचक्रेण च शक्तिभिः ॥'' इति पटलारम्भप्रतिज्ञाश्लोके सूचिता इति तु निधिकारः । कालेन प्राणतः श्वासात्भककालभेदः । अत्राद्यपदेन ग्रहतत्त्वनित्याघटिकाराशयो गृह्यन्ते । श्रीचक्रशब्देन तदन्तर्गतत्रैलोक्यमोहनादिनवचक्राणि । शक्तिशब्देन श्रीचक्रस्थाः षण्णवतीः शक्तय उच्यन्ते । वस्तुतस्तु - मातृकापदेन गणेशग्रहनक्षत्रयोगिनीराशिपीठानां लघुषोढान्यासदेवतारूपाणां ग्रहाणां, तैः सह मातृकाभेदस्तु तन्त्रराज एव ``गणेशग्रहनक्षत्र-'' इत्यादिद्वादशश्लोकीस्तवने कथनात् । गुरुदेव्याः तैः सहाभेदस्तु योगिनीहृदये कौलिकार्यप्रकरणे वर्णनात्; नित्याहृदये, ``संप्रदायोक्तं स्फुटोपायेन भावयेत्'' इति वचनेन योगिनीहृदयोक्तभावनासापेक्षतया स्वतन्त्रे स्वीकारात् । तस्मादाद्यपदेननित्यातत्त्वादेरेव ग्रहणम्; लिपयः, अकाराद्या वर्णाः; पीठाः, कामरूपादयः; एकरदाः, विघ्नेश्वरादयो गणेशाः; एते त्रयोऽपि गतप्राया: सन्तः पञ्चाशदेव श्वाससङ्ख्या, पिण्डस्य (२१६००) पञ्चाशता विभागे द्वात्रिंशदुत्तरचतुःशती (४३२) लब्धा । तेन तावद्वारमावृत्ता लिप्यादयो देवश्वासा इति वासनात्रयमावृत्तिश्च दण्डकलितन्यायेन स्वस्वस्थानविवृद्ध्या वेति तु गुरुमुखादेव निर्णेयम् । फलवानिति पदेन लब्धसङ्ख्योक्तिः (४३२) । डाकिन्यादियोगिनीषट्कात्मकतया श्वासवासनामाह - ज्ञानेति । ज्ञकारनकारौ शून्यपरौ, तकारगकारौ षट्त्र्यङ्कपरे । तेन त्रिसहस्राणि षट्शतानीति ज्ञानोत्तुङ्ग (३६००) पदेन सूचितानीत्यर्थः । षड्भिः श्वाससङ्ख्याविभागे तावत एव लाभात् ``डरलकसह'' इत्यनेन नामैकदेशेन नामग्रहणमिति न्यायेन डाकिन्यादय उच्यन्ते । याकिन्या सह सप्तसङ्ख्या तु नाशङ्कनीया । ``शाक्तैः षड्भिर्यथाक्षरैः'' इत्यादिना योगिनीहृदये षण्णामेव ग्रहणम् । ``याकिन्याः षट्समष्टिरूपत्वेन व्यष्टितो भेदाभावात् सप्तानां ग्रहणम्'' इत्यमृतानन्दव्याख्या तु सेतुबन्ध एवास्माभिर्निरस्ता । यत्तु योगिनीपदस्य वशिन्याद्यष्टकपरत्वेन काश्मीराणां व्याख्यानम्; तत्पक्षोऽपि न दोषः । अष्टभिः श्वासानां विभागोऽपि सप्तदशोत्तरसहस्रद्वयस्य लाभेन श्वाससङ्ख्याया निःशेषत्वसंभवात् । अत्रावृत्तेः पञ्चमाष्टमाक्षरयोः गुरुत्वस्यावश्यकत्वेऽपि तयोः स्थाने द्विद्विलघुनिवेशौ, ``लौ सः'' इति सूत्रेण लघुद्वयस्य गुरुकार्यकारित्वविधानबलात्स्वीकृतः । तत्सूत्रस्य मात्राच्छन्दोविषयकत्वेऽपि वर्णच्छन्दसोऽपि कतिपयवृत्तेषु तदङ्गीकारो ज्ञापकसिद्ध इति तु छन्दोभास्करादौ प्रपञ्चितमस्माभिः । प्रयोगेऽपि; ॒`वन्दे रामं मरकतवर्णं मुनिवन्द्यम्'' इत्यादिः ॥ ६॥ नेत्रोद्गाढो(४३२०)देशिकराड्भूत(५)समूहै- रेनो वारी यो नवनाथग्रहचक्रैः । नक्षत्रस्यावृत्तिभिरानन्दशरीर- स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ ७॥ नेत्रेति । नेत्रांशे उद्गाढो दृढ इत्यनेन दूरदर्शित्वादिकं गुरोरुक्तम् । पञ्चभूतसङ्ख्यायाः श्वासविभागे सति चत्वारि सहस्राणि त्रीणि शतानि विंशतिश्च (४३२०) लभ्यन्त इति तावद्वारं मारुताः श्वासाः गुरुरूपा एवेत्यर्थः । नेत्रोद्गाढपदेन तत्सङ्ख्या दर्शिता । नाथादिनवकरूपवासनात्रयमाह - एनो वारीति । पापहा महागुरुः चतुःशताधिकसहस्रद्वयव्यावृत्त्या नाथादिद्वय इत्यर्थः । द्वयं वारा वृत्त्यादि (२४००) नाथादिरूप इत्यर्थः । नवनाथा नवग्रहाः नवचक्राणि चेति वासनात्रयम् । अष्टशतावृत्त्यागुरुर्नक्षत्ररूपोऽभूदित्याह - नक्षत्रस्येति । जातावेकवचनम् । आनन्द (८००) शब्देनोक्तसङ्ख्या प्रदर्शिता ॥ ७॥ नित्यावृत्तावीशलयः सन्नचलोऽभू- न्नाड्यावृत्तौ राशिषु नानाजपरूपः । अभ्यस्यद्भिस्तत्त्वगणैरुन्नतमूर्ति- स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ ८॥ नित्येति । षोडशनित्याभिः (१६) श्वासानां (२१६००) विभागे सहस्रोत्तरसार्धत्रिशती (१३५०) लब्धा । ईशे, परमशिवे, लयो यस्य स गुरुः; तत्सङ्ख्याकनित्यावृत्तिरूपः । ``दशध्यानसमो लयः'' इति लक्षितसमाधिविशेषो लय इत्युच्यते । षष्टिनाडीदेवतासङ्ख्यया विभागे तु अचलो भवेत्, षष्ट्युत्तरशतत्रयसङ्ख्यो (३६०) जातः । राशिषु; राशिव्यावर्तमानेषु, नानाजपात्मा; अष्टशत्यधिकसहस्र (१८००) जपरूपः । षट्त्रिंशत्तत्त्वगणाभ्यासेन उन्नतस्वरूपः (६००) षट्शतसङ्ख्य इत्यर्थः ॥ ८॥ धृत्युर्वीशाष्टेन्द्रदिगाशाहियुगत्रि- प्रोक्ताभिः पुंहेतिभिरम्बाभिरभिन्नः । आवृत्त्यैवं षण्णवतेर्यः शिखरात्मा तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ ९॥ धृतीति । धृतयोऽष्टादश (१८) देवताः, भूपुरस्थाः अणिमादयो दश (१०); ब्राह्म्याद्या अष्टौ (८) कादिमते तृतीयरेखाया अकथनेन तत्रत्यमुद्रादेवतादशकस्याभावात् । उर्वीशाः षोडश (१६) कामाकर्षिण्याद्याः षोडशदलपद्मस्थाः, अष्टौ (८) अनङ्गः कुसुमादयोऽष्टदलपद्मस्थाः । इन्द्राः चतुर्दश (१४) सर्वसङ्क्षोभिण्यादयो मन्वश्रगताः । दिशो दश (१०) बहिर्दशारगाः सर्वसिद्धिप्रदादयः । आशा अपि दश (१०) अन्तर्दशारगासर्वज्ञाद्याः । अहयोऽष्टौ (८) वशिन्याद्या अष्टकोणस्थाः । अम्बायुधदेवताश्चतस्रः (४); त्रिकोणगतकामेश्वर्यादिदेवतास्तिस्रः (३) एताः संहत्यैकनवति (९१) सङ्ख्याकत्वेन पञ्चमश्लोके प्रोक्ताः तावतीनामेव ग्रहणे श्वाससङ्ख्याया एकनवत्या विभागे निःशेषताया असंभवात् विभाजकाङ्के पञ्चानां मेलनेन षण्णवतित्वमापादयितुमाह - पुंहेतिभिरिति । कामेश्वर्यायुधदेवताभिः चतसृभिरित्यर्थः । इमाः पञ्चनवतिभिः (९९) अम्बाभिरभिन्नस्थाः प्रधानांशेष्वित्येकशेषाभिप्रायेण अम्बाभिरित्युक्तम् । एवंप्रकारेण षण्णवतेर्देवतानामावृत्त्या शिखरात्मा सर्वोत्तमस्वरूपो गुरुः सपादशतद्वयावृत्तिमानासीदित्यर्थः । ननु च ``चक्रेण शक्तिभिः'' इत्यत्र शक्तिसामान्यवाचकस्यापि पदस्यैकानवतयः प्रोक्ताः । ``श्रीचक्रस्थास्तु शक्तयः '' इत्यनेनोपसंहारादेकनवतिदेवताः सिद्ध्यन्तीति न पुंहेत्यादि ग्रहणे मानं पश्यामः । न च तया सङ्ख्यया श्वाससङ्ख्याविभागे निरवशेषतासंभवादेव पञ्चानामङ्कानां योग इति वाच्यम् । कस्यापि कतिपयान्यूनतादिकल्पनेनापि संभवात् । धृत्यादिनवसङ्ख्याभिः प्रत्येकं १८, १६, ८, १४, १०, १०, ८, ४, ३ विभजनेऽपि तत्संभवाद्वा इन्द्रसङ्ख्यया विभागे द्वादशनामान्येतेषां राशिवासनाकल्पनासंभवात् । न चैवं वासनासाङ्कर्ये यथावस्थितैकनवतिविभागशेषस्यापि वासनान्तरकल्पनयैवोपपत्तौ प्रतिचित्रदेवतासङ्ख्यानां प्रातिस्विकं विभजकत्वकल्पना न स्यादिति वाच्यम् । एकनवत्या विभागे त्रयस्त्रिंशतावशेषेण तस्योक्तमातृकादिभिन्नत्वेन स्वेच्छया देवतान्तरकल्पनायामव्यवस्थापत्तिरिति चेत्, मैवम् । इह संप्रदायस्यैव शरणत्वात् । अत एव मनोरमायां शक्तिभिरिति पदमेकनवतिषण्णवतिपरत्वेन द्वेधा व्याख्यायैकत्र वचनमन्यत्र गुरुमुखागम एवोत्तरग्रन्थे प्रमाणमुपन्यस्तम्। इदं तु सुवचम् - श्रीचक्रेणेति चकारात् नवचक्रसङ्ख्यामेकनवतौ संमेल्योभयसमुच्चयरूपयांशसङ्ख्यया निरवशेषेण विभागो विधीयत इति । न चैकनवत्या विभाजकत्वायोगात् तदाधारचक्रनवकमेलनस्य न्यायसिद्धत्वेन मन्वश्रेऽपि तदाधारचक्रमात्रस्य मेलनेन तावन्मात्रांशे पञ्चदशसङ्ख्याया विभाजकत्वकल्पने निरवशेषतासंभवात् धृत्यादिभिः पार्थक्येन विभागः सिद्ध इति वाच्यम् । महात्रिपुरसुन्दर्या एकनवत्यनन्तर्गतत्वात् तदाधारचक्रस्य तत्र मेलने उपपत्त्यभावेन नवचक्रसङ्ख्यामेलनस्य वाचनिकत्वाङ्गीकारेणैव निर्वाहादिति दिक् ॥ ९॥ महेशनाथकृतस्य नाथनवरत्नमालिकानाम्नः स्तवस्योपसंहारपूर्वकं पाठपराणां गुरुभक्तानां श्रीविद्योपासकानां सद्यः परशिवभावप्राप्तिः फलतीत्याह - इत्यग्रन्थाद्भास्कररायो नवरत्नै- र्मालामग्र्यां नाथरहस्यं गमयन्तीम् । येषामेषा कण्ठगता ते जगदम्बा विद्याभ्यासादत्र जनुष्येव महेशः ॥ १०॥ इति श्रीमहेशनाथकृता नाथनवरत्नमाला समाप्ता । इतीति । मालास्तोत्रयो रूपकानुगुण्याय प्रबन्धरचनमालारचनोभयवाचिग्रथिधातुः प्रयुक्तः । नाथरहस्यं परं रूपम् । अत्र जनुष्येव; अस्मिन्नेव जन्मनि, महेशः; परम- शिवरूपः । उक्तं च तन्त्रराजे; ``एवंविधां भावनां यो भावयेत्स महेश्वरः'' इति सर्वं शिवम् ॥ १०॥ इति श्रीमन्नाथनवरत्नमालाभिधास्तुतेः । मञ्जूषा भासुरानन्दनाथेनाकारि गुप्तये ॥ इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणनिखिल- तन्त्रस्वतन्त्रश्रीमद्गम्भीरराजभारतीदीक्षितसूनुना भासुरानन्दनाथदीक्षाभिधानेन भास्कररायेण विरचिता श्रीनाथनवरत्नमालाव्याख्या मञ्जूषा समाप्ता । Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : navaratnamAlikAmanjUShA or Nathanavaratnamalika
% File name             : navaratnamAlikAmanjUShA.itx
% itxtitle              : navaratnamAlikAmanjUShA athavA nAthanavaratnamAlikA (maheshanAthakRitA)
% engtitle              : navaratnamAlikAmanjUShA athavA nAthanavaratnamAlikA
% Category              : deities_misc
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : maheshanAtha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Indexextra            : meaning, scan
% Latest update         : June 5, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP