श्रीरामकृष्णप्रशस्तिः
अभूत् त्रेतायुगे रामः कृष्णो यो द्वापरे तथा ।
रामकृष्णतया काले कलावत्र बभूव ह ॥ १॥
युगप्रवर्तकत्वेन युगाचार्याख्यया पुनः ।
स्वामीविवेकानन्दोऽतः प्रणमन्नाह सादरम् ॥ २॥
``स्थापकाय च धर्मस्य सर्वधर्म स्वरूपिणे ।
अवतारवरिष्ठाय रामकृष्णाय ते नमः'' ॥ ३॥
मतभेदेन मार्गाणां भेदो नास्त्यत्र संशयः ।
विभिन्नसाधनास्यूतानुभूतिः कल्पना न हि ॥ ४॥
विश्वधर्मप्रतीकोऽभूद् रामकृष्णो न संशयः ।
सर्वेषामेव धर्माणां साधना यत् समादृताः ॥ ५॥
तद्रहस्यमिदं ज्ञेयं सर्व एव हि मानवाः ।
सन्तानवद्धि विश्वस्य स्रष्टुर्हि परमात्मनः ॥ ६॥
इति निर्णीय विश्वऽस्मिन् भ्रातृत्वे सुप्रतिष्ठिते ।
विश्वबन्धुत्वसंसिद्धिर्मैत्र्यूत्कर्षाद्भवेदिति ॥ ७॥
अत्यन्तबाल्यकाले षड्वर्षावस्थस्य योगिनः ।
भावावस्था स्वतो जाता रामकृष्णस्य भूम्न्यहो ॥ ८॥
कस्य साधारणस्यैवं दृष्टं केनापि कर्हिचित् ।
ततःपरं समग्रे हि जीवने परमेशितुः ॥ ९॥
सगुणत्वागुणत्वाभ्यां ध्याननिष्ठो बभूव सः ।
सत्यं भगवतो रूपमसत्यं यत्ततः परम् ॥ १०॥
इति नूतनया भङ्ग्या सारयामास दुस्तरे ।
सन्देहान् स कुतर्कोत्थनास्तिकत्वाकुले युगे ॥ ११॥
क एवमन्य आस्ते यो लभ्यः साधारणे जने ।
रामकृष्णसमो यः स्यात् प्रथितोऽसङ्ख्यमानवे ॥ १२॥
भगवल्लाभसम्पर्के दृढ़एच्छा जागरं गता ।
इष्टदर्शनकामस्य रामकृष्णस्य शाश्वती ॥ १३॥
तदीयं जन्म साधीयो मातुराश्वासितस्य च ।
जातिधर्म विशेषार्थमागतिस्तस्य नैव हि ॥ १४॥
समग्रविश्वकल्याणप्रसवार्थं तदागमः ।
इयं विचित्रता तस्य स्पर्शमात्रेण केवलम् ॥ १५॥
समाधिस्तर उन्नीतं बहु साधारणं मनः ।
स्वीयाध्यात्मिकशक्तेर्हि कृत्वा सङ्क्रमणं परे ॥ १६॥
चैतन्योद्बोधनेनासौ तं मुक्तिद्वारमानयत् ।
अहैतुक्यां तत्कृपायां सीमा भौगोलिकी न हि ॥ १७॥
ततस्तस्य कृपालाभे सर्व एवाधिकारिणः ।
जन्मापि नाभवत्तत्र बाधकं कुत्रचित्ततः ॥ १८॥
अन्त्यजाद्या अपि कृपालाभात्तस्य न वञ्चिताः ।
नातीत-भूपतेर्मुद्रा वर्तमानेऽर्थसाधनी ॥ १९॥
उपादानैक्यसत्वेऽपि चिह्नवैचित्र्य योगतः ।
सर्वप्रसिद्धमेवैतत् तद्वदेतत् प्रबुद्धताम् ॥ २०॥
युगधर्मश्चिह्नितोऽद्य रामकृष्णचरित्रतः ।
रामकृष्णावतारस्य वैलक्षण्यमिदं महत् ॥ २१॥
सन्त्यज्य सकलैश्वर्यं दीनवेशे समागमः ।
त्यागस्तपश्च वैराग्यमीश्वराश्रयता परा ॥ २२॥
रामकृष्णावतारेऽत्र भावैश्वर्यमुदाहृतम् ।
गार्ह्यस्थ्यमपि संन्यासो द्वयं हि समपेक्षितम् ॥ २३॥
इत्यप्यदर्शयद्रामकृष्णस्तद्द्वयमाश्रयन् ।
जीवनाद्रामकृष्णस्य तत्तदाश्रमजीवने ॥ २४॥
प्रपतन्नूतनालोकसङ्केतं प्राप निश्चितम् ।
सत्ययोर्देवदेव्योस्तु मूर्तिपूजापि नानृता ॥ २५॥
द्वैतं विशिष्टाद्वैतं चाद्वैतं सर्वं हि शोभनम् ।
शैवाः शाक्ता गाणपत्या बौद्धाः खृष्टानुयायिनः ॥ २६॥
यवनाश्च समे धर्माः शाखाभूताः स्तरात्मकाः ।
किंवा वेदान्तधर्मस्य विततामितशाखिनः ॥ २७॥
तासां तासां साधनानां विधानेनोपदेशतः ।
इत्येव ख्यापयामास रामकृष्णः प्रभुः परः ॥ २८॥
पत्नीं देवीस्वरूपेण सम्पूज्यादाद् बृहत्तराम् ।
मर्यादां मातृजात्यै हि तद्देवत्वं स्थिरीकृतम् ॥ २९॥
गच्छामि शरणं श्रीमद्रामकृष्णपदाम्बुजम् ।
तस्मात् सदैव हृदये समुदेतु स एव हि ॥ ३०॥
इति न्यायाचार्य पण्डित आनन्द झा इत्येतेन विरचिता
``श्रीरामकृष्ण-प्रशस्तिः'' समाप्ता ।
Proofread by Aruna Narayanan