पलाशमहिमास्तोत्रम्
वाण्युवाच ।
पलाशो हरिरूपेण सेव्यते हि पुराविदैः ।
बहुभिर्ह्युपचारैस्तु ब्रह्मवृक्षस्य सेवनम् ॥ १॥
सर्वकामप्रदं प्रोक्तं महापातकनाशनम् ।
त्रीणि पत्राणि पालाशे मध्यमं विष्णुशापितम् ॥ २॥
वामे ब्रह्मा दक्षिणे च हर एकः प्रकीर्तितः ।
पलाशपात्रे यो भुङ्क्ते नित्यमेव नरोत्तमः ॥ ३॥
अश्वमेधसहस्रस्य फलं प्राप्नोत्यसंशयम् ।
चातुर्मास्ये विशेषेण भोक्तुर्मोक्षप्रदं भवेत् ॥ ४॥
पयसा वाथ दुग्धेन रविवारेऽनिशं यदि ।
चातुर्मास्येऽर्चितो यैस्तु ते यान्ति परमं पदम् ॥ ५॥
दृश्यते यदि पालाशः प्रातरुत्थाय मानवैः ।
नरकानाशु निर्धूय गम्यते परमं पदम् ॥ ६॥
पालाशः सर्वदेवानामाधारो धर्मसाधनम् ।
यत्र लोभस्तु तस्य स्यात्तत्र पूज्यो महातरुः ॥ ७॥
यथा सर्वेषु वर्णेषु विप्रो मुख्यतमो भवेत् ।
मध्ये सर्वतरूणां च ब्रह्मवृक्षो महोत्तमः ॥ ८॥
यस्य मूले हरो नित्यं स्कन्धे शूलधरःस्वयम् ।
शाखासु भगवान् रुद्रः पुष्पेषु त्रिपुरान्तकः ॥ ९॥
शिवः पत्रेषु वसति फले गणपतिस्तथा ।
गङ्गापतिस्त्वचायां तु मज्जायां भगवान्भवः ॥ १०॥
ईश्वरस्तु प्रशाखासु सर्वोऽयं हरवल्लभः ।
हरः कर्पूरधवलो यथावद्वर्णितः सदा ॥ ११॥
तथा ह्ययं ब्रह्मरूपः सितवर्णो महाभगः ।
चिन्तितो रिपुनाशाय पापसंशोषणाय च ॥ १२॥
मनोरथप्रदानाय जायते नात्र संशयः ।
गुरुवारे समायाते चातुर्मास्ये तथैव च ॥ १३॥
पूजितश्च स्तुतो ध्यातः सर्वदुःखविनाशकः ॥ १४॥
देवस्तुत्यो देवबीजं परं यन्मूर्तं ब्रह्म ब्रह्मवृक्षत्वमाप्तम् ।
नित्यं सेव्यः श्रद्धया स्थाणुरूपश्चातुर्मास्ये सेवितः पापहा स्यात् ॥ १५॥
इति श्रीस्कन्दपुराणे नागरखण्डे अष्टचत्वारिंशाधिकद्विशततमाध्यायान्तर्गतं
पलाशमहिमास्तोत्रं समाप्तम् ।
स्कन्दपुराण । नागरखण्ड । अध्याय २४८/१-१५॥
skandapurANa . nAgarakhaNDa . adhyAya 248/1-15..
Proofread by PSA Easwaran