परिव्राड्मननम्

परिव्राड्मननम्

॥ श्रीराम समर्थ ॥

प्रथमप्रकरणम्

मय्यनन्तसुखाम्भोधौ बहुधा विश्ववीचयः । उत्पद्यन्ते विलीयन्ते तेन मे न पृथक् स्थितिः ॥ १॥ क्षीरे क्षीरं यथा क्षिप्तममृते ह्यमृतञ्च वा । संयुक्तमेकतां याति यथाऽहं मय्यनन्तताम् ॥ २॥ ब्रह्माविष्णुमहेशाद्याः देवा वाण्यादिदेवताः । मद्रूपेणैव चिद्व्योम्नि राजन्ते भेदवर्जिताः ॥ ३॥ मायाकॢप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः । यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ ॥ ४॥ यत्रैष सकलो भासो दर्पणान्तः पुरं यथा । तच्चिन्मात्रोऽहमत्यच्छःनिर्विकारस्वभाववान् ॥ ५॥ यथा पिपीलकाश्वासैः मेरुश्चलति नो क्वचित् । मायाकार्यैस्तथा नाहं किञ्चित्क्वचिदपि च्युतः ॥ ६॥ अपि शीतशुगर्कोऽपि अप्यत्युष्णश्च चन्द्रमाः । अप्यधः प्रसरेदग्निः नाहं स्यां विकृतः क्वचित् ॥ ७॥ यथैव व्योम्नि नीलत्वं यथा नीरं मरुस्थले । पुरुषत्वं यथा स्थाणौ शुक्तौ वा रजतस्थितिः ॥ ८॥ मयि भूम्नि परानन्दे निर्विकारेऽद्वये तथा । माययारोपितश्चापि विकारो मे न सज्जते ॥ ९॥ माया तत्सर्वकार्यञ्च तमः शद्वेन चोच्यते । ज्योतिषां ज्योतिरेवाहं तमःपारेऽस्य सुस्थितः ॥ १०॥ भोग्यहीनोऽहमानन्दः चैत्यनिर्मुक्तचिद्घनः । स्वे महिम्नि स्वसत्ताकः सन्मात्रोऽहं स्वभावतः ॥ ११॥ मत्त ऐरावतो बद्धः सर्षपीकोणकोटरे । मशकेन कृतं युद्धं सिंहोघै रेणुकोटरे ॥ १२॥ पद्माक्षे स्थापितो मेरुः निगीर्णो भृङ्गसूनुना । वन्ध्यापुत्रेण पश्चात्स शशश‍ृङ्गेण वै हतः ॥ १३॥ मृगाम्भोत्तुङ्गकल्लोलैः बलादाकृष्टवन्नभः । तस्मिन्निमज्य सुस्नातान्प्राणांस्त्यक्त्वा दिवं गतम् ॥ १४॥ यथैत्तत्तावदेवं स्यात् अर्थशून्यविकल्पनम् । मायातत्कार्यरूपस्य मय्यनन्तचिदर्णवे ॥ १५॥ नोदेति नास्तमायाति मयि किञ्चिन्न किञ्चन । सद्घनश्चिद्घनो वाऽहमानन्दघन एव वा ॥ १६॥ एकोऽहमद्वयोऽहं वा स्वभावपरिनिष्ठितः । न जातं जायते किञ्चित् जनिष्यति न वा मयि ॥ १७॥ चिद्रूपत्वान्न मे जाड्यं सत्यत्वान्नानृतं मम । आनन्दत्वान्न मे दुःखमेकोऽहं नित्यनिर्मलः ॥ १८॥ इति श्रीरामदासकृपान्वितैः भगवद्भिः श्रीधरस्वामिभिः विरचिते परिव्राड्-मनने प्रथमप्रकरणं सम्पूर्णम् ॥

द्वितीयप्रकरणम्

सर्वभावान्तरस्थाय चैत्यमुक्तचिदात्मने । प्रत्यक्चैतन्यरूपाय मह्यमेव नमो नमः ॥ १॥ शास्त्राभ्यासैर्बुद्धिसौक्ष्म्यं सूक्ष्मतत्त्वावगाहने । दृश्यते त्वग्रया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ २॥ कर्माणि चित्तशुद्ध्यर्थ ऐहिकार्थसुखाप्तये । औपासनेन ऐकाग्र्यं चित्तस्य च विधीयते ॥ ३॥ शास्त्रमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद् ग्रन्थमशेषतः ॥ ४॥ उल्काहस्तो यथा लोके द्रव्यमालोक्य तां त्यजेत् । ज्ञानेन ज्ञेयमालोक्य पश्चात्तत्परिवर्जयेत् ॥ ५॥ आत्मानमात्मनः साक्षात् ब्रह्मबुद्ध्या सुनिश्चलम् । देहजात्यादिसम्बन्धान् वर्णाश्रमव्यवस्थितान् ॥ ६॥ वेदशास्त्रपुराणानि पदपांसुमिव त्यजेत् । नानुध्याद् बहून्शब्दान् वाचोविग्लापनं हि तत् ॥ ७॥ विज्ञेयोऽक्षरतन्मात्रं जीवितं चापि चञ्चलम् । विहाय शास्त्रजालानि यत्सत्यं तदुपास्यताम् ॥ ८॥ न कर्मणा न प्रजया धनेनाप्यवदत्श्रुतिः । अमृतत्वं च त्यागेन मुमुक्षूणां विमुक्तये ॥ ९॥ योन्तःशीतलया बुद्ध्या रागद्वेषविमुक्तया । साक्षिवत्पश्यतीदं हि जीवितं तस्य शोभते ॥ १०॥ परात्मनि च यो रक्तः विरक्तोऽपरमात्मनि । सर्वैषणाविनिर्मुक्तः स भैक्षं भोक्तुमर्हति ॥ ११॥ अहमेवाक्षरं ब्रह्म वासुदेवाख्यमद्वयम् । इति भावो ध्रुवो यस्य तदा भवति भैक्षभुक् ॥ १२॥ सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद् बुधः । यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥ १३॥ इति श्रीरामदासकृपान्वितैः भगवद्भिः श्रीधरस्वामिभिः विरचिते परिव्राड्-मनने द्वितीयप्रकरणं सम्पूर्णम् ।

तृतीयप्रकरणम्

अध्रुवैःसाधनैर्न स्यात् ध्रुवप्राप्तिःस्वतोभवा । ब्रह्मैवाहं शुद्धबुद्धो ह्यज आत्मा महान् धृवः ॥ १॥ अकृतेन कृतेनापि प्राप्तिः स्यान्न कदाचन । अखण्डैकरसो ह्यात्मा ब्रह्मैवाहं सनातनः ॥ २॥ सूक्ष्मबुद्ध्या च किं ज्ञेयं मम नित्योपलब्धितः हृद्यन्तर्ज्योतिरेवाहं स्वयञ्ज्योतिः स्वभावतः ॥ ३॥ वेदशास्त्रपुराणानि भूतानि सकलान्यपि । येनार्थवन्ति तं किं मां विज्ञातारं प्रकाशयेत् ॥ ४॥ स्वयं प्रकाशरूपं तत्किं शास्त्रेण प्रकाश्यते । नित्यप्राप्ते हि मद्रूपं निःशब्दं ब्रह्म निर्गुणम् ॥ ५॥ श्रवणं तु गुरोः पूर्वं मननं तदनन्तरम् । निदिध्यासनमित्येतत्पूर्णबोधस्य कारणम् ॥ ६॥ श‍ृण्वन्त्वज्ञाततत्त्वास्ते जानन् कस्मात्श‍ृणोम्यहम् । मन्तन्तां संशयापन्नाः न मन्येऽहमसंशयः ॥ ७॥ विपर्यस्तो निदिध्यासेत्किं ध्यानमविपर्यये । देहात्मत्वविपर्मासं न कदाचिद् भजाम्यहम् ॥ ८॥ न कर्मणा नो प्रजया वित्तेनापि भवेत्सुखम् । सुखं भूमाहमेवाहं सर्वोपास्योऽद्वयः शिवः ॥ ९॥ न मे चित्तं न तच्छुद्धि मया किञ्चिदपेक्ष्यते । अप्राणो ह्यमनाः शुद्धः इत्यादिश्रुतिशासनात् ॥ १०॥ ऐहिकामुष्मिकार्थे वा सिद्धये मुक्तयेऽपि वा । न मेऽस्ति किञ्चित्कर्तव्यं सुखरूपोऽहमाततः ॥ ११॥ दुःखिनोऽज्ञाः संसन्तुकामं पुत्राद्यपेक्षया । परमानन्दपूर्णोऽहं संसरामि किमिच्छया ॥ १२॥ अनुतिष्ठन्तु कर्माणि परलोकधियासवः । सर्वलोकात्मकः कस्मात् अनुतिष्ठामि किं कथम् ॥ १३॥ किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् । यन्मया पूरितं सर्वं महाकल्पाम्बुना यथा ॥ १४॥ ब्रह्मादिकीटपर्यन्ताः प्राणिनो मयि कल्पिताः । बुद्बुदादिविकारान्ताः तरङ्गाः सागरे यथा ॥ १५॥ तरङ्गस्थं द्रवं सिन्धुः न वाञ्छति यथा तथा । विषयानन्दवाञ्छा मे मा भूदानन्दरूपतः ॥ १६॥ दारिद्र्याशा यथा नास्ति सम्पन्नस्य तथा मम । ब्रह्मानन्दे निमग्नस्य विषयाशा न तद्भवेत् ॥ १७॥ स्वान्मन्यारोपिताशेषभासवस्तु निरस्य च । अहमेव परं ब्रह्म पूर्णमद्वयमक्रियम् ॥ १८॥ न देवासुरगन्धर्वाः न तल्लीकाः पुमांश्च स्त्री । न भोग्य-भोक्तृ भोगाश्च मय्यखण्डे चिदात्मनि ॥ १९॥ न निरोधो न चोत्पत्ति न बद्धो न च साधकाः । न मुमुक्षुर्न वै मुक्ताः स्वप्रकाशेऽद्वये मयि ॥ २०॥ सर्वद्रष्टा विभिन्नोऽहं दृश्याच्चिन्मात्र विग्रहः । जीवेशजगदाभासाः चिन्मये विलयं गताः ॥ २१॥ चिदखण्डरसे को वा पुमान्स्त्री च जगच्च किम् । जीवशौ कौ तयोर्ज्ञानं मयि किञ्चिन्न वैद्म्यहम् ॥ २२॥ ब्रह्माण्डपिण्डौ जीवेशौ जाग्रत्स्वप्नसुषुप्तया । नोपाधिश्च न तत्कर्म चिन्मात्रे शिष्यते क्वचित् ॥ २३॥ अतिरिक्ते च सर्वस्वात्सर्वरूपेऽथवा तते । मय्यद्वय सुखे स्फारे भिन्नता विलयं गता ॥ २४॥ इति श्रीरामदासकृपान्वितैः भगवद्भिः श्रीधरस्वामिभिः विरचिते परिव्राड्-मनने तृतीयप्रकरणं सम्पूर्णम् ।

चतुर्थप्रकरणम्

अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्चते । नित्यस्य निष्प्रपञ्चस्य प्रपञ्चोऽयं न मे कदा ॥ १॥ जागरत्स्वप्नयोरेवं प्रपञ्चोऽज्ञे विभासते । सुप्तौ तु विलयं याति स्वाज्ञानेऽनात्मवेदिनाम् ॥ २॥ स्वप्ने जागरितं नास्ति जागरे स्वप्नता न हि । द्वयमेवं लये नास्ति लयोऽपि ह्युभयोर्न च ॥ ३॥ त्रयमेवं भवेन्मिथ्या गुणत्रयविनिर्मितम् । अस्य द्रष्टा गुणातीतः एकोऽहं नित्यचिद्घनः ॥ ४॥ अज्ञाने बुद्धिविलये निद्रा सा भण्यते बुधैः । विहीनाज्ञानतत्कार्ये मयि निद्रा कथं भवेत् ॥ ५॥ बुद्धेः पूर्णविकासोऽयं जागरः परिकीर्त्यते । बुद्धितत्कार्यहीनत्वात् जागरो मे न विद्यते ॥ ६॥ हिता नाडी प्रचारो यत् बुद्धेः स्वप्नः प्रजायते । सञ्चारधर्मशून्येऽस्मिन् मयि स्वप्नो न विद्यते ॥ ७॥ जाग्रत्स्वप्नसुषुप्त्यादि प्रपञ्चं यत्प्रकाशते । स्वात्मनोऽन्यच्च किं तत्स्यात् अतोऽहं ब्रह्म स्वप्रभम् ॥ ८॥ मय्यवस्था यतः सर्वा जाग्रत्स्वप्नसुषुप्तयः । मत्तोन्यदासकं तेषां किं स्याद् ब्रह्म ततोऽस्म्यहम् ॥ ९॥ जाग्रत्स्वप्नसुषुप्त्याहि प्रपञ्चं यत् प्रकाशते । तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ १०॥ यदन्यत्तस्य विलयः जन्मना शौचसङ्गतौ । स्वमात्रस्य विकारो मे न हि कश्चित् सुसङ्गतम् ॥ ११॥ स्वात्मन्याऽन्यद्भवेद् दृश्यं दृश्यं यज्जनितं च तत् । तस्य कार्यस्य षड्भावाः न मेऽतोऽहमजोऽव्ययः ॥ १२॥ यतोऽजन्मा अविनाशी नित्यशुद्धाश्चिदात्मकः । नित्यं कार्यविहीनोऽस्मि मत्समं नास्ति किञ्चन ॥ १३॥ अविनाशस्वभावस्य निरंशस्य ह्यजस्य वा । नैव मे स्वात्ममात्रस्य जन्ममृत्युश्चिदात्मनः ॥ १४॥ सर्वपूर्णे स्वतःपूर्ण स्वमात्रे मयि चित्सुखे । किमर्थं कस्य कामाय कार्यं स्यान्निरुपाधिके ॥ १५॥ प्रयोजनमनुद्दिश्य प्रवृत्तिर्मे कथं भवेत् । सृजेयं किं न मे किञ्चित्कार्यं स्याद्यत्प्रयोजकम् ॥ १६॥ आकाशे दृश्यतेऽसङ्गे मेघकार्यमितस्ततः । मय्यद्वये निर्विकारेऽसङ्गे तन्मायिकं भ्रमः ॥ १७॥ यथाच्छन्नं न चाकाशं मेघकारैर्न सम्भवेत् । मायाच्छन्नस्तथा नाहं नानाकारैर्न मे जनिः ॥ १८॥ यथाकाशे भवेद्वार्वायुना खं न चाल्यते । तथा मयि स्याद्यदहं ब्रह्मास्मि न हि चञ्चलः ॥ १९॥ चिद्घनः सद्घनोऽहं वा ह्यानन्दघन एव च । न मेऽस्ति माया चाञ्चल्यं न मे स्फूर्त्या पृथक् स्थितिः ॥ २०॥ चिन्मात्रत्वान्न मे जाड्यं जाड्याभावान्न विस्मृतिः । विस्मृत्यभावतो नैव ब्रह्मवाहं स्मृतिश्च मे ॥ २१॥ यदा न मय्यहं ब्रह्म स्मृतिर्भवितुमर्हति । लक्षीकृत्य च मां माया स्फूरत्येवं स्फुटं ततः ॥ २२॥ इति श्रीरामदासकृपान्वितैः भगवद्भिः श्रीधरस्वामिभिः विरचिते परिव्राड्-मनने चतुर्थप्रकरणं सम्पूर्णम् ॥

पञ्चमप्रकरणम्

लोहचुम्बकवन्माया यत्सान्निध्याज्जडाऽपि च । चेतनत्वमवाप्नोति तदहं ब्रह्म निश्चलम् ॥ १॥ ब्रह्मैवासीदिदं ह्यग्रे एकमेवाऽवदत्श‍ृतिः । तदात्मानं स्वयं चावेत् अहं ब्रह्मेति तत्त्वतः ॥ २॥ तस्मात्तत्सर्वमेवेदमभवत्तच्चयोऽद्वयम् । देवर्षिमनुजानां वै प्रत्यबुध्यक सोऽभवत् ॥ ३॥ अधिष्ठानान्नचाध्यस्तं पृथग्भवितुमर्हति । अध्यस्तफणिनि रज्जुर्यथैकाऽभावभावयोः ॥ ४॥ नित्योऽहं निर्विकल्पोऽहं चिन्मात्रोऽहं स्वभावतः । न मे किञ्चिद्विकारोऽस्ति मायाया भावतोऽन्यथा ॥ ५॥ अव्यक्ताच्च महज्जातं ततोऽहङ्कार एव च । पञ्चभूतं ततः सूक्ष्मं स्थूलं च क्रमशोऽभवत् ॥ ६॥ पञ्चाऽपञ्चीकृताभ्यां च स्थूलसूक्ष्मवपुस्ततः । शिवोऽविद्यावशाज्जीवः प्रवेशानन्तरोऽभवत् ॥ ७॥ सङ्कल्पादिप्रवेशान्ता सृष्टिरीशविकल्पिता । जाग्रदादिविमोक्षान्ता सृष्टिर्जीवविकल्पिता ॥ ८॥ बीजेऽव्यक्तो यथा वृक्षः मायायां कार्यमीदृशम् । यदा भावे तदानीं सा कथ्यतेऽव्यक्तनामतः ॥ ९॥ पृथ्वीजलमनुष्यैश्च यथा बीजं द्रुमोन्मुखम् । तत्सृष्ट्योन्मुखमव्यक्तं कालकर्मतपः क्रमैः ॥ १०॥ बीजादङ्कुर एवं हि अव्यक्तान्महदुद्गमः । अङ्कुरार्थे यथा पर्णे तथा प्रकृतिपूरुषौ ॥ ११॥ तत्पर्णाभ्यां च विस्तारो वृक्षस्यैवं यथा भवेत् । तथैव भवविस्तारः पुम्प्रकृत्योर्विधीयते ॥ १२॥ द्विधा विभज्यात्मानं स अर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां तु विराजमसृजद्विभुः ॥ १३॥ मायां तु प्रकृतिं विद्यात्मायिनं तु महेश्वरम् । तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ १४॥ मायासम्बन्धतश्चेशः जीवोऽविद्यावशात्तथा । वाचारम्भणमात्रं हि वस्तुतो न हि किञ्चन ॥ १५॥ चिदखण्डरसत्वेन मयि माया न विद्यते । नाविद्या न तयोः कार्यं मयि किञ्चिद्विजृम्भते ॥ १६॥ छायादेहाश्रिता यद्वत् भिन्नाभिन्ना न चान्यथा । मदाश्रितां तथा माया तुच्छा काप्यसती तथा ॥ १७॥ छायया देहसम्बन्धो यथा भवितु मर्हति । तथैव मम सम्बन्धो मायया च भवेदिह ॥ १८॥ देहस्य सत्ता छायायां तथाऽऽस्यां मत्स्थितिर्भवेत् । मायावृद्धिक्षयाभ्यां च क्वचिन्नास्ति पृथक् स्थितिः ॥ १९॥ अव्यक्ते त्वीश्वरः प्रोक्तस्तथा महति विश्रुतः । हिरण्यगर्भनाम्नात्र सङ्कल्पस्योदयः श्रुतः ॥ २०॥ नानाकारैस्ततः स्वस्य बहुत्वमुपपादितम् । रूपं रूपं बभूवात्र श्रुतेर्गीः सम्प्रवर्तते ॥ २१॥ बीजमेकं यथास्वस्माद्बहून्युत्पादयेत्तथा । हिरण्यगर्भ एवायं बह्वाहं रूपतोऽभवत् ॥ २२॥ अव्यक्तं कारणं तस्मान्महल्लिङ्गवपुर्भवेत् । यत्रेकोऽहं बहु स्यां वै सङ्कल्पोद्गम ईरितः ॥ २३॥ डालिमेहि यथा तस्य बीजान्यन्तर्भवन्ति हि । यथा डालिम इत्युक्तः सर्वबीजसमष्टितः ॥ २४॥ तथाऽहमो बहुत्वं च स्वर्णगर्भे प्रतिष्ठितम् । हिरण्यगर्भ इत्युक्तः सर्वोहं मान्यतः श्रुतौ ॥ २५॥ योगेनात्मा सृष्टिविधो द्विधारूपो बभूव सः । पुमांश्च दक्षिणार्धाङ्गे वामार्धा प्रकृतिः स्मृता ॥ २६॥ सर्व मिथुनमेतस्माद् अग्निषोमात्मकं जगत् । एनयोः सन्नतिः साऽपि सर्वा स्त्रीपुरुषात्मका ॥ २७॥ अर्धो वा एष यत्पत्नी द्वेधात्मानमपादयत् । स्त्रीपुमांस्मै रहं चैकं श्रुत्या चानुभवेन च ॥ २८॥ अनेक नामरूपाभ्यां सृष्टिरेवं प्रवर्तिता । जातिशीलगुणैः कृत्यै तथा भूरादयः क्रमात् ॥ २९॥ स्त्रीपुमान्रूपतः सर्वा प्रवृत्तिः सृष्टिसर्जने । मातापितृमलोद्भूते देहेऽसङ्गोऽहमानतः ॥ ३०॥ अनेक रोचकैर्वाक्यैर्मयि सृष्टिर्विकल्प्यते । एकोऽहमि न चानन्ये भिन्नवार्ताऽपि सम्भवेत् ॥ ३१॥ अहंरूपेण मात्रेषु ह्यलिङ्गं भेदवर्जितम् । सुविधाय श्रुतिर्वक्ति चात्मानं जानथाऽद्वयम् ॥ ३२॥ न स्त्री नाहं पुमांश्चापि न बालो बालिकाऽपि च । सर्वस्मिन्मां हि चिन्मात्रं यं पश्येत्स हि मुक्तिभाक् ॥ ३३॥ सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । सम्पश्चन्ब्रह्म परमं याति नान्येन हेतुना ॥ ३४॥ समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ ३५॥ कालत्रये यथा सर्पे रज्जो नास्ति तथा मयि । अहङ्कारादि देहान्तं जगन्नास्त्यहमद्वयः ॥ ३६॥ इति श्रीरामदासकृपान्वितैः भगवद्भिः श्रीधरस्वामिभिः विरचिते परिव्राड्-मनने पञ्चमप्रकरणं सम्पूर्णम् ॥

षष्ठप्रकरणम्

कारणं यस्य वै कार्यं कार्याभावान्न कारणम् । मयि मत्तः पृथङ्नास्ति कार्यं नाऽहं न कारणम् ॥ १॥ असतो मा सद्गमय तमसो मा ज्योतिरिति । मृत्योर्मामृतवत्वञ्च प्रार्थना दृश्यते श्रुतौ ॥ २॥ असत्तमो मृत्युरूपं कार्यमेतत्ततः स्फुटम् । कार्यस्यैतस्य यत्स्यात्तत्कारणं तादृगेवहि ॥ ३॥ असत्तमो मृत्युरूपमिदमग्रेऽवदत्श‍ृतिः । तें नैव पश्चात्तत्कार्यं व्याकृतं तावदेव हि ॥ ४॥ कार्येषु कारणगुणाः सङ्क्रामन्तीति न्यायतः । कार्यकारणयोर्मेलः समीचीनतया स्थिता ॥ ५॥ जाग्रत्स्वप्नप्रपञ्चस्य कारणं शून्यमेव तत् । सौषुप्तप्रत्ययादेवं मायारूपं विबुध्यते ॥ ६॥ तुच्छाऽनिर्वचनीया या श्रुता शक्तिः स्वभावतः । तस्या रूपेण तत्कार्यं तथैवेत्येव गम्यते ॥ ७॥ शक्त्यैव कार्यजननं शक्तिरेव हि कारणम् । मायाकार्यमिदं सर्वं ततः सर्वैर्निगद्यते ॥ ८॥ कार्यं जडं यतः सर्वं शक्तिः साऽपि जडा भवेत् । रसोऽहं सच्चिदानन्दः जडा प्रकृतिरुच्यते ॥ ९॥ शून्यं पूर्णाङ्कसंयुक्तं यद्वद्गण्यं तथैव हि । माया तत्कार्यसकलं मद्योगादेव गण्यते ॥ १०॥ मायाकार्यस्य वैविध्यं मद्विना नैव सिद्ध्यति । विनैकगणनां क्वापि काऽपि सङ्ख्या न विद्यते ॥ ११॥ स्वे महिम्नि सदैकोऽस्मि चिन्मात्रोऽहं स्वभावतः । नित्यं मायाविद्ययोस्तत्कार्यंस्याभावभावयोः ॥ १२॥ सत्यज्ञानानन्ततोऽहं प्रतियोगितया स्थितः । मच्चेतनवती सेयं जज्ञेऽनृतजडं जगत् ॥ १३॥ ततो मद्ब्रह्मरूपस्य कारणत्वं जगौ श्रुतिः । यतो वानेन वाक्येन तदध्यारोपितं किल ॥ १४॥ कार्ये कारणता याता कारणे न हि कार्यता । कारणत्वं ततो गच्छेत् कार्याभावे विचारतः ॥ १५॥ अथाऽहं शुद्धबोधश्च कार्यकारणवर्जितः । एक एवाद्वितीयोऽत्र त्ववाङ्मनसगोचरः ॥ १६॥ चिदानन्दे न मय्येवमसदादिकलक्षणा । मायाऽविद्या न तत्कार्ये दुःखानृतजडं च यत् ॥ १७॥ प्रमादो मृत्युरित्याहुः मृत्युरत्यन्तविस्मृतिः । कार्यं सर्वं मृत्युरूपं कार्ये मद्विस्मृतिर्यतः ॥ १८॥ कार्यस्यैतस्य पूर्वं कारणं साऽपि विस्मृति । शक्तिर्मृत्युरिति ख्याता नित्यबोधे न सा मयि ॥ १९॥ मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः । मिथ्यैव बत मां वक्ति श्रुतिरध्यापयत्यहो ॥ २०॥ आत्मैवाऽहमसन्नाहमात्मैवाऽहं च निर्गुणः । आत्मैवाऽहं न माया च न तत्कार्यमसज्जडम् ॥ २१॥ न विश्वस्तैजसः प्राज्ञाः विराट् सूत्रेश्वरः क्वचित् । न पुमान् प्रकृतिश्चैव न नारी न नरः क्वचित् ॥ २२॥ न सङ्कल्पो न भुतानि नेन्द्रियाणि मनस्तथा । क्वचित्सूक्ष्मश्च स्थूलश्च देहो नाहमचेतनः ॥ २३॥ न मे कामश्च क्रोधश्च रागद्वेषौ न मे क्वचित् । न मे नारीति भावः स्यात् न मे नर इति क्वचित् ॥ २४॥ सत्यस्वरूप एवाहं चिद्घनानन्दविग्रहः । एकोऽहं नास्ति मत्तोऽन्यत् अहमेवास्मि केवलः ॥ २५॥ वन्ध्यामातुरहो पुत्रः पितुर्वै ब्रह्मचारिणः । मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः ॥ २६॥ विदेह एष आयाति शशश‍ृङ्गेण संयुतः । अजो सपरिवारैश्च निस्तत्त्वमखिलं खलु ॥ २७॥ कार्योपाधिरहं जीवः कारणोपाधिरीश्वरः । कार्यकारणतां हित्वा पूर्णबोधावशिष्यते ॥ २८॥ तस्मान् मुमुक्षुभिर्नैव मतिर्जीवेशवादयोः । कार्या, किन्तु ब्रह्मतत्त्वं निश्चलेन विचार्यताम् ॥ २९॥ मायाभावान्न चाविद्या चेशाभावान्न जीवकः । चिन्मात्रत्वान्न मे भेदः सत्यत्वान्न च मे पृथक् ॥ ३०॥ पूर्णाङ्के मीलितं शून्यं पूर्णाङ्के नैव तिष्ठति । तथा मन्मीलिता माया मद्रूपेणैव तिष्ठति ॥ ३१॥ अन्याभावादद्वयोऽहं तस्या नित्यनिवृत्तितः । अहं सच्चित्सुखानन्दः न मद्भिन्नं मयि स्थितम् ॥ ३२॥ न मे किञ्चित्क्वचिद्वापि पृथक्त्वं तु प्रतीयते । सच्चिदानन्दमात्रोऽहमहमेवाहमद्वयः ॥ ३३॥ अन्यहीनस्वभावात्मा भेदशून्यः स्वयम्प्रभः । सद्घनश्चिद्घनश्चाहमानन्दघन एव च ॥ ३४॥ केवलः शान्तरूपोऽहं केवलः शाश्वतोस्म्यहम् । केवलास्तित्वरूपोऽहमहं त्यक्त्वा हमस्म्यहम् ॥ ३५॥ इति श्रीरामदासकृपान्वितैः भगवद्भिः श्रीधरस्वामिभिः विरचिते परिव्राड्-मनने षष्ठप्रकरणं सम्पूर्णम् ॥

सप्तमप्रकरणम्

दृग्दृश्यौ द्वौ पदार्थौ स्तः परस्परविलक्षणौ । दृग्ब्रह्म दृश्यं मायेति किल वेदान्तडिण्डिमः ॥ १॥ प्रथमं स्फुरणं यत्स्यात् मयि ब्रह्मणि केवले । अहं ब्रह्मेति माया सा दृश्यं सर्वादिमत्तथा ॥ २॥ ब्रह्माग्रेऽवेदहं ब्रह्म तस्मात्तत्सर्वमेव हि । विद्याऽविद्यादिभेदेन जीवेश्वरविभानतः ॥ ३॥ अभासेन च जीवेशौ करोतीति श्रुतिर्जगौ । मायाविद्या च सैवेयं भवति स्वयमेव हि ॥ ४॥ मायासम्बन्धतश्चेशो जीवोऽविद्यावशस्तथा । कल्पितेयमविद्येयमनात्मन्यात्मभावनात् ॥ ५॥ एतावदेवाविद्यात्वं नाहं ब्रह्मेति निश्चयः । एतावदेव विद्यात्वमहं ब्रह्मेति निश्चयः ॥ ६॥ देहोऽहमिति सङ्कल्पः सत्यं जीवः स एव हि । देहोऽहमिति यज्ज्ञानं तस्याज्ञानं तदेव हि ॥ ७॥ देहोऽहमिति सङ्कल्पः तदन्तःकरणं स्मृतम् । अन्तःकरणसम्भिने बोधः सोऽहम्पदाभिधः ॥ ८॥ देहोऽहमिति सङ्कल्पः हृदयग्रन्थिरीरितः । अहं चिदपि गेहेन योगाच्चिज्जडतास्य तु ॥ ९॥ हृदयग्रन्थिसम्भेदाच्चिदहं चेति निश्चयात् । अहं ब्रह्मेति बोधाद् वा स जीवः केवलः शिवः ॥ १०॥ अशब्दमस्पर्शमरूपमव्ययं तथाऽरस नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य मां मृत्युमुखात् प्रमुच्यते ॥ ११॥ देहेन्द्रियप्राणमनोऽहमादयः सर्वे विकारा विषयाः सुखादयः । व्योमादिभूतान्यखिलं च विश्व- मव्यक्तपर्यन्तमिदं ह्यनात्मा ॥ १२॥ दृशिस्वरूपं गगनोपमं परं सकृद्विभातं त्वजमेकमक्षरम् । अलेपकं नित्यस्थितं यदद्वयं निचाय्य मां मृत्युमुखात् प्रमुच्यते ॥ १३॥ आनन्दरूपोऽहमखण्डबोधः परात्परोऽहं धनचित् प्रकाशः । मेघा यथा व्योम न च स्पृशन्ति मायाविकाराणि न मां स्पृशन्ति ॥ १४॥ सङ्कल्पमात्रकलने किल चेशभानं सङ्कल्पमात्रकलने बत जीवभावः । सङ्कल्पमात्रकलने हि जगद्विलासः सङ्कल्पशून्यमयि नास्ति विभिन्नमीषत् ॥ १५॥ इति श्रीरामदासकृपान्वितैः भगवद्भिः श्रीधरस्वामिभिः विरचिते परिव्राड्-मनने सप्तमप्रकरणं सम्पूर्णम् ॥

अष्टमप्रकरणम्

घटाकाशमठाकाशौ महाकाशे प्रतिष्ठितौ । एवं मयि चिदाकाशे जीवेशौ परिकल्पितौ ॥ १॥ परोक्षतापरिच्छेदशाबल्यापोहनिर्मलम् । तदसीति निरालक्ष्यं ब्रह्मैवाहं स्वयम्प्रभः ॥ २॥ जीवेशयोः जाग्रदादि प्रपञ्चं यत्प्रकाशते । तदहं चित्सुखं ब्रह्म निर्विकल्पं सनातनम् ॥ ३॥ नष्टे पूर्व विकल्पे तु यावदन्यस्य नोदयः । तन्मध्ये चित्स्वरूपेण नित्योऽहं निर्विकल्पकः ॥ ४॥ आकाशे वायुवत्तस्मिन् मय्यहं यद्विभासते । तस्य लक्ष्यस्वरूपेण सर्वस्यात्मस्वरूप्यहम् ॥ ५॥ अहं ब्रह्मेति विज्ञानमीश्वरस्येति कथ्यते । नित्यबुद्धस्वरूपोऽयं सर्वज्ञः सर्वशक्तिमान् ॥ ६॥ बहुस्यां वा प्रजायेति प्रवृत्तौ चोद्यते ततः । कर्ता भर्ता प्रविष्टश्च नियन्ता नाशिताऽपि च ॥ ७॥ अहं नाम्मा प्रविष्टः सन् जीवत्वेन वसत्यसौ । ततः पतिश्च पत्नी च भूत्वा कामादिवेष्टितः ॥ ८॥ बहुस्यामिति सन्तत्या प्रपूरयति स्वेप्सितम् । ईश एव जगत्यस्मिन् पटे तन्तुरिव स्थितः ॥ ९॥ स्वरूपस्याविस्मृतितः प्रवृत्तावीश इर्यते । स्वरूपस्य च विस्मृत्या प्रवृत्तो जीव इर्यते ॥ १०॥ नाहं जीवस्तथेशो वा प्रवृत्तिरहितो यतः । न मे द्विभजनं चापि पुं प्रकृतितया स्थितिः ॥ ११॥ न मे किञ्चित्सर्जनं वा प्रवेशस्तेषु सम्मतः । चतुर्विधेषु देहेषु सृष्ट्वा मिथुनमीदृशम् ॥ १२॥ नाहं देहो न मे देहो पुमान्नाहं न प्रकृतिः । नरो नाहं न नारी वा न मे कामो न सन्ततिः ॥ १३॥ ज्ञेयाभावज्ञानमात्रे किञ्चिज्ज्ञत्वं न जीवकः । मयि भूम्नि न तत्सर्वं सर्वज्ञो वेश इत्यपि ॥ १४॥ अहमो लक्ष्यमेतेषु प्रपञ्चस्याप्रवर्तकम् । निर्विकल्पस्वभावं यत् तदहं चित्सुखं स्वयम् ॥ १५॥ सूत्रात्मके पटे नित्यं यथा कर्पाससंस्थितिः । तथा सूत्रात्मके विश्वे सच्चिदानन्दसंस्थितिः ॥ १६॥ अखण्डैकरसत्वेन निर्विकारोऽहमानतः । बोधानन्दे स्वमात्रेऽस्मिन् ययि मत्तो न किञ्चन ॥ १७॥ मयि किञ्चित्पृथङ्नास्ति स्वयमेकात्मना स्थितः । सर्वसङ्कल्पशून्योऽहं निर्विकल्पस्वभाववान् ॥ १८॥ द्वैतं यदि तदाद्वैतं द्वैताभावेऽद्वयं न च । दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न ॥ १९॥ नास्ति दृष्टान्तिकं सत्ये नास्ति दार्ष्टान्तिकं ह्यजे । चिन्मात्रं केवलं चाहं न मत्तो मयि किञ्चन ॥ २०॥ विलक्षणं यथा ध्वान्तं लीयते भानुतेजसि । तथाऽनिर्वचनीया या माया सा मयि स्वार्चिषि ॥ २१॥ माया तत्कार्यमखिलं मय्यनन्तचिदर्णवे । अर्थशून्यविकल्पोऽयं नास्ति नास्ति कथं च न ॥ २२॥ इति श्रीरामदासकृपान्वितैः भगवद्भिः श्रीधरस्वामिभिः विरचिते परिव्राड्-मनने अष्टमप्रकरणं सम्पूर्णम् ॥ समाप्तोऽयं ग्रन्थः ॥ इतिशम् ॥ ॥ ॐ तत्सत् ॥ इति परिव्राड्मननं सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Parivradmananam
% File name             : parivrADmananam.itx
% itxtitle              : parivrADmananam (shrIdharasvAmIvirachitam)
% engtitle              : parivrADmananam
% Category              : deities_misc, gurudev, shrIdharasvAmI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : shrIdharasvAmI stotrANi.  shrIdharasandeshaH
% Indexextra            : (Marathi, Collection 1, 2, Selected)
% Latest update         : January 14, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org