श्रीमद्रमणपूजाविधानम्

श्रीमद्रमणपूजाविधानम्

अथ पादौ प्रक्षाल्य आचम्य प्राणानायम्य- शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ प्रणवस्य परब्रह्मऋषिः देवी गायत्रीच्छन्दः सविता परमात्मा देवता प्राणायामे विनियोगः ॥ ॐ भूः ॥ सङ्कल्पः ॥ करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये। अप उपस्पृश्य । विघ्नेश्वरपूजा ॥ गणानां त्वा गणपतिँ हवामहे कविं कवीनां उपमश्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनश्श‍ृण्वन्नूतिभिः सीदसादनम् ॥ (स्त्रियश्चेत्) वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ । अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ अस्मिन्हरिद्राबिम्बे महागणपतिं स्मरामि ध्यायाम्यावाहयामि । महागणपतये नमः आसनं समर्पयामि। महागणपतये नमः पादयोः पाद्यं समर्पयामि । महागणपतये नमः हस्तयोः अर्घ्यं समर्पयामि । आचमनीयं समर्पयामि । स्नानं समर्पयामि । आपोहिष्ठामयोभुवः, तानऊर्जेदधातन, महेरणाय चक्षसे, योवश्शिवतमो रसः, तस्य भाजयतेहनः, उशतीरिव मातरः, तस्मा अरङ्गमामवः, यस्य क्षयायजिन्वथ, आपोजनयथाचनः । स्नानानन्तरं आचमनीयं समर्पयामि ॥ वस्त्रयज्ञोपवीतोत्तरीयाभरणार्थाः इमे अक्षताः । एते गन्धाः । गन्धान् धारयामि । गन्धस्योपरि अक्षतान् समर्पयामि । पुष्पमालां समर्पयामि । पुष्पाणि पूजयामि ॥ सुमुखाय नमः, एकदन्ताय नमः, कपिलाय नमः, गजकर्णकाय नमः, लम्बोदराय नमः, विकटाय नमः, विघ्नराजाय नमः, धूमकेतवे नमः, गणाध्यक्षाय नमः, फालचन्द्राय नमः, शूर्पकर्णाय नमः, हेरम्बाय नमः, स्कन्दपूर्वजाय नमः, सिद्धिविनायकस्वामिने नमः, महागणपतये नमः, परिमलपत्रपुष्पाणि समर्पयामि। धूपार्थं अक्षतान् समर्पयामि । दीपार्थं अक्षतान् समर्पयामि। धूपदीपानन्तरमाचमनीयं समर्पयामि ॥ नैवेद्यम्---भूर्भुवस्सुवः + देवसवितः प्रसुव । महागणपतये नमः अमृतोपस्तरणमसि स्वाहा । प्राणाय स्वाहा । अपानाय स्वाहा। व्यानाय स्वाहा। उदानाय स्वाहा । समानाय स्वाहा। महागणपतये नमः नालिकेरखण्डद्वयं कदलीफलं महानैवेद्यं निवेदयामि। मध्ये मध्ये पानीयं समर्पयामि। उत्तरापोशनं समर्पयामि । हस्तप्रक्षालनं समर्पयामि । पादप्रक्षालनं समर्पयामि । नैवेद्यानन्तरं आचमनीयं समर्पयामि । भूर्भुवस्सुवः ॥ पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् । कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ महागणपतये नमः दिव्यताम्बूलं समर्पयामि । स्वर्णपुष्पदक्षिणां समर्पयामि। सर्वोपचारपूजां समर्पयामि। प्रार्थना ॥ वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ । अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ इति विघ्नेश्वरपूजा समाप्ता ॥ सङ्कल्पः ॥ शुभे शोभने मुहूर्ते + शुभतिथौ ममोपात्तसमस्तदुरितक्षयद्वारा परमेश्वरप्रीत्यर्थं अस्माकं सहकुटुम्बानां क्षेमस्थैर्यधैर्यवीर्यविजयायुरारो- ग्यैश्वर्याभिवृद्ध्यर्थं अहरहः सत्सन्तानसमृद्ध्यर्थं समस्तमङ्गलावाप्त्यर्थं समस्तदुरितोपशान्त्यर्थं धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं इष्टकाम्यार्थसिद्ध्यर्थं (सुमङ्गल्यः) दीर्घसौमङ्गल्यावाप्त्यर्थं (इतरे) ज्ञानवैराग्यसिद्ध्यर्थं श्रीरमणप्रीत्यर्थं श्रीरमणप्रसादसिद्धयर्थं यावच्छक्ति षोडशोपचारविधानेन भगवद्रमणदेवतापूजां करिष्ये । तदङ्गं कलश पूजां च करिष्ये । अप उपस्पृष्य । वक्रतुण्ड महाकाय क्ष् सर्वदा । अस्मात् हरिद्राबिम्बात् महागणपतिं यथास्थानं प्रतिष्ठापयामि इति महागणपतिमुद्वास्य, कलशपूजां कुर्यात् ॥ कलश गन्धपुष्पाद्यैरभ्यर्च्य कलशमभिमृश्य जपेत् । कलशस्य मुखे विष्णुः कण्ठे रुद्रस्समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥ कुक्षौ तु सागरास्सर्वे सप्तद्वीपा वसुन्धरा । ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः ॥ अङ्गैश्च सहितास्सर्वे कलशाम्बुसमाश्रिताः । सर्वे समुद्रास्सरितस्तीर्थानि च नदा ह्रदाः ॥ आयान्तु गुरुपूजार्थं दुरितक्षयकारकाः । गङ्गे च यमुने चैव गोदावरिसरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन्सन्निधिं कुरु ॥ (पूजाद्रव्याणि सम्प्रोक्ष्य आत्मानं च प्रोक्ष्य) आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् । कुर्वे घण्टारवं तत्र देवताह्वानलाञ्छनम् ॥ (इत्यनेन घण्टानादं कृत्वा) पुष्पाक्षतान् गृहीत्वा अरुणाद्रिचरं देवमाश्रिताभयदायिनम् । अप्राकृतपरञ्ज्योतिरभेदध्यानशालिनम् ॥ प्रसन्नवदनं शान्तं तेजोराशिं जगद्गुरुम् । सर्वकल्याणदातारं गुरुमावाहयाम्यहम् ॥ अस्यां प्रतिकृतौ भगवन्तं श्रीरमणं ध्यायाम्यावाहयामि ॥ अनेकरत्नखचितं मुक्तामणिविभूषितम् । स्वर्णसिंहासनं चारु रमणेशानुगृह्यताम् ॥ श्रीरमणभगवते नमः रत्नसिंहासनं समर्पयामि ॥ गङ्गादिसर्वतीर्थेभ्य आहृतं विमलं जलम् । रमणेश सुखस्पर्शं पाद्यार्थमुपयुज्यताम् ॥ श्रीरमणभगवते नमः पादयोः पाद्यं समर्पयामि ॥ अनर्घगुणजालाय सर्वसिद्धिविधायिने । आजानुबाहवे तुभ्यमिदमर्घ्यं मयाऽर्पितम् ॥ श्रीरमणभगवते नमः हस्तयोः अर्घ्यं समर्पयामि ॥ अफेनिलमिदं शीतं सुवर्णकलशस्थितम् । तोयमाचम्यतां देव रमणेशार्पितं मया ॥ श्रीरमणभगवते नमः आचमनीयं समर्पयामि ॥ दधिक्षीरघृतोपेतं शर्करामधुसंयुतम् । मधुपर्कं गृहाणेमं महनीय महागुरो ! ॥ श्रीरमणभगवते नमः मधुपर्कं समर्पयामि ॥ अरुणाद्रिदरीवास करुणामयविग्रह !॥ पञ्चामृतस्त्रानमिदं स्वीकुरुष्व जगद्गुरो ॥ श्रीरमणभगवते नमः पञ्चामृतस्नानं समर्पयामि ॥ गङ्गादिपुण्यतीर्थेभ्यस्समानीतमिदं जलम् । स्नानार्थमुपक्लृप्तं ते गृह्यतां रमणप्रभो ॥ श्रीरमणभगवते नमः शुद्धोदकस्नानं समर्पयामि ॥ क्षौमं पीताम्बरं दिव्यं देवतार्हं सुमङ्गलम् । गृह्यतां देवदेवेश भक्त्या परमयाऽर्पितम् ॥ श्रीरमणभगवते नमः वस्त्रं समर्पयामि ॥ राजतं ब्रह्मसूत्रं च काञ्चनञ्चोत्तरीयकम् । गृहीत्वा रमणेशान त्राहि मां भवसागरात् ॥ श्रीरमणभगवते नमः यज्ञोपवीतं समर्पयामि ॥ सुगन्धिचन्दनं दिव्यं श्रीखण्डोत्थं मनोहरम् । कर्पूरकुङ्कुमोपेतं रमण प्रतिगृह्यताम् ॥ श्रीरमणभगवते नमः परिमलगन्धान् धारयामि ॥ अक्षतान् धवलान् दिव्यान् शालीयांस्तण्डुलान् शुभान् । हरिद्राचूर्णसंयुक्तान् सङ्गृहाणारुणेश्वर ॥ श्रीरमणभगवते नमः गन्धस्योपरि अक्षतान् समर्पयामि ॥ सुगन्धीनि सुपुष्पाणि जातीकुन्दमुखानि च । मालतीवकुलादीनि पूजार्थं प्रतिगृह्यताम् ॥ श्री रमणभगवते नमः पुष्पमालां समर्पयामि ॥ पुष्पाणि पूजयामि । अथाङ्गपूजा ॥ पूज्यपादाय नमः पादौ पूजयामि गूढगुल्फाय नमः गुल्फौ पूजयामि पाराशर्याय नमः जानुनी पूजयामि परमाचार्याय नमः जङ्घे पूजयामि पाशमोचकाय नमः कटिं पूजयामि परमार्थज्ञाय नमः नाभिं पूजयामि आवर्तक्षेत्रजाताय नमः पार्श्वे पूजयामि भूमिहृदयक्षेत्रगाय नमः हृदयं पूजयामि श्रीकण्ठाय नमः कण्ठं पूजयामि चिन्मुद्रिणे नमः करौ पूजयामि वाग्मिने नमः वाचं पूजयामि सुरदनाय नमः दन्तान् पूजयामि सुप्रसन्नाय नमः मुखं पूजयामि मौनिने नमः जिह्वां पूजयामि विशालाक्षाय नमः नेत्रे पूजयामि सुललाटाय नमः ललाटं पूजयामि रमणाय नमः शिरः पूजयामि सर्वात्मने नमः सर्वाङ्गं पूजयामि (अनन्तरं श्रीरमणाष्टोत्तरशतसहस्रनामार्चनं यथाशक्ति कार्यम्) वनस्पतिरसो दिव्यः गन्धाढ्यस्सुमनोहरः । आघ्रेयस्सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ श्रीरमणभगवते नमः धूपमाघ्रापयामि । ज्योतिषां त्वं परं ज्योतिस्तेजस्त्वं तेजसामपि । आत्मज्योतिरिदं दीपज्योतिरस्तु तवानघ ॥ श्रीरमणभगवते नमः दीपं सन्दर्शयामि । धूपदीपानन्तरमाचमनीयं समर्पयामि । ॥ नैवेद्यम् ॥ भूर्भुवस्वः ॥ प्रसुव । श्रीरमण ॥। नमः अमृतोपस्तरणमसि स्वाहा ॥ प्राणाय स्वाहा ॥ समानाय स्वाहा मधु मधु मधु । नैवेद्यं षड्रसोपेतं भक्ष्यभोज्यं चतुर्विधम् । सघृतं सफलं देव गृह्यतां रमणेश्वर ! ॥ श्रीरमणभगवते नमः नैवेद्यं समर्पयामि । मध्ये मध्ये पानीयं समर्पयामि । हस्तप्रक्षालनं समर्पयामि । पादप्रक्षालनं समर्पयामि । नैवेद्यानन्तरं आचमनीयं समर्पयामि । पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् । कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ श्रीरमणभगवते नमः दिव्यताम्बूलं समर्पयामि । सौवर्णीं राजतीं ताम्रां नानारत्नसमन्विताम् । पूजासाद्गुण्यसिद्धयर्थं दक्षिणामर्पयाम्यहम् ॥ श्रीरमणभगवते नमः स्वर्णपुष्पदक्षिणां समर्पयामि । चन्द्रादित्यौ च धरणिर्विद्युदग्निस्तथैव च । त्वमेव सर्वज्योतींषि भज नीराजनं प्रभो ॥ श्रीरमणभगवते नमः कर्पूरनीराजनं समर्पयामि । नीराजनानन्तरं आचमनीयं समर्पयामि । ततः पुष्पाञ्जलिं समर्पयामि । ॥ प्रदक्षिणम् ॥ यानि कानि च पापानि जन्मान्तरकृतानि च । तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे ॥ नमस्ते रमणेशान नमस्ते मुनिकुञ्जर । नमस्ते करुणामूर्ते नमस्ते सर्वसिद्धिद ॥ श्रीरमणभगवते नमः अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि । त्वद्भक्तिगन्धसंयुक्तं त्वत्कृपाकाङ्क्षयायुतम् । मनःपुष्पाञ्जलिं तुभ्यं गृहाण रमणार्पितम् ॥ श्रीरमणभगवते नमः मन्त्रपुष्पाञ्जलिं समर्पयामि । ॥ प्रार्थना ॥ साधु वाऽसाधु वा कर्म यद्यदाचरितं मया । तत्सर्वं दयया नाथ गृहाणाराधनं मम ॥ जगतां नायकस्वामिन् देशिकस्वात्मनायक । त्राहि त्राहि कृपासिन्धो पूजां पूर्णतरां कुरु ॥ ज्ञानतोऽज्ञानतो वापि यन्मयाचरितं पुरा । तव कृत्यमिति ज्ञात्वा क्षमस्व रमणप्रभो ॥ एवं क्षमापणं प्रार्थ्य श्रीरमणं स्वस्मिन्विलीनं भावयेत् । हृत्पद्मकर्णिकामध्ये ज्ञानेन सह सद्गुरो । प्रविश त्वं महायोगिन् सर्वैर्भक्तगणैस्सह ॥ इति । मया कृतमिदं श्रीरमणभगवत्पूजाख्यं कर्म सर्वं श्रीब्रह्मार्पणमस्तु । ॐ तत् सत् । ब्राह्मणेभ्य उपायनदानम् । घण्टादेवता निवेदनम् । इति श्रीरमणभगवत्पूजाविधानं सङ्क्षिप्तं समाप्तम् । Proofread by Aruna Narayanan
% Text title            : Shrimad Ramana Pujavidhanam
% File name             : ramaNapUjAvidhAnam.itx
% itxtitle              : ramaNapUjAvidhAnam
% engtitle              : ramaNapUjAvidhAnam
% Category              : deities_misc, gurudev, pUjA, ramaNa-maharShi
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Indexextra            : (Scan)
% Latest update         : December 25, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org