सद्गुरुश्रीत्यागब्रह्ममङ्गलाष्टकम्
ॐ
। श्रीरामजयम् ।
। ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
॥ सद्गुरुश्रीत्यागब्रह्ममङ्गलाष्टकम् ॥
ॐ रागराजाय विद्महे रक्तिरूपाय धीमहि ।
तन्नस्त्यागः प्रचोदयात् ॥
अथ मङ्गलाष्टकम् ।
ॐ
सद्गुरुश्रीत्यागब्रह्ममङ्गलाष्टकम् ।
नादब्रह्मावताराय रामस्वारामगानिने ।
रागस्वरलयाधाय त्यागराजाय मङ्गलम् ॥ १॥
सङ्गीतयोगश्रेष्ठाय सत्कीर्तनसुकीर्तये ।
सङ्गीतगुरुदेवाय त्यागराजाय मङ्गलम् ॥ २॥
रिपुभीषणगेयाय रीयमाणस्वरादये ।
रुद्राधीशनुतीशाय त्यागराजाय मङ्गलम् ॥ ३॥
गङ्गापावनगानाय गान्धर्वाद्भुतगीतये ।
गीतमण्डलशोभाय गुरुनाथाय मङ्गलम् ॥ ४॥
मङ्गल्यवाक्प्रवाहाय माधुर्यमयभाषिणे ।
मौनोपदेशबोधाय त्यागराजाय मङ्गलम् ॥ ५॥
पञ्चापगोदितार्काय परेशहरिपार्श्विने ।
पूर्णत्वबोधिपूज्याय त्यागराजाय मङ्गलम् ॥ ६॥
धन्यश्रीरामरामाय धामश्रीरामरागिणे ।
ध्यातश्रीरामदिव्याय त्यागराजाय मङ्गलम् ॥ ७॥
निषादमित्रमित्राय निष्ठानुग्रहकारिणे ।
सङ्गीतपुष्पासाराय त्यागराजाय मङ्गलम् ॥ ८॥
ॐ
ॐ तत्सदिति सद्गुरुश्रीत्यागब्रह्माष्टोत्तरशतत्रिशतिपञ्चशति-
सहस्रनामावलिपुष्पकदम्बकं शरणागतिगद्यं मङ्गलाष्टकं
च सद्गुरोराराधनार्थं पुष्पानामलेखनीरूपेण गुरुणैव रचितम् ।
ॐ
शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan