सद्गुरुश्रीत्यागब्रह्मभुजङ्गप्रयातस्तोत्रम्
ॐ
। श्रीरामजयम् ।
। ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
अथ भुजङ्गप्रयातस्तोत्रम् ।
यतित्यागराजेन्द्रसङ्गीतगीतं सदा तेन भक्त्याभिसन्नूतरामम् ।
नुतिश्रेष्ठसत्कीर्तिसत्कीर्तनौघं सदारामचन्द्रं सभव्यं भजेहम् ॥ १॥
भजे त्यागराजं यतीन्द्रं भजेहं भजे रामचन्द्रैकभक्ताग्रगण्यम् ।
भजे नादराजं सुवर्गापवर्गं भजे शङ्करं सद्गुरुं तं भजेहम् ॥ २॥
परब्रह्मगुण्यस्वरूपप्रगीतं परब्रह्मनैर्गुण्यतत्त्वप्रबोधम् ।
परब्रह्मलीनं परात्मानुभूतं परब्रह्मरूपं गुरुं तं भजेहम् ॥ ३॥
परब्रह्मनादप्रपूजं सुतेजं परार्थेतिसङ्गीतयोगप्रशंसम् ।
सुनादार्चितानन्दतेजस्स्वरूपं सुनादस्वरूपं गुरुब्रह्मरूपम् ॥ ४॥
सुरागस्वरानादसङ्गीतरूपं सुधासारसप्तस्वरालास्यगानम् ।
सुमाधुर्यवाणीरवाहूतरामं सरागं भजेहं गुरुत्यागराजम् ॥ ५॥
पदाम्भोजमञ्जीरशिञ्जत्सुनादं कराम्भोरुहानादसत्तालभेदम् ।
रणत्तुम्बरानादसँल्लीनकण्ठं झणत्कारघण्टासुनादाभिवर्षम् ॥ ६॥
सदाह्रीङ्करानुस्वरश्रोत्रलीनं सदात्मानुभूतिप्रवाहे निमग्नम् ।
सदानामसङ्कीर्तनानन्दयोगं सदा सद्गुरुत्यागराजं भजेहम् ॥ ७॥
सदारामरामेतिनामप्रगीतं सदानामसत्सारपानप्रमादम् ।
सदारागतालाभिलीनप्रभावं सदा तं भजेहं मदात्मप्रबोधम् ॥ ८॥
मुखश्रीकरज्वालसज्ज्ञानतेजं सुदीप्रातिकारुण्यनेत्रोपसान्त्वम् ।
सुमाधुर्यवाचाभिषङ्गाभिरामं ममोद्धारणं सद्गुरुं तं भजेहम् ॥ ९॥
सुखाराममारामनामाभिजप्यं लसत्कोटिकोटीशनामांशुजिह्वम् ।
उरोभासभासन्तरामस्वरूपं हरिस्मारकं सद्गुरुं तं भजेहम् ॥ १०॥
पदाश्लिष्टभक्ताशरण्यं वरेण्यं करालम्बनीतानुषक्तोपदेशम् ।
स्वरालीनसङ्गीतविद्याप्रवेशं मदालम्बनं सद्गुरुं तं प्रपद्ये॥ ११॥
सुसप्तस्वरानन्दविद्यातिदैवं अनुप्राससुप्राससम्भासकाव्यम् ।
रुचिस्फूर्तिसद्भक्तिकृत्यौघकारं ससङ्गीतराजं गुरुं तं भजेहम् ॥ १२॥
सदारामसद्ध्यानसङ्गीतलोलं समाधिस्थसङ्गीतवाग्गेयकारम् ।
महापुण्यगङ्गाभिवर्षाभिवाचं महान्तं गुरुं तं सदाहं भजेहम् ॥ १३॥
वरध्यानगङ्गामहास्नानभाग्यं कृतिस्यन्दसत्सारसङ्गीतभोग्यम् ।
सुधास्यन्दसत्कीर्तनागीतवृन्दं मदाचार्यवृन्दारकं तं भजेहम् ॥ १४॥
सुसङ्गीतसाम्राज्यचक्राधिपत्यं लसद्रामचन्द्राभिरामाप्तगानम् ।
सहर्षातिरोमाञ्चनानन्दगेयं सभावं भजे सद्गुरुत्यागराजम् ॥ १५॥
नदत्तारकश्रीरमाराममन्त्रं लसत्कीर्तनासारवेदार्थसारम् ।
हितप्रेर्यमाणोपदेशप्रसारं सदा सद्गुरुत्यागराजं भजेहम् ॥ १६॥
परानन्दसाराममन्त्रोपदेशं सदानन्दसङ्गीततत्त्वोपदेशम् ।
सुरानन्दगङ्गासुगानप्रवाहं वरानन्दकन्दं गुरुं तं भजेहम् ॥ १७॥
भवापोहसङ्गीतगङ्गाप्रवाहं सुमाङ्गल्यसङ्गीतसिद्धिप्रदानम् ।
चिरस्थायिसत्कीर्तनाभासरूपं मदाचार्यवर्यं सदाहं भजेहम् ॥ १८॥
चिदाभाससज्ज्ञानसङ्गीतबोधं सतालस्वरानन्दगाम्भीर्यरागम् ।
सलालित्यमाधुर्यशैलीगभीरं चिदाकाशदीपं भजे सद्गुरुं तम् ॥ १९॥
सदापूतसत्यस्वरूपप्रकाशं तमोगुण्यनिद्रारिभासप्रकाशम् ।
रजस्तामसापोहसत्त्वप्रकाशं भजे सद्गुरुं तं मदन्तःप्रकाशम् ॥ २०॥
भुजङ्गप्रभासप्रभातप्रगीतं भुजङ्गप्रशायिप्रशान्तप्रगेयम् ।
भुजङ्गप्रयातस्तुतिस्तोमनाथं भजे सद्गुरुत्यागराजं भजेहम् ॥ २१॥
भुजङ्गप्रयातप्रगीतप्रमोदं भुजङ्गप्रयातस्वगीतप्रभावम् ।
भुजङ्गप्रयातप्रगातृस्वलीनं भजेहं मदन्तः सुलीनं गुरुं तम् ॥ २२॥
गुरुत्यागराजेन्द्रभक्तिप्रगीतं वराह्लादसङ्गीतसद्मप्रणीतम् ।
सुपुष्पोपहारं च तथ्योपचारं गुरोरङ्घ्रिपद्मे समर्प्यं सुभद्रम् ॥ २३॥
सुभद्रं गुरुत्यागराजाय गाय सुभद्रं सुसङ्गीतपाथोधिचाय।
सुभद्रं गगङ्गाप्रवाहाय हाय सुभद्रं सुमाङ्गल्यदात्रे सुभद्रम् ॥ २४॥
ॐ
शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan