प्रह्लाद ते परमपूतपदं नमामि
भक्ताग्रणीर्भजनतत्पर भूरिभाग
श्रीमन्नृसिंह पदपद्म परागभृङ्ग ।
त्वत्समोऽस्ति भुवने परमो विरागी
प्रह्लाद ते परमपूतपदं नमामि ॥ १॥
जातोऽपि दानवकुले न च ते कुबुद्धिः
देहेऽपि नो तनुमतिर्विमलात्मबुद्धिः ।
ईशात्मकं जगदिदं स्थिरबोध एव
प्रह्लादद ते परमपूतपदं नमामि ॥ २॥
द्वेष्टा हिरण्यकशिपुर्जनकः सुरारिः
साध्वी च ते पतिरता जननी कयाधुः ।
ताभ्यां जनिस्तव शुचिर्न विचित्रमेतत्
प्रह्लादद ते परमपूतपदं नमामि ॥ ३॥
बाल्यान्न ते विषयलोलुपता कदापि
लक्ष्मीपतेश्चरणचिन्तनतत्परोऽसि ।
लोभो लवोऽपि न च ते निजराज्यलक्ष्म्याः
प्रह्लादद ते परमपूतपदं नमामि ॥ ४॥
सन्त्रासितः स्वजनकेन सुपीडितोऽपि
क्षिप्तोऽपि शैलशिखरात् दहने सुदग्धः ।
त्वं रक्षितोऽसि भगवत्कृपयैव साधो
प्रह्लाद ते परमपूतपदं नमामि ॥ ५॥
यस्मिन् महेश्वर-महात्म-कृपा सदैव
तं तापयन्ति न कदा विपदाः सुघोराः ।
अग्निर्न तं दहति मज्जयति नाब्धिः
प्रह्लाद ते परमपूतपदं नमामि ॥ ६॥
वाणिस्सदा जपति ते परमेशनाम
चित्तं च चिन्तयति ह्यच्युतचारुरूपम् ।
दृष्टिः प्रभुं जगति पश्यति वासुदेवं
प्रह्लाद ते परमतपूतपदं नमामि ॥ ७॥
विद्याविशारद-सुरर्षि-महाकृपातः
भक्तिस्त्वया नवविधाऽधिगता महात्मन् ।
येनैव ते मनसि शाश्वतशान्तिसौख्यं
प्रह्लाद ते परमपूतपदं नमामि ॥ ८॥
ज्ञानाम्बुधिः परमभागवतोऽसि धीरः
भक्त्या त्वया प्रकटितं परमात्मतत्वम् ।
मन्युर्हरः प्रशमितः पदवन्दनेन
प्रह्लाद ते परमपूतपदं नमामि ॥ ९॥
भक्तिप्रियो हि भगवान् स च भाववश्यः
ज्ञानादिकेन स कदा परितुष्यते वै
सेव्या च सैव सुजनैः सततं मतं ते
प्रह्लाद ते परमपूतपदं नमामि ॥ १०॥
हे वीरवैष्णव विशेषविदग्धवृत्ते
ब्रह्मण्य शीलगुणसम्भृतशुद्धकीर्ते ।
रामेऽस्तु ते परमभक्तिलवो दयालो
प्रह्लाद ते परमपूतपदं नमामि ॥ ११॥
इति प्रह्लाद ते परमपूतपदं नमामि ।
रचयिता - रा. व. खाडिलकर (वकील) नाशिक
Proofread by M K Barman