रुचिकृतं पितृस्तोत्रम्
ब्रह्मा तिरोऽभवत्तत्र नदीतीरे रुचिस्ततः ।
पितॄन् सन्तर्प्य तुष्टाव प्रणतो भक्तिगौरवः ॥ ४४॥
नमस्ये श्रीहरिकृष्णं शाश्वतं वै पितामहम् ।
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ॥ ४५॥
नमस्ये श्रीब्रह्मधामाऽक्षरं मुक्तान् महेश्वरान् ।
नमस्ये सर्वशक्त्यैश्वर्याणि गुणान् पितामहान् ॥ ४६॥
हेतीन् समस्तभूतीश्च विभूतीरीश्वरींस्तथा ।
मुक्तानिका अवतारान् मातॄँश्च श्रीरमादिकाः ॥ ४७॥
नमस्ये व्यूहसंज्ञाँश्च नमस्ये च विराजकान् ।
नमस्ये सत्यलोकस्थान् साधून् ब्रह्मविदः सतः ॥ ४८॥
नमस्ये तान् श्राद्धपितॄन् श्राद्धे ये चाधिदेवताः ।
देवैरपि च तर्प्यन्ते ये श्राद्धे तान्नमाम्यहम् ॥ ४९॥
नमस्येऽहं च तान् स्वर्गे तर्प्यन्ते ये महर्षिभिः ।
तथा सिद्धजनैश्चापि तर्प्यन्ते तान्नमाम्यहम् ॥ ५०॥
गुह्यकैरपि येऽऽर्च्यन्ते ऋद्ध्यर्थं तान्नमाम्यहम् ।
नमस्येऽहं च तान् पितॄन् येऽर्च्यन्ते मानवैर्भुवि ॥ ५१॥
नमस्येऽहं च तान् पितॄन् स्वेष्टलोकप्रदायिनः ।
येऽर्च्यन्ते श्रद्धया विप्रैः श्राद्धकर्मसु तर्पिताः ॥ ५२॥
प्राजापत्यपददातॄन् नमस्ये वनितर्पिताः ।
तान्नमस्ये नैष्ठिकानां फलदातॄन् प्रपूजितान् ॥ ५३॥
राजन्यतर्पितान् पितॄन्नमस्ये मखपूजितान् ।
वैश्यप्रपूजितान् पितॄन् नमस्ये कव्यभोजनान् ॥ ५४॥
शूद्राऽर्चितान्नमस्ये तान् सुकालिनोऽन्नपूजितान् ।
आसुराऽर्चितपितॄँश्च स्वधाहारान्नमामि च ॥ ५५॥
पातालवासिनो यान् ये तर्प्यन्ते श्राद्धकर्मसु ।
स्वधाहारान् नमस्येऽहं रसातलैः प्रपूजितान् ॥ ५६॥
भोगैरशेषैर्नागाद्यैः सर्वैश्चापि प्रपूजितान् ।
पितॄन्नमस्ये द्युस्थाँश्चाऽन्तरिक्षास्थान् महीस्थितान् ॥ ५७॥
विमानस्थान् मूर्तरूपान् पितॄन्नमामि सर्वदा ।
योगिजनैः पूजिताँस्तान् क्लेशमुक्तिप्रदान् शुभान् ॥ ५८॥
पितॄँस्ताँश्च नमस्येऽहं मूर्तान् स्वधाभुजः सदा ।
काम्यफलप्रदान् सर्वान् स्वर्गस्थान् मोक्षदानपि ॥ ५९॥
तृप्यन्त्विच्छावतां कामप्रदाः सुरत्वपुत्रदाः ।
ऐन्द्रसौरपददाश्च पशुस्वगृहशक्तिदाः ॥ ६०॥
चन्द्रे सूर्ये रश्मिवासा विमानस्था जलान्नकैः ।
गन्धरसादिभिः सर्वे तृप्यन्तां चामृतप्रदाः ॥ ६१॥
अग्नौ हुतान्नभोक्तारो हविर्भुजोऽपि येऽपरे ।
विप्रदेहनिवासाश्च साधुदेहनिवासिनः ॥ ६२॥
पिण्डादास्तृप्तिमायान्तु मयाऽर्पिताऽप्कलादिभिः ।
कृष्णतिलैः शाकपत्रैः प्रीणिता यन्तु ते मुदम् ॥ ६३॥
क्रव्यादाश्चामरपूज्याः पुष्पगन्धान्नभोजनैः ।
तृप्तिमायान्तु ते सर्वे पितरः स्वर्गदायिनः ॥ ६४॥
प्रत्यहं पूजिता मासपूजिता येऽष्टकासु च ।
समान्तेऽभ्युदये पूज्यास्तृप्यन्तु पितरोऽपि मे ॥ ६५॥
श्वेता विप्रार्चितास्वार्कवर्णाः क्षत्रियपूजिताः ।
स्वर्णवर्णा वैश्यपूज्या नीलाः शूद्रप्रपूजिताः ॥ ६६॥
पुष्पगन्धरसैर्धूपैस्तोयान्नफलपत्रकैः ।
अग्निहुतेन चाज्येन तृप्तिं यान्तु नतोऽस्मि तान् ॥ ६७॥
देवपूर्वाः कव्यभुजो भूतिस्रजो भवन्ति ये ।
भूतप्रेताऽसुररक्षउग्रपितॄन् नमाम्यपि ॥ ६८॥
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।
तेऽपि तृप्तिं प्रपद्यन्तां तर्पिताः श्रद्धया मया ॥ ६९॥
प्राचीं रक्षन्त्वग्निष्वात्ता याम्यां बर्हिषदस्तथा ।
प्रतीचीमाज्यपा रक्षन्त्वुदीचीं सोमपा मम ॥ ७०॥
रक्षोभूतपिशाचेभ्यो दुष्टाभिचारमन्त्रतः ।
आसुरप्रेतदेहिभ्यो यमो रक्षतु मां सदा ॥ ७१॥
एकत्रिंशत्पितृगणास्तुष्टा यच्छन्तु मे हितम् ।
विश्वा विश्वभुजो धर्मा धन्याः शुभाननास्तथा ॥ ७२॥
आराध्या भूतिदा भूतिकृतश्च भूतयो नव ।
कल्याणाः कल्यताः कर्तारश्च कल्पत्वहेतवः ॥ ७३॥
कल्यतराश्रयाश्चेति षट्टेपितृगणास्तथा ।
वरा वरेण्या वरदाः पुष्टिदास्तुष्टिदास्तथा ॥ ७४॥
धातारो विश्वपातारः सप्त पितृगणाश्च ते ।
महान्तश्च महात्मानो महिताश्च महाबलाः ॥ ७५॥
महिमावन्त इत्येते पञ्च पितृगणास्तथा ।
सुखदा धनदाश्चापि धर्मदा भूतिदास्तथा ॥ ७६॥
गणाश्चत्वार एवापि सर्वे तुष्यन्तु मेऽर्चिताः** ।
एवं वै स्तुवतस्तस्य रुचेस्तु तेजसां चयः ॥ ७७॥
समुत्थितः पुरतश्च तं तुष्टाव रुचिस्तदा ।
अमूर्तानर्चितानत्र तेजोमयानुपस्थितान् ॥ ७८॥
नमस्यामि ध्यानगम्यान् पितॄँस्तान् दिव्यविग्रहान् ।
इन्द्रादीशान् दक्षमारीचर्षिनेतॄन् नमामि च ॥ ७९॥
मनुमुनीन्द्रचन्द्राऽर्केश्वरान् पितॄन्नमामि च ।
जलेवासान् ग्रहनक्षत्रेशान् वाय्वग्निपूजितान् ॥ ८०॥
नभःस्थान् भूस्वर्गवासान् नमस्यामि कृताञ्जलिः ।
देवर्षिजनकाँश्चाप्यक्षय्यदातॄन् नमामि च ॥ ८१॥
प्रजेशाय कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यः सिद्धेभ्यः सद्भ्यो नमामि साञ्जलिः ॥ ८२॥
सप्तलोकगणेभ्यश्च स्वयम्भूपरमेष्ठिने ।
सोमध्रेभ्यश्च नमः सोमाय च नमो नमः ॥ ८३॥
अग्निरूपान् योगिनश्च नमस्याम्यध्वरस्थितान् ।
तेजःस्थान् सोमसूर्याग्निमूर्तीन्नमामि वै पितॄन् ॥ ८४॥
व्रह्मस्वरूपिणः सिद्धान् ब्रह्मचर्यपरायणान् ।
नमामि सत्यलोकस्थानीश्वरानावृतिस्थितान् ॥ ८५॥
वैराजान् वैष्णवान् भौमान् श्रीपुरस्थाः श्रीयोषितः ।
अव्याकृताऽमृतस्थाँश्च गोलोकस्थान् नमानि च ॥ ८६॥
वैकुण्ठस्थानक्षरस्थानवतारान् नमामि च ।
अवतारिणीश्च सर्वा मुक्तानिका नमामि च ॥ ८७॥
मुक्ताँश्च पार्षदान् सर्वानैश्वर्याणि नमामि च ।
अनादिश्रीकृष्णनारायणं श्रीवल्लभं प्रभुम् ॥ ८८॥
ब्रह्मप्रियाः समस्ताश्च मातॄर्हरिप्रियास्तथा ।
हेतीन् गुणान् विभूतींश्च नमामि प्रसीदन्तु मे ॥ ८९॥
इतिस्तुतास्ते पितरस्तेजसो निर्ययुः शुभाः ।
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
१५७-अध्यायान्तर्गतं रुचिकृतं पितृस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १५७/४४-८९॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 157/44-89..
Proofread by PSA Easwaran