पञ्चतत्त्वार्चननिरूपणम्
महेश्वर उवाच ।
पञ्चतत्त्वार्चनं ब्रूहि शङ्खचक्रगदाधर ! ।
येन विज्ञानमात्रेण नरो याति परं पदम् ॥ १॥
हरिरुवाच ।
पञ्चतत्त्वार्चनं वक्ष्ये तव शङ्कर सुव्रत ।
मङ्गल्यं मङ्गलं दिव्यं रहस्यं कामदं परम् ॥ २॥
तच्छृणुष्व महादेव पवित्रं कलिनाशनम् ।
एक एवाव्ययः शान्तः परमात्मा सनातनः ॥ ३॥
वासुदेवो ध्रुवः शुद्धः सर्वव्यापी निरञ्जनः ।
स एव मायया देव पञ्चधा संस्थितो हरिः ॥ ४॥
लोकानुग्रहकृद्विष्णुः सर्वदुष्टविनाशनः ।
वासुदेवस्वरूपेण तथा सङ्कर्षणेन च ॥ ५॥
तथा प्रद्युम्नरूपेणानिरुद्धाख्येन च स्थितः ।
नारायणस्वरूपेण पञ्चधा ह्यद्वयः स्थितः ॥ ६॥
एतेषां वाचकान्मन्त्रानेताञ्छृणु वृषध्वज ! ।
ॐ अं वासुदेवाय नमः ।
ॐ आं सङ्कर्षणाय नमः ।
ॐ अं प्रद्युम्नाय नमः ।
ॐ अनिरुद्धाय नमः ।
ॐ ॐ नारायणाय नमः ॥ ७॥
पञ्च मन्त्राः समाख्याता देवानां वाचकास्तव ।
सर्वपापहराः पुण्याः सर्वरोगविनाशनाः ॥ ८॥
अधुना सम्प्रवक्ष्यामि पञ्चतत्त्वार्चनं शुभम् ।
विधिना येन कर्त्तव्यं यैर्वा मन्त्रैश्च शङ्कर ! ॥ ९॥
आदौ स्नानं प्रकुर्वीत स्नात्वा सन्ध्यां समाचरेत् ।
अर्चनागारमासाद्य प्रक्षाल्याङ्घ्र्यादिकं तथा ॥ १०॥
आचम्योपविशेत्प्राज्ञो बद्धासनमभीप्सितम् ।
शोषणादि ततः कुर्यात् अं क्षौं रमिति मन्त्रकैः ॥ ११॥
सामान्यं कठिनीकृत्य चाण्डमुत्पादयेत्ततः ।
विभिद्याण्डं ततो ह्यण्डे भावयेत्परमेश्वरम् ॥ १२॥
वासुदेवं जगन्नाथं पीतकौशेयवाससम् ।
सहस्रादित्यसङ्काशं स्फुरन्मकरकुण्डलम् ॥ १३॥
आत्मनो हृदि पद्मे तु ध्यायेत्तु परमेश्वरम् ।
ततः सङ्कर्षणं देवमात्मानं चिन्तयेत्प्रभुम् ॥ १४॥
प्रद्युम्नमनिरुद्धं च श्रीमन्नारायणं ततः ।
इन्द्रादींश्च सुरांस्तस्माद्देवदेवात्समुत्थितान् ॥ १५॥
चिन्तयेच्च ततो न्यासं कुर्याद्वै करयोर्द्वयोः ।
व्यापकं मूलमन्त्रेण चाङ्गन्यासं ततः परम् ॥ १६॥
अङ्गमन्त्रैर्महादेव ! तान्मन्त्रान् शृणु सुव्रत ! ।
ॐ आं हृदयाय नमः ।
ॐ ईं शिरसे नमः ।
ॐ ऊं शिखायै नमः ।
ॐ ऐं कवचाय नमः ।
ॐ औं नेत्रत्रयाय नमः ।
ॐ अः अस्त्राय फट् । १७॥
ॐ समस्तपरिवारायाच्युताय नमः ।
ॐ धात्रे नमः ।
ॐ विधात्रे नमः ।
ॐ आधारशक्त्यै नमः ।
ॐ कूर्माय नमः ।
ॐ अनन्ताय नमः ।
ॐ पृथिव्यैनमः ।
ॐ धर्माय नमः ।
ॐ धर्माय नमः ।
ॐ ज्ञानाय नमः ।
ॐ वैराग्याय नमः ।
ॐ ऐश्वर्याय नमः ।
ॐ अज्ञानाय नमः ।
ॐ अनैश्वर्याय नमः ।
ॐ अं अर्कमण्डलाय नमः ।
ॐ सों सोममण्डलाय नमः ।
ॐ वं वह्निमण्डलाय नमः ।
ॐ वं वासुदेवाय परब्रह्मणे शिवाय तेजोरूपाय
व्यापिने सर्वदेवाधिदेवाय नमः ।
ॐ पाञ्चजन्याय नमः ।
ॐ सुदर्शनाय नमः ।
ॐ गदायै नमः ।
ॐ पद्माय नमः ।
ॐ श्रियै नमः ।
ॐ ह्रियै नमः ।
ॐ पुष्ट्यै नमः ।
ॐ गीत्यै नमः ।
ॐ शक्त्यै नमः ।
ॐ प्रीत्यै नमः ।
ॐ इन्द्राय नमः ।
ॐ अग्नये नमः ।
ॐ यमाय नमः ।
ॐ निरृतये नमः ।
ॐ वरुणाय नमः ।
ॐ वायवे नमः ।
ॐ सोमाय नमः ।
ॐ ईशानाय नमः ।
ॐ अनन्ताय नमः ।
ॐ ब्रह्मणे नमः ।
ॐ विष्वक्सेनाय नमः ॥ १८॥
एते मन्त्राः समाख्यातास्तव रुद्र समासतः ।
पूजा चैव प्रकर्त्तव्या मण्डले स्वस्तिकादिके ॥ १९॥
ॐ पद्माय नमः ।
अङ्गन्यासं च कृत्वा तु मुद्राः सर्वाः प्रदर्शयेत् ।
आत्मानं वासुदेवं च ध्यात्वा चैव परेश्वरम् ॥ २०॥
आसनं पूजयेत्पश्चादावाह्य विधिवन्नरः ।
द्वारे धातुर्विधातुश्च पूजा कार्या वृषध्वज ॥ २१॥
गरुडं पूजयेदग्रे वासुदेवस्य शङ्कर ।
शङ्खादिपद्मपर्न्तं मध्यदेशे प्रपूजयेत् ॥ २२॥
धर्मं ज्ञानं च वैराग्यमैश्वर्यं पूर्वदेशतः ।
आग्नेयादिष्वर्चयेद्वै अधर्मादिचतुष्टयम् ॥ २३॥
मण्डलत्रयमध्ये तु कीर्त्तिता ह्यासनस्थितिः ।
पूर्वादिपद्मपत्रेषु पूज्याः सङ्कर्षणादयः ॥ २४॥
कर्णिकायां वासुदेवं पूजयेत्परमेश्वरम् ।
पाञ्चजन्यादयः पूज्याः ऐशान्यादिषु संस्थिताः ॥ २५॥
शक्तयश्चैव पूर्वादौ देवदेवस्य शङ्कर ।
इन्द्रादयो लोकपालाः पूज्याः पूर्वादिषु स्थिताः ॥ २६॥
अधो नागं तदूर्द्ध्वन्तु ब्रह्माणं पूजयेत्सुधीः ।
इति स्थानक्रमो ज्ञेयो मण्डले शङ्कर त्वया ॥ २७॥
आवाह्य मण्डले देवं कृत्वा न्यासं तु तस्य च ।
मुद्रां प्रदर्श्य पाद्यादीन्दद्यान्मूलेन शङ्कर ॥ २८॥
स्नानं वस्त्रं तथाचामं गन्धं पुष्पं च धूपकम् ।
दीपं नैवेद्यमाचामं नमस्कारं प्रदक्षिणम् ।
कुर्याच्छङ्कर मूलेन जपं चापि समर्पयेत् ॥ २९॥
इदं स्तोत्रं जपेत्पश्चाद्वासुदेवमनुस्मरन् ।
ॐ नमो वासुदेवाय नमः सकर्षणाय च ॥ ३०॥
प्रद्युम्नायादिदेवायानिरुद्धाय नमो नमः ।
नमो नारायणायैव नराणां पतये नमः ॥ ३१॥
नरपूज्याय कीर्त्याय स्तुत्याय वरदाय च ।
अनादिनिधनायैव पुराणाय नमो नमः ॥ ३२॥
सृष्टिसंहारकर्त्रे च ब्रह्मणः पतये नमः ।
मनो वै वेदवेद्याय शङ्खचक्रधराय च ॥ ३३॥
कलिकल्मषहर्त्रे च सुरेशाय नमो नमः ।
संसारवृक्षच्छेत्रे च मायाभेत्रे नमो नमः ॥ ३४॥
बहुरूपाय तीर्थाय त्रिगुणायागुणाय च ।
ब्रह्मविष्ण्वीशरूपय मोक्षदाय नमो नमः ॥ ३५॥
मोक्षद्वाराय धर्माय निर्माणाय नमो नमः ।
सर्वकामप्रदायैव परब्रह्मस्वरूपिणे ॥ ३६॥
संसारसागरे घोरे निमग्नं मां समुद्धर ।
त्वदन्यो नास्ति देवेश नास्ति त्राता जगत्प्रभो ॥ ३७॥
त्वामेव सर्वगं विष्णुं गतोऽहं शरणं गतः ।
ज्ञानदीपप्रदानेन तमोमुक्तं प्रकाशय ॥ ३८॥
एवं स्तुवीत देवेशं सर्वक्लेशविनाशनम् ।
अन्यैश्च वैदिकेः स्तोत्रैः स्तुत्वा वै नीललोहित ॥ ३९॥
पञ्चतत्त्वसमायुक्तं ध्यायोद्विष्णुं नरो हृदि ।
विसर्जयेत्ततो देवमिति पूजा प्रकीर्तिता ॥ ४०॥
सर्वकामप्रदा श्रेष्ठा वासुदेवस्य शङ्कर ।
एतत्पूजनमात्रेण कृतकृत्यो भवेन्नरः ॥ ४१॥
इदं च यः पठेद्रुद्र पञ्चतत्त्वार्चनं नरः ।
शृणुयाच्छ्रवायेद्वापि विष्णुलोकं स गच्छति ॥ ४२॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये ।
आचारकाण्डे पञ्चतत्त्वा(वैष्णवा)र्चनविधिर्नाम द्वात्रिंशोऽध्यायः ॥ ३२॥
गरुडपुराण । पूर्वखण्ड । अध्याय ३२/२९-३७॥
garuDapurANa . pUrvakhaNDa . adhyAya 32/29-37..
Proofread by PSA Easwaran