श्रीरामानुजप्रपत्तिः

श्रीरामानुजप्रपत्तिः

तत्त्वावबोधमिहिराभ्युदयस्य पूर्वं सन्ध्यायितैदरविनिद्रसरोजरम्यैः । आपाटलांशुपटलैः परिरभ्यमाणौ रामानुजस्य चरणौ शरणं प्रपद्ये ॥ १॥ भोगापवर्गरसिकैःपुरुषैःप्रयुक्त- न्यासाङ्गपञ्चकयुगीमतिदायिनीभिः । दीर्घाङ्गुलीभिरतुलौ दशभिःसुशोभौ रामानुजस्य चरणौ शरणं प्रपद्ये ॥ २॥ वेदान्तदेशिकशिखाभरणायमानौ तस्याच्छमानससरोवरराजहंसौ । तत्प्रौढवाक्सुरनदीकमठायमानौ रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ३॥ निर्वापितप्रचुरगर्वविनम्रसर्व- दुर्वादिशीर्षपरिषद्बहुमानिताभ्याम् । वादाहवेषु घटितौ वरपादुकाभ्यां रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ४॥ उत्थाय योगसुखतो मीतप्रभाते सह्याद्रिजाप्लवविधौ भृशमुत्सुकस्य । चित्तस्य शीघ्रगमनेन वितीर्णसाह्यौ रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ५॥ रेखाध्वजाङ्कुशसरोरुहशङ्खमुख्य चिह्नैर्निजैस्तत इतो मृदुचङ्क्रमेण । सह्यात्मजापुलिनसीमनि भूषयन्तौ रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ६॥ निर्वर्त्तने सति च सान्ध्यविधेर्यथाव- द्भक्त्या मुहुःप्रणमतां महतां जनानाम् । द्रागर्चितो सुविहिताञ्जलिपद्मकोशैः रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ७॥ श्रीरङ्गनाथचरणाविव वेदमौलि- ष्वात्मीयवैभवविदां महतां द्विजानाम् । धन्योत्तमाङ्गवलभीषु विहारभाजौ रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ८॥ रङ्गाधिराजसदनाभिमुखं प्रयान्तौ रथ्यापरागपटलीं निजसङ्गभूम्ना । संसाररोगशमनौषधचूर्णयन्तौ रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ९॥ प्राबोधिकस्तुतिवरेण विधूतनिद्रः स्नेहार्द्रया निजदृशा पुरुषः पुराणः । यौ सिञ्चति स्म सपदि क्रमशो मुखाद्यः रामानुजस्य चरणौ शरणं प्रपद्ये ॥ १०॥ वेदान्तगह्वरनिलीनमनोहरार्थ- व्याख्यारसैकमनसो निजशिष्यवर्गे । निष्पन्दतामुपगतौ श्रवणेच्छयैव रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ११॥ भिक्षाटनस्य समये दिनयौवनेऽपि तेजोऽनलेन्धनमहं न भवेयमस्य । इत्थं धरा धृतवती शिशिरासती यौ रामानुजस्य चरणौ शरणं प्रपद्ये ॥ १२॥ श्रीशेषशैलकरिभूधरयादवाद्रि- सिंहाचलेन्द्रबदरीवननायकानाम् । नित्यं गतागतजुषौ पदसेवनाय रामानुजस्य चरणौ शरणं प्रपद्ये ॥ १३॥ स्नानेन पातकिजनैः परिमुक्तसक्त- दोषापनोदनकृते सुरनिम्नगायाः । तीरे नखद्युतिभिरादधताविवान्यां रामानुजस्य चरणौ शरणं प्रपद्ये ॥ १४॥ श्रीरामसेतुपरिकर्मवतामहोर्मि- जालेन सिन्धुसविधे कलहायमानौ । श्रीपादुकास्वनमिषाद्वृजिनापनोदे रामानुजस्य चरणौ शरणं प्रपद्ये ॥ १५॥ रामानुजप्रपत्तिं ये तत्पदाम्भोजभक्तितः । पठन्त्यनुदिनं प्रातर्मुक्तिस्तेषां करे स्थिता ॥ १६॥ इति श्रीरामानुजप्रपत्तिः ॥ Proofread by PSA Easwaran
% Text title            : rAmAnujaprapattiH
% File name             : rAmAnujaprapattiH.itx
% itxtitle              : rAmAnujaprapattiH
% engtitle              : rAmAnujaprapattiH
% Category              : deities_misc, gurudev, rAmAnujasampradAya, prapatti
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Indexextra            : (stotramAlA)
% Acknowledge-Permission: Shri Tripursundari Ved Gurukulam, Sahibabad (Ghaziabad), UP
% Latest update         : March 24, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org