श्रीराघवेन्द्रतन्त्रम्

श्रीराघवेन्द्रतन्त्रम्

॥ श्रीराघवेन्द्रतन्त्रम् ॥ अनुक्रमणिका प्रथमपटलः ॥ १॥ द्वितीयपटलः - मन्त्रविधिवर्णनम् ॥ २॥ तृतीयपटलः - राघवेन्द्रहृदयम् ॥ ३॥ चतुर्थपटलः - राघवेन्द्रपूजाविधानम् ॥ ४॥ पञ्चमपटलः - राघवेन्द्ररक्षाकवचम् ॥ ५॥ षष्ठपटलः - राघवेन्द्रबन्धमोचनकवचम् ॥ ६॥ सप्तमपटलः - राघवेन्द्राष्टोत्तरशतनामस्तोत्रम् ॥ ७॥ अष्टमपटलः - राघवेन्द्रसहस्रनामस्तोत्रम् ॥ ८॥ नवमपटलः - राघवेन्द्रगुरुदशस्तोत्राणि ॥ ९॥ अध्यायः १ राघवेन्द्राभयप्रदानं अध्यायः २ राघवेन्द्रापत्परिहरणस्तोत्रं (अश्वधाटि) अध्यायः ३ राघवेन्द्रदुःखहरणस्तोत्रं अध्यायः ४ राघवेन्द्रकरावलम्बनस्तोत्रं अध्यायः ५ राघवेन्द्रसंसारोद्धरणस्तोत्रं अध्यायः ६ राघवेन्द्रहृद्रोगहरणस्तोत्रं अध्यायः ७ राघवेन्द्र प्रतिकूल स्वानुकूलीकरणस्तोत्रं अध्यायः ८ राघवेन्द्रसन्तोषप्रदस्तोत्रं अध्यायः ९ राघवेन्द्रदारिद्र्यमोचनस्तोत्रं अध्यायः १० राघवेन्द्रगुरुकरुणासम्पादनस्तोत्रं दशमपटलः - राघवेन्द्रप्रदक्षिणागद्यम् ॥ १०॥ एकादशपटलः - राघवेन्द्रगाथास्तुतिः ॥ ११॥ द्वादशपटलः - राघवेन्द्रऋणमोचनस्तोत्रम् ॥ १२॥ त्रयोदशपटलः - राघवेन्द्रपादुकापूजाविधानम् ॥ १३॥ चतुर्दशपटलः - राघवेन्द्रक्षमापणस्तोत्रम् ॥ १४॥ पञ्चदशपटलः - राघवेन्द्रगुरुराजस्तवराजः ॥ १५॥ अथ श्रीराघवेन्द्रतन्त्रम् ।

प्रथमपटलः ॥ १॥

अथातः श्रीराघवेन्द्रतन्त्रं वक्ष्ये तवाज्ञया । कृष्णावधूतनामाऽहं कलौ प्रत्यक्षसिद्धिदम् ॥ १॥ नारायणं नमस्कृत्य रामकृष्णद्वयात्मकम् । मारुतित्रितयं प्राणं ततो ग्रन्थमुदीरयेद् ॥ २॥ श्रीराघवेन्द्रगुरुराट् सार्वभौमाङ्घ्रिरेणवः । सिद्धिं दिशन्तु मे वाचां रसार्णव इवाम्भसाम् ॥ ३॥ राघवेन्द्रगुरोः पादपद्मपांसुलुठन्मनाः । अप्पणाचार्यवर्योऽत्र सिद्धिं दिशतु कर्मणि ॥ ४॥ यः पूर्वं बोधयामास स्वप्ने मां विमुखं गुरोः । द्वात्रिंशद्वर्षपर्यन्तं दुराचाररतं सदा ॥ ५॥ प्रबोधितोऽप्यविश्वासादप्पणार्येण मूढधीः । नाकार्षं श्रीगुरौ भक्तिं पुनरासं कुकर्मणि ॥ ६॥ पुनः स्वप्ने समागत्य मन्त्रौ स व्यासकृष्णयोः । अप्पणाचार्योऽहमित्युक्त्वा सेवां चोपाविशद्गुरोः ॥ ७॥ अज्ञात श्रीगुरुस्तोत्रोऽप्येतत्प्रभृति विश्वसन् । गुरुस्तोत्रार्थमेवाहं पठन् गुरुमपूजयम् ॥ ८॥ एवं कतिपये काले निवृत्ते कोऽपि सद्यतिः । स्वप्ने यदाह गोप्यत्वात् तद्वक्तुं न हि साम्प्रतम् ॥ ९॥ तदारभ्यावधूयाहं विषयान् बान्धवान् गृहम् । कोशं पित्रार्जितं पुत्रान् पत्नीद्वयमपि प्रियम् ॥ १०॥ मनसापि परित्यज्य गृहादन्यत्र तस्थिवान् । उपास्य गुरुपादाब्जमवधूतस्ततोऽभवम् ॥ ११॥ लोके पित्रोर्यथा पुत्रे ततोऽपि प्रेमतोऽधिकात् । मां रक्षति गुरुस्तस्मात् स पिताऽहं च तत्सुतः ॥ १२॥ तत्राप्यनुसरन्ती मां दवतीयाभूद् द्वितीयका । गुरुराजानुमत्याऽहं स्वीचकार पतिव्रताम् ॥ १३॥ सुतं च जनयाञ्चक्रे तस्यां गुर्वत्यनुग्रहात् । कुटुम्बजीवनं तत्राप्यासीत्तस्य प्रसादतः ॥ १४॥ पदे पदे समागत्य साक्षात् स्वप्ने ब्रवीति यत् । गोप्यं वक्तुं न तद्युक्तं गुरुराजः कृपानिधिः ॥ १५॥ चोदितस्तेन वक्ष्यामि भक्तानुग्रहकाङ्क्षिणा । श्रीराघवेन्द्रतन्त्राख्यं ग्रन्थं प्रत्यक्षसिद्धिदम् ॥ १६॥ धनस्य देवता विष्णुर्जामदग्न्योऽखिलेश्वरः । स शङ्करशरीरस्थो यज्ञोच्छिष्टधनप्रदः ॥ १७॥ इत्यादि गुरुवाक्येन धनदं पठनादिदम् । गङ्गादिसर्वतीर्थानां लभते स्नानजं फलम् ॥ १८॥ वेदान्तभारतादीनां वेदानामपि साङ्गतः । पठने यत्फलं तच्च सकृत् पठनतो भवेत् ॥ १९॥ सर्वमङ्गलमाङ्गल्यं सर्वतापप्रणाशनम् । सर्वरोगप्रशमनमायुर्वर्धनमुत्तमम् ॥ २०॥ स्त्रीहत्या बालघातश्च गोहत्या ब्रह्मशासनम् । सर्वहत्याकृतं पापं क्षयं यात्यस्य पाठतः ॥ २१॥ स्तेयी गुर्वङ्गनागामी तथा विश्वासघातकः । अयोनिगामी यो मूढो ब्राह्मण्या सह सङ्गमी ॥ २२॥ कुयोनिमैथुनाद्दुष्टो दुष्टो दुर्बुद्धिचेतसः । नष्टस्वधर्मोऽप्येतस्य पठनात् शुद्धिमाप्नुयात् ॥ २३॥ विना पूजां विना ध्यानं विना न्यासं विना तपः । विना जपं विना यज्ञं विना योगं च भावनाम् ॥ २४॥ फलं तु लभते तेषां पठनादस्य नित्यशः । अत्यन्तचित्तनैर्मल्यकरं दुःस्वप्ननाशनम् ॥ २५॥ योगानन्दकरं ज्ञानभक्तिवैराग्यदायकम् । भूतप्रेतपिशाचोग्रब्रह्मराक्षसनाशनम् ॥ २६॥ गान्धर्वमारीकूष्माण्डबालग्रहविनाशनम् । स्वामिद्रोह पितृद्रोह पितृव्यद्रोहहारकम् ॥ २७॥ वश्याकर्षणविद्वेषमारणोच्चाटनप्रदम् । स्तम्भनं शत्रुवचसां प्रत्यर्थीकृतकर्मणाम् ॥ २८॥ यन्त्रतन्त्रप्रशमनं चोरव्याघ्रभयापहम् । राजबाधां क्षुद्रवाधां हरेत् कैवल्यदायकम् ॥ २९॥ हृद्रोगं कुक्षिरोगं च शूलापस्मारगुल्मजम् । एकाहिकं द्वाहिकं च त्र्याहिकं चतुराहिकम् ॥ ३०॥ अनेकज्वरसम्बाधकुष्ठशोधक्षयाधिकम् । आधयो व्याधयः सर्वे प्रत्यङ्गिरपुरोगमाः ॥ ३१॥ एतस्य पाठमात्रेण पलायन्तेऽतिदूरतः । प्रतिवादिजयं विद्यां धनं राज्यं पशून् सुतान् ॥ ३२॥ कन्यां पत्नीं च लभते लोकपूज्यत्वमाप्नुयात् । कृत्याभिचारगरलसर्वबन्धनिवारणम् ॥ ३३॥ प्रतिकूलवती भार्याप्यनुकूलवती भवेत् । मातापितृसुहृद्बन्धुनिन्दकः सर्वदूषकः ॥ ३४॥ अभक्ष्यभक्षको वाऽपि मुच्यते पातकात् ततः । एकावृत्त्या पठेदेतत् सर्वपापैः प्रमुच्यते ॥ ३५॥ सन्ततिं सम्पदं ज्ञानमारोग्यं चापि विन्दति । द्विरावृत्या पठोद्यस्तु भक्त्या स स्याज्जगद्वशी ॥ ३६॥ त्रिरावृत्त्या पठेद्यस्तु त्रिमासं गुरुसन्निधौ । लोकपूज्यत्वमाप्नोति राजाद्याः सेवका इव ॥ ३७॥ गुरोर्वारे च पुष्यार्के तन्महाराधनोत्सवे । यः पठेच्छृणुयाद्वापि गुरुराजप्रसादतः ॥ ३८॥ इह भुक्त्वाखिलान् भोगान् गुरुभक्तिं च दुर्लभाम् । ज्ञानं च हरिभक्तिं च तथा मोक्षमवाप्नुयात् ॥ ३९॥ नारी श्रुत्वा तु सौभाग्यं सौशील्यं पतिवश्यताम् । चिरमाङ्गल्यमाप्नोति न सपत्नी कदाचन ॥ ४०॥ अप्पणाचार्यकृतं स्तोत्रं पठित्वाऽदौ ततस्त्विदम् । पठेद्यदि फलं दद्यात् सद्य एव कलौ युगे ॥ ४१॥ कलौ युगे कल्पतरुप्रभावः उद्धारकर्ता कलितागसोऽपि । जीयाच्चिरं विष्णुपराग्रगण्यः श्रीराघवेन्द्रो गुरुराडुदारः ॥ ४२॥ इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे प्रथमपटलः सम्पूर्णः ।

द्वितीयपटलः ॥ २॥

श्रीराघवेन्द्रमन्त्रविधिवर्णनम् । अथ मन्त्रविधिं वक्ष्ये राघवेन्द्रार्यसद्गुरोः । जपेन यस्य मन्त्रस्य गुरुरिष्टं प्रयच्छसि ॥ १॥ हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन । गुरौ तुष्टे हरिस्तुष्टो गुरुद्वारा विमुक्तिदः ॥ २॥ उत्तमादुत्तमा सिद्धिः धर्ममोक्षादिषु स्फुटम् । तत्तस्मादुत्तमाचार्ये लब्धे नाऽतोऽवरं व्रजेत् ॥ ३॥ एकस्य शिष्यतां प्राप्य न तदाज्ञां विना समम् । अवरं वा व्रजेदुच्चगुणश्चेन्नैव दुष्यति ॥ ४॥ नराणां स्थूलदृष्टीनां शास्त्रज्ञानाधिकाः स्वतः । तदनुग्रहाच्च या विद्या स्वरूपोद्धारिणी भवेत् ॥ ५॥ गुरुप्रसादो बलवान् प्रसादात् श्रीहरेरपि । अपासितोऽपि भगवान् प्रसन्नो येन मुक्तिदः ॥ ६॥ यस्तारतम्यवेत्ता स्याद्गुरूणां देवतास्वपि । भक्तिमान् गुरदेवेषु तद्भक्तेषु च सिध्यति ॥ ७॥ अवज्ञाता गुरूणां च देवतानां न सिध्यति । प्रयाति च तमो घोरमित्यादिबहुवाक्यतः ॥ ८॥ गुरोरनुग्रहं मुख्यं सम्प्राप्य सुखवान् भवेत् । अतो भूलोकमध्येऽस्मिन् प्रत्यक्षफलदायिनः ॥ ९॥ राघवेन्द्रगुरोः स्तोत्रं मन्त्रं कवचमुच्यते । अप्पण्णार्येण कथितं लोकानुग्रहकाङ्क्षया ॥ १०॥ लक्ष्मीः सदीर्घाग्निघर्म साधरोष्ठाम्बरामृतम् । दत्तो वायुश्च हृदयं मनुरष्टाक्षरो गुरोः ॥ ११॥ षडङ्गन्यासः - विना तु हृदयं षड्भिः वर्णैरङ्गमुदाहृतम् । द्विरावृत्तैः मन्त्रपदैः षडङ्गान्यथवा विदुः ॥ १२॥ तैरेव तु द्विरावृत्तैः क्रमवत्क्रमतोऽथवा । तप्तकाञ्चनसङ्काशमक्षमालां कमण्डलुम् ॥ १३॥ दोर्ध्यां दधानं काषायवसनं राममानसम् । योगीन्द्रतीर्थवन्द्याङ्घ्रिं तुलसीदामवक्षसम् ॥ १४॥ ज्ञानभक्तितपःपूर्णं ध्यायेत् सर्वार्थसिद्धये । मन्त्रेणैव प्रकर्तव्यं दिशां बन्धश्च मोचनम् ॥ १५॥ लक्षाण्यष्टौ द्वादश वा पुरश्चर्यापरो जपेत् । अन्यो वाऽष्टोत्तरशतं सहस्रं प्रत्यहं जपेत् ॥ १६॥ कृताकृतं च होमादि परस्त्रीविमुखो भवेत् । ब्राह्मणाराधनं मुख्यं यथाशक्ति ऋणं विना ॥ १७॥ अङ्गन्यासे द्वितीये तु ध्यानं वक्ष्यामि सद्गुरोः । श्रीराघवेन्द्रोपरिपादकञ्जनिषेवणाल्लब्धसमस्तसम्पत् ॥ १८॥ देवस्वभावो दिविजद्रुमोऽयमिष्टप्रदो मे सततं स भूयात् । न्यासे तृतीये ध्यानं तु पूजापटल उच्यते ॥ १९॥ अग्निः सुदीर्घबिन्दुश्चेन्मनुरेकाक्षरोऽपरः । षड्दीर्घस्वरयुक्तेन तेनैव स्यात् षडङ्गकम् । निचृद्गायत्रीकानुष्टुप् छन्दसी एतदाद्ययोः ॥ २०॥ श्रीराघवेन्द्रः सकलप्रदाता स्वपादकञ्जद्वयभक्तिमद्ध्यः । अघाद्रिसम्भेदनदृष्टिवज्रक्षमा सुरेन्द्रोऽवतु मां सदाऽयम् ॥ २१॥ द्वे लक्षे वाऽष्टलक्षाणि पुरश्चरा जपो मतः । इमौ मन्त्रौ मन्त्रराजौ मुख्यमापन्निवारकौ ॥ २२॥ जयप्रदौ च वाक्सिद्धिप्रदौ पुत्रादिकप्रदौ । कलौ प्रत्यक्षफलदौ शीघ्रमेव धनप्रदौ ॥ २३॥ ऋणापहारको राजचोरपीडादिशामकौ । जनानुरागी लोकैश्च पूज्यो भवति जापकः ॥ २४॥ ज्ञानवान् वाक्पटुर्दैवशाली दीर्घायुरुत्तमः । क्षेमवान् कविताशास्त्रगोष्ठीषु च विचक्षणः ॥ २५॥ बलवान् रूपसम्पन्नो निर्मलात्मा सुभक्तिमान् । कलत्रपुत्रबन्धूनामानुकूल्यं च विन्दति ॥ २६॥ शत्रुवश्यं भवेत्तस्य सर्वसौभाग्यवर्धनम् । वेदान्तपारगः कीर्तिसम्पन्नः सुदयान्वितः ॥ २७॥ शान्तक्रोधो निर्मलात्मा सर्वदेवप्रियो भवेत् । वैराग्यवान् महात्यागी भोगी धर्मविचक्षणः । कन्यां लक्षणसम्पन्नां प्राप्नोति श्रियमुत्तमाम् ॥ २८॥ किमत्र बहुनोक्तेन गुरुराजकृपाबलात् । स भवेत् सिद्धसङ्कल्पः सर्वरोगविवर्जितः ॥ २९॥ भगवत् ज्ञानभक्तिभ्यां भुक्तिं मुक्तिं च विन्दति । स्नात्वा नित्याह्निकं कृत्वा वृन्दावन गतं गुरुम् ॥ ३० ॥ अथवा पादुकायां च यन्त्रे वाऽवाहयन् जले । अप्पणार्यकृतस्तुत्या स्नापयित्वा शुचिः स्थिरः ॥ ३१॥ जपेत् पश्चात् अप्पणार्यनाममन्त्रं जपेद्यथा । श्री अप्पणार्याय नम इत्थमष्टाक्षरो मनुः ॥ ३२॥ योगीन्द्रतीर्थवन्द्यानि तुलसीदामवक्षसम् । ज्ञानभक्तिः तपः पूर्णं ध्यायेत् सर्वार्थसिद्धये ॥ ३३॥ श्रीराघवेन्द्रगुर्वत्रिसंसक्तधिषणाग्रणीः । अप्पण्णार्यगुरुर्भूयादस्मदिष्टार्थसिद्धये ॥ ३४॥ अङ्गन्यासादिनास्यास्ति शतं वा दश वा जपेत् । मालादिगासनादीनि प्रसिद्धान्येव लोकतः ॥ ३५॥ अनेन गुरुराजस्य मन्त्रः शीघ्रेण सिध्यति । रां बीजं विलिखेत् पूर्वं त्रिकोणं त्वेकरेखया ॥ ३६॥ वर्तुलं वेष्टयित्वाऽथ पद्ममष्टदलं लिखेत् । तद्दलेषु क्रमान्मन्त्रवर्णानि विलिखेद्बुधः ॥ ३७॥ रेखाभ्यां भूपुरं द्वाभ्यामष्टदिक्षु श्रियं लिखेत् । त्रिभिरावरणैर्युक्तं पूजायन्त्रमिदं गुरोः ॥ ३८॥ साध्यार्णान् विलिखेत् धार्ये त्रिकोणे बीजसम्पुटे । एवं मन्त्रेण यन्त्रेण गुरुराजप्रसादजैः ॥ ३९॥ मनोरथैः समृद्धः स्यादनेके सन्ति साक्षिणः । स्वानुभूतं चाह साक्षादवधूतो गुरोः सुतः ॥ ४० ॥ सततविमलगात्रं सद्गुणानाममन्त्रं दुरिततृणलवित्रं दुर्मतध्वान्तमित्रम् । भज कभरबहित्रं मामकप्राणमित्रं गुरुमतुलचरित्रं नौमि मां पातु पुत्रम् ॥ ४१॥ इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे श्रीराघवेन्द्रमन्त्रविधिवर्णनं नाम द्वितीयपटलः सम्पूर्णः ।

तृतीयपटलः ॥ ३॥

श्रीराघवेन्द्रहृदयम् । नारायणं महालक्ष्मीं भार्गवं रघुनायकम् । कृष्णं व्यासं हनूमन्तं भीमं मध्वं गुरूनपि ॥ १॥ व्यासं नत्वाऽवधूतोऽहं वक्ष्यामि हृदयं गुरोः । नानाछन्दः सुसर्वार्थदायकं पापनाशकम् ॥ २॥ ध्यायामि श्रीराघवेन्द्रार्यरूपं भूलोकेऽस्मिन् सर्वसौभाग्यहेतुम् । भक्तत्राणायैव बद्धादरं मे चित्ते नित्यं संवसत्विष्टदैवम् ॥ ३॥ पुरा प्रह्लादनामाऽभूत् हिरण्यकशिपोः सुतः । यदर्थं श्रीमहावष्णुर्नृकण्ठीरवतां गतः ॥ ४॥ संहतः प्रहतश्चेति तस्यास्तां परिचारिणौ । त्रेतायां रामसेवार्थं विभीषणतयाऽजनि ॥ ५॥ तत्रापि चारौ तौ जातौ सन्धिकश्च प्रसन्धिकः । द्वापरेऽपि समं ताभ्यां समाविष्टश्च वायुना ॥ ६॥ भूभारक्षपणे विष्णोरङ्गतामाप्तुमेव सः । प्रतीपपुत्रतामाप्य बाह्लीकेष्वभवत्पतिः ॥ ७॥ कलौ गोपालकृष्णार्चा पूजायै व्यासमस्करी । भूत्वा निर्जित्य दुर्वादान् मध्वशास्त्रं प्रकाशयत् ॥ ८॥ ब्रह्ममानसपूजायामाविर्भूतां हृदम्बुजात् । श्रीरामार्यं च सीतार्च्यां प्रपूजयिषुरेषकः ॥ ९॥ श्रीराघवेन्द्रतीर्थाख्योऽवतीर्य यतिरूपतः । विवृत्या मध्वशास्त्रस्य लोकोपकृतिमातनोत् ॥ १०॥ अप्पण्णाचार्य कृष्णाख्यौ तत्रापि द्विजरूपतः । संहताहतौ जातौ शिष्यौ तस्य प्रियौ सदा ॥ ११॥ पुनश्च सत्यसन्धाख्यो मठान्तरनिवासिनीम् । अनर्चितां च सीतायाः प्रतिमामार्चयद्यतिः ॥ १२॥ विष्वक्सेनाहीशपुत्रावताराः षडिमे मताः । तस्य श्रीराघवेन्द्रगुरोः काम्यार्थदायिनः ॥ १३॥ अप्पण्णाचार्यरचितं स्तोत्रं सर्वेष्टसाधकम् । एतद्विना गुरोः पूजा स्तोत्रञ्चाष्टाक्षरी जपः ॥ १४॥ सेवा च व्यर्थतामेति न प्रसादो गुरोर्भवेत् । आदौ सकृद्वा तत्पाठादन्यत्सिद्ध्यति शीघ्रतः ॥ १५॥ सर्वेष्वपि च शिष्येषु अप्पण्णाचार्य एव सः । गुरोरतिप्रियो यस्मात् स्तुतिस्तेन समादृताः ॥ १६॥ अप्पणाचार्यसम्प्रोक्तं मूलं माला च वर्म च । यथायोगं यथाकालं तत्तदुक्तार्थसिद्धिदम् ॥ १७॥ श्रीराघवेन्द्रयतिनं ईप्सितार्थप्रदायिनम् । उपासते यथा भक्त्या तथा फलमवाप्नुयात् ॥ १८॥ सेवया परमहंसानामैहिकाऽमुष्टिकं भवेत् । ज्ञानं भक्तिं च वैराग्यं भुक्तिं मुक्तिं च विन्दति ॥ १९॥ इत्यादि वाक्यात् परमहंसाधीशमिमं गुरुम् । सेवेत सर्वथा मर्त्यः स्वरूपोद्धारकारणम् ॥ २०॥ स्तुवीत बहुभिः स्तोत्रैः प्रार्थयीत यथेप्सितम् । श्रीराघवेन्द्रं श्रितपारिजातं सीतारघूत्तंसपदाब्जचित्तम् । काषायवस्त्रं कमनीयवेषं काम्यार्थदातारमतीतदोषम् ॥ २१॥ जयतु जयतु राजा राजराजादिपूज्यो जयतु जयतु रम्ये रञ्जितानेकलोकः । जयतु जयतु भोगी भक्तभाग्यप्रदाता जयतु जयतु भूमा भूरि भूरि प्रदाता ॥ २२॥ जयतु जयतु बन्धुर्बन्धनच्छेदकारी जयतु जयतु मित्रं मीलितानेकवैरी । जयतु जयतु माता मान्यमान्यो महात्मा जयतु जयतु तातस्तापहर्ता नितान्तम् ॥ २३॥ गुरो तव पदाम्बुजं भवपयोधिनौकायितं महाजनपरम्पराभजनगोचरं भूतिदम् । भजामि भजतां नृणां बहुगदौघविध्वंसकं सुखप्रदमहर्निशं सुखसुखेन संसिद्धिदम् ॥ २४॥ मनो वसतु पादयोर्भवतु मे वचस्ते स्तुतौ त्वदीक्षणविधौ दृशा भवतु तेऽर्चनायां करौ । श्रुती तव गुणश्रुतौ भवतु मस्तकं ते नतौ प्रदक्षिणविधौ पदे गुरुवराश्रये ते पदे ॥ २५॥ वित्ताशया जगति वित्तादि सम्पदतिमत्तानिमानुपचरन् न्यात्तादिरस्म्यहमनुत्तानलुण्ठदपचित्ताविवेकमतिमान् । मत्ताङ्गना कठिनवृत्तानुबन्धिकुचदत्ताधरश्च तमिमं श्रीराघवेन्द्र दययाऽऽरादुपैहि मम धीराशु यच्छ सुमतिम् ॥ २६॥ तव सेवारतान् कांश्चित् भक्तान् प्रेषया मां प्रति । तेषां मनोरथं तात मया पुत्रेण पूरय ॥ २७॥ अथवा करुणासिन्धो मयि सन्निहितः सदा । पुत्रस्य मम वाक्येन सर्वसर्वेष्टदो भव ॥ २८॥ येनकेनाप्युपायेन दूने दुर्यशसा भुवि । माहात्म्यं मयि विन्यस्य कुरु मां लोकपूजितम् ॥ २९॥ युक्तायुक्तमजानानो याचे त्वां बालवद्गुरो । दाता त्राता दयालुस्त्वं यथेच्छसि तथा कुरु ॥ ३०॥ सर्वज्ञाय स्वतन्त्राय भक्तक्लेशविनाशिने । उदारचेतसे किं ते वदे मद्भारवाहिने ॥ ३१॥ आपादमौलिपर्यन्तं गुरूणामाकृतिं स्मरेत् । तेन विघ्नाः प्रणश्यन्ति सिद्ध्यन्ति च मनोरथाः ॥ ३२॥ इति श्री गुरुराजस्य हृदयं तदनुज्ञया । कृष्णावधूत कथितं गुरुवाक्यानुसारतः । सम्पाद्य सिद्धसङ्कल्पे भक्तिं मुक्तिं च विन्दति ॥ ३३॥ पठनाच्छ्रवणाद्वापि गुरुसान्निध्यकारणम् । किमत्रबहुना सर्वं गुरुराजप्रसादतः ॥ ३४॥ मोदं मे दिशतु गुरुः स राघवेन्द्रो दीनानां शरणमुदारचित्तवृत्तिः । भक्तानां हरिगुरुरूपदर्शकस्त्वं सुप्रेम्णा मयि मम तात सन्निधेहि ॥ ३५॥ इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे प्रत्यक्षसिद्धिदे श्रीराघवेन्द्रहृदयं नाम तृतीयः पटलः ।

चतुर्थपटलः ॥ ४॥

श्रीराघवेन्द्रपूजाविधानम् । अथ पूजाविधिं वक्ष्ये राघवेन्द्रार्यसद्गुरोः । यतस्तुष्टेन गुरुणा हरौ रुष्टोऽपि रक्ष्यते ॥ १॥ कृतनित्याह्निकः शुद्धः स्वस्थचित्तः सुखासनः । आदौ पूजाङ्गभूतं च जपं कुर्यात् गुरोन्मनोः ॥ २॥ प्राणानायम्य मन्त्रेण संस्मरेन्मूर्ध्नि तं गुरुम् । ऋषिछन्दो देवबीजशक्तिकीलान्यथोच्चरेत् ॥ ३॥ न्यासं ध्यानं जपं कृत्वा गुरुपादे समर्पयेत् ॥ ४॥ राघवेन्द्रगुरं ध्यायेत् काषायाम्बरधारिणम् । नीलाम्बुदसमाभासं भव्याङ्गं दीर्घबाहुकम् ॥ ५॥ रक्तराजीवपत्राक्षं ऊर्ध्वद्वादशपुण्ड्रकम् । बद्धपद्मासनं देवस्वभावं दण्डधारिणम् ॥ ६॥ आनाभिलम्बितस्वच्छतुलसीदलमालिकम् । ज्ञानमुद्राऽभयकरं प्रणतेष्टसुरद्रुमम् ॥ ७॥ (इति मन्त्रजपे ध्यानम्) ध्यायामि गुरुमब्जाक्षं महासाम्राज्यशोभिनम् । प्रसन्नमप्पणाचार्ययोगीन्द्राद्यैः परीवृतम् ॥ ७॥ (इति ध्यानम्) आवाहयामि त्वामत्र सर्वदेवैरधिष्ठितम् । शिष्यसङ्घैः परिवृतमिष्टदानोद्यतं प्रभुम् ॥ ८॥ (इत्यावाहनम्) गुरुराज महाराज द्विजराजादि सेवितः । स्वर्णपीठासनं तुभ्यं ददामि स्वीकुरु प्रभो ॥ ९॥ (इत्यासनम्) आगच्छ श्रीमहाराज सार्वभौम गुरूत्तम । यावत्पूजां करोम्यत्र तावत्सन्निहितो भव ॥ १०॥ (इति सन्निधापनम्) श्रीगुरो राघवेन्द्रार्य भक्तवत्सल भूसुर । त्वदीयैस्सकलैः साकमत्रस्थः सुस्थिरो भव ॥ ११॥ (इति स्थिरीकरणम्) जय श्रीगुरुराजेन्द्र राघवेन्द्र यतीश्वर । पूजां गृहीतुं भक्तस्य त्वं ममाभिमुखो भव ॥ १२॥ (इत्यभिमुखीकरणम्) स्मृतिमात्रेण सन्तुष्ट प्रसिद्ध करुणानिधे । प्रसन्नो भव ते पूजां यथाशक्ति करोम्यहम् ॥ १३॥ (इति प्रसन्नीकरणम्) अभिव्यक्तस्वस्वरूपज्ञानानन्द गरूत्तम । मया दत्तं गृहाणार्घ्यं नमः सात्विक सात्विक ॥ १४॥ (इत्यर्घ्यम्) भूलोकपावनार्थाय कृतावतरण प्रभो । पाद्यं गृहाण राजर्षे पवित्रं कुरु मां प्रभो ॥ १५॥ (इति पाद्यम्) सदा साक्षात्कृतश्रीश केशवादिकरूपिणे । नमस्तुभ्यं मया दत्तं गृहाणाचमनं गुरो ॥ १६॥ (इत्याचमनम्) प्रह्लादस्यावताराय कल्याणोन्मुखरूपिणे । मधुपर्कं गृहाणेदं राजराजाय ते नमः ॥ १७॥ (इति मधुपर्कम्) गुरुराज महोदार स्नाने पाने च सर्वदा । क्षीरप्रियस्य ते गव्यपयसा स्नापयाम्यहम् ॥ १८॥ (इति क्षीरस्नानम्) गुरुराघवराजेन्द्र त्वां दध्ना स्नापयाम्यहम् । सदा मे त्वत्प्रसादेन शान्ताः स्युर्दुरुपद्रवाः ॥ १९॥ (इति दधिस्नानम्) महाबलिमहाप्राज्ञ गुरुराज घृतप्रिय । घृतेन स्नापयामि त्वां पुष्टिर्मे वर्धतां बलम् ॥ २०॥ (इति घृतस्नानम्) मधुरं मधुरावारं मधुवाचं मधुव्रतम् । मधुना स्नापयामि त्वां लोके मां मधुरं कुरु ॥ २१॥ (इति मधुस्नानम्) शर्वरीश मनोहारिन् विषदोषनिवारण । शर्कराभ स्नापये त्वां शर्कराभं कुरुष्व माम् ॥ २२॥ (इति शर्करास्नानम्) बदरी कदली चूतफलैस्त्वां स्नापयाम्यहम् । सफलं कुरु मे सर्वं तारकस्त्वं गुरुप्रभो ॥ २३॥ (इति फलस्नानम्) शुद्धैः शुद्धिप्रदैः शान्तशीतलैः सुखदर्शन । शुद्धस्नानं कारयिष्ये शुद्धं मां कुरु ते गुरो ॥ २४॥ (इति शुद्धोदकस्नानम्) विधिबद्धसुतैलेन चम्पकाद्यैः सुगन्धिना । कारये मङ्गलं स्नानं कुरु त्वं मम मङ्गलम् ॥ २५॥ (इति मङ्गलस्नानम्) भूलोकमध्यसंसिद्धतीर्थपावनरूपिणम् । स्नापयामि सुतीर्थोत्थैः जलैर्मां पावय प्रभो ॥ २६॥ (इति तीर्थस्नानम्) स्वर्णप्रख्यं शशिप्रख्यं रविप्रख्यं सदम्बरम् । कौपीनं यतिराजेन्द्र सव्यानं च गृहाण भोः ॥ २७॥ (इति वस्त्रम्) ऊर्मिका मौक्तिकादि स्रक्कुण्डलादि सुभूषणम् । गृहाण गुरुराजेन्द्र कुरु मां लोकभूषणम् ॥ २८॥ (इति आभरणम्) द्वादशाप्यूर्ध्वपुण्ड्राणि गोपीचन्दनगन्धतः । विष्णुपादोदकं दास्ये साकं श्रीतुलसीदलैः । गृहाण विष्णुभक्तानां सम्प्रदायप्रवर्तक ॥ २९॥ (इति ऊर्ध्वपुण्ड्रादिकम्) गन्धकक्कोलकस्तूरी कर्पूरागरुकुङ्कुमैः । मिश्रितं चन्दनं तुभ्यं दास्यामि स्वीकुरु प्रभो ॥ ३०॥ (इति गन्धम्) कस्तूरितिलकं चूर्णहरिद्रातण्डुलैर्युतान् । गृहाण गुरुवर्य त्वमलङ्कारार्थमक्षतान् ॥ ३१॥ (इति अक्षतान्) मल्लिकामालतीमालां तुलसीदलमालिकाम् । केतकादीनि पुष्पाणि गृह्णीष्व गुरुसत्तम ॥ ३२॥ (इति पुष्पाणि) वनस्पतिरसोत्पन्नं सुरभिं सुरभिप्रिय । महाभोगिन्निमं धूपं गृहाण प्रीतिमान् भव ॥ ३३॥ (इति धूपम्) वर्तिद्वययुतं साज्यं दीपद्वन्द्वं तमोऽपहम् । निरन्तरप्रकाशोऽपि गृहाण कृपया मयि ॥ ३४॥ (इति दीपम्) मयाऽऽनीतं यथाशक्ति यथाकालं यथाधनम् । भक्ष्योपदंशदध्याज्यक्षीराद्यन्वितमोदनम् ॥ ३५॥ शुण्ठीरामठ जम्बीरलवणादिसमन्वितम् । तक्रं च चन्दनोशीर कर्पूर घुसृणान्वितम् ॥ ३६॥ पानीयं च हरौ वायौ निवेद्य त्वं गुरूत्तम । भुक्त्वा परिजनैः साकं तुष्टो भव पितर्मम ॥ ३७॥ (इति नैवेद्यं -३५,३६,३७) श्रीतेत्यादिदशस्तोत्रपठनं ते करोम्यहम् । साङ्गभोजनसाफल्यसिद्ध्यै स्वीकुरु सद्गुरो ॥ ३८॥ (इति दशस्तोत्रपाठम्) वरदौ भक्तलोकस्य गरदौ सकलापदाम् । उदकेन करौ पादौ प्रक्षालय यतीश्वर ॥ ३९॥ (इति हस्तप्रक्षालनम्) कुरुष्वाचमनं स्वामिन् मङ्गलार्थं मयाकृतम् । त्वन्त्रस्तवराजेन सहितं स्वीकुरु प्रभो ॥ कुरुष्वाचमनं स्वामिन् विष्णुपादोदकं पिब । गृहाण तुलसीपत्रं गुरुराज प्रसीद मे ॥ ४०॥ (इति पुनराचमनम्) अपरोक्षीकृतश्रीश विधिबन्धविवर्जित । कामचार मयाऽऽनीतं ताम्बूलं प्रतिगृह्यताम् ॥ ४१॥ (इति ताम्बूलम्) नीराजनाष्टकं स्वामिन् मङ्गलार्थं मयाकृतम् । त्वन्मन्त्रस्तवराजेन सहितं स्वीकुरु प्रभो ॥ ४२॥ राघवेन्द्रगुरुं राजसार्वभौमपदस्थितम् । रामचन्द्रप्रियं वन्दे रां बीजप्रतिपादितम् ॥ ४३॥ (इति प्रथमनीराजनम्) रामचन्द्रमहाभक्तं पापाटव्यग्निरूपिणम् । राघवेन्द्रगुरुं वन्दे द्वितीयाक्षरवेदितम् ॥ ४४॥ (इति द्वितीयनीराजनम्) घनाघनाभनीलाङ्गं घनरोगनिवारणम् । घोरतापत्रयहरं तृतीयावेदितं भजे ॥ ४५॥ (इति तृतीय नीराजनं) वेदान्त सारसर्वज्ञं वेदव्यासपदार्चकम् । प्रह्लादस्यांशसम्भूतं तुरीयार्णवगतं भजे ॥ ४६॥ (इति चतुर्थनीराजनं) द्रावयन्तं पिशाचादीन् द्राघिमामयहारकम् । द्राग्भक्तेष्टप्रदं वन्दे पञ्चमाक्षर वेदितम् ॥ ४७॥ (इति पञ्चमनीराजनम्) यथाशक्ति यथाभक्ति सेवकानां फलप्रदम् । यवनाद्यैश्च संसेव्यं वन्दे षष्ठप्रपञ्चितम् ॥ ४८॥ (इति षष्ठनीराजनम्) नन्दतीर्थकृतानेकग्रन्थभावप्रकाशकम् । अघविद्रावकं वन्दे सप्तमाक्षरवेदितम् ॥ ४९॥ (इति सप्तमनीराजनम्) मानदं मध्वभक्तानां शठानां मानहानिदम् । मान्यं विरोधिनां चापि वन्दे वसुनिरूपितम् ॥ ५०॥ (इत्य ष्टमनीराजनं) इति श्रीराघवेन्द्राष्टाक्षरमन्त्रात्मकस्तवम् । नीराजनेषु पठतां राघवेन्द्रः प्रसीदति ॥ ५१॥ सुवर्णरत्नखचितं पुष्पं पुष्पाञ्जलिं तव । श्रीराघवेन्द्रगुरुराट् ददामि स्वीकुरु प्रभो ॥ ५२॥ (इति पुष्पाञ्जलिः) जयशब्दैः पाहिशब्दैः गद्यैः पद्यैः प्रदक्षिणाम् । करोमि राघवेन्द्रार्य सन्तुष्टो भव सर्वदा ॥ ५३॥ (इति प्रदक्षिणा) गुरुराड्राघवेन्द्रस्य एकैकस्मिन् प्रदक्षिणे । सप्तद्वीपमहीयात्राफलं विन्दति मानवः ॥ ५४॥ बाहुभ्यामथ जानुभ्यां शिरसा मनसा हृदा । पञ्चाङ्गकं प्रणामं ते कुर्वेऽभीष्टार्थदायिने ॥ ५५॥ (इति नमस्कारान्) तव सेवारतान् कांश्चिद्भक्तान् प्रेषय मां प्रति । तेषां मरोरथं तात मया पुत्रेण पूरय ॥ ५६॥ अथवा करुणासिन्धो मयि सन्निहितः सदा । पुत्रस्य मम वाक्येन सर्वसर्वेष्टदो भव ॥ ५७॥ येन केनाप्युपायेन दूने दुर्यशसा भुवि । माहात्म्यं मयि विन्यस्य कुरुं मां लोकपूजितम् ॥ ५८॥ युक्ताऽयुक्तमजानानो याचे त्वां बालवद्गुरो । दाता त्राता दयालुस्त्वं यथेच्छसि तथा कुरु ॥ ५९॥ सर्वज्ञाय स्वतन्त्राय भक्तक्लेशविनाशिने । उदारचेतसे किं ते वदे मद्भारवाहिने ॥ ६०॥ ब्राह्मे मुहूर्ते चोत्थाय शयनावधि यत्कृतम् । मनोवाक्कायजनितं कर्म यद्वा शुभाशुभम् । तत्सर्वं प्रीतये भूयात् पादयोस्ते समर्पये ॥ ६१॥ (इति समर्पणम्) क्षणे क्षणेऽपराधांस्तान् मत्कृतान् वै सहस्रशः । क्षमस्व गुरुराजेन्द्र प्रसीद तनये मयि ॥ ६२॥ (इति क्षमापणम्) एवं यः कुरुते पूजां सकृद्वाऽपि बहिर्हृदि । गुरुराजप्रसादेन भुक्तिं मुक्तिं च विन्दति ॥ ६३॥ दिने दिने प्रकुर्वीत गुरुवारे विशेषतः । पूजाकालेऽथवा भक्त्या गुरुराजस्य सन्निधौ ॥ ६४॥ इदं च पूजापटलं पठतां सकलापदः । नश्यन्ति साङ्गपूजायाः फलं प्राप्नोत्यसंशयः ॥ ६५॥ इति श्रीमत्कृष्णावधूतपण्डितकृत श्रीमद्राघवेन्द्रतन्त्रे प्रत्यक्षसिद्धिप्रदे गुरुपूजाविधानं नाम चतुर्थः पटलः ॥

पञ्चमपटलः ॥ ५॥

श्रीराघवेन्द्ररक्षाकवचम् । अथ श्रीराघवेन्द्रार्यरक्षाकवचमद्भुतम् । वक्ष्यामि दंशितो येन क्षेमवान् विजयी भवेत् ॥ १॥ गुरुराजप्रेमपुत्रः तत्प्रसादपुरस्कृतः । कृष्णावधूतनामाऽहं तस्य सन्निधिकारकम् ॥ २॥ छन्दः त्रिष्टुप् समाख्यातं देवता गुरुराट् स्मृतः । मन्त्रन्यासः प्रकर्तव्यो ध्यानं वक्ष्यामि सद्गुरोः ॥ ३॥ करधृतलगुढं धृताक्षमालं दरविवृतेक्षणमम्बुजासनस्थम् । दरचलदधरं गुरुं दधानं वरमभयप्रणतेष्टदं स्मरामि ॥ ४॥ ॐ पूर्वेऽत्र मां रक्षतु राघवेन्द्रो मां दक्षिणेऽव्याद्घनपापहन्ता । अव्यात्प्रतीच्यामभयप्रदाता पातूत्तरस्यां दिशि शान्तिकर्ता ॥ ५॥ आग्नेयभागेऽवतु दिव्यतेजाः नैऋत्यभागेऽवतु दुष्टहन्ता । वायुव्यभागेऽवतु वज्रकायो मामीशभागेऽवतु सिद्धिदाता ॥ ६॥ पायात् शिखां मे श्रितरामपादः पायात् शिरो मे शशिशीतवृत्तिः । फालं ममाव्याद्दुरदृष्टहर्ता भ्रुवौ ममाव्याद्भवतापहर्ता ॥ ७॥ कूर्चं ममाव्यात् कुलशीलशाली नेत्रे ममाव्यान्नयनप्रदाता । कर्णौ ममाव्याद्बधिरत्वहारी गण्डौ ममाव्याद्गरदोषहारी ॥ ८॥ ओष्ठाधरौ मेऽवतु कष्टहारी नासां सदा मेऽवतु नादकारी । जिह्वां सदा रक्षतु वाक्प्रदाता दन्तान् सदा रक्षतु भक्ष्यदाता ॥ ९॥ पायात् सदा मे चिबुकं यतीशः । पायात् सदा मे वदनं व्रतीशः । कण्ठं नु कण्ठीरवभक्तवर्यः स्कन्धौ ममाव्याद्धृतपुष्पमालः ॥ १०॥ भुजौ ममाव्यादिह बाहुदाता करौ ममाव्याद्वरदानशूरः । हस्ताङ्गुलीन् मे मनुजापकोऽव्यात् वक्षो ममाव्याद्घनसंशयच्छित् ॥ ११॥ कुक्षिं ममाव्यादयमामयघ्नः पार्श्वे ममाव्याद्भवभीतिहर्ता । साहाय्यकर्ता मम पातु पृष्ठं कटिं सदा मे कनकाम्बरोऽव्यात् ॥ १२॥ मेहामयघ्नोऽवतु मे तु गुह्यं ऊरू सदा मेऽवतु वेगशीलः । मौनव्रती मेऽवतु जानुनी च जङ्घे ममाव्याज्जवनत्वदायी ॥ १३॥ गुल्भौ ममाव्याद्गुणवर्णनीयः पादौ ममाव्यात्परपीडितारिः । यद्यन्ममाङ्गं न मयोक्तमत्र तत्तत्समस्तं च दयालुरव्यात् ॥ १४॥ पितॄंश्च पत्नींश्च सुतांश्च बन्धून् पौत्रादिकान्मे सुतवत्सलोऽव्यात् । व्याघ्राऽहिभल्लूकवराहदन्ती लुलायसिंहांश्च सृगाल चोरान् ॥ १५॥ हत्वा च दुष्टान् कृमिवृश्चिकाण्ड- जातान् ममाव्याद्गुरुराजदण्डः । भिन्द्यात्पिशाचासुरयक्षरक्षो भूतग्रहादीन् गुरुपादरेणुः ॥ १६॥ अग्न्यम्बुशैलाशनिराजशत्रु- विषादितोऽव्याद्गुरुपादतीर्थम् । कुष्ठज्वरार्शःक्षयमुख्यरोगान् विनाशयित्वाऽवतु मृत्तिका सा ॥ १७॥ धान्यं धनं भूषणवस्त्रगेह- धैर्यं ममाव्याद्गुरुराघवेन्द्रः । राजारिनारीनरवश्यसिद्धिं मित्रादिकप्रेमकवित्वविद्याः ॥ १८॥ सर्वानुकूल्यं सकलार्थसिद्धिं दधातु मे सिद्धगणाग्रगण्यः । ज्ञानं सदाचारमुदारभावं चित्तेन्द्रियादीनि च पातु सूज्ञः ॥ १९॥ धर्मानुकूल्यं कृतपुण्यकर्म विवेकमित्यादि पिता ममाव्यात् । सङ्कल्पसिद्धिं मम वाक्यसिद्धिं जयं च सर्वत्र ददात्वभीष्टः ॥ २०॥ पुरश्च मेऽव्याद्वरदानकारी पश्चाश्च मेऽव्याद्बलदानकारी । ऊर्ध्वं ममाऽव्यात्परितापहारी अधश्च मेऽव्यात् स्थिवासकारी ॥ २१॥ दिवा प्रभाते निशि च प्रदोषे मध्यन्दिनेऽव्यान्मम जागरूकः । सर्वेषु कार्येषु च सर्वदा मां पायाद्गुरुर्मत्कृतसन्निधानः ॥ २२॥ इदं श्रीराघवेनद्रार्यकवचं रक्षकः परम् । त्रिकालं वा द्विकालं वा सकृद्वा पठितां दिनम् ॥ २३॥ कुष्ठादि रोगशमनं सर्वपीडाहरं शुभम् । कविताशास्त्रविज्ञानप्रदं वादिजयप्रदम् ॥ २४॥ सर्वसाध्वसरक्षार्थं ब्रह्मास्त्रसदृशं कलौ ॥ २५॥ वन्दे श्रीगुरुराजमुग्रतपसं सर्वारिदर्पापहं देवेन्द्राभसमृद्धसम्पदममुं भक्तिप्रियं सद्गुरुम् । भक्तत्राणनबद्धकङ्कणमसद्भाधाहरं स्वर्गवी- स्वारत्नस्वरगात्युदारहृदयं तं रिष्टतातिं प्रभुम् ॥ २६॥ इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे श्रीराघवेन्द्ररक्षाकवचं नाम पञ्चमपटलः सम्पूर्णः ।

षष्ठपटलः ॥ ६॥

श्रीराघवेन्द्रबन्धमोचनकवचम् । अथ श्रीराघवेन्द्रार्यकवचं मन्त्रनामजम् । कलौ प्रत्यक्षफलदं बह्वायासेन वै विना ॥ १॥ गुरोः पुत्रोऽवधूतोऽहं वक्ष्ये छन्दस्यनुष्टुभिः । रां बीजं च नमः शक्ती राघवेन्द्राय कीलकम् ॥ २॥ श्रितजनसुरधेनौ श्रीसुधीन्द्रार्यसूनौ दुरिततिमिरभानौ दुर्दशायाः कृशानौ । विरचितभयहानौ वामहस्तेऽत्र जानौ मम वसतु यतीन्द्रे मानसं राघवेन्द्रे ॥ ३॥ ॐ श्रीं श्रीराघवेन्द्रार्यगुरुराजः शिरोऽवतु । ॐ रां राममहावीराराधकोऽवतु सोऽलिकम् ॥ ४॥ ॐ घं घनतरापत्तिहरणो रक्षतु भ्रुवौ । ॐ वें वेङ्कटशैलेशपूजकोऽवतु चाक्षिणे ॥ ५॥ ॐ द्रां द्रावयितारातिः कर्णाववतु सन्ततम् । ॐ यं यतीश्वरो नासां ॐ नं नम्यः कपोलकौ ॥ ६॥ ॐ मं मान्नोऽवताज्जिह्वां ॐ मं मस्करभृद्गलम् । ॐ नं नारायणप्रेष्ठः स्कन्धदेशं सदाऽवतु ॥ ७॥ ॐ यं यक्षादिभयहा वक्षः पातु निरन्तरम् । ॐ द्रां द्राक् छिन्नसर्वारिबन्धनोऽव्याद्भुजौ सदा ॥ ८॥ ॐ वें वेपितशत्रुश्च हस्तौ रक्षतु सर्वदा । ॐ घं घोरविषबाधापरिहर्ताऽवतूदरम् ॥ ९॥ ॐ रां राजादि निर्बन्धछेदकृत्पातु पार्श्वयोः । ॐ श्रीं श्रीहनुमद्भक्तः कटिं मध्यं च रक्षतु ॥ १०॥ ॐ श्रीं श्रीलजनस्तुत्यो गुह्यं रक्षतु शाश्वतम् । ॐ रां राष्ट्रक्षेमकरो ऊरू रक्षतु जानुनी ॥ ११॥ ॐ घं घनाङ्गो जङ्घे च ॐ वें वेदान्तवेदकः । ॐ गुल्मौ रक्षतु पादौ तु ॐ द्रां द्रुतगतिप्रदः ॥ १२॥ ॐ यं यमनिधिः पृष्ठं ॐ नं चित्तं नताखिलः । ॐ मं मातृदोषघ्नः सर्वाङ्गान्यपि रक्षतु ॥ १३॥ मालामन्त्र स्तोत्रं - ॐ नमः श्री राघवेन्द्राय नमो भगवते रां राघवभक्ताय, घं घनानन्दाय, वें वेतालादि भयहारिणे, द्रां द्राक् प्रपन्नाय, यं यक्षरक्षोविनाशाय, नं नामसङ्कीर्तनतुष्टाय, मं महामोदप्रदाय स्वाहा । स्मरणमात्रसन्निहितायऽमित्रान्मित्रीकुरु मित्रीकुरु, वौषढाकृष्टाष्टैश्वर्यचर्याय परमन्त्र-तन्त्र-पाशादि बन्धं छिन्धि छिन्धि । हुँ भक्तवज्रकवचरूपाय, परकृतशस्त्रास्त्रविश्वचेष्टकं भञ्जय भञ्जय । वषट् प्रकाशरूपाय, मम सुदैवं प्रकाशय प्रकाशय । फट् दण्डधराय, श‍ृङ्खलाबन्धनं स्फोटय स्फोटय । भेदय, भेदय, मां रक्ष, मां रक्ष, सर्वविपदः शमय, शमय सर्वसम्पदः सम्पादय सम्पादय हुं फट् स्वाहा ओम् ॥ १४॥ ॐ एतच्छ्रीराघवेन्द्रार्यगुरुराजः कृपानिधिः । मालामन्त्रात्मकं स्तोत्रं सपादद्विशतार्णकम् ॥ १५॥ मन्त्रराजात्मकं बन्धमोचकं कवचं शुभम् । शत्रुकृत्यादिशमनं त्रिवारं पठतां दिने ॥ १६॥ यथायोग्यं सप्तकं वा द्विसप्तकमथाऽपि वा । त्रिसप्तकं मण्डलं वा त्रिपक्षं वा विचक्षणः ॥ १७॥ ताम्रपत्रे चन्दनेन परिलिप्तेऽष्टकोणकम् । पद्मं लिखित्वा तत्पत्रे मन्त्रमष्टाक्षरं गुरोः ॥ १८॥ अनुलोमाल्लिखित्वाऽथ तद्वहिश्च विलोमतः । लिखित्वा कर्णिकायां तु रां बीजं विलिखेत् गुरोः ॥ १९॥ विलिखेत् रां चतुर्दिक्षु विलिखेन्मं विदिक्षु च । आवाह्य पूजयेत् तत्र राघवेन्द्रगुरुं तथा ॥ २०॥ हनूमन्तं राघवं च प्रज्वाल्य घृतदीपकम् । वर्तिकाष्टकसंयुक्तं गन्धपुष्पाक्षतादिभिः ॥ २१॥ सम्पूज्य फलपानीयैर्नित्यमष्टोत्तरं शतम् । पश्चिमाभिमुखो जप्त्वा मुच्यते सर्वबन्धनात् ॥ २२॥ अप्पण्णार्यस्तवं पूर्वं ततश्चाष्टाक्षरं मनुम् । अष्टोत्तरं जपित्वाऽथ समन्त्रकवचं जपेत् ॥ २३॥ प्रदोषेह्यर्थरात्रे वा श‍ृङ्खलादिकबन्धतः । मुच्यते नात्र सन्देहो गुरुराजप्रसादतः ॥ २४॥ प्रजपेत् पूर्ववन्नित्यं मालामन्त्रार्णसङ्ख्यया । महानिर्बन्धतो मुच्येदवधूतवचो यथा ॥ २५॥ सकृद्वा यः पठेन्नित्यं प्रदोषे गुरुसन्निधौ । मार्गेऽ।रण्ये द्विषन्मध्ये चोरसर्पादि बन्धने ॥ २६॥ प्रभाते वा निशायां वा मुच्यते सर्वतो भयात् । सन्ततिं सम्पदं सौख्यं लभते तत्प्रसादतः ॥ २७॥ श्री राघवेन्द्रं धृतदृष्टदण्डं काषायवस्त्रं कमनीयवेषम् । भजेत् सदा भक्त भयौघनाश- बद्धादरं रामकपीशभक्तम् ॥ २८॥ इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे श्रीराघवेन्द्रबन्धमोचनकवचं नाम षष्ठपटलः सम्पूर्णः ।

सप्तमपटलः ॥ ७॥

श्रीराघवेन्द्राष्टोत्तरशतनामस्तोत्रम् । सङ्कल्पद क्रमः - ॐ अस्य श्रीराघवेन्द्रगुरुमन्त्रराजात्मक अष्टोत्तरशतनामामृतस्तोत्रस्य श्रीकृष्णावधूतो ऋषिः, अनुष्टुप्छन्दः, श्रीराघवेन्द्रगुर्वन्तर्गतमनुनामक- भारतीरमणमुख्यप्राणान्तर्गत सीतापतिश्रीरामचन्द्रो देवता । श्रीं बीजं, नमः शक्तिः, राघवेन्द्राय इति कीलकम् । अथ करन्यासः १) ॐ श्रीं अङ्गुष्ठाभ्यां नमः, २) ॐ राघवेन्द्राय तर्जनीभ्यान्नमः ३) ॐ नमः मध्यमाभ्यां नमः, ४) ॐ श्रीं अनामिकाभ्यान्नमः, ५) ॐ राघवेन्द्राय कनिष्ठिकाभ्यां नमः, ६) ॐ नमः करतलकरपृष्ठाभ्यां नमः । अथ अङ्गन्यासः १) ॐ श्रीं हृदयायनमः, २) ॐ राघवेन्द्राय शिरसे स्वाहा, ३) ॐ नमः शिखाय्क् वषट्, ४) ॐ श्रीं कवचाय हुं, ५) ॐ राघवेन्द्राय नेत्राभ्यां वौषट्, ६) ॐ नमः अस्त्राय फट् । अथ ध्यानम् । भव्याकारो भावितेष्टार्थदाता वामे जानौ वामहस्तं दधानः! ज्ञानाभीतीज्ञानवान् दक्षहस्तीरन्ता चित्ते राघवेन्द्रो मम स्यात् ॥ श्रीराघवेन्द्रगुर्वन्तर्गत मनुनामक भारतीरमण मुख्यप्राणान्तर्गत सीतापति श्रीरामचन्द्रप्रेरणया श्रीरामचन्द्रप्रीत्यर्थं गुरुमन्त्रराजात्मक अष्टोत्तरशतनामस्तोत्रपारायणं करिष्ये । ओमित्येकाक्षरं ब्रह्म यद्ग्रन्थे सम्प्रकाशितम् । तस्मै श्रीराघवेन्द्रार्य गुरवेऽस्तु नमो मम ॥ १॥ नमस्ते श्रीरामचन्द्राङ्घ्रिपूजासम्पादिते शतम् । घनाभाङ्गाय वेदार्थप्रकाशोद्योगशालिने ॥ २॥ द्रागभीष्टप्रदात्रे च यतिवर्याय ते नमः । नाना दुःखविनाशाय नमो मानधनप्रिय ॥ ३॥ श्रीप्रदात्रे नमस्तुभ्यं राजवर्यादिसेवित । घनसंसारसौख्याय वेपितप्रतिवादिने ॥ ४॥ द्राक्षामधुरभाषाय नमस्तुभ्यं यशःप्रद । नमतां सौख्यदात्रे च मानदाय नमो नमः ॥ ५॥ श्रीपतिप्रेष्ठभक्ताय नमस्ते राजपूजित । घनरोगविनाशाय वेङ्कटेशार्चिने नमः ॥ ६॥ द्रावितानेकभूताय यशोदातनयार्चक । नादरूपपरब्रह्मोपासिने मानिने नमः ॥ ७॥ श्रीनाथचरणाम्भोजबम्भारायितमानस । राष्ट्रागतजनस्तोम समीहितफलप्रद ॥ ८॥ घनरोगतृणध्वंसदवानलपदामृत । वेदशास्त्रसुधाम्भोधि मन्थनज्ञानमन्दर ॥ ९॥ द्राघिमाभावितीभूतभक्तसेवेष्टदायिने । नमस्ते याचकव्रातचातकामृततेजसे ॥ १०॥ नरनारीकदम्बोग्रविपत्तिविनिवारिणे । महादयारसासारसागराय नमो नमः ॥ ११॥ श्रीमद्भिः सेव्यमानाय राष्ट्रक्षेमकराय च । घनाघनाङ्गलोलाय वेदव्याख्याविनेदिने ॥ १२॥ द्राविताऽनेकपापाय यानाद्यैश्वर्यशालिने । नागारिवाहभक्ताय मानदात्रे नमो नमः ॥ १३॥ श्रीरामार्च्यापूजकाय रामानासक्तचेतसे । घनापत्परिहाराय वेपितारातये नमः ॥ १४॥ द्राक्षामधुकटाक्षाय यदुनाथपदार्चिने । नमज्जनाघनाशाय मान्यमान्याय ते नमः ॥ १५॥ श्रीव्यासराजरूपेण कृष्णार्चार्चक ते नमः । राशीकृताऽघतूलाग्निनिभदर्शन ते नमः ॥ १६॥ घातुकानां घातुकाय वेदविद्याविशारद । द्राघीयः करुणापाङ्गैर्नमस्ते भक्ततोषिणे ॥ १७॥ यथाशक्त्यप्पणार्योक्तस्तोत्रपाठप्रमोदिने । नरनारीनृपेड्याय महादारिद्र्यनाशिने ॥ १८॥ श्रीसुधीन्द्रकरम्भोजसञ्जातवरसूनवे । रावितानेकदुर्वादिद्वीपिने घनचेतसे ॥ १९॥ वेश्मत्रय निवासाय द्राक् प्रसन्नाय ते नमः । यमिने नरसिंहाङ्घ्रिनिरताय ममताजुषे ॥ २० ॥ श्रीप्रह्लादावताराय राजद्वाणीविलासिने । घटनाननुरूपस्याप्यर्थस्य घटकाय ते ॥ २१॥ वेदवेदाङ्गवित्ताय द्रावयन्मायिवादिने । यानारोहणसन्तप्तमुद्रास्थापनकारिणे ॥ २२॥ नमो नम्यपदाब्जाय मायाविमदहारिणे । श्रीतुङ्गातीरवासाय तुभ्यं राजनताय च ॥ २३॥ घनसाररजोरक्तभद्रश्रीरससेविने । वेतालभयनाशाय द्रागनुग्रहकारिणे ॥ २४॥ यक्ष्मकुष्ठादिहरणपादतीर्थाय ते नमः । नामसङ्कीर्तनादेव पुरःसन्निहिताय च ॥ २५॥ महाजनशिरःस्थानसमालालितपादुक । श्रीसर्वतन्त्रस्वातन्त्र्यशालिने राजलक्ष्मणे ॥ २६॥ घनविघ्नविनाशाय बद्धकङ्कण ते नमः । वेगेन भक्तकार्याणां साधकाय नमोऽस्तु ते ॥ २७॥ द्रावयद्वादिजिह्वाय यशोव्याप्तदिशे नमः । नानाजातिजनस्तोमस्तूयमानपदाम्बुज ॥ २८॥ नमो मार महावीर मार्गणामृग्यचेतसे । श्रीमध्वशास्त्रसट्टीकाव्याख्याकौशल्यशालिने ॥ २९॥ राजच्छ्रीकाय धर्माभितप्ततापापहारिणे । वेलां वेलामुपागम्य भक्तानां कार्यसाधक ॥ ३०॥ द्राक्षापाकेन सकलग्रन्थव्याकृतिकारिणे । यथेष्टधनधान्यादिदात्रे नयविशारद ॥ ३१॥ मन्त्रालयमहाक्षेत्रवृन्दावननिवासिने । श्रीसत्यसन्धरूपेण श्रीसीताप्रतिमार्चक ॥ ३२॥ राजत्तुङ्गातटभ्राजन्महिषीक्षेत्रवासिने । धर्मद्युतिनवज्योतिद्योतिताम्बरधारिणे ॥ ३३॥ वेतण्डमत्तमायीन्द्र मृगेन्द्रद्रापितापहन् । यक्षरक्षोभयध्वंसिन् नमो नारायणप्रिय ॥ ३४॥ मायामोहितचित्तानां भक्तानां ज्ञानदायिने । नमः श्रीहनुमद्भीम मध्वात्मकहरिप्रिय ॥ ३५॥ राजपूजितपाटीरपादुकाय घनाकृते । वेशन्तीकृतसद्भक्तसंसाराम्बुधये नमः ॥ ३६॥ द्राविताखिलभक्तौघनानादुःखाय ते नमः । यमदूतभयत्रात्रे नानाभयविनाशिने ॥ ३७॥ मातृतः पितृतोप्युच्चैः भक्तकामदुघे नमः । इति श्रीराघवेन्द्रार्यगुरुराजमहात्मनः ॥ ३८॥ नाम्नामषाटोत्तरशतं सचतुष्टयमुत्तमम् । अष्टाक्षरमहामन्त्रवर्णानुक्रमवर्णितम् ॥ ३९॥ गुरुराजात्मभूकृष्णावधूत कविनोदितम् । गुरुराजेन कृपया सप्रसादं पुरस्कृतम् ॥ ४० ॥ पठतां जपतां सर्वकामदं गुर्वनुग्रहात् । नश्यन्ति ज्वरमोहाद्याः चतुर्दशदिनावधि ॥ ४१॥ इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे सप्तमपटले अष्टोत्तरशतनाम स्तोत्रं सम्पूर्णम् ।

अष्टमपटलः ॥ ८॥

श्रीराघवेन्द्रसहस्रनामस्तोत्रम् । (अकारादि क्षकारान्त) सोन्दूर श्रीकृष्ण अवधूतविरचितं श्रीराघवेन्द्रसहस्रनामस्तोत्रम् ॥ श्रीराघवेन्द्र गुरुभ्यो नमः । अथ श्रीराघवेन्द्रार्य नामानां साहस्रमुत्तमम् । प्रवक्ष्याम्यवधूतोऽहं सद्यः प्रीतिकरं गुरो ॥ १॥ अकारादि क्षकारान्त वर्णानुक्रमयोगतः । क्वचिद्रूढ्या च योगेन क्वचिल्लक्षणया क्वचित् ॥ २॥ अन्तर्यामी हरिप्राणाधिष्ठानातिशयत्वतः । प्रह्लादावतारत्वाच्च घटतेऽत्र न संशयः ॥ ३॥ छन्दस्सु - द्विरावृत्तैर्मन्त्रपदैरङ्गं छन्दोऽप्यनुष्टुभः । श्री मनो राघवेन्द्राय बीजं शक्तिश्च कीलकम् ॥ ४॥ ध्यानम्- भव्याकारो भावितेष्ठार्थदाता वामे चासौ वामहस्तं दधानः ॥ ५॥ ज्ञानाभीती ज्ञानवान् दक्षहस्तेरन्ता चित्ते राघवेन्द्रो मम स्यात् ॥ ६॥ ॐ अथातो ब्रह्मजिज्ञासेत्यादि सूत्रार्थयोजनाम् । यस्तन्त्रदीपिकां चक्रे तं नौम्यज्ञानभञ्जनम् ॥ ७॥ अणिमाद्यष्टसिद्धिदमनणुज्ञानसम्पदम् । अमोघशक्तिमनघमपरोक्षीकृताच्युतम् ॥ ८॥ अखिलाभीष्टदं चात्मविदमायुःप्रवर्धनम् । आनन्दतीर्थसच्छास्त्रटीकाभावप्रकाशकम् ॥ ९॥ आनन्दसान्द्रमारब्धकार्यान्तगमनक्षमम् । आकुलीकृतदुर्वादिवृन्दमाकारबन्धुरम् ॥ १०॥ आशुप्रसन्नमासन्नभक्तकामसुरद्रुमम् । आध्यात्मरतमाचार्यमासमुद्रैकसद्गुरुम् ॥ ११॥ आत्मारामार्चनासक्तमार्यमाप्ततमं मम । इन्द्रियोत्पन्नदोषघ्नमिन्द्रवत्त्यागभोगिनम् ॥ १२॥ प्रमाणमिष्टदातारमीषणात्रयवर्जितम् । उग्ररक्षःपिशाचघ्नमुन्मादहरमुत्तमम् ॥ १३॥ उदारचित्तमुद्धारकमुत्पातहारकम् । उपेक्षितकुवादीन्द्रमुपकारपरायणम् ॥ १४॥ ऊरुदघ्नीकृतापारभवसागरमूर्जितम् । ऊष्महर्तारमृक्षाधिपतिशीतलदर्शनम् ॥ १५॥ ऋजुस्वभावमृद्धोरुमाहात्म्यमृजुमासम् । एडमूकसुवाग्दात्रे नमस्ते चैकभाषिणे ॥ १६॥ एकान्तभक्तायैश्वर्यदात्रे चैक्यमतच्छिदे । ओतत्वेत्याद्यनुव्याख्यासुधाभावार्थदर्शिने ॥ १७॥ ओङ्कारजपशीलाय सदोमात्मेत्युपासिने । औषधोक्त्यापि भक्तानामामयाधिकहारिणे ॥ १८॥ अंसात्ततुलसीमालमंहोनाशकदर्शनम् । अस्तङ्गतारिषड्वर्गमर्थिमन्दारकं भजे ॥ १९॥ कलिदोषविनाशाय कलौ सद्यः फलप्रदः । कमलापतिभक्ताय कुण्ठकुण्ठत्वभञ्जिने ॥ २०॥ करालनरसिंहोग्रक्रोधशामकमूर्तये । कपोलशङ्खचक्राङ्कशालिन् कपटवर्जित ॥ २१॥ कल्पभूरुहरूपाय कलभौधाभकीर्तये । नमः कमण्डलुं धर्त्रे करे दण्डधराय ते । कामेषूणामलक्ष्यश्च कामिनीकामनोज्झितः ॥ २२॥ कामारिश्लाघ्यसद्वृत्तः कामदः कामरूपधृत् । कानीनभाववेत्ता च कालज्ञः कालसाधकः ॥ २३॥ कापालिकमतध्वंसी काशिकाकाशमानवाक् । कान्तारभीतिहा कान्तिकान्तः कापथवर्जितः ॥ २४॥ काषायाम्बरधारी च काश्मीरद्रवचर्चितः । किरातभीतिसंहर्ता किलासित्वविनाशकः ॥ २५॥ कीनाशभयहा कीटभयहा कीर्तिमण्डितः । कुकूलाभः पिशाचानां कुष्ठरोगनिवारणः ॥ २६॥ कुशासनस्थितः कुक्षिपूरकश्च कुतूहली । कुत्सिताचाररहितः कुमारसुखवर्धनः ॥ २७॥ कुशलश्च कुलीनश्च कुशासनविवर्जितः । कुम्भघोणकृतावासः कुतोऽपि भयभञ्जनः ॥ २८॥ कूपपातकपापघ्नः कूर्मासनपरिग्रहः । कूष्माण्डादि प्रतिभयः कीर्तिदः कीर्तनप्रियः ॥ २९॥ केशवाराधकः केतुदोषघ्नः केवलेष्टदः । केतकीकुसुमासक्तः केसरद्रवलोलुपः ॥ ३०॥ कैवल्यदाता कैङ्कर्यतुष्टश्रीशश्च कोशदः । कालानुसारदाता च कोशी कोशातकीप्रियः ॥ ३१॥ कोलाहलविरोधी च कौपीनपटलाञ्छनः । कम्बुध्वनिप्रियः कम्बुग्रीवः कम्पविवर्जितः ॥ ३२॥ कृपीटयोनिवर्चस्थः कृतभक्तार्तिनाशनः । कृत्यासनः कृतज्ञश्च कृत्याचेष्टकभञ्जनः ॥ ३३॥ कृपामहोदधिः कृष्णध्यानासक्तः कृशप्रियः । कस्तूरीतिलकासक्तः कृत्तसंसारसाध्वसः ॥ ३४॥ (त्वमेव शरणं भूया नान्यः कश्चनविद्यते)॥ ३५॥ खगेशवाहभक्ताय खरपातकहारिणे । खदोषहर्त्रा खपुरप्रियाय खलमारिणे ॥ ३६॥ खाद्यप्रियाय मे भूयात् खलप्वा भवता गतिः । खिलहीनः खेदहन्ता खिन्नचित्तप्रमोददः । खेदहा खुरणोघ्नश्च खञ्जदुःखनिवारणः ॥ ३७॥ खोडत्वनाशको भूयादस्मदिष्टार्थसिद्धये ॥ ३८॥ गरघ्नाद्गणनम्याङ्घ्रेर्गरुत्मद्वाहसेवकात् । गुरोरन्यत्र मे चित्तं न गच्छतु गुणार्णवात् ॥ ३९॥ गलात्ततुलसीमालो गर्भदो गर्भदुःखहा । गर्तहारी गजगतिर्गतदोषो गतिप्रदः ॥ ४०॥ गदाधरो गदहरो गर्वहा गरिमालयः । गभस्तिमान् गह्वरस्थो गतभीर्गलिताहितः ॥ ४१॥ गताघो गर्जितारातिर्गदयित्नुर्गवां प्रियः । ग्रस्तारिर्ग्रहदोषघ्नो ग्रहोच्चाटनतत्परः ॥ ४२॥ गीष्पत्याभश्च गायत्रीजापको गायनप्रियः । ग्रामणीः ग्राहको ग्राही ग्रावग्रीवमतच्छिदः ॥ ४३॥ ग्रामक्षेमकरो ग्राम्यभयहा ग्राहभीतिहा । गात्रक्षेमकरो गामी गिरिसारनिभाङ्गकः ॥ ४४॥ गतभाविजनिर्गम्यो गीर्वाणावासमूलभूः । गुणी गुणप्रियो गुण्यो गुहावासो गुरुप्रियः ॥ ४५॥ गुडप्रियो गुच्छकण्ठो गुल्मच्छेत्ता गुणादरः । गुप्तगुह्यो गूढकर्मा गुरुराजश्च गूहितः ॥ ४६॥ गेहदाता गेयकीर्तिर्गैरिकारञ्जिताम्बरः । गृह्यक्षेमकरो गृह्यो गृहगो गृहवर्धनः ॥ ४७॥ गोदावरीस्नानरतो गोपबालकपूजकः । गोष्पदीकृतसंसारवार्धिर्गोपुररक्षकः ॥ ४८॥ गोप्यमन्त्रजपो गोमान् गोकर्णी गोचराखिलः । गोग्रासदो गोत्ररत्नं गोस्तनीनिभभाषणः ॥ ४९॥ गोप्ता गौतमशास्त्रज्ञो गौरवी गौरवप्रदः । गन्ता गञ्जितशत्रुश्च गन्धर्वो गन्धवर्धनः ॥ ५०॥ गन्धी गन्धवतीसूनुग्रन्थविद्गन्धवाहवित् । गन्धर्वाभो ग्रन्थिभेदी ग्रन्थकृद्ग्रन्थपाठकः ॥ ५१॥ गण्डशैलप्रियो गण्डमालभिद्गण्डकीरतिः । गङ्गास्नायी च गाङ्गेयप्रदो गाण्डीविमित्रवित् ॥ ५२॥ घटनाननुरूपस्याप्यर्थस्य घटको घनः । घर्महर्ता घनप्रीतिर्घनाघननिभाङ्गभाः ॥ ५३॥ घनसारद्रवासिक्तकायो घर्घरिकाङ्कनः । घ्राणतर्पणचार्वङ्गो घृणावान् घुसृणप्रियः ॥ ५४॥ घृतप्रियो घातितारिर्घोषयित्नुश्च घोषदः । घोण्टाफलास्थिद्वयजपमालाकराम्बुजः ॥ ५५॥ घोरामयपरीहर्ता घण्टापथगतिप्रियः । घण्टानादप्रियश्चाथ गणद्वाद्यविनोदनः ॥ ५६॥ चक्रशङ्खाङ्कितभुजश्चमूमदविभञ्जनः । चराचरक्षेमकर्ता चतुरश्चरणारुणः ॥ ५७॥ चतुष्पदीस्तुत्यमानश्चतुर्मुखपितृप्रियः । चतुस्सागरविख्यातः चर्मासनसमाधिमान् ॥ ५८॥ चत्वरस्थः चकोराक्षः चञ्चलत्वनिवारकः । चतुर्वेदविशेषज्ञः चलाचलकृतप्रियः ॥ ५९॥ चतुरङ्गबलध्वंसी चतुरोपायशिक्षितः । चारुरूपः चारसेव्यः चामरद्वयशोभितः ॥ ६०॥ चित्तप्रसादजननः चित्रभानुप्रभोज्ज्वलः । चिरजीवी चित्तहरः चित्रभाषी चितिप्रदः ॥ ६१॥ चित्रगुप्तभयत्राता चिरञ्जीजनसेवितः । चिन्तामणिः स्वभक्तानां चिन्तितार्थप्रदायकः ॥ ६२॥ चिन्ताहर्ता चित्तवासी चीरकौपीनधृक् तथा । (चीरकौपीनधारिणः) चिपिटत्यागकृत् चुल्लकक्षिदः चुल्लवर्धनः ॥ ६३॥ चूडामणिः वैष्णवानां चूर्णीकृतमहाभयः । चूडाला यशसा चूडप्राग्वादविनोदनः ॥ ६४॥ चूडाकर्मादि कर्तॄणां सन्निधौ सर्वदोषहा । चेष्टकः चेष्टकध्वंसी चैत्रोत्सवमुदम्भरः ॥ ६५॥ चोद्यहर्ता चौरनाशी चितिमांश्चित्तरञ्जनः । चिन्त्यः चेतनदाता मे चिन्तां हरतु सन्ततम् ॥ ६६॥ चन्द्रहासः चन्द्रकान्तः चन्द्रः चण्डीशपूजकः । चक्षुःप्रीतिकरः चन्द्रचन्दनद्रवसेवनः ॥ ६७॥ छद्महीनः छत्रभोगी छलहा छदलोचनः । छन्नज्ञानः छन्नकर्मा छविमान् छात्रसेवितः ॥ ६८॥ छात्रप्रियश्छात्ररक्षी छागयागातिशास्त्रवित् । छत्रचामरधाता छत्रचामरशोभितः ॥ ६९॥ छिद्रहारी छिन्नरोगश्छन्दश्शास्त्रविशारदः । छेदको भवदुःखानां भवतात् छिन्नसाध्वसः ॥ ७०॥ जराहर्ता जगत्पूज्यो जयन्तीव्रततत्परः । जयदो जयकर्ता च जगत्क्षेमकरो जयी ॥ ७१॥ जराहीनो जनैः सेव्यो जनानन्दकरो जवी । जनप्रियो जघन्यघ्नो जपासक्तो जगद्गुरुः ॥ ७२॥ जरायुबन्धसंहर्ता जलगुल्मनिवारणः । जाड्यहा जानकीशार्ची जाह्नवीजलपावनः ॥ ७३॥ जातमात्रशिशुक्षेमी ज्यायान् जाल्मत्ववर्जितः । जिष्णुर्जिनमतध्वंसी जिगीषुर्जिह्मवर्जितः ॥ ७४॥ जगदुद्धृतये जातो जितक्रोधो जितेन्द्रियः । जितारिवर्गो जितदुर्वादी जितमनोभवः ॥ ७५॥ जीवातुर्जीविका जीवदाता जीमूतवत् स्थिरः । जीवितेशभयत्राता जीर्णज्वरविनाशनः ॥ ७६॥ जुष्टश्रीनाथपादाब्जो जूर्तिबाधाविनाशनः । जेता ज्येष्ठो ज्येष्ठवृत्तिः जैवात्रकसमः सताम् ॥ ७७॥ ज्योत्स्नानिभयशा जम्भहन्ता जम्बूफलप्रियः । झल्लरीवादनप्रीतः झषकेतोरुपेक्षकः ॥ ७८॥ झलाप्रियो झूणिहन्ता झञ्झावातभयापहा । ज्ञानवान् ज्ञानदाता च ज्ञानानन्दप्रकाशवान् । टट्टरीरहितः टीकातात्पर्यार्थप्रबोधकः ॥ ७९॥ टङ्कारकरचारित्रः टङ्काभो दुरितशमनः । टक्प्रत्ययविकारज्ञः टीकृतान्यबुधोक्तिकः ॥ ८०॥ डमरुध्वनिकृन्मित्रं डाकिनीभयभञ्जनः । डिम्भसौख्यप्रदो डोलाविहारोत्सवलोलुपः ॥ ८१॥ ढक्कावाद्यप्रियो ढौकमानो णत्वार्थकोविदः । तपस्वी तप्तमुद्राङ्कः तप्तमुद्राङ्कनप्रदः ॥ ८२॥ तपोधनाश्रयः तप्ततापहर्ता तपोधनः । तमोहर्ता त्वरितदः तरुणर्स्तकपण्डितः ॥ ८३॥ त्रासहर्ता तामसहा तातस्तापससेवितः । तारकस्त्राणदस्त्राता तप्तकाञ्चनसन्निभः ॥ ८४॥ त्रिवर्गफलदः तीव्रफलदाता त्रिदोषहा । तिरस्कृतपरस्त्यागी त्रिलोकीमान्यसत्तमः ॥ ८५॥ तीक्ष्णरूपः पिशाचानां तीर्णसंसारसागरः । तुरुष्कसेवितस्तुल्यहीनस्तुरगवाहनः ॥ ८६॥ (तुरुष्कपूजित..) (तृप्तस्तृप्तिप्रदस्तृष्णाहर्ता तुङ्गातटाश्रयः) तूलायितीकृताघौघस्तुष्टिदः तुङ्गविग्रहः । तेजस्वी तैलविद्वेषी तोकानां सुखवर्धनः ॥ ८७॥ तन्द्रीहरस्तण्डुलदस्तञ्जापुरकृतादरः । स्थलदः स्थापकः स्थाता स्थिरः स्थूलकलेवरः ॥ ८८॥ स्थेयान् स्थैर्यप्रदः स्थेमा स्थौरी च स्थण्डिलेशयः । दशावान् दक्षिणो दत्तदृष्टिर्दाक्षिण्यपूरितः ॥ ८९॥ दक्षो दयालुर्दमवान् द्रवच्चित्तो दधिप्रियः । द्रव्यदो दर्शनादेव प्रीतो दलितपातकः ॥ ९०॥ दत्ताभीष्टो दस्युहन्ता दान्तो दारुणदुःखहा । द्वासप्ततिसहस्राणां नाडीनां रूपभेदवित् ॥ ९१॥ दारिद्र्यनाशको दाता दासो दासप्रमोदकृत् । दिवौकःसदृशो दिष्टवर्धनो दिव्यविग्रहः ॥ ९२॥ दीर्घायुः दीर्णदुरितो दीनानाथगतिप्रदः । दीर्घायुष्यप्रदो दीर्घवर्जितो दीप्तमूर्तिमान् ॥ ९३॥ दुर्धरो दुर्लभो दुष्टहन्ता दुष्कीर्तिभञ्जनः । दुःस्वप्नदोषहा दुःखध्वंसी द्रुमसमाश्रयः ॥ ९४॥ दूष्यत्यागी दूरदर्शी दूतानां सुखवर्धनः । दृष्टान्तहीनो दृष्टार्थो दृढाङ्गो दृप्तदर्पहृत् ॥ ९५॥ दृढप्रज्ञो दृढभक्तिर्दुर्विधानां धनप्रदः । देवस्वभावो देहीति याचनाशब्दमूलभित् ॥ ९६॥ (याचनाशब्दगूढहा) दूनप्रसादकृत् दुःखविनाशी दुर्नयोज्झितः । दैत्यारिपूजको दैवशाली दैन्यविवर्जितः ॥ ९७॥ दोषाद्रिकुलिशो दोष्मान् दोग्धा दौर्भिक्ष्यदोषहा । दण्डधारी दम्भहीनो दन्तशूकशयप्रियः ॥ ९८॥ धनदो धनिकाराध्यो धन्यो धर्मविवर्धनः । धारको धान्यदो धाता धिषणावान् धिनोतु माम् ॥ ९९॥ धीरो धीमान् धीप्रदाता धूतारिष्टो ध्रुवाश्रयः । धृतभक्ताभयो धृष्टो धृतिमान् धूतदूषणः ॥ १००॥ धूर्तभङ्गकरो धेनुरूपो धैर्यप्रवर्धनः । धूपप्रियो धोरणीभृत् धूमकेतुभयापहः ॥ १०१॥ धौतवस्त्रपरीधानो धावायत्वहितं मम । नमस्ते नलिनाक्षाय नवग्रहभयच्छिदे ॥ १०२॥ नवधाभक्तिभेदज्ञो नरेन्द्रो नरसेवितः । नामस्मरणसन्तुष्टो नारायणपदाश्रयः ॥ १०३॥ नाडीस्थैर्यप्रदो नानाजातिजन्तुजनार्चितः । नारीदूरो नायकश्च नागाद्यैश्वर्यदायकः ॥ १०४॥ निर्वाणदो निर्मलात्मा निष्कासितपिशाचकः । निःश्रेयसकरो निन्दावर्जितो निगमार्थवित् ॥ १०५॥ निराकृतकुवादीन्द्रो निर्जराप्तो निरामयः । नियामको नियतिदो निग्रहानुग्रहक्षमः ॥ १०६॥ निष्कृष्टवाक्यो निर्मुक्तबन्धनो नित्यसौख्यभुक् । निदानं सम्पदां निष्ठानिष्णातो निर्वृतिप्रदः ॥ १०७॥ निर्मोहो निरहङ्कारो नित्यनीराजनप्रियः । (निर्ममो) निजप्रदक्षिणेनैव सर्वयात्राफलप्रदः ॥ १०८॥ नीतिमान् नुतपादाब्जो न्यूनपूर्णत्ववर्जितः । निद्रात्यागी निस्पृहश्च निद्रादोषनिवारणः ॥ १०९॥ नूतनांशुकधारी च नृपपूजितपादुकः । नृणां सुखप्रदो नेता नेत्रानन्दकराकृतिः ॥ ११०॥ नियमी नैगमाद्यैश्च भक्तिभावेन सेवितः । नेदिष्ठो भजतां भक्त्या नौका भक्तभवाम्बुधेः ॥ १११॥ नन्दात्मजप्रियो नाथो नन्दनो नन्दनद्रुमः । प्रसन्नः परितापघ्नः प्रसिद्धः परतापहृत् ॥ ११२॥ प्रथमः प्रतिपन्नार्थः प्रसाधितमहातपाः । पराक्रमजितारातिः प्रतिमानविवर्जितः ॥ ११३॥ प्रवरः प्रक्रमज्ञश्च परवादिजयप्रदः प्रमुखः प्रबलः प्रज्ञाशाली प्रत्यूहनाशकः ॥ ११४॥ प्रपञ्जसुखदाता च प्रकृतिस्थः प्रवृत्तिकृत् । प्रभूतसम्पत् पत्रोर्णधारी प्रणवतत्परः ॥ ११५॥ प्रचण्डः प्रदरध्वंसी प्रतिग्रहविवर्जितः । प्रत्यक्षफलदाता च प्रसादाभिमुखः परः ॥ ११६॥ पाठकः पावनः पाता प्राणदाता प्रसादकृत् । प्राप्तसिद्धिः पारिजातदर्पहा पाकसाधनः ॥ ११७॥ पाटीरपादुकः पार्श्ववर्ती परायणप्रियः । पिण्याकीकृतदुर्वादी पिता पीडाविनाशकः ॥ ११८॥ प्रीतिमान् पीतवसनः पीयूषं पीवराङ्गकः । प्रियंवदः पीडिताघः पुलकी पुष्टिवर्धनः ॥ ११९॥ पुत्रवत्पाल्यभक्तौघः पुण्यकीर्तिः पुरस्कृतः । पुष्टप्रियः पुण्ड्रधारी पुरस्थः पुण्यवर्धनः ॥ १२०॥ पूर्णकामः पूर्वभाषी पृथुः पृथुकवर्धनः । पृष्टप्रश्नपरीहर्ता पृथिवीक्षेमकारकः ॥ १२१॥ पेशलः प्रेतभीतिघ्नः पेयपादोदकप्रभुः । प्रेङ्खद्वाणीविलासश्च प्रेरकः प्रेमवर्धनः ॥ १२२॥ पैशुन्यरहितः प्रोतसुखदः पोषकाग्रणीः । प्रोतधर्मा पौरुषदः पूरकः पङ्क्तिपावनः ॥ १२३॥ पण्डितः पङ्कहा पम्पावासी पङ्गुत्ववारकः । फलोदयकरः फालदुरक्षरमदापहृत् ॥ १२४॥ फुल्लनेत्रोऽथ फलिततपस्यः फर्फरीकवाक् । फूत्कारोच्चाटितानेकतापत्रयपिशाचकः ॥ १२५॥ फाण्टानेकेतरासाध्यकार्यो रक्षतु मां सदा । बलवान् बहुदाता च बदरीफललोलुपः ॥ १२६॥ बालप्रियो ब्राह्मणाग्र्यो बाधाहन्ता च बाहुदः । बुद्धिदाता बुधो बुद्धमतघाती बुधप्रियः ॥ १२७॥ वृन्दावनस्थतोयोन सर्वतीर्थफलप्रदः । वैराग्योल्लासकर्ता च वृन्दावनसमाश्रयः ॥ १२८॥ बिल्वपत्रार्चनप्रीतो बन्धुरोक्तिश्च बन्धहा । बन्धुर्बधिरताहर्ता बन्धुविद्वेषवारणः ॥ १२९॥ वन्ध्यापुत्रप्रदत्वाद्यैः यथायोगेन सृष्टिकृत् । बहुप्रजापालकश्च वेतालादिलयप्रदः ॥ १३०॥ भक्तानां जयसिद्ध्यर्थं वाद्यज्ञानप्रदः स्वयम् । भगवद्भक्तविद्वेष्टुः सद्यः प्रत्यक्षबन्धकृत् ॥ १३१॥ भक्तिदो भव्यदाता च भगन्दरनिवारणः । भवसौख्यप्रदः भर्मपीठो भस्मीकृताशुभः ॥ १३२॥ भवभीतिहरो भग्नदारिद्र्यो भजनप्रियः । भावज्ञो भास्करप्रख्यो भामत्यागी च भाग्यदः ॥ १३३॥ भाव्यर्थसूचको भार्यासक्तानामपि सौख्यदः । भक्तभारधरो भक्ताधारो भोगप्रियः सदा ॥ १३४॥ भिक्षुर्भीमपदासक्तो भुक्तिमुक्तिफलप्रदः । भूतप्रेतपिशाचादि भयपीडानिवारणः ॥ १३५॥ भूमा भूतिप्रदो भूरिदाता भूपतिवन्दितः । भ्रूणकर्ता भृत्यभर्ता भक्तवश्यश्च भेषजम् ॥ १३६॥ भैरवो भवरोगस्य भोक्ता भोजनदायकः । भौरिको भौतिकारिष्टहर्ता भौमजदोषहा ॥ १३७॥ भङ्गप्रदोऽरिमोदस्य भ्रान्तिहीनोऽवतात् स माम् । मल्लिकाकुसुमासक्तो मथितान्यमतो महान् ॥ १३८॥ मसृणत्वङ् मरुत्प्रख्यो महान्धनयनप्रदः । महोदयो मन्युहीनो महावीरपदार्चकः ॥ १३९॥ मलीमसमलध्वंसी मुकुरः शास्त्रसंविदाम् । महिषीक्षेत्रगो मध्वमतदुग्धाब्धिचन्द्रमा ॥ १४०॥ (मैहीक्षेत्रगो) मनःप्रमोदजननो मत्तानां मदभञ्जनः । महायशा महात्यागी महाभोगी महामनाः ॥ १४१॥ मारिकाभयहर्ता च मात्सर्यरहितान्तरः । मायाहर्ता मानदाता माता मार्गप्रदर्शकः ॥ १४२॥ मार्गणेष्टप्रदाता च मालतीकुसुमप्रियः । मुख्यो मुख्यगुरुर्मुख्यपालको मितभाषणः ॥ १४३॥ मीलतारिर्मुमूर्षुश्च मूकानां दिव्यवाक्प्रदः । मूर्धाभिषिक्तो मूढत्वहारी मूर्छनरोगहा ॥ १४४॥ मृषावचनहीनश्च मृत्युहर्ता मृदुक्रमः । मृदङ्गवादनरुचिर्मृग्यो मृष्टान्नदायकः ॥ १४५॥ मृत्तिकासेवनेनैव सर्वरोगनिवारणः । मेधावी मेहरोगघ्नो मेध्यरूपश्च मेदुरः ॥ १४६॥ मेघगम्भीरनिनदो मैथिलीवल्लभार्चकः । मोदकृन्मोदकासक्तो मोहहा मोक्षदायकः ॥ १४७॥ मौनव्रतप्रियो मौनी मन्त्रालयकृतालयः । माङ्गल्यबीजमहिमामण्डितो मङ्गलप्रदः ॥ १४८॥ यष्टिधारी यमासक्तो याचकामरभूरुहः । यातयामपरित्यागी याप्यत्यागी यतीश्वरः ॥ १४९॥ युक्तिमान् यक्षभीतिघ्नो योगी यन्ता च यन्त्रवित् । यौक्तिको योग्यफलदो योषित्सङ्गविवर्जितः ॥ १५०॥ योगीन्द्रतीर्थवन्द्याङ्घ्रिर्यानाद्यैश्वर्यभोगवान् । रसिकाग्रेसरो रम्यो राष्ट्रक्षेमविधायकः ॥ १५१॥ राजाधिराजो रक्षोघ्नो रागद्वेषविवर्जितः । राजराजायितो राघवेन्द्रतीर्थो जयत्यलम् ॥ १५२॥ रिक्तप्रियो रीतिमांश्च रुक्मदो रूक्षवर्जितः । रेवास्नायी रैक्वखण्डव्याख्याता रोमहर्षणः ॥ १५३॥ रोगहा रौरवाघघ्नो रन्ता रक्षणतत्परः । लक्ष्मणो लाभदो लिप्तगन्धो लीलायतित्वधृत् ॥ १५४॥ लुप्तारिगर्वो लूनाघमूलो लेखर्षभायितः । लोकप्रियो लौल्यहीनो लङ्कारातिपदार्चकः ॥ १५५॥ व्यतीपातादि दोषघ्नो व्यवहारजयप्रदः । वाचम्यमो वर्धमानो विवेकी वित्तदो विभुः ॥ १५६॥ व्यङ्गस्वङ्गप्रदो व्याघ्रभयहा वज्रभीतिहृत् । वक्ता वदान्यो विनयी वमिहा व्याधिहारकः ॥ १५७॥ विनीतो विदिताशेषो विपत्तिपरिहारकः । विशारदो व्यसनहा विप्रलापविवर्जितः ॥ १५८॥ विषघ्नो विस्मयकरो विनुताङ्घ्रिर्विकल्पहृत् । विनेता विक्रमश्लाघ्यो विलासी विमलाशयः ॥ १५९॥ वितण्डावर्जितो व्याप्तो व्रीहिदो वीतकल्मषः । व्यष्टिदो वृष्टिदो वृत्तिदाता वेदान्तपारगः ॥ १६०॥ वैद्यो वैभवदाता च वैतालिकवरस्तुतः । वैकुण्ठभजनासक्तो वोढा वंशाभिवृद्धिकृत् ॥ १६१॥ वञ्चनारहितो वन्ध्यावत्सदो वरदाग्रणी । शरणं शमसम्पन्नः शर्करामधुभाषणः ॥ १६२॥ शरीरक्षेमकारी च शक्तिमान् शशिसुन्दरः । शापानुग्रहशक्तश्च शास्ता शास्त्रविशारदः ॥ १६३॥ शान्तः शिरःशूलहर्ता शिवः शिखरिणीप्रियः । शिवदः शिशिरः श्लाघ्यः श्रद्धालुः श्रीप्रदायकः ॥ १६४॥ शीघ्रप्रसादः शीतघ्नः शुद्धिकृत् शुभवर्धनः । श्रुतवान् शून्यहा शूरः श्रेष्ठः शुश्रूषिसौख्यदः ॥ १६५॥ श्वेतवस्त्रप्रियः शैलवासी शैवप्रभञ्जनः । शोकहर्ता शोभनाङ्गः शौर्यौदार्यगुणान्वितः ॥ १६६॥ श्लेष्महर्ता शङ्करश्च श‍ृङ्खलाबन्धमोचकः । श‍ृङ्गारप्रीतिजनकः शङ्काहारी च शंसितः ॥ १६७॥ षण्ढपुंस्त्वप्रदः षोढा षड्वैरिरहितः सदा । भूयात् षोडशमाङ्गल्यप्रदाता षट्प्रयोगवित् ॥ १६८॥ सत्यसन्धः समाधिस्थः सरलः सत्तमः सुखी । समर्थः सज्जनः साधुः साधीयान् सम्प्रदायदः ॥ १६९॥ सात्त्विकः साहसी स्वामी सार्वभौमत्वसारवित् । (सार्वभौमश्च सारवित्) सर्वावगुणहीनश्च सदाचारानुमोदकः ॥ १७०॥ सर्वभूतदयाशाली सत्यधर्मरतः समः । स्वनामकीर्तनाद्वेदशास्त्रार्थज्ञानसिद्धिदः ॥ १७१॥ (स्वनमस्कारमात्रेण सर्वकाम्यार्थसिद्धिदः) स्वभक्तानां दुराचारसहनः सुस्मिताननः । सर्वतन्त्रस्वतन्त्रश्च सुधीन्द्रकरकञ्जजः ॥ १७२॥ सिद्धिदः सिद्धसङ्कल्पः सिद्धार्थः सिद्धिसाधनः । स्वप्नवक्ता स्वादुवृत्तिः स्वस्तिदाता सभाजयी ॥ १७३॥ सीमावान् सुरभिः सूनुदाता सूनृतभाषणः । सुग्रीवः सुमनाः स्निग्धः सूचकः सेवकेष्टदः ॥ १७४॥ सेतुः स्थैर्यचरः सौम्यसौम्यः सौभाग्यदायकः । (सेतुः स्वैरचरः) सोमभाः सम्मतः सन्धिकर्ता संसारसौख्यदः ॥ १७५॥ सङ्ख्यावान् सङ्गरहितः सङ्ग्रही सन्ततिप्रदः । स्मृतिमात्रेण सन्तुष्टः सर्वविद्याविशारदः ॥ १७६॥ सुकुलः सुकुमाराङ्गः सिंहसंहननस्तथा । हरिसेवापरो हारमण्डितो हठवर्जितः ॥ १७७॥ हितो हुताग्निर्हेतुश्च हेमदो हैमपीठगः । हृदयालुर्हर्षमाणो होता हंसश्च हेयहा ॥ १७८॥ ललितो लब्धनिर्वाणो लक्ष्मीर्लावण्यलक्षितः । क्षमाशीलः क्षामहरः क्षितिस्थः क्षीणपातकः ॥ १७९॥ क्षुद्रबाधापहर्ता च क्षेत्रज्ञः क्षेमदः क्षमः । क्षोदहन्ता क्षौद्रदृष्टिः क्षन्ता भक्तकृतागसाम् ॥ १८०॥ इति श्रीराघवेन्द्रार्यगुरुराजस्य योगिनः । चतुर्विंशति संयुक्तं नाम्नां साहस्रमीरितम् ॥ १८१॥ इति सोन्दूर श्रीकृष्ण अवधूतविरचितं श्रीराघवेन्द्रतन्त्रे अष्टमपटले श्रीराघवेन्द्रसहस्रनामस्तोत्रं सम्पूर्णम् ।

नवमपटलः ॥ ९॥

अथ प्रथमोऽध्यायः १ - श्रीगुरुदशस्तोत्रम् ।

या कृता द्वादशाध्यायी गुरुराजस्तुतिर्मया । गुरुराजाज्ञया सैव दशध्यायी विरच्यते ॥ ॥ अभयप्रदानं नाम प्रथमोऽध्यायः ॥ श्रितानां स्वपादं मनोऽभीष्टदाने सुरद्रुप्रमोद प्रहादि प्रभाव । अव त्वं सदा श्रीगुरो राघवेन्द्र प्रभो मे शिरस्याशु हस्तं निधेहि ॥ १॥ रजोहीन ते हीनपादाम्बुजातं प्रसन्नः प्रयाति प्रकृष्टप्रमोदम् । प्रपन्नः प्रयाति अव त्वं सदा श्रीगुरो राघवेन्द्र प्रभो मे शिरस्याशु हस्तं निधेहि ॥ २॥ घनानन्द ते पादपद्मं प्रविन्दन् अनन्दोऽप्यमन्दं सदानन्दमेति । अव त्वं सदा श्रीगुरो राघवेन्द्र प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ३॥ वदान्यो वदान्यो वदान्यास्ति कस्त्वां ततोऽहं यते हन्त ते पादमाप्तः । अव त्वं सदा श्रीगुरो राघवेन्द्र प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ४॥ दयालो दयालो दयालो दयालो दयां कुर्वमोघां पदं ते प्रपद्ये । अव त्वं सदा श्रीगुरो राघवेन्द्र प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ५॥ यथाशक्ति पादस्तुतिं तेऽप्पणार्य प्रगीतां पठन्तः प्रमोदं भजन्ति । अव त्वं सदा श्रीगुरो राघवेन्द्र प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ६॥ न जानामि ते पादसेवाविधानं यथाशक्ति किन्तु स्वयं स्तौमि नौमि । अव त्वं सदा श्रीगुरो राघवेन्द्र प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ७॥ महापद्विनाशाय ते पादरेणुः प्रभुः स्यादतस्त्वां विपन्नोऽहमाप्तः । अव त्वं सदा श्रीगुरो राघवेन्द्र प्रभो मे शिरस्यातु हस्तं निधेहि ॥ ८॥ भुजङ्गे भुजङ्गेन कृष्णावधूतेन गीतं सुगीतेन लोके पठेद्यः । अव त्वं सदा श्रीगुरो राघवेन्द्र प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ९॥ इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले अभयप्रदानं नाम प्रथमोऽध्यायः सम्पूर्णः ।

अथ द्वितीयोऽध्यायः २ - आपत्परिहरण स्तोत्रं (अश्वधाटि) -

श्रीकामुकाय बहुशोकाय तत्सुखमभीकाशु यच्छसि हि भो लोकाय तद्दुरितपाकाप्त पङ्गुजडमूकादिभावहरण । श्रीराघवेन्द्रपदवीर्यादिभोगभवघोराघमाशु हर भो दारात्मजादिभववाराशिसम्भवदपारापदः शमय भोः ॥ १॥ राजादि भक्तजन पूजालसत्पदपयोजाम्बुबिन्दुरपि बीजायते सुविधिभुजाय दूननृषु ते जागरूककरुणः । श्रीराघवेन्द्रपदवर्यादिभोगभवघोराघमाशु हर भोः दारात्मजादिभववाराशिसम्भवदपारापदः शमय भोः ॥ २॥ घोटीमदेभवरशाटीविराजिनृपकोटीशिरोविधृत- कोटीररत्नपरिपाटीभृशारुणितपाटीरपादुक विभो । श्रीराघवेन्द्रपदवीर्यादिभोगभवघोराघमाशु हर भोः दारात्मजादिभववाराशिसम्भवदपापापदः शमय भोः ॥ ३॥ वेदादिदूषककुवादादराध्य सुमोदावदाहकमहा- दावदोषविधुरे दानवद्विषि ममादाय धेहि हृदयम् । श्रीराघवेन्द्रपदवीर्यादिभोगभवघोराघमाशु हर भोः दारात्मजादि भववाराशि सम्भवदपारापदः शमय भोः ॥ ४॥ द्राक्षामधुक्षरण शैक्षाकरामल कटाक्षावलोकत उत तत्क्षामतां हरसि भैक्षाटकस्य भुवि लक्षाधिकस्य सपदि । श्रीराघवेन्द्र पदवरीयादि भोगभव घोराघमाशु हर भोः धारात्मजादि भववाराशै सम्भवदपारापदः शमयो भोः ॥ ५॥ यानादिसम्पदमनूनामवाप्तुमहमानायि पूर्वसृकृ तेनाग्र्यते पदमतोऽनादि दुर्दुरितमानाशयाशु ममभोः । श्रीराघवेन्द्र पदवीर्यादि भोगभव घोराघमाशु हर भोः दारात्मजादि भववाराशि सम्भवदपारापदः शमय भोः ॥ ६॥ नागारिवाहपदयोगादरामितदागारदारधन भोगावनाप्तुमनुरागत तवाभिमतिवेगादुपैमि सुखदम् । श्रीराघवेन्द्र पदवीर्यादि भोगभव घाराघमाशु हर भोः दारात्मजादि भववाराशि सम्भवदपारापदः शमय भोः ॥ ७॥ मन्त्रालयस्य तव मन्त्रादिजप्तुररिमन्त्रादि संहतित तन्त्राभवत्यखिलतन्त्र्याधिकेष्वपरतन्त्रावमामुपगतम् । श्रीराघवेन्द्र पदवीर्यादि भोगभव घोराघमाशु हर भोः दारात्मजादि भववाराति सम्भवदपारापदः शमय भोः ॥ ८॥ कृष्णावधूतकृतमिष्टार्थदानचणमष्टार्थमन्त्र परि पुष्टातुलस्तमवकष्टावह शुभमरिष्टाहरं पठतियः । श्रीराघवेन्द्र पदवीर्यादि भोगभव घोराघमाशु हर भोः दारात्मजादि भववाराशिसम्भवदपारापदः शमय भोः ॥ ९॥ इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले आपत्परिहरणस्तोत्रम् नाम द्वितीयोऽध्यायः सम्पूर्णः ।

अथ तृतीयोऽध्यायः ३ - दुःखहरणस्तोत्रम् ।

श्रीपतिबोधविबोधक बाधकसाधितसाधन भोः । राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ १॥ राजमुखीरतिसम्भ्रमलोलुपचित्ततया व्यचरं बहु भोः । राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ २॥ घटतां मे कथमस्य दुराचरणं चरतो हितकृद्भुवि भोः । राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ३॥ वेदपुराणविरुद्धकृतो मे नान्यः त्वत्तः पाता भोः । राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ४॥ द्रागिष्टं दास्यसि भक्तेभ्यस्त्वमिति श्रुत्वा त्वापं भोः । राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं परिहर भोः ॥ ५॥ यद्यपि दयालुरिति विख्यातस्तर्हि दृक्षं मामुद्धर भोः । यद्यसि दयालुरिति राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ६॥ न ममोद्धर्ता चेत् त्वं भुवि ते दिविजद्रुम इति सुयशः किं भोः । राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ७॥ मायापाशविबद्धो नाहं जाने विवेकलवमपि भोः । राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ८॥ कृष्णावधूतविरचितमष्टकमेतत् पठतां सकलं भोः । राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं परिहर भोः ॥ ९॥ इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले दुःखहरणस्तोत्रं नाम तृतीयोऽध्यायः सम्पूर्णः ।

अथ चतुर्थोऽध्यायः - ४ करावलम्बन स्तोत्रम् ।

श्रीधराङ्घघ्रिसरोरुहे दिश दासतामनुदासतां तद्वधूपवनादिकेष्वनुदासतामनुदासताम् । राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां राघवेन्द्र कराश्रयं दिश रक्षतां कुरु चाक्षताम् ॥ १॥ रामया हृतहृत्त्वहं न लभे सुखं न लभे सुखं किं करोमि हताशयश्चरितास्म्यहं मृगतृष्णया । हताशयश्चरिष्णुरहं राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां राघवेन्द्र कराश्रयं दिश रक्षतां कुरु चाक्षताम् ॥ २॥ घातुकं मम पूर्वकर्म विभाधते प्रविबाधते तेन संसृतिसागरे भ्रमतो मम भ्रमतो मम । राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां राघवेन्द्र कराश्रयं दिश रक्षतां कुरु चाक्षताम् ॥ ३॥ वेद्मि किञ्चन साधनं न हि सद्गतेर्मम सद्गते मार्गमाशु विमुक्तिदं प्रतिदर्शय प्रतिदर्शय । राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां राघवेन्द्र कराश्रयं दिश रक्षतां कुरु चाक्षताम् ॥ ४॥ द्रावयाऽशु ममापदं नियतायतामनयाऽगतां अन्यथा तव भक्तदुःखहरप्रथा तु भवेद्वृथा । राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां राघवेन्द्र कराश्रयं दिश रक्षतां कुरु चाक्षताम् ॥ ५॥ यामि कं त्वदृते पितः शरणं वदाशरणः प्रभो पुत्रवत्सलता पितुस्तव नास्ति किं तव नास्ति किम् । राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां राघवेन्द्र कराश्रयं दिश रक्षतां कुरु चाक्षताम् ॥ ६॥ मानयस्व सुतस्य मे बहु भाषणं करुणेषणं वक्रवागपि बालकस्य मुदं पितुः कुरुते न किम् । राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां राघवेन्द्र कराश्रयं दिश रक्षतां कुरु चाक्षताम् ॥ ७॥ कृष्णनामयुतावधूतकृतं तव स्तवमादरात् यःपठेदिह तस्य तत्सुखमादिशाभयमादिश । राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां राघवेन्द्र कराश्रयं दिश रक्षतां कुरु चाक्षताम् ॥ ८॥ इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले करावलम्बनस्तोत्रं नाम चतुर्थोऽध्यायः सम्पूर्णः ।

अथ पञ्चमोऽध्यायः ५ - संसारोद्धरणस्तोत्रं

श्रितलोकामरभूरुहसदृशाङ्घ्रे कृपया भोः । गुरुराजोद्धर मां प्रतिपतितं संसृतिकूपे ॥ १॥ रमणी रै सुत मोहित मनसं मोदद भो भोः । गुरुराजोद्धर मां प्रतिपतितं संसृतिकूपे ॥ २॥ घनसच्छित्सुखपूरित करुणासागर भो भोः । गुरुराजोद्धर मां प्रतिपतितं संसृतिकूपे ॥ ३॥ वरदेशामित चित्रचरित भूभासुर भो भोः । गुरुराजोद्धर मां प्रतिपतितं संसृतिकूपे ॥ ४॥ दरचक्राङ्कित कण्ठग तुलसीमालिक भो भोः । गुरुराजोद्धर मां प्रतिपतितं संसृतिकूपे ॥ ५॥ यतिवरामितबोध सुमतविस्तारक भो भो । गुरुराजोद्धर मां प्रतिपतितं संसृतिकूपे ॥ ६॥ नमतामिष्टद कुष्ठमुख महाकष्टहर भो भोः । गुरुराजोद्धर मां प्रतिपतितं संसृतिकूपे ॥ ७॥ ममता भक्तजने सुत इव जाग्रति ते भो भोः । गुरुराजोद्धर मां प्रतिपतितं संसृतिकूपे ॥ ८॥ स्तवनं कृष्णावधूतरचितं यः पठतीदम् । गुरुराजोद्धर मां प्रतिपतितं संसृतिकूपे ॥ ९॥ इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले संसारोद्धरणस्तोत्रं नाम पञ्चमोऽध्यायः सम्पूर्णः ।

अथ षष्ठोऽध्यायः ६ - हृद्रोगहरणस्तोत्रम् ।

श्रीरामे गुणधामनि विनिहित चित्तप्रभो दयापूर्ण । गुरुराडुदारभाव त्वं हर हृद्रोगमतितूर्णम् ॥ १॥ राजीवाक्षीकाङ्क्षापूरण सन्तापसन्तताभ्यस्तम् । चेतो मे गुरुराज त्वं हर हृद्रोगमतितूर्णम् ॥ २॥ घोराशाभिधभूताविष्टं भृशमस्थिरं सदा भ्रमति । चेतो मे गुरुराज त्वं हर हृद्रोगमततूर्णम् ॥ ३॥ वेदपुराणसुमार्गानुज्झित्वा दुष्टनीचमार्गचरम् । चेतो मे गुरुराज त्वं हर हृद्रोगमतितूर्णम् ॥ ४॥ द्रागिष्टार्थदमीशमलब्ध्वान्यानुपास्य बहुखिन्नम् । चेतो मे गुरुराज त्वं हर हृद्रोगमतितूर्णम् ॥ ५॥ यत्नात् कापुरुषाधिकसेवाविधिनापि नाप काम्यार्थम् । चेतो मे गुरुराज त्वं हर हृद्रोगमतितूर्णम् ॥ ६॥ नर्तेत्वद्भुवि कञ्चन जानीतेऽन्यं कलौ सुरद्रुसमम् । चेतो मे गुरुराज त्वं हर हृद्रोगमतितूर्णम् ॥ ७॥ महिमानं तव भूयः श्रुत्वा त्वत्पादपङ्कजं प्राप्तम् । चेतो मे गुरुराज त्वं हर हृद्रोगमतितूर्णम् ॥ ८॥ कृष्णावधूतरचितं पथ्योपेतं मनोरोगहरम् । स्तोत्रं मे पठतां त्वं संहर हृद्रोगमतितूर्णम् ॥ ९॥ इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले हृद्रोगहरणस्तोत्रं नाम षष्ठोऽध्यायः सम्पूर्णः ।

अथ सप्तमोऽध्यायः ७ - प्रतिकूल-स्वानुकूलीकरणस्तोत्रम् ।

श्रीभूपे कूपे सुखवारां कृतचित्तं चित्ते त्वां ध्यायामि च भूयोऽहममत्तः । स्वामिन् भूमन् भो गुरुराज प्रतिकूलं दारापत्याद्यं सकलं कुर्वनुकूलम् ॥ १॥ राष्ट्रे राष्ट्रे ख्यातयशस्तोम विभासिन् वासिन् ध्यातुश्चेतसि दातः करुणावान् । स्वामिन् भूमन् भो गुरुराज प्रतिकूलं दारापत्याद्यं सकलं कुर्वनुकूलम् ॥ २॥ घोरे संसारे पतितोऽहं तव पुत्रः कुत्रावेयं त्वामपहाय प्रभुमिष्टम् । स्वामिन् भूमन् भो गुरुराज प्रतिकूलं दारापत्याद्यं सकलं कुर्वनुकूलम् ॥ ३॥ वेदाहं नो सद्गतिहेतुं तव पोतः पूतं पादादन्यदृते संसृतिवार्धेः । स्वामिन् भूमन् भो गुरुराज प्रतिकूलं दारपत्याद्यं सकलं कुर्वनुकूलम् ॥ ४॥ द्रावं द्रावं नश्यति कष्टं तव दृष्ट्या कष्ट्यापं त्वातः कुरु तुष्टं वृषपुष्पम् । स्वामिन् भूमन् भो गुरुराज प्रतिकूलं दारपत्याद्यं सकलं कुर्वनुकूलम् ॥ ५॥ यत्यतुच्च त्वद्वरेणुं गतमानौ दार्यं धार्यं मूर्धनि वार्यन्नदमीढे । स्वामिन् भूमन् भो गुरुराज प्रतिकूलं दारापत्याद्यं सकलं कुर्वनुकूलम् ॥ ६॥ नाना नाना दैवकदम्बे सविलम्बे लम्बे स्मालम्बं सुखदं त्वामविलम्बम् । स्वामिन् भूमन् भो गुरुराज प्रतिकूलं दारपत्याद्यं सकलं कुर्वनुकूलम् ॥ ६॥ मन्त्रं ते मन्त्रालयधामन् भुवि जप्तुः पातुः पादाम्भो लघु नश्यत्यतिदुःखम् । स्वामिन् भूमन् भो गुरुराज प्रतिकूलं दारापत्याद्यं सकलं कुर्वनुकूलम् ॥ ७॥ चक्रेऽष्टश्लोकीमवधूतः कविकृष्णः तत्पाठेन त्वं भव तुष्टो हर कष्टम् । स्वामिन् भूमन् भो गुरुराज प्रतिकूलं दारापत्याद्यं सकलं कुर्वनुकूलम् ॥ ९॥ इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले प्रतिकूल-स्वानुकूलीकरणस्तोत्रं नाम सप्तमोऽध्यायः सम्पूर्णः ।

अथ अष्टमोऽध्यायःअष्टमोऽध्यायः ८ - सन्तोषप्रदस्तोत्रम् ।

श्रीधामनि नरिमाधावय मम बोधातिरहितचित्तं बाधापहरदसाधारणगुण मेधाविवर विना त्वाम् । राजानसि गुरुराजामरवर भूजायित शरणं मे तोषं दिश दिश दोषं परिहर जोषं किमसि दयाळो ॥ १॥ रामाकटितटसोमाननकुचसीमारुचिमनुभोक्तुं हेमाभरणकसामादिभिरपि मामाप्तमवधुनीते । राजानसि गुरुराजामरवर भूजायित शरणं मे तोषं दिश दिश दोषं परिहर जोषं किमसि दयाळो ॥ २॥ घर्मापरहणशर्मावह तव धर्माभिकलितपादू नर्मानतजनकर्माहितमपि धर्माययसि महात्मन् । राजानसि गुरुराजामरवर भूजायित शरणं मे तोषं दिश दिश दोषं परिहर जोषं किमसि दयाळो ॥ ३॥ वेलावनमतिमेलाब्धैसलिलमालामनुभविता चेत् कीलालधिमणि जालाकृतियशसो लाघवमुदधेः स्यात् । राजानसि गुरुराजामरवर भूजायित शरणं मे तोषं दिश दिश दोषं परिहर जोषं किमसि दयाळो ॥ ४॥ द्रागागतसुजनागार तुरगनागादि वविधसम्पत् त्यागादर करुणागार बहुलभोगापकपदपद्म । राजानसि गुरुराजामरवर भूजायित शरणं मे तोषं दिश दिश दोषं परिहर जोषं किमसि दयाळो ॥ ५॥ यं कामयति कलङ्कावह बहुपङ्काकृतिरपि यत्त्वं तं काममिममशङ्काकलितमलं कारयसि हि तेन । राजानसि गुरुराजामरवर भूजायित शरणं मे तोषं दिश दिश दोषं परिहर जोषं किमसि दयाळो ॥ ६॥ नारीति गदित मारीग्रहगति घोरीकृत भववार्धेः (दूरीकृत भववार्धेः) तारी भव मयि चारी भवति हि का रीतिरियमुपेक्षा । राजानसि गुरुराजामरवर भूजायित शरणं मे तोषं दिश दिश दोषं परिहर जोषं किमसि दयाळो ॥ ७॥ मन्दाशयमपि वृन्दारक कुरुवृन्दाभयसि तथान्धं (गुरुविन्दापयसि) शन्दाशु वितर कन्दासिततनुनन्दात्मजपदभक्तिम् । राजानसि गुराजामवरव भूजायित शरणं मे तोषं दश दिश दोषं परिहर जोषं किमसि दयाळो ॥ ८॥ कृष्णाभिदकविरष्टार्णकमनु पुष्टां नुतिमवधूतः कष्टार्जितामतिरिष्टार्थद तव शिष्टार्पयति विरच्य । राजानसि गुरुराजामरवर भूजायित शरणं मे तोषं दिश दिश दोष परिहर जोषं किमसि दयालो ॥ ८॥ इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले सन्तोषप्रदस्तोत्रं नाम नामाष्टमोऽध्यायः सम्पूर्णः ।

अथ नवमोऽध्यायः ९ - दारिद्र्यमोचनस्तोत्रम् ।

श्रितानां पादं ते सकलविधया शोकहरणः त्वमेवाम्बा तातस्त्वमसि मम मित्रं सरलहृत् । प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ १॥ रतं वा दुष्टार्ये त्यजति सुतमम्बा किमु पिता कृपां कृत्वा शिश्नोदरकृतमहागस्यपि मयि । प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ २॥ घनाघो वा दीनो वावयवविकलो वाक्षविकलः प्रपन्नश्चेत्पादं तव सुखयसीत्यागममहम् । प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ३॥ वदान्यात् त्वद्भूमौ दिवि सुरभिकल्पद्रुमदृषदां लघुत्वं जानेऽहं वितरणमिदं वीक्ष्य भवतः । प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ४॥ द्रवत्कारुण्य श्रीपरिमलसमुद्गारिहृदय त्वदन्यो दाता चेद्भवति कथमायामि वाद मे । प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ५॥ यथाशक्त्याऽऽराध्य प्रसभममरानप्यथ नरान् व्रजन् देशं देशं श्रमजनिरभूवं न च धनी । प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ६॥ न बाधन्ते दारा किमिदमधुना मे प्रिय दिशे- त्यमुं मा दारिद्र्यव्यसनपरिपिण्डीकृतहृदयम् । प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ७॥ महोदारे भूम्नि त्वयि पितरि पुत्रोऽहमधुना जरत्काकावस्थां भृशमनुभवामीश किमिदम् । प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ८॥ गुरोः पुत्रः सुकविरवधूतः स्तवमहं चकारैकश्वासात सरलमिममादृत्य पठताम् । प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ९॥ इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले दारिद्र्यमोचनस्तोत्रं नाम नवमोऽध्यायः सम्पूर्णः ।

अथ दशमोऽध्यायः १० - गुरुकरुणासम्पादनस्तोत्रम् ।

श्री प्राप्त्यै प्रचुरतृषापिशाचकः स- न्नाजन्मप्रकटिततीर्थकाकभावः । दारिद्र्यप्रियसुहृदं तथापि दात- र्मां पात्रे समितमुपेक्षसे क्व यामि ॥ १॥ राकेन्दुप्रतिममुखीमवेक्ष्य चित्तं लोलन्तीं शुनककुधीस्तदानुकूल्ये । शंयुर्नाभवमनया तथापि भूय- श्चूडालः स्वजनविरोधजापकीर्त्या ॥ २॥ घर्मार्तो दिशि दिशि चारपाशचारं सञ्चर्यक्षणमपि विश्रमं न चापम् । कापेयस्तदपि मलीमसे धनाशा- भारेण प्रतिगृहमेम्यकिञ्चनोऽपि ॥ ३॥ (गृहमाप्तकिञ्चनोऽपि) वेदान्ते न किमपि साहसं मयाऽऽत्तं संसर्तुर्मम धिषणाभवच्छिलाभा । श्रीलानां द्विजकक इत्यनादृतो वा पश्चाद्वा पुरत उतानुगादिकोऽहम् ॥ ४॥ दारा मे तिलकटु कल्पयन्ति चित्तं व्रातीनो धनिकतयापि नापमर्थम् । तस्मान्मामनुपधिकं सुपुत्रकं ते तातेष्टप्रद कुरु राघवेन्द्रतीर्थ ॥ ५॥ यं यं वा जनमहमाश्रये सुखाय प्रारब्धान्मम स स कर्मणो जहाति । हृद्रोगः प्रपचति रूपमद्य तत्य- स्तं क्षिप्रं प्रशमया मां सुखीकुरु त्वम् ॥ ६॥ नर्नृत्तः प्रीतिपरमङ्गनाधनाशी उष्णालुः सततमहं हिमेलुरेषः । किं कार्यमिह परसाधनान्युपायी- (परसाधनान्युपाची-) कृत्ये त्वं गुरुवर मे गतिं प्रदेहि ॥ ७॥ मा रोदीरिति चिरदूनमानसं मा- माश्वस्य प्रकटय मय्युदारभावम् । याचे त्वां यतिवर राघवेन्द्रतीर्था- नन्याप्यां पितृबलतां त्वयाहमाप्तुम् ॥ ८॥ कृष्णाख्यः कविरवधूत ईशजूटी संसर्पत्सुरसहिताभवाग्विलासः । स्तोत्रं श्रीगुरुवरपादयोर्वितन्व- न्नापेदे सपदि तदिष्टपुत्रभावम् ॥ ९॥ इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे नवमपटले गुरुकरुणासम्पादनस्तोत्रं नाम दशमोऽध्यायः सम्पूर्णः ।

दशमपटलः ॥ १०॥

श्रीराघवेन्द्रप्रदक्षिणागद्यं - जय जय गुरुराज जय जय गुरुराज, जय जय जगतः क्षेमाय, श्रीराघवेन्द्र गुरुसार्वभौम भो, शरणागतभूभृन्निकुरम्बम्, नान्यावलम्बं विगतविलम्बं रक्षितुकामं, सुगुणारामं दोषविरामं, ग्रहणे भीमं, बुधजन सन्देहहरं, वन्दे मयि कुरु मन्दे, सन्ततकरुणां, शोकहरणां पार्वणहरिणाङ्काननरमणीयाकृति हरिणीलोचन तरुणी लीलासरणीलोलुपचित्ते यौवनमत्ते, विनिहतवित्ते, विगतमहत्ते, वनमदमत्तेभकुम्भवृत्ते स्तने प्रदत्तेहे, हा हतशीले, कपटशीले, श्रीलगृहान् वा गाम गामं दीनारान् वा यायं याचं, हीननरान् वा सेवं सेवं, परदारान् वा दर्शं दर्शं सञ्चितपापे, कुञ्चितपुण्ये, वञ्चितसाधौ, पञ्चमरागे, पञ्चितकर्णे, पञ्चशरास्त्रैः अञ्चितबाधे, सुलभक्रोधे, विगतविबोधे, विवेकहीने, काङ्क्षितयाने, मतापमाने, भवमधिरूढे, भावितुमूढे, कैतवगूढे, मयि गुणलेशोऽपि न हि, रमेशोपासनयेशो शकलं कर्तुं चान्यत् कर्तुं तत्तेङ्घ्र्यम्भोजं प्रापं भो, जय जय गुरुराज गुरुराज ॥ १॥ यतिवर मायोपहतो भूयो दारापत्यादिकसंसृत्यामनुभूयैवं दुःखमभूवं, पुत्रोऽहं ते हिमकरशान्ते, कमलाकान्तेडित चरणान्ते, कृतविश्रान्ते, नितरां मां ते पदरुद्ध्वाङ्क्षे, स्रर्थाकाङ्क्षे स्मरदाकाङ्क्षे, ??कनकमयघटी कनत्कुचतटी लसत्तनुपटीरलक्षितकटीरलघुश्रोणी भ्रमरश्रेणी सन्निभवेणीर्मञ्जुल- वाणी नयनजितैणीः, कुचभरतान्ताः, कपटस्वान्ताः, कलिभिरशान्ताः, विलोक्य कान्ताः चञ्चलमनसा, भ्रान्तस्तरसा, मोहावर्ते, सुचिरं प्रीत्यै तासामुत्तमवासांस्यनर्घ्य-भूषादिकानिनीषामालम्ब्याहं, कुञ्चितदेहं धनिनां गेहं त्वरितङ्गत्वा दीनो भूत्वा, स्तवनं कृत्वा, परीचरित्वा कोशं नापं, क्लेशमवापं, विपुलालापं, कृत जपलोपं, धृतावलेपं, साधितकपटं, मुखवीतपटं, धृतजपमालं, भुविजनजालं, सुवञ्चयानो, विहङ्गयानोपासहीनो, व्यचरं नित्यं, नरकं सत्यं भवतीत्यालोच्य, सम्प्रति लोपागत, शरणागत जनभरणादरवन्तं त्वां पितरं मत्वाऽधुनागतो भो जय जय गुरुराज गुरुराज ॥ २॥ कृष्णावधूतं मां कुरु पूतं, तव पदपोतं त्वमेव शरणं नान्यत्करणं, भवभयहरणं, त्वदभयहस्तं दत्तसमस्तं, निधेहि मस्ते, जगति समस्ते, सदृशः कस्ते, समस्ततन्त्र- स्वतन्त्र मन्त्रालयकृतधामन्, शुभगुणभूमन्, उदारधीमंस्तव महिमानं, निरस्तमानं, प्रकाशमानं, निशम्यनिकटं, भक्तिप्रकटं, प्राप्तजनानां भजमानानां, त्वरितं नानाभीप्सितदानालम्बितवलयं, कृतपापलयं, त्वामाऽऽलोक्यादरात्त्रिलोक्यामनुपमचरितं, मम बहुदुरितं, दूरूकुर्यादिति मत्वार्यागतमुद्धर मामितरासुगमामुद्धृतिविद्यां यास्यनवद्यां, प्रतिहतनिद्रैः सौधसमुद्रैस्तुङ्गतरङ्गैः प्रेमकुरङ्गैः सम्भृतसङ्गैः ललितापाङ्गैः, पश्यन् सदयं, मोदित हृदयं, कुरु तव शक्तिं वक्तुमशक्तिं भजमानोऽहं नाशक मेघस्फीतमनीषो हेयविशेषो, विषादपूरे, निर्गतसारेऽस्थिरसंसारे, सुखावभासं, दुःखविकासं, बहुमन्वानः, किं तन्वानः, सुखी भवेयं तव पदि सेयं प्रणामरीतिः पालय मां भोः जय जय गुरुराज गुरुराज ॥ ३॥ इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे दशमपटले प्रदक्षिणागद्यं सम्पूर्णम् ।

एकादशपटलः ॥ ११॥

श्रीराघवेन्द्रगाथास्तुतिः । अज्ञाननाशाय विज्ञानपूर्णाय सुज्ञानदात्रे नमस्ते गुरो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ १॥ आनन्दरूपाय नन्दात्मजाश्रीपदाम्भोजभाजे नमस्ते गुरो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ २॥ इष्टप्रदानेन कष्टप्रहाणेन शिष्टस्तुत श्रीपदाम्भोज भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ३॥ ईडे भवत्पादपाथोजमाध्याय भूयोऽपि भूयो भयात् पाहि भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ४॥ उग्रं पिशाचादिकं द्रावयित्वाऽऽशु सौख्यं जनानां करोषीश भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ५॥ ऊर्जत्कृपापूर पाथोनिधे मङ्क्षु तुष्टोऽनुगृह्णासि भक्तान् विभो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ६॥ ऋजूत्तम प्राणपादार्जनप्राप्तमाहात्म्य सम्पूर्णसिद्धेश भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ७॥ ऋजुस्वभावाप्तभक्तेष्टकल्पद्रुरूपेशभूपादिवन्द्य प्रभो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ८॥ ऋद्धं यशस्ते विभाति प्रकृष्टं प्रपन्नार्तिहन्तर्महोदार भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ९॥ क्लृप्तातिभक्तौघकाम्यार्थदातर्भवाम्भोधिपारङ्गत प्राज्ञ भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ १०॥ एकान्तभक्ताय माकान्तपादाब्ज उच्चाय लोके नमस्ते विभो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ११॥ ऐश्वर्यभूमन् महाभाग्यदायिन् परेषां च कृत्यादि नाशिन् प्रभो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ १२॥ ओङ्कारवाच्यार्थभावेन भावेन लब्धोदयश्रीश योगीश भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ १३॥ और्वानलप्रख्य दुर्वादि दावनलैः सर्वतन्त्रस्वतन्त्रेश भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ १४॥ अम्भोज सम्भूत मुख्यामराराध्य भूनाथभक्तेश भावज्ञ भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ १५॥ अस्तङ्गतानेक मायदिवादीश विद्योतिताशेषवेदान्त भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ १६॥ काम्यार्थदानाय बद्धादराशेषलोकाय सेवानुसक्ताय भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ १७॥ खद्योतसारेषु प्रत्यर्थिसार्थेषु मध्याह्नमार्ताण्डबिम्बाभ भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ १८॥ गर्विष्ठ गर्वाम्बुशोषार्यमात्युग्र नम्राम्बुधेर्यामिनीनाथ भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ १९॥ घोरामयध्वान्तविध्वंसनोद्धाम देदीप्यमानार्कबिम्बाभ भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ २०॥ ङणत्कार दण्डाङ्क काषायवस्त्राङ्कक कौपीन पीनाङ्क हंसाङ्क भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ २१॥ चण्डीश काण्डेश पाखण्डवाक्काण्डतामिस्रमार्ताण्डपाषण्ड भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ २२॥ छद्माणुभागं न विद्मस्त्वदन्तः सुसद्मैव मद्माधवस्यासि भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ २३॥ जाड्यं हिनस्ति ज्वरार्शःक्षयाद्याशु ते पादपद्माम्बुलेशोऽपि भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ २४॥ झषध्वजीयेष्वलभ्योरुचेतः समारूढमारूढवक्षोऽङ्ग भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ २५॥ याज्ञाविहीनाय यादृच्छिकप्राप्ततुष्टाय सद्यः प्रपन्नोऽसि भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ २६॥ टीकारहस्यार्थविख्यापनग्रन्धविस्तारलोकोपकर्तः प्रभो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ २७॥ ठङ्कुर्वरीणाममेयप्रभावोद्धरापारसंसारतो मां प्रभो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ २८॥ डाकिन्यपस्मारघोरादिकोग्रग्रहोच्चाटनोदग्रवीराग्र्य भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ २९॥ ढक्कादिकध्वानविद्राविनानेकदुर्वादिगोमायुसङ्घात भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ३०॥ णात्मादिमात्रर्णलक्ष्यार्थकश्रीपतिध्यानसन्नद्धधीसिद्ध भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ३१॥ तापत्रयप्रौढबाधाभिभूतस्य भक्तस्य तापत्रयं हंसि भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ३२॥ स्थानत्रयप्रापकज्ञानदातः स्त्रिधामाङ्घ्रिभक्तिं प्रयच्छ प्रभो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ३३॥ दारिद्र्य दारिद्र्ययोगेन योगेन सम्पन्नसम्पत्तिमाधेहि भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ३४॥ धावन्ति ते नामधेयाभिसङ्कीर्तनेनैनसामाशु वृन्दानि भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ३५॥ नानाविधानेकजन्मादिदुःखौघतः साध्वसं संहरोदार भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ३६॥ पाता त्वमेवेति माता त्वमेवेति मित्रं त्वमेवेत्यहं वेद्मि भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ३७॥ फालस्थदुर्दैववर्णावलीकार्यलोपोऽपि भक्तस्य शक्तोऽसि भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ३८॥ बद्धोऽस्मि संसारपाशेन तेऽङ्घ्रिं विनाऽन्यागतिर्नेत्यवेमि प्रभो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ३९॥ भावं भजामीह वाचा वदामि त्वदीयं पदं दण्डवत् स्वामि भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ४०॥ मान्येषु मान्योऽसि मत्या च धृत्या च मामद्य मान्यं कुरु द्राग् विभो श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ४१॥ यं काममाकामये तं न चापं ततस्त्वं शरण्यो भवत्येमि भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ४२॥ राजादिवश्यादि कुक्षिम्भरानेकचातुर्यविद्यासु मूढोऽस्मि भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ४३॥ लक्षेषु ते भक्तवर्गेषु कुर्वेक लक्ष्यं कृपापाङ्गलेशस्य माम् । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ४४॥ वाराङ्गनाद्यूतचौर्यान्यदारातुरत्वाद्यवद्यत्वतो मां प्रभो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ४५॥ शक्तो न शक्तिं तव स्तोतुमाध्यातुमीदृक्त्वहं करोमीश किं भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ४६॥ षड्वैरिवर्गं ममारान्निराकुर्वमन्दो हरेराङ्घ्रिरागोऽस्तु भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ४७॥ सन्मार्गसच्छास्त्रसत्सङ्गसद्भक्तिसज्ज्ञानसम्पत्तिमाधेहि भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ४८॥ हास्यास्पदोऽहं समानेष्वकीर्त्या तवाङ्घ्रिं प्रपन्नोऽस्मि संरक्ष भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ४९॥ लक्ष्मीविहीनत्वहेतोः स्वकीयैः सुदूरीकृतोऽस्म्यद्य वाच्योऽस्मि भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ५०॥ क्षेमङ्करस्त्वं भवाम्भोदिमज्जज्जनानामिति त्वां प्रपन्नोऽस्मि भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ५१॥ कृष्णावधूतेन गीतेन मात्रक्षराद्येन गाथास्तवेनेड्य भो । श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य श्रीराघवेन्द्रार्य पाहि प्रभो ॥ ५२॥ इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे एकादशपटले गाथास्तुतिः समाप्ता ।

द्वादशपटलः ॥ १२॥

श्रीराघवेन्द्रऋणमोचनस्तोत्रम् । श्रितजनदुरितघ्नं भक्तवर्गस्य निघ्नं सुरतरुसमरूपं सर्वसाम्राज्यभूपम् । भजकजनशरण्यं नौमि कारुण्यपूर्णं कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ १॥ रचितभयविनाश श्रीद सम्पत्समृद्ध । प्रियतमपर दीनाऽनाथबन्धो नमस्ते । निटिलगतकुवर्णश्रेणिवैय्यर्थकारिन् कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ २॥ घनतरहरिसेवोत्कर्षलब्धाष्टसिद्धे वितरणगुणलीलाधिक्कृत स्वर्द्रुकीर्ते । निखिलगुणनिधानश्लाघ्यसौभाग्यमूर्ते कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ३॥ विदितविविधवेदव्यासवाक्यार्थमध्व- प्रकटितमतभावव्याकृतिप्रोपकर्तः । कृतकलिकृतदोषोच्चाटन क्षेमकारिन् कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ४॥ द्रविणरहितलोकास्त्वामुपाश्रित्य सर्वे कलितसकलकामाः सन्ति सौख्येन भूमौ । इदमहमपि मत्वा संसृतस्त्वामुदारं कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ५॥ यतिवर बहुभक्तत्राणनात् पाटवं ते किमु गलितमुताऽहं नास्मि किं रक्षणार्हः । द्वयमपि न हि युक्तं सर्वतन्त्रस्वतन्त्रे कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ६॥ नरमितरमुदारसेवमानोऽपि भूयः सुखमहमिह नापं पूर्वकर्मानुरोधात् । तदपि झटति धूत्वा रक्षसीत्याश्रये त्वां कुरु ऋण परिहारं तात मे राघवेन्द्र ॥ ७॥ मम तु भवति मित्रे बान्धवे मातरीष्टे पितरि सदि वदान्ये सद्गुरौ वा समर्थे । व्यसनमनुभवामि त्वत्सुतः साम्प्रतं किं कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ८॥ इति गुरुवर पुत्रो नाम कृष्णावधूतः चकर ऋणविनाशस्त्रोत्रमेतद्गुणानाम् । पठति शतदिनं यो नित्यमेतत्त्रिवारं कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ९॥ ऋणमोचनकं नाम स्तोत्रं प्रत्यक्षसिद्धिदम् । कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ १०॥ इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे द्वादशपटले ऋणमोचनस्तोत्रं सम्पूर्णम् ।

त्रयोदशपटलः ॥ १३॥

श्रीपादुकापूजाविधानम् । श्रीगुरोः पादुकापूजाविधानं गृहधर्मिणाम् । कृष्णावधूतो वक्ष्येऽहं गुरोरभिमतं यथा ॥ १॥ ध्यानमावाहनं पश्चादासनं स्नानमक्षताः । गन्धपुष्पाणि नैवेद्यं धूपो दीपो निराजनम् । पुष्पाञ्जलिर्द्वादशैव पादुकापूजने क्रमे ॥ २॥ अथ पादुका पूजाविधिः । सायङ्काले गृहे स्नात्वा कृत्वा सन्ध्याजपादिकम् । हरिं वायुं च सम्पूज्य पादुके पूजयेद्गुरोः ॥ ३॥ अथ ध्यानम् । पादुके गुरुराजस्याऽपादिके सर्वसम्पदाम् । बाधिके सर्वबाधानां साधिके भवतां मुदे ॥ ४॥ - इति ध्यानम् । पादौ पादुकयोरत्रावाहयामि महागुरोः । अत्र सन्निहितौ भूत्वा कामदौ भवतं मम ॥ ५॥ - इत्यावाहनम् । इदमासनमास्तीर्णं तिष्ठतामत्र पादुके । कुरु त्वं गुरुराजस्य कृपा मे स्याद्यथा तथा ॥ ६॥ - इत्यासनम् । शुद्धैः सुगन्धिभिः शीतैः सलिलैः स्नपयामि वाम् । राघवेन्द्रगुरोः पादौ तापं मे हरतां सदा ॥ ७॥ - इति स्नानम् । फलैः क्षीरैः शर्कराद्यैः स्नानं चेत् पूर्वमाचरेत् । गुरुराजपदाम्भोजन्यासप्रयत पादुके ॥ ८॥ अक्षतान् वां प्रदास्यामि कुरुतं मामिहाक्षतम् । - इति अक्षतान् । गुरुपादरजोगन्धलिप्ताङ्गे पादुके युवाम् ॥ ९॥ गृहीत्वा सुरभिं गन्धं वर्तेयथां सुरद्रुमौ ॥ १०॥ - इति गन्धम् । मल्लिकादि सुपुष्पाणां माला श्रीगुरुपादुके । असितानि च पुष्पाणि गृहीत्वाऽवतमेव माम् ॥ ११॥ - इति पुष्पम् । यथाशक्ति यथाकालं भक्त्याऽऽनीतं फलादिकम् । स्वीकृत्य सफलं मां च कुरुतं गुरुपादुके ॥ १२॥ - इति नैवेद्यम् । श्रीराघवेन्द्र राजेन्द्रमुनीन्द्रपदसङ्गते । पादुके वां प्रदास्यामि धूपं सर्वमनोहरम् ॥ १३॥ - इति धूपम् । अन्धकारहरं चक्षुःसफलीकरणे पटुम् । दर्शनार्थं च वां दीपं दर्शये गुरुपादुके । श्रीराघवेन्द्राय नमः दीपं दर्शयामि ॥ १४॥ - इति दीपम् । नीराजनत्रयं कार्यमधिकं विभवो यथा ॥ १५॥ जयतु जयतु पादूः पातकध्वंसकर्त्री जयतु जयतु बन्धुर्बन्धनिर्नाशयित्री । जयतु जयतु मित्रं मातृवद् रक्षयित्री जयतु जयतु राजद्राघवेन्द्राङ्घ्रिधात्री ॥ १६॥ श्रीमत्सद्गुरुपादसङ्गविभवे श्रीपादुके पादुके पाटीरामलगन्धबन्धुरतनू श्रीपादुके पादुके । नानालोकशिरोभिलालितमहा श्रीपादुके पादुके देहि त्वं मम मङ्गलं तव भजे श्रीपादुके पादुके ॥ १७॥ गुरुवरपदपद्मपूतदेहे मम मुखमस्त्विति पादुके श्रये त्वाम् । मयि सदयमनास्त्वदेकभक्ते मृदुलतनूदरि सुन्दरि प्रसीद ॥ १८॥ - इति नीराजनम् । वन्दे त्वां देवि देवव्रतियतिपतिपद्धूलिकालिप्रलिप्ते भूयो भूयो दया मे भवतु वृतवरे मानयानस्य दिव्ये । मानं ज्ञानं धनं मे दिश दिश दशधा पादुके दुष्टदुःखात् पाहीतो हीनहीनात् सखसखि सुखिनं मां तनूत प्रतप्तम् ॥ १९॥ कामदात्री सकामानामन्यैकामृतदायिका । काले कालेऽघकार्मासं दह्यात् काप्यार्यपादुका ॥ २०॥ सतरलां नलिनेन तवाङ्गके प्रणिदधामि गुरूत्तम पादुके ॥ २१॥ श्रीराघवेन्द्र गुरुराजपदारविन्द संसर्गलब्धसुगुणैः जगति प्रपूज्य । श्रीपादुके सुमुखि सुन्दरि सूक्ष्ममध्ये पुष्पाञ्जलिं वृणु विधेहि सुमङ्गलं मे ॥ २२॥ प्रदक्षिणनमस्कारौ करिष्ये पादुके तव । मामुद्धर कृपापूर्णे भवदुःखाम्बुधेर्द्रुतम् ॥ २३॥ अनेकधा यथायोग्यमुपचारान् समर्पयेत् । कृत्वाऽऽभीष्टप्रार्थनां च सर्वतन्त्रे समर्पयेत् ॥ २४॥ श्रीगुरोश्चरणपङ्कजसङ्गान्मोदमानहृदये मृदुलाङ्गि । इष्टपूर्तिरधुना मम भूयाः शिष्टशीर्षपरिपालितमूर्ते ॥ २५॥ पाहि मां सुमुख वत्सलभावाद्वाहिका त्वमसि भक्तभरस्य । या हि मे विपद उच्छितसर्पाः ता हिनस्ति नमनं तव पादू ॥ २६॥ पायाः मां श्रीगुरुराघवेन्द्रचरणापायापहारोद्यते मायापाशविनाशिनि प्रभजतां हेयाखिलारोज्झिते । दायादेऽमरपादपस्य च परीधूयाखिलं पातकं जायापुत्रगृहादि संसृतिषु मे भूयाः मुदे पादुके ॥ २७॥ इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे त्रयोदशपटले पादुकापूजाविधानं सम्पूर्णम् ।

चतुर्दशपटलः ॥ १४॥

श्रीक्षमापणस्तोत्रम् । श्रीलक्ष्म्योपेतं दक्षिणाङ्के वसन्त्या चण्डज्योतिर्ज्योतिषं ताम्रवर्णम् । शय्याकारोऽनन्तभोगोपविष्टं विष्णुं स्वप्नेऽदर्शयद्यो गरुर्मे ॥ १॥ मुख्यप्राणं स्वर्णघण्टोपरिस्थं सन्दर्श्यारादाभिमुख्येन पश्चात् । स्वापत्यं मां स्वान्तिके सूपवेश्य स्वात्मानं मेऽदर्शयद्यः प्रमोदात् ॥ २॥ साक्षात् पुत्रापेक्षया वत्सलं म- य्येनं नित्यं मानसे मे वसन्तम् । स्मारं स्मारं स्थारतापाविलोऽपि स्वच्छोऽहं श्रीराघवेन्द्रप्रसादात् ॥ ३॥ यस्मादस्मिन् राघवेन्द्रार्यतन्त्रे पूर्णे जाते स्वप्न एवं विधोऽभूत् । तस्मादस्य श्रावणात् पाठतोऽपि प्राणद्वारेणापरोक्ष्यं हरेः स्यात् ॥ ४॥ लक्ष्मीकान्ते स्वापरोक्षीकृतेऽस्मिन् किं दुस्साध्यं दुःखबन्धं कथं स्यात् । ग्रन्थं चामुं राघवेन्द्रार्यतातः स्वीचक्रे यत्तेन चासं कृतार्थः ॥ ५॥ त्वं मे माता त्वं पिता त्वं सखा च त्व मे बन्धुः त्वं च दाता दयालुः । त्वं मे राजा पालकस्त्वं गुरुश्च पुत्रोऽहं ते पाहि मां राघवेन्द्र ॥ ६॥ सर्वज्ञ त्वं मामकं सर्ववृत्तं जानस्येव प्रत्यहं किं वदामि । ये ये पापाः सन्ति लोकेषु तेषां अग्रे गण्ये नास्ति मे तद्गुणोऽणुः ॥ ७॥ एतादृक्षं चोद्धरेर्मां विधेयं सत्यं ख्यातं ते दयालुत्वमेतत् । सर्वं त्वय्येवार्पितं मद्गुरुत्वात् कार्याकार्यं कर्म तत्तत्फलं च ॥ ८॥ तत्र स्वीकुर्वात्मनो यद्यदिष्टं पुत्रत्वान्मेऽथेतरत्वं सहस्व । अत्र प्रोक्तं मे ऋतं वाऽनृतं वा तात क्षान्त्वा मोदमुच्चैरुपागाः ॥ ९॥ तात श्रीगुरुराघवेन्द्रयतिराट् श्रीराघवेन्द्रप्रभो लोकागण्यगुणौघलालित तव स्तोत्राय नाऽलं वचः । नाऽलं बुद्धिरभूत्तव स्तवविधिप्रोत्साहमानस्य मे किन्तु श्रुतृपठज्जनालसतया ते चाज्ञया पूर्यते ॥ १०॥ यस्य यस्यास्ति दुर्दैवमूलनिर्नाशनार्हता । तस्य तस्यैव तन्त्रेऽस्मिन् आस्थास्तीत्यब्रवीद्गुरुः ॥ ११॥ अहं श्रीगुरुराजेन पित्रा प्रत्यक्षचोदितः । रहस्यं सफलं चष्टा न दूष्ये विदुषां धुरि ॥ १२॥ इति कृष्णावधूतेन वश्यवाणी विलासिना । श्रीगुरुप्रेमपुत्रेण गुरुराजप्रसादतः ॥ १३॥ कृतं श्रीराघवेन्द्रार्यतत्रं सद्यः फलप्रदम् । प्रीयतां तेन गुरुराट् हृद्गतौ मध्वमाधवौ ॥ १४॥ गुरुराज पिताऽसि मे कृपावानिति निश्चित्य मयोद्धतं व्यभाणि । त्वदनन्यगतेर्ममानृतोक्तिः सुतवात्सल्यतया कुरुष्व सत्याः ॥ १५॥ अनृणमयाचनमश्रममभयं न्याय्यं यथेष्टमप्रयत्नम् । अशनं वसनं सदनं दातुं भोक्तुं ददासि चेत् तदलम् ॥ १६॥ इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे चतुर्दशपटले क्षमापणस्तोत्रं सम्पूर्णम् ।

पञ्चदशपटलः ॥ १५॥

श्रीराघवेन्द्रगुरुराजस्तवराजः । अथ कृष्णावधूतोऽहं गुरुराजप्रियः सुतः । वक्ष्ये मयि पितुस्तस्य कृपां सर्वातिशायिनीम् ॥ १॥ यद्यप्येतन्न प्रकाश्यं रहस्यं विस्मयप्रदम् । तथापि वक्ष्ये ग्रन्धेऽस्मिन् प्रत्ययार्थं तदाज्ञया ॥ २॥ कदाचिद्बन्धु-दारिद्र्य-ऋण-राजादि पीडितः । भृशं शोचन् गुरुं ध्यायन् न स्वाप्स्वं कलुषाशयः ॥ ३॥ ततः सूर्योदये काले स्वप्ने कोऽपि यतीश्वरः । आकटीर्जानुपर्यन्तं ऋद्धकाषायवस्त्रवान् ॥ ४॥ तुलसी मणि मालाभ्यां शोभितेन विवाससा । विशालवक्षसा तैलस्निग्धश्यामलवर्चसा ॥ ५॥ अप्रावृतेन शिरसा पादुकाभ्यां च राजतः । शिष्येणानुगतः पश्चात् जलपात्रधरेण च ॥ ६॥ वेगादागत्य मां हस्ते गृहीत्वान्तरुपागतः । शिष्यस्तु द्वार एवासीदुपाविशदसौ गुरुः ॥ ७॥ अथ मां प्राणिनं सन्तं वत्सेत्यामन्त्र्य सोऽब्रवीत् । प्रदर्शयंस्ताम्रपत्रं लिखितं नागराक्षरैः ॥ ८॥ आत्मेत्येव परं देवमुपास्व हरिमव्ययम् । प्राणस्येदं वशे सर्वं प्राणः परवशे स्थितः ॥ ९॥ विष्वक्सेनः वायुपुत्रः प्रह्लादः प्रथमो मतः । विभीषणोऽथ बाह्लीको व्यासोऽहं सत्यसन्धकः ॥ १० ॥ संहतप्रहतौ सन्धिप्रसन्धी सोमिकोर्मिकौ । अप्पणाचार्यकृष्णौ च सेवकौ मे युगक्रमात् ॥ ११॥ मय्यधिष्ठाय ते भारं समन्मन्त्राद्युपासनम् । ग्रन्थं कमपि कर्तुं त्वं प्रारभस्व भयं न ते ॥ १२॥ योग्यतामनुसृत्याहमयोग्येच्छां निवारयन् । विपत्तीः परिहृत्या ते सुखं दास्यामि पुत्रक ॥ १३॥ ओमित्युक्त्वा यतिस्तच्च ताम्रपत्रं तथाक्षतान् । दत्वा मह्यमदृश्योऽभूत् प्रबुद्धोऽहं ततः क्षणात् ॥ १४॥ अपश्यं शिरसः स्थाने साक्षतां ताम्रपत्रिकाम् । शान्तः शोकस्तदा मेऽभूदासारैः पादपो यथा ॥ १५॥ चित्तं प्रसन्नमभवद्यथाम्भः कुम्भजोदयात् । ततः श्रीराघवेन्द्रार्यगुरुं मोदादपूजयम् ॥ १६॥ आरिरम्भयिषुर्ग्रन्थं राघवेन्द्रार्यतन्त्रकम् । अस्तौषं स्तवराजेन भक्त्युन्मादभ्रमन्मनाः ॥ १७॥ श्रीराघवेन्द्रार्य पिता त्वमेव त्वमेव मे सद्गतिहेतुभूतः । इमं च शोकं मम नाशयाशु क्षमस्व मे सर्वमहापराधम् ॥ १८॥ कल्यावेशेन कलुषं विषयासक्तचेतसम् । स्नानसन्ध्यादिभिर्हीनं भक्तिहीनं हरौ गुरौ ॥ १९॥ साधूनां सङ्गरहितं दुष्टानां सङ्गते स्थितम् । दुर्मार्गे सर्वदा सन्तं राघवेन्द्रार्य रक्ष माम् ॥ २०॥ रक्षणीयमरक्षन्तं रक्षणानर्हरक्षकम् । दाक्षिण्यादर्थलोभाद्वा दुर्व्यापारं सुवञ्चकम् ॥ २१॥ यन्त्रबद्धपशुप्रायं भ्रममाणं कुयोनिषु । अनालम्बनमत्यार्तं राघवेन्द्रार्य रक्ष माम् ॥ २२॥ जन्ममृत्युजराव्याधिपीडितश्च स्वकर्मभुक् । दारिद्र्यमतितीर्षश्च संसारव्यसनातुरः ॥ २३॥ दातुं भोक्तुं महालुब्धी वैभवेऽपि कदन्नभुक् । परान्नपरितुष्टोऽहं राघवेन्द्रार्य रक्ष माम् ॥ २४॥ क्षणशः कणशोऽप्यर्थं सङ्गृह्य च पिशाचवत् । रक्षन्नदाता चाभोक्ता दुर्मुखो दुरहङ्कृतिः॥ २५॥ पुत्रपत्नीगृहाद्येषु सक्तोऽहं भर्त्सितोऽपि तैः । कर्मज्ञानेन्द्रियैः पापी गुरुराजानुरक्ष माम् ॥ २६॥ गुरुवार्ये पुराणादावनादरणशालिनः । त्वद्भक्तान् विष्णुभक्तांश्चाप्यवज्ञातुश्च सज्जनान् ॥ २७॥ स्वमाहात्म्यप्रकाशार्थमत्यन्तानृतभाषिणः । गुरुब्राह्मणदेवानां पूजां दम्भेन कुर्वतः ॥ २८॥ अपराधाननेकान् मे क्षमस्व मयि वत्सलः पञ्चयज्ञाद्यकरणादतिथीनामुपेक्षणात् ॥ २९॥ श्रौतस्मार्ताग्निराहित्याद् अमाश्राद्धाद्वभावतः । हव्यकव्यादि लोपाच्च पङ्क्तिभेदाच्च पातकात् ॥ ३०॥ अभक्ष्यभक्षणाच्छादि पात्रापात्राविवेचनात् । वर्णोक्ताचारराहित्याद्राघवेन्द्रार्य रक्ष माम् ॥ ३१॥ नीचसेवालेख्यवृत्ति माढापत्यादि जीवनात् । असत्सु पक्षपाताच्च पौरोहित्यात् दुरन्नतः ॥ ३२॥ दिवा-सन्ध्यारजः श्राद्ध-पर्वादिषु वधूरतेःल् ऋतौ पत्न्यनुगमनात् पातकाद्रक्ष मां गुरो ॥ ३३॥ कन्यागोऽजादिमहिषीघृततैलादि विक्रयात् । एकादश्यन्ननिघसाद्द्वादश्युल्लङ्घनादपि ॥ ३४॥ दिवास्वापात्परस्त्रीणां विधवानां च सङ्गतः । पत्नीसुतादिनिर्व्यजत्यागात् ताताव मां गुरो ॥ ३५॥ परस्त्रीगणिकादीनां पुरुषस्यानुकूलनात् । हिंसनाद्गोद्विजस्त्रीणां जारगर्भनिपातनात् ॥ ३६॥ नरस्तुतिर्द्यूतचौर्याद्भार्यापण्येन जीवनात् । जारजानां स्वपुत्राणां लालनाच्चाव मां गुरो ॥ ३७॥ विषाग्निशस्त्रपाषाणगलबन्धाभिचारकैः । हिंसनोच्चाटनाद्बन्धुमातापित्रादिवर्जनात् ॥ ३८॥ स्वस्रादिदूषणात् पत्नीपतिविद्वेषवश्यतः । मित्रभित् कूटसाक्षित्वाद्राघवेन्द्रार्य रक्ष माम् ॥ ३९॥ ज्ञात्वापि जारिणीं पत्नीं तया सङ्गम्य लोभतः । वंशाधःपातनात् तस्यामपत्योत्पादनादपि ॥ ४०॥ परस्व-परपत्नीनां बलादनुभवादपि । ऋणापहरणाच्चापि मामुद्धर कृपानिधे ॥ ४१॥ इत्यादि बहुपापौघात् ज्ञात्वाऽज्ञात्वा कृतादपि । तात श्रीराघवेन्द्रार्य परिपालय मां सुतम् ॥ ४२॥ पापिनामग्रगण्योऽहं दयालूनां त्वमग्रणीः । त्वां विना न हि जानेऽन्यं ममाद्योद्धारकारणम् ॥ ४३॥ श्रीराघवेन्द्र गुरुराज कृपासमुद्र कारुण्यपूर्णकरुणाजलधे कृपाब्धे । भक्तानुकम्पितमनो दयापयोधे- ऽनुक्रोशसान्द्र करुणालय मां प्रपाहि ॥ ४४॥ इति कृष्णावधूतेन गुरुपादानुजीविना । स्तवराजमिमं प्रोक्तं रहस्यं पापनाशकम् ॥ ४५॥ पठतां सर्वपापानि नश्यन्त्येव न संशयः । इदं दत्तवरस्तोत्रं गुरुराजेन सादृतम् ॥ ४६॥ प्रगोप्तव्यं प्रयत्नेन दद्याच्छ्रद्धालवे गुरौ । अभक्ताय न दातव्यं कलिदोषनिवारकम् ॥ ४७॥ दिनं वा सकृदप्येतत् पठतां योग्यतामनु अनाचाररतानां वा वर्तते पितृवद्गुरुः ॥ ४८॥ बालोऽसत्यं वदति पितरं स्वापराधेऽपि धार्ष्ट्या तात त्वं मेऽवद इदमतोऽकार्षमेतत्तथेति ॥ ४९॥ श्रुत्वा तातस्तनयवचनं प्रेमतो मोदते हि । त्वं मोदेथाः शिशुवचसि मे राघवेन्द्रार्य तात ॥ ५०॥ गुरुराज पिता मे कृपावानिति निश्चित्य मयोद्धतं व्यचारि । त्वदनन्यगतीर्ममापराधान् सुतवात्सल्यमुपागतः क्षमस्व ॥ ५१॥ इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे प्रत्यक्षसिद्धिप्रदे रहस्योपाख्याने गुरुराजस्तवराजो नाम पञ्चदशपटलः । ॥ इति श्रीराघवेन्द्रतन्त्रम् ॥ ॥ श्रीकृष्णार्पणमस्तु ॥ Proofread by Gopalakrishnan, PSA Easwaran
% Text title            : Raghavendra Tantram
% File name             : rAghavendratantram.itx
% itxtitle              : rAghavendratantram (kRiShNa avadhUtapaNDitavirachitam)
% engtitle              : rAghavendratantram
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Krishna Avadhutapandita Vedavyasacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan, PSA Easwaran
% Indexextra            : (Kannada 1, 2, Author, Video)

% Latest update         : December 16, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org