श्रीरामकृष्णाष्टोत्तरशतनामस्तोत्रम्
जयतु जयतु वाञ्छा कल्पशाखी सशिष्यः
स जयतु भगवान् यः सद्गुरु रामकृष्णः ।
जयतु च जननी श्री शारदा भक्तिदात्री
विमल चरण रेणं दीनभक्तः प्रयाचे ॥ १॥
त्रितापनाशको देवः पुनः पतित पावनः ।
ब्रह्माविष्णुर्महेशस्त्वं निर्गुणोऽसि निरञ्जनः ॥ २॥
लोकंविलोक्य सकलं कामार्थतमसावृतम् ।
उदितस्त्वं समुद्धर्त्तुं तरुणारुण सारथिः ॥ ३॥
पुत्ररूपेणावतीर्य, क्षुदिराम गृहेऽकरोः ।
जगत्कल्याण सिद्ध्यर्थं सर्वधर्म समन्वयम् ॥ ४॥
रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल ! ।
देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ ५॥
``मतानुसारं पन्थानं'' -- तत्त्वं नवमिदं पुनः ।
स्वयमाचरता येन धर्मद्वन्द्वं विनाशितम् ॥ ६॥
भक्तेर्ज्ञानस्य योगस्य, कर्मणश्च समन्वयात् ।
कृतं नृहरिणा येन ससम्भवमसम्भवम् ॥ ७॥
ॐ जनकेन गयास्वप्नाद् गदाधर१ इतीरितः
चन्द्रादेव्या ``गदाई''२ति दुलालेत्य३ब्रवीद्धनी ॥ ८॥
रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल ।
देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ ९॥
अन्नप्राशन संस्कारे रामकृष्णे४ति नामतः ।
तातेनाकारितः प्रेम्ना, स्वयं चान्तेऽब्रवीदिदम् ॥ १०॥
स्वामिनायं विवेकेन पूजितः शतनामभिः ।
पठनाच्छ्रवणाद्वापि येषां तुष्यति मानसम् ॥ ११॥
निरञ्जनो५ निर्गुणश्च६ गुणेढ्यो७ गुणजित्८ प्रभुः९ ।
देवो१० नरवर११श्चापि नररूपधरः१२ शिवः१३ ॥ १२॥
रामकृष्णः ! कृपासिन्धो ! शरणागतवत्सल ! ।
देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ १३॥
भववैद्यो१४ दीनबन्धु१५र्भवभेदा१६ करोऽचलः१७ ।
गोष्पदीकृत१८ संसार सागरो भवतारणः१९ ॥ १४॥
शान्तो२० वाङ्मनसातीतः२१ समदृक्२२ जगदीश्वरः२३ ।
ॐ२४-स्वरूपो ह्रीं२५-स्वरूपो निर्भयः२६ करुणाघनः२७ ॥ १५॥
भगवान्२८ ज्योतिषां ज्योति२९र्धर्म संस्थापकः३० पुनः ।
अवतारवरिष्ठो३१ऽपि सर्वधर्मस्वरूपकः३२ ॥ १६॥
रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल ! ।
देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ १७॥
मर्त्यामृतं३३ त्यक्तजाति३४ कुलाहन्धीः सुनिर्मलः३५ ।
त्यागीश्वरः३६ परित्यक्त कामकाञ्चन भावनः३७ ॥ १८॥
युगावतारो३८ जगतां जन दुःखनिवारणः३९ ।
जगत्-त्राणार्पितप्राणः४० कालबन्धनमोचनः४१ ॥ १९॥
श्रीजी४२ गुणमय४३श्चापि मरणोर्मि विनाशकः४४ ।
ज्ञानाञ्जन४५ पवित्राक्षः पाप दूषणनाशनः४६ ॥ २०॥
रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल ! ।
देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ २१॥
निन्दिते४७न्द्रियरागोऽपि, यश्च योगसहायवान्४८ ।
सन्देह-राक्षसहन्ता४९, भक्तार्चितपदः५० पुनः ॥ २२॥
सकलेष्वर्पितप्रेमा५१, विजृम्भित युगेश्वरः५२ ।
प्रेमरत्नाकरः५३ पूर्णो५४ दुखगञ्जनभञ्जनः५५ ॥ २३॥
कठोरकर्मकृत्५६, सर्वदेवदेवीस्वरूपकः५७ ।
वेदमूर्ति५८र्बहुकृतः५९ ``ष्णान्तः''६० प्राणसखा६१ गुरुः६२ ॥ २४॥
रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल ! ।
देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ २५॥
अद्वैततत्त्व बोधाब्धि६३--समाहितमनाः स्वयम् ।
प्रोल्ल६४सद्भक्तियोगास्य--पटावृत सुवृत्तवान् ॥ २६॥
शरणं६५ शक्ति सिन्धू६६त्थ-तरङ्गः करुणानिधिः६७ ।
जगता६८मेकगम्योऽसौ, नित्यं६९ कर्मकलेवरः७० ॥ २७॥
मोहङ्कषो७१ मनोवाचामेकाधार७२स्तमोहरः७३ ।
भास्वरो७४ भावपाथोधि७५-र्दृढनिश्चय मानसः७६ ॥ २८॥
रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल ! ।
देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ २९॥
जगद्भूषण७७ इत्थं चिद्घनकाय७८स्तथा स्तुतः ।
ऋतस्वरूपो७९ भक्तानां, निर्हेतुशरणं८० सदा ॥ ३०॥
नरदेवो८१ गुरुमहाराजो८२ विगतसंशयः८३ ।
जग८४द्वन्दनयोग्यात्मा, भवबन्धन खण्डनः८५ ॥ ३१॥
अहेतुः८६ करुणामूर्तिः सुवितीक्ष्णोविशालधीः८७ ।
सर्वव्यापी८८ साक्षीरूपो८९ यः सनातनपूरुषः९० ॥ ३२॥
रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल ! ।
देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ ३३॥
आदर्शजीवनः९१ सर्वसम्प्रदायाधिनायकः९२ ।
साम्य९३मैत्री-दिव्यदूतो९४ऽद्भुतमूर्ति९५रुदारधीः ॥ ३४॥
नरनारीभेदशून्यो९६ वेदान्तोज्ज्वलभाष्यभूः९७ ।
समदृक्९८ पण्डिताऽज्ञेषु, मायामुग्धदयापरः९९ ॥ ३५॥
रामकृष्ण१०० स्वरूपेण अवतीर्णः पुरुषो महान् ।
महासमन्वयाचार्यः१०१ ख्यातः परम-ईश्वरः१०२ ॥ ३६॥
रामकृष्ण! कृपासिन्धो ! शरणागतवत्सल ! ।
देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ ३७॥
प्राक् प्रत्यक् संस्कृतेरास्ते, यः समन्वयरूपवान् ।
विश्वधर्मप्रकाशकः१०३ पूज्यो लोकोत्तरः१०४ पुमान् ॥ ३८॥
वन्दितः शारदादेव्या१०५ पूर्णब्रह्म सनातनः ।
माँ काली१०६ ठाकुरश्चापि१०७ यः सदानन्दपूरुषः१०८ ॥ ३९॥
``पूर्णावतार''१०९ इत्यं यः शिष्य सन्देह शान्तये ।
यो रामो११० यश्च कृष्णोऽभूद्रामकृष्णोऽधुनाऽब्रवीत् ॥ ४०॥
रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल ।
देहि दीने, भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ ४१॥
नामान्याष्टोत्तरशतं पठतां प्रीतिपूर्वकम् ।
भवचिन्ता विपन्नानां शान्तिः शाश्वतिकी भवेत् ॥ ४२॥
इति श्रीत्र्यम्बकशर्मणा विरचितं
``श्रीश्रीरामकृष्णाष्टोत्तरशतनामस्तोत्रं'' सम्पूर्णम् ।
Proofread by Aruna Narayanan