श्रीनिखिलेश्वरानन्दकवचम्

श्रीनिखिलेश्वरानन्दकवचम्

विनियोगः । ॐ अस्य श्रीनिखिलेश्वरानन्दकवचस्य श्रीमुद्गलऋषिः, अनुष्टुप्छन्दः, श्री गुरुदेवो निखिलेश्वरानन्द परमात्मा देवता, महोस्तवं रूपं च इति बीजम्, प्रबुद्धं निर्नित्यं इति कीलकम्, अथौ नेत्रं पूर्णं इति कवचम्, श्री भगवत्पाद निखिलेश्वरानन्दप्रीतिद्वारा मम सम्पूर्ण रक्षणार्थे, स्वकृतेन आत्म-मन्त्र-यन्त्र-तन्त्र रक्षणार्थे च पारायणे विनियोगः । ऋष्यादिन्यासः - श्रीमुद्गलऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्री गुरुदेवो निखिलेश्वरानन्दपरमात्मा देवतायै नमः हृदि । महोस्तवं रूपं च इति बीजाय नमः गुह्ये । प्रबुद्धं निर्नित्यं इति कीलकाय नमः पादयोः । अथौ नेत्रं पूर्णं इति कवचाय नमः सर्वाङ्गे । श्री भगवत्पाद निखिलेश्वरानन्द प्रीति द्वारा मम सम्पूर्ण रक्षणार्थे, स्वकृतेन आत्म-मन्त्र-यन्त्र-तन्त्र रक्षणार्थे च पारायणे विनियोगाय नमः अञ्जलौ ॥ करन्यासः - श्री सर्वात्मने निखिलेश्वराय अङ्गुष्ठाभ्यां नमः । श्री मन्त्रात्मने पूर्णेश्वराय तर्जनीभ्यां नमः । श्री तन्त्रात्मने वागीश्वराय मध्यमाभ्यां नमः । श्री यन्त्रात्मने योगीश्वराय अनामिकाभ्यां नमः । श्री शिष्यप्राणात्मने कनिष्ठिकाभ्यां नमः । श्री सच्चिदानन्दप्रियाय करतलकरपृष्ठाभ्यां नमः ॥ हृदयादिन्यासः - श्रींशेश्वरः हृदयाय नमः । ह्रींशेश्वरः शिरसे स्वाहा । क्लींशेश्वरः शिखायै वषट् । तपसेश्वरः कवचाय हुम् । तापेशेश्वरः नेत्रत्रयाय वौषट् । एकेश्वरः अस्त्राय फट् ॥ मूल कवचम् - ॐ शिरः सिद्धेश्वरः पातु ललाटं च परात्परः । नेत्रे निखिलेश्वरानन्दः नासिका नरकान्तकः ॥ १॥ कर्णौ कालात्मकः पातु मुखं मन्त्रेश्वरस्तथा । कण्ठं रक्षतु वागीशः भुजौ च भुवनेश्वरः ॥ २॥ स्कन्धौ कामेश्वरः पातु हृदयं ब्रह्मवर्चसः । नाभिं नारायणो रक्षेत् ऊरुं ऊर्जस्वलोऽपि वै ॥ ३॥ जानुनि सच्चिदानन्दः पातु पादौ शिवात्मकः । गुह्यं लयात्मकः पायात् चित्तं चिन्तापहारकः ॥ ४॥ मदनेशः मनः पातु पृष्ठं पूर्णप्रदायकः । पूर्वं रक्षतु तन्त्रेशः यन्त्रेशः वारुणीं तथा ॥ ५॥ उत्तरं श्रीधरः रक्षेत् दक्षिणं दक्षिणेश्वरः । पातालं पातु सर्वज्ञः ऊर्ध्वं मे प्राणसंज्ञकः ॥ ६॥ कवचेनावृतो यस्तु यत्र कुत्रापि गच्छति । तत्र सर्वत्र लाभः स्यात् किञ्चिदत्र न संशयः ॥ ७॥ फलश्रुतिः । यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् । धनवान् बलवान् लोके जायते समुपासकः ॥ ८॥ ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः । नश्यन्ति सर्वविघ्नानि दर्शनात् कवचेनावृतम् ॥ ९॥ य इदं कवचं पुण्यं प्रातः पठति नित्यशः । सिद्धाश्रमः पदारूढः ब्रह्मभावेन भूयते ॥ १०॥ ॥ हरिः ॐ तत्सत् श्रीनिखिलब्रह्मार्पणमस्तु ॥ इति श्रीनिखिलेश्वरानन्दकवचं सम्पूर्णम् । It is important to observe that the Kavacham itself declares ᳚Shri Gurudevo Nikhileshwarananda as Paramatma Devata.᳚ In other words, the deity invoked is Guru-tattva or the spiritual principle represented by Nikhileshwaranand, not merely the historical person Narayan Dutt Shrimali. The text repeatedly invokes protective forms such as Siddheshvara, Kameshvara, Vagisha, Narayana, and others as aspects of that Guru principle. In many traditions, the Guru is treated as a direct object of worship. Encoded and proofread by Durga Sharma
% Text title            : Nikhileshvarananda Kavacham
% File name             : nikhileshvarAnandakavacham.itx
% itxtitle              : nikhileshvarAnandakavacham
% engtitle              : nikhileshvarAnandakavacham
% Category              : deities_misc, gurudev, kavacha
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Durga Sharma
% Proofread by          : Durga Sharma
% Indexextra            : (Text, Audio)
% Latest update         : June 20, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org