श्रीराघवेन्द्रकरुणालहरी

श्रीराघवेन्द्रकरुणालहरी

त्वङ्गत्तुङ्ग-तरङ्ग-मङ्गल-नदी-तुङ्गान्तरङ्ग-स्थली- रङ्गोत्सङ्ग-निषङ्गि-वात-विधुताम्भः प्लाविते पाविते । श्रीमन्त्रालय-नाम्नि धाम्नि वसते चाशंसते शं सते मन्त्रालोचनमार्ति-नाशन-कृते पुंसां नमस्तन्वते ॥ १॥ नो मञ्चा न गृहा न चञ्चल-दृशो द्रव्यं श्रमात्सञ्चितं चञ्चत् किञ्चन किञ्च काञ्चनमपि त्वां चानुयान्त्यत्यये । सञ्चित्यैवमिदं च मुञ्च सकलं प्रापञ्चिकं नश्वरं मञ्चाली-गुरुमञ्च शाश्वत-सुखं त्वं चेत्सखे वाञ्छसि ॥ २॥ इष्टार्थाकलनान्नृणामिह तथा कष्टावलेर्वारणात् कुष्ठापस्मृति-पूर्व-भीकर-रुजा-दुष्ट-ग्रहोत्सारणात् । प्रेष्ठो भक्तततेस्तथा भगवतः प्रेष्ठश्च वायोर्हरेः श्रेष्ठः संयमिनां कृषीष्ट करुणां श्रीराघवेन्द्रो गुरुः ॥ ३॥ यद्वृन्दावन-सम्प्रदक्षिण-नमस्याराऽर्चनाऽराधनैः पङ्गुस्तुङ्ग-गिरीन्द्र-श‍ृङ्गमपि चोल्लङ्घेत जङ्घालकः । मूकः स्यान्मधु-पाक-कल्प-कविता-वाको विवेकोदयाद् जल्पाकस्तमहं भजामि गुरुराट् श्रीराघवेन्द्रं मुनिम् ॥ ४॥ यस्यान्तःकरणं प्रपूर्य करुणोद्रिक्ता हि रिक्तं करा- लङ्कारं च कमण्डलुं कलयते पूर्णं सदार्णो-मिषात् । शाट्यां हृद्यमितोदितः प्रतटितो लोकानुरागः परः कारुण्याब्धिमगण्य-पुण्य-लसितं यत्यग्रगण्यं स्तुमः ॥ ५॥ स्वर्ण-श्री-मृगतृष्णिकाऽकुलतया स्वान्तं न तान्तं मनाक् कान्ता-कामनया कदाचिदपि न भ्रान्तं च कान्तारके । वै देही न च काऽपि कोऽपि भवता दूरीकृताऽनादृतोऽ थापि त्वं ननु राघवेन्द्र-पद-भाक् कस्मान्न विस्मीयते ॥ ६॥ मुख्यप्राण-निविष्ट-चेतनतया रामानुरागेण च कान्त्या भासुर-लक्ष्मणान्विततया स्नेहात् सुमित्रादरात् । भास्वद्-भारत-भाग्य-वर्धनकृते सर्वस्व-दानदपि स्वामिंस्ते खलु ``राघवेन्द्र'' इति-यन्नामैतदन्वर्थकम् ॥ ७॥ स्थीते चूत-रसे प्रमाद-पतितः पोतः परेतः कृपा- दृक्पातेन तदाति-शीतलहृदो जातः पुनर्जीवितः । संसारे विषयाख्य-कश्मल-रसे पन्नोऽवसन्नोऽस्म्यहं किं नोत्थापयसे गुरो तव पुरः-खिन्नं विषण्णं च माम् ॥ ८॥ अर्थि-प्रार्थितदापि दिव्यसुरभिर्नूनं-पशुत्वाञ्चिता सोऽयं कल्प-महीतुहोऽपि जडतापन्नो हि मान्यो दिवि । हन्ताश्मैव स चिन्तितेष्ट-फलदश्चिन्ता-मणिश्चान्ततः तत्येनोपमिनोमि तं गुरुमतो खिन्नाऽवसन्न च वाक् ॥ ९॥ यत्पादाम्बुज-सेवनात्सुतवती वन्ध्याऽभिनन्द्या भवेत् काणः क्षीण-सुदृक् क्षणान्नलिन-दृक् चक्षुष्मतामग्रणीः । कौबेरीं श्रियमाप्नुयादपि दरिद्रणो जुषाणोंऽजलिं हीनोऽहीन-शयान-देव-शरणंश श्रीराघवेन्द्रं स्तुमः ॥ १०॥ यन्नाम-स्मरणं त्रिताप-हरणं सौख्यावलेः कारणं यस्याङ्घ्र्योर्नमनं विपत्प्रशमनं ध्यानं निदानं मुदाम् । यत्पादाश्रयणं श्रियो वितनुते शश्वच्च विश्राणनं यद्वृन्दावन-दर्शनं भट गुरुं सर्वापदां कर्शनम् ॥ ११॥ वेङ्कण्णस्य निरक्षरस्य च गवां पालस्य लोलद्वटोः न्यस्ते हस्त-तलेऽस्य मस्तक -तटे ध्वस्तास्समस्तापदः । काले स्फूर्ति-वेशेषतः समभवद् ज्ञानोदयस्तत्षणात् यस्योद्यद्दयया श्रियस्समुदयो भाग्योदयस्तं भजे ॥ १२॥ नो सन्ध्याचरणं, जपादि-करणं, नो नाम्न उच्चारणं क्षेत्रे सञ्चरणं, पुरश्चरणतोनाकार्ष्मविष्णुस्तवम् । तन्नोऽद्योद्धरणं कथं न्विति गुरो सर्वापदुत्तारणं यातास्ते चरणं भियाद्य शरणं मा नः कृथा वारणम् ॥ १३॥ स्वामिन् नैक-जनुस्समर्जित-महा-पापावली सर्वता- कारा भीरुममुञ्च भीषयति मां का भीर्वदाभीक ते । हैमन्तं हि हिमं प्रकम्पयतु वा कामं तु भौमं जनं कच्चिच्चण्डरुचो नु गण्डमधरं शैत्येन किं खण्डयेत् ॥ १४॥ व्याख्या येन कृता सुधा-परिमळाभिख्या हि सङ्ख्यावता श्रीमन् न्यायसुधाकृतेः परिमळव्याख्याचयन्निर्मिता । मध्वव्यासजयार्य भावमणिसन्मञ्जूषिकोद्घातिनी मान्या माध्व गुरोर्जयाभिधमुनेः पूर्णाशयोद्भास्सिनी । व्यासार्यस्य हि चन्द्रिका च खलु यद् व्याख्यानतः ख्यातिभाक् विद्वत्प्रख्य यति प्रमुख्य गुरुराट् नः सौख्यदोस्त्वन्वहम् ॥ १५॥ प्रत्यूह व्यूह तुङ्ग क्षितिधर दलनात्युग्रदम्भोलि लीला- रम्भोज्जृम्भत्-कटाक्षेक्षण-जनित-जगत्षेम भूमाभिरामम् । श्रीमद्रामाङ्घ्रि-भक्तेतर-विषय-विरक्तीश-सुज्ञान-पुष्प- स्तोमाऽसामायितान्तःकरण-गुरुममुं चैमि भक्त्यारणं तम् ॥ १६॥ विद्वच्चको रोत्सव-कारि-चन्द्रं कर्मन्दि-वृन्दारक-वन्दितेन्द्रम् । निर्दोष-रन्ध्रं सु-गुणैक-सान्द्रं श्री-राघवेन्द्रं प्रणमाम्यतन्द्रम् ॥ १७॥ देवासां निवहे निरीक्ष्य हि मया सम्यत् परीक्ष्याऽश्रितो भक्त्या किं च वृतस्तुतोऽर्चित-नुतः श्री-राघवेन्द्रो हरिः । पश्चाच्छ्रीगुरु-मण्डलेऽपि च बहु-श्रान्त्या विचिन्त्याऽसकृत् माध्वाध्वर्य-धुरोद्धरो यति-पतिः श्रीराघवेन्द्रो वृतः ॥ १८॥ नियतेन्द्रिय-चेतस्याद् नियताद् भवतो गुरोः । न यतेऽन्ययतेर्गन्तुं नयतो मुक्तिमाश्रयम् ॥ १९॥ गुरुणां च तरूणां च न सङ्ख्या भूतले परम् । गुरुत्वं स्वस्तरुत्वं च मिलित्वेक्यं गतं त्वयि ॥ २०॥ आशां वैषयिकीं व्युदस्य वनिता-भू-स्नेह-पाशान् गुरू- राशा-व्याप्त-यशाः शशीव-च-वशी श्रीशार्चनैक-व्रतः । कीशोर्वीश-यतीश-रूप-मरुतो दासोऽहमेवं वदन् आशीर्भिः शमयेन्ममेषण-गणाख्याऽशीविषोत्वेषणम् ॥ २१॥ लोके पावन-गुर्वनुग्रह-बलाद् भू-पावनं जीवनं श्री-व्यासार्य-जयार्य-वादि-गुरुराजानाञ्जगत्यांश्रुतम् । तेषामन्तिकमेव गन्तु मधुना स्वान्तं नितान्तं भय- भ्रान्तं तद् गुरु-राघवेन्द्र-करुणाऽकोपारमेवाश्रये ॥ २२॥ प्रागाचीर्णमचीर्ण-शीर्ण-दुरितं तूर्णं हि यत् चूर्ण्येत् काम-क्रोध-मदादि-पावक-खर-ज्वालाश्च यच्छामयेत् चेतो-लग्न-कु-वासना-पटमपि छिन्नं विदध्यात्पुनः प्राश्मीहि प्रिय-राघवेन्द्र-यमिनां पादोदकं पावनम् ॥ २३॥ यत्पादोदक-सेवनात् कलियुगे सर्वावनात् पावनाद् रोगा भोग भयानकाः क्व नु गता वेगान्न तल्पक्ष्यते । व्यर्थं वैद्यक-शास्त्रमेतदोभयं पाश्चात्य-पौरस्त्यकं सोऽयं श्रीगुरु-राघवेन्द्र-यतिराट् पायादपायात्सदा ॥ २४॥ नष्ट-प्रायमपीह दुष्ट-कलिनैवास्तिक्य मुज्जीवयन् नास्तिक्यं तिरयंश्च दैवत-गुरु-द्वेषं च निश्येषयन् । शुष्यं पुष्कल-हूण-तुष्कर-मतैः सम्पर्कतो भक्तिसत्- केदारं कृति-सद्रसैः किसलयन् यच्छेद् गुरुः सत्फलम् ॥ २५॥ लोकानां फलकेऽलिके सतिलके येनाथवा मस्तके कस्तूरी-सदृशि प्रभाति च सति ध्वस्तास्समस्तापदः । भीताः किं च समीपमेव यमराड् दूता न चे युर्गुरोः पत्यञ्जोदित-पाप-भञ्जक-रजः-किञ्जल्क-पुञ्जः श्रियै ॥ २६॥ यस्यानुग्रह लेशतोऽत्र भुवनेऽसाध्यं न वै विद्यते व्यङ्गः पङ्गुरलं विलङ्घितुमपि स्यात्तुङ्ग शैलं पटुः । जल्पाको रस पाक वाञ्मुखरितो मूकोऽपि लोके कविः तं श्रीमद् गुरुराघवेन्द्र यमिनं वन्दे नरं दैवतम् ॥ २७॥ तापं लोकपते, शुचं क्षमयते, पापं हरत्याशु या द्राग् दौरीकुरुते च दुर्मतिमथो तन्द्रां करोति द्रुताम् । क्षेशं नाशयतेऽलिकेऽन्यथयते दुर्वर्णमालां विधेः गु-र्वङ्घ्र्य-यम्बुज मृत्तिका मम शिरः भे कृत्तिका स्यात्सदा ॥ २८॥ भालाभ्ये फलके नृणां तनुतरे मस्ते प्रशस्तेऽथमा यत्सन्धारणतः पलायन-परा भूताः प्रभूता आपि । भीता दूरत एव दुग्रह-गणा भाधा भिया धाविता भूयासुर्मम भूयसे गुरुपद-श्रीपांसवः श्रेयसे ॥ २९॥ विपन्नं विषण्णं प्रपन्नं प्रसन्नो रुदन्तं वदन्तं विदन्तं न किञ्चित् । लठन्तं शठं तं स्छुटं ते पदान्ते धराऽशूद्धराऽमुं हराऽघं गुरो मे ॥ ३०॥ आनर्थान्निहन्तुं पुमर्थान् प्रदातुं न यन्त्राणि मन्त्रा न तन्त्रं स्वतन्त्रम् । न तीर्थादि-सर्थं समर्थं तदर्थे तीर्थं यथार्थं गुरो प्रार्थये त्वाम् ॥ ३१॥ नृणामनल्प-सङ्कल्पगोचरार्थ-प्रदानतः । कल्पद्रु-कल्पान् वन्देऽहं राघवेन्द्र-गुरूत्तमान् ॥ ३२॥ व्यङ्गा व्याधि-हताः क्षीणाः यस्यापाङ्गावलोकनात् । मङ्गलान्याप्नुवन्तीडे तुङ्गा-तीरग-योगिनम् ॥ ३३॥ श्रीराघवेन्द्र-करुणा-तरणिर्भवाब्धौ श्रीराघवेन्द्र-चरणं शरणं सदा मे । श्रीराघवेन्द्र-गुरुणैव सनाथितोऽहं श्रीराघवेन्द्र-चरणाभरणं शिरो मे ॥ ३४॥ न राघवं गन्तु मघाद्रिरीशे न लाघवादिन्द्रमुपै तुमीस्से । तद्राघवेन्द्राङ्घ्रि-युगाप्त्युपायं श्रीराघवेन्द्रं गुरुमाश्रितोऽहम् ॥ ३५॥ इति महामहोपाध्याय पं. पण्ढरिनाथाचर्य गलगलि विरचिता श्रीराघवेन्द्रकरुणालहरि एम्ब आखण्ड काव्य समाप्ता । Encoded and proofread by Sudeep Dalbanjan
% Text title            : Raghavendra Karunalahari
% File name             : rAghavendrakaruNAlaharI.itx
% itxtitle              : rAghavendrakaruNAlaharI (paNDharinAthAcharya galagali virachitA)
% engtitle              : rAghavendrakaruNAlaharI
% Category              : deities_misc, gurudev, laharI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sudeep Dalbanjan
% Proofread by          : Sudeep Dalbanjan
% Indexextra            : (Kannada, Author)
% Latest update         : August 25, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org