सायिजन्मर्क्षघण्टाध्वनयः
(श्रीमतः एन्. कस्तूरिमहाशयस्य आङ्ग्लकवितायाः विवर्तनम्)
शृणु पर्तिपुरीघण्टा नदन्ति मधुरस्वराम् ।
प्रतिध्वनन्ति भूपृष्ठे सागरे न नभस्तले ॥ १॥
शिलोच्चायात् खमारोढुं सविता त्वरतेतराम् ।
मा भूद्विलम्बो दीपस्य भगवत्सन्निधाविति ॥ २॥
विलम्बमानास्तिष्ठन्ति तारका व्योमसीमसु ।
स्थातव्यं वीक्षितव्यं चेत्यौत्सुक्यविनियन्त्रिताः ॥ ३॥
आपाततोऽप्यास्वदितुं रङ्गमेतं मनोहरम् ।
आकेकराक्षिकलया चद्रमा समुदीक्षते ॥ ४॥
मेघाः प्रतप्तसौवर्णकौशेयकविभूषिताः ।
द्यौः पिङ्गनीलवर्णाढ्यचेलाञ्चितकलेवरा ॥ ५॥
परितोऽवस्थिताः शैलकूटास्ते शान्तिबन्धुराः ।
सन्तृप्ता भान्ति हरितैर्वसनैर्गृहनिर्मितैः ॥ ६॥
इतस्ततश्चोत्प्लवनक्रीडानिर्वेशनिवृताः ।
आप्रभाताद्यथाकामं विचरन्त्यजपोतकाः ॥ ७॥
आह्लादभरितः सर्वे दृश्यन्ते च महीरुहाः ।
भान्ति सङ्गीतमधुराः शाखाः पत्रावली भृताः ॥ ८॥
पत्रिका च तृणस्येयमवरा च वराकिका ।
धत्ते वज्रमयं कर्णभूषणं दीप्तिसुन्दरम् ॥ ९॥
स कपोतः पक्षिजातावमिमानैकभाजनम् ।
यं विशुद्धे विभातेऽस्मिन् विमोचयति स प्रभुः ॥ १०॥
काकाश्चरन्तो विप्राद्विटपं प्लुतिशालिनः ।
निर्भया निस्त्रपाश्चैव दिनेऽस्मिन् विहरन्ति हि ॥ ११॥
उदग्रे परमानन्दे निमग्ना निरुपद्रवाः ।
अहो ते विचरन्त्येव काकागतिमयन्त्रितम् ॥ १२॥
अस्मिन् पुण्यदिने सर्वे विश्रामं मधुपाः गताः ।
प्रभोर्वैभातिकसुमानीति नोचुम्बितानि तैः ॥ १३॥
इयं कृतज्ञतापूर्णा सायिगीता मनस्विनी ।
आरण्यके कुटगर्ते स्वजनत्यागदुखदे ॥ १४॥
तया लब्धं महाभाग्यं तत्प्रसादिदं किल ।
श्रोतुं घण्टास्वनं चैवं प्रणन्तुं पदयोः प्रभोः ॥ १५॥
तीर्थके पादाघातसमुत्सुकहृदन्तराः ।
प्रकाशन्ते च सिकता दीप्तिसुस्मितसुन्दराः ॥ १६॥
परिपावनमन्योन्यलयमीश्वरमत्र्ययोः ।
अनुभूय जगत्प्राणमण्डलं स्पन्दतेतराम् ॥ १७॥
इति श्रीवासुदेवन् एलयथेन विरचितः सायिजन्मर्क्षघण्टाध्वनयः सम्पूर्णः ।